TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शारीरस्थान - अध्याय ४

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ४
सप्तोत्तरं मर्म-शतं तेषाम् एका-दशादिशेत् ।
पृथक् सक्थ्नोस् तथा बाह्वोस् त्रीणि कोष्ठे नवोरसि ॥१॥

पृष्ठे चतुर्-दशोर्ध्वं तु जत्रोस् त्रिंशच् च सप्त च ।
मध्ये पाद-तलस्याहुर् अभितो मध्यमाङ्गुलीम् ॥२॥

तल-हृन् नाम रुजया तत्र विद्धस्य पञ्च-ता ।
अङ्गुष्ठाङ्गुलि-मध्य-स्थं क्षिप्रं आक्षेप-मारणम् ॥३॥

तस्योर्ध्वं द्व्य्-अङ्गुले कूर्चः पाद-भ्रमण-कम्प-कृत् ।
गुल्फ-संधेर् अधः कूर्च-शिरः शोफ-रुजा-करम् ॥४॥

जङ्घा-चरणयोः संधौ गुल्फो रुक्-स्तम्भ-मान्द्य-कृत् ।
जङ्घान्तरे त्व् इन्द्र-वस्तिर् मारयत्य् असृजः क्षयात् ॥५॥

गुल्फो रुक्-स्तम्भ-षाण्ढ्य-कृत् गुल्फो रुक्-स्तम्भ-खाञ्ज्य-कृत् गुल्फो रुक्-स्तम्भ-जाड्य-कृत् जङ्घोर्वोः संगमे जानु खञ्ज-ता तत्र जीवतः ।
जानुनस् त्र्य्-अङ्गुलाद् ऊर्ध्वम् आण्य्-ऊरु-स्तम्भ-शोफ-कृत् ॥६॥

उर्व्य् ऊरु-मध्ये तद्-वेधात् सक्थि-शोषो ऽस्र-संक्षयात् ।
ऊरु-मूले लोहिताक्षं हन्ति पक्षम् असृक्-क्षयात् ॥७॥

ऊरु-मूले लोहिताख्यं मुष्क-वङ्क्षणयोर् मध्ये विटपं षण्ढ-ता-करम् ।
इति सक्थ्नोस् तथा बाह्वोर् मणि-बन्धो ऽत्र गुल्फ-वत् ॥८॥

विटिपं षण्ढ-ता-करम् कूर्परं जानु-वत् कौण्यं तयोर् विटप-वत् पुनः ।
कक्षाक्ष-मध्ये कक्षा-धृक् कुणि-त्वं तत्र जायते ॥९॥

स्थूलान्त्र-बद्धः सद्यो-घ्नो विड्-वात-वमनो गुदः ।
मूत्राशयो धनुर्-वक्रो वस्तिर् अल्पास्र-मांस-गः ॥१०॥

एकाधो-वदनो मध्ये कट्याः सद्यो निहन्त्य् असून् ।
ऋते ऽश्मरी-व्रणाद् विद्धस् तत्राप्य् उभयतश् च सः ॥११॥

तत्राप्य् उभयतश् च यः मूत्र-स्राव्य् एकतो भिन्ने व्रणो रोहेच् च यत्नतः ।
देहाम-पक्व-स्थानानां मध्ये सर्व-सिराश्रयः ॥१२॥

नाभिः सो ऽपि हि सद्यो-घ्नो द्वारम् आमाशयस्य च ।
सत्-त्वादि-धाम हृदयं स्तनोरः-कोष्ठ-मध्य-गम् ॥१३॥

स्तन-रोहित-मूलाख्ये द्व्य्-अङ्गुले स्तनयोर् वदेत् ।
ऊर्ध्वाधो ऽस्र-कफापूर्ण-कोष्ठो नश्येत् तयोः क्रमात् ॥१४॥

ऊर्ध्वाधो ऽसृक्-कफापूर्ण- अपस्तम्भाव् उरः-पार्श्वे नाड्याव् अनिल-वाहिनी ।
रक्तेन पूर्ण-कोष्ठो ऽत्र श्वासात् कासाच् च नश्यति ॥१५॥

रक्तस्य पूर्ण-कोष्ठो ऽत्र पृष्ठ-वंशोरसोर् मध्ये तयोर् एव च पार्श्वयोः ।
अधो ऽंस-कूटयोर् विद्याद् अपालापाख्य-मर्मणी ॥१६॥

तयोः कोष्ठे ऽसृजा पूर्णे नश्येद् यातेन पूय-ताम् ।
पार्श्वयोः पृष्ठ-वंशस्य श्रोणि-कर्णौ प्रति स्थिते ॥१७॥

श्रोणि-कर्ण-प्रतिष्ठिते श्रोणि-कर्णौ प्रतिष्ठितौ वंशाश्रिते स्फिजोर् ऊर्ध्वं कटीक-तरुणे स्मृते ।
तत्र रक्त-क्षयात् पाण्दुर् हीन-रूपो विनश्यति ॥१८॥

पृष्ठ-वंशं ह्य् उभयतो यौ संधी कटि-पार्श्वयोः ।
जघनस्य बहिर्-भागे मर्मणी तौ कुकुन्दरौ ॥१९॥

पृष्ठ-वंशस्योभयतो चेष्टा-हानिर् अधः-काये स्पर्शा-ज्ञानं च तद्-व्यधात् ।
पार्श्वान्तर-निबद्धौ याव् उपरि श्रोणि-कर्णयोः ॥२०॥

आशय-च्छादनौ तौ तु नितम्बौ तरुणास्थि-गौ ।
अधः-शरीरे शोफो ऽत्र दौर्बल्यं मरणं ततः ॥२१॥

आशयाच्छादनौ तौ तु पार्श्वान्तर-निबद्धौ च मध्ये जघन-पार्श्वयोः ।
तिर्यग् ऊर्ध्वं च निर्दिष्टौ पार्श्व-संधी तयोर् व्यधात् ॥२२॥

मध्यौ जघन-पार्श्वयोः निर्दिष्टौ पार्श्व-संधी तौ तिर्यग् ऊर्ध्वं तयोर् व्यधात् रक्त-पूरित-कोष्ठस्य शरीरान्तर-संभवः ।
स्तन-मूलार्जवे भागे पृष्ठ-वंशाश्रये सिरे ॥२३॥

बृहत्यौ तत्र विद्धस्य मरणं रक्त-संक्षयात् ।
बाहु-मूलाभिसंबद्धे पृष्ठ-वंशस्य पार्श्वयोः ॥२४॥

अंसयोः फलके बाहु-स्वाप-शोषौ तयोर् व्यधात् ।
ग्रीवाम् उभयतः स्नाव्नी ग्रीवा-बाहु-शिरो-ऽन्तरे ॥२५॥

४.२स्वाप-शोषौ तयोर् व्यधे ४.२स्वाप-शोफौ तयोर् व्यधे ४.२स्वाप-शोफौ तयोर् व्यधात् स्कन्धांस-पीठ-संबन्धाव् अंसौ बाहु-क्रिया-हरौ ।
कण्ठ-नालीम् उभयतः सिरा हनु-समाश्रिताः ॥२६॥

स्कन्धांस-पीठ-बद्धार्थाव् स्कन्धांस-पीठ-बन्धार्थाव् स्कन्धांस-पीठ-संबद्धाव् चतस्रस् तासु नीले द्वे मन्ये द्वे मर्मणी स्मृते ।
स्वर-प्रणाश-वैकृत्यं रसा-ज्ञानं च तद्-व्यधे ॥२७॥

स्वर-प्रणाश-वैकृत्य- स्वर-प्रणाशो वैकृत्यं ४.२रसा-ज्ञानं च तद्-व्यधे कण्ठ-नालीम् उभयतो जिह्वा-नासा-गताः सिराः ।
पृथक् चतस्रस् ताः सद्यो घ्नन्त्य् असून् मातृकाह्वयाः ॥२८॥

कृकाटिके शिरो-ग्रीवा-संधौ तत्र चलं शिरः ।
अधस्-तात् कर्णयोर् निम्ने विधुरे श्रुति-हारिणी ॥२९॥

४.२संधी तत्र चलं शिरः फणाव् उभयतो घ्राण-मार्गं श्रोत्र-पथानुगौ ।
अन्तर्-गल-स्थितौ वेधाद् गन्ध-विज्ञान-हारिणौ ॥३०॥

नेत्रयोर् बाह्यतो ऽपाङ्गौ भ्रुवोः पुच्छान्तयोर् अधः ।
तथोपरि भ्रुवोर् निम्नाव् आवर्ताव् आन्ध्यम् एषु तु ॥३१॥

अनु-कर्णं ललाटान्ते शङ्खौ सद्यो-विनाशनौ ।
केशान्ते शङ्खयोर् ऊर्ध्वम् उत्क्षेपौ स्थपनि पुनः ॥३२॥

भ्रुवोर् मध्ये त्रये ऽप्य् अत्र शल्ये जीवेद् अन्-उद्धृते ।
स्वयं वा पतिते पाकात् सद्यो नश्यति तूद्धृते ॥३३॥

जिह्वाक्षि-नासिका-श्रोत्र-ख-चतुष्टय-संगमे ।
तालून्य् आस्यानि चत्वारि स्रोतसां तेषु मर्मसु ॥३४॥

विद्धः शृङ्गाटकाख्येषु सद्यस् त्यजति जीवितम् ।
कपाले संधयः पञ्च सीमन्तास् तिर्यग्-ऊर्ध्व-गाः ॥३५॥

कपाल-संधयः पञ्च भ्रमोन्माद-मनो-नाशैस् तेषु विद्धेषु नश्यति ।
आन्तरो मस्तकस्योर्ध्वं सिरा-संधि-समागमः ॥३६॥

अन्तरे मस्तकस्योर्ध्वं रोमावर्तो ऽधिपो नाम मर्म सद्यो हरत्य् असून् ।
विषमं स्पन्दनं यत्र पीडिते रुक् च मर्म तत् ॥३७॥

मांसास्थि-स्नायु-धमनी-सिरा-संधि-समागमः ।
स्यान् मर्मेति च तेनात्र सु-तरां जीवितं स्थितम् ॥३८॥

बाहुल्येन तु निर्देशः षो-ढैवं मर्म-कल्पना ।
प्राणायतन-सामान्याद् ऐक्यं वा मर्मणां मतम् ॥३९॥

ऐक्यं वा मर्मणां स्मृतम् मांस-जानि दशेन्द्राख्य-तल-हृत्-स्तन-रोहिताः ।
शङ्खौ कटीक-तरुणे नितम्बाव् अंसयोः फले ॥४०॥

अस्थ्न्य् अष्टौ स्नाव-मर्माणि त्रयो-विंशतिर् आणयः ।
कूर्च-कूर्च-शिरो-ऽपाङ्ग-क्षिप्रोत्क्षेपांस-वस्तयः ॥४१॥

अस्थ्न्य् अष्टौ स्नायु-मर्माणि गुदापस्तम्भ-विधुर-शृङ्गाटानि नवादिशेत् ।
मर्माणि धमनी-स्थानि सप्त-त्रिंशत् सिराश्रयाः ॥४२॥

गुदो ऽपस्तम्भ-विधुर- बृहत्यौ मातृका नीले मन्ये कक्षा-धरौ फणौ ।
विटपे हृदयं नाभिः पार्श्व-संधी स्तनाधरे ॥४३॥

पार्श्व-संधी स्तनान्तरे अपालापौ स्थपन्य् उर्व्यश् चतस्रो लोहितानि च ।
संधौ विंशतिर् आवर्तौ मणि-बन्धौ कुकुन्दरौ ॥४४॥

सीमन्ताः कूर्परौ गुल्फौ कृकाट्यौ जानुनी पतिः ।
मांस-मर्म गुदो ऽन्येषां स्नाव्नि कक्षा-धरौ तथा ॥४५॥

स्नाव्नी कक्षा-धरौ तथा विटपौ विधुराख्ये च शृङ्गाटानि सिरासु तु ।
अपस्तम्भाव् अपाङ्गौ च धमनी-स्थं न तैः स्मृतम् ॥४६॥

विद्धे ऽजस्रम् असृक्-स्रावो मांस-धावन-वत् तनुः ।
पाण्डु-त्वम् इन्द्रिया-ज्ञानं मरणम् चाशु मांस-जे ॥४७॥

मरणम् वाशु मांस-जे मज्जान्वितो ऽच्छो विच्छिन्नः स्रावो रुक् चास्थि-मर्मणि ।
आयामाक्षेपक-स्तम्भाः स्नाव-जे ऽभ्यधिकं रुजा ॥४८॥

स्नाव-जे ऽभ्यधिकं रुजः स्नाव-जे ऽभ्यधिका रुजः स्नायु-गे ऽभ्यधिकं रुजा यान-स्थानासना-शक्तिर् वैकल्यम् अथ वान्तकः ।
रक्तं स-शब्द-फेनोष्णं धमनी-स्थे वि-चेतसः ॥४९॥

सिरा-मर्म-व्यधे सान्द्रम् अजस्रं बह्व् असृक् स्रवेत् ।
तत्-क्षयात् तृड्-भ्रम-श्वास-मोह-हिध्माभिर् अन्तकः ॥५०॥

वस्तु शूकैर् इवाकीर्णं रूढे च कुणि-खञ्ज-ता ।
बल-चेष्टा-क्षयः शोषः पर्व-शोफश् च संधि-जे ॥५१॥

नाभि-शङ्खाधिपापान-हृच्-छृङ्गाटक-वस्तयः ।
अष्टौ च मातृकाः सद्यो निघ्नन्त्य् एकान्-न-विंशतिः ॥५२॥

निघ्नन्त्य् एकोन-विंशतिः सप्ताहः परमस् तेषां कालः कालस्य कर्षणे ।
त्रयस्-त्रिंशद्-अपस्तम्भ-तल-हृत्-पार्श्व-संधयः ॥५३॥

सप्ताहः परमं तेषां कटी-तरुण-सीमन्त-स्तन-मूलेन्द्र-वस्तयः ।
क्षिप्रापालाप-बृहती-नितम्ब-स्तन-रोहिताः ॥५४॥

कालान्तर-प्राण-हरा मास-मासार्ध-जीविताः ।
उत्क्षेपौ स्थपनी त्रीणि वि-शल्य-घ्नानि तत्र हि ॥५५॥

वि-शल्य-घ्नानि तत्र तु वायुर् मांस-वसा-मज्ज-मस्तुलुङ्गानि शोषयेत् ।
शल्यापाये विनिर्गच्छन् श्वासात् कासाच् च हन्त्य् असून् ॥५६॥

फणाव् अपाङ्गौ विधुरे नीले मन्ये कृकाटिके ।
अंसांस-फलकावर्त-विटपोर्वी-कुकुन्दराः ॥५७॥

फणाव् अपाङ्गौ विधुरौ स-जानु-लोहिताक्षाणि-कक्षा-धृक्-कूर्च-कूर्पराः ।
वैकल्यम् इति चत्वारि चत्वारिंशच् च कुर्वते ॥५८॥

स-जानु-लोहिताख्यानि- हरन्ति तान्य् अपि प्राणान् कदा-चिद् अभिघाततः ।
अष्टौ कूर्च-शिरो-गुल्फ-मणि-बन्धा रुजा-कराः ॥५९॥

तेषां विटप-कक्षा-धृग्-उर्व्यः कूर्च-शिरांसि च ।
द्वा-दशाङ्गुल-मानानि द्व्य्-अङ्गुले मणि-बन्धने ॥६०॥

४.६उर्वी-कूर्च-शिरांसि च गुल्फौ च स्तन-मूले च त्र्य्-अङ्गुलं जानु-कूर्परम् ।
अपान-वस्ति-हृन्-नाभि-नीलाः सीमन्त-मातृकाः ॥६१॥

त्र्य्-अङ्गुलौ जानु-कूर्परौ ४.६नीला-सीमन्त-मातृकाः कूर्च-शृङ्गाट-मन्याश् च त्रिंशद् एकेन वर्जिताः ।
आत्म-पाणि-तलोन्मानाः शेषाण्य् अर्धाङ्गुलं वदेत् ॥६२॥

पञ्चाशत् षट् च मर्माणि तिल-व्रीहि-समान्य् अपि ।
इष्टानि मर्माण्य् अन्येषां चतुर्-धोक्ताः सिरास् तु याः ॥६३॥

तर्पयन्ति वपुः कृत्स्नं ता मर्माण्य् आश्रितास् ततः ।
तत्-क्षतात् क्षत-जात्य्-अर्थ-प्रवृत्तेर् धातु-संक्षये ॥६४॥

तत्-क्षतात् क्षत-जात्य्-अर्थं प्रवृत्तिर् धातु-संक्षये वृद्धश् चलो रुजस् तीव्राः प्रतनोति समीरयन् ।
तेजस् तद् उद्धृतं धत्ते तृष्णा-शोष-मद-भ्रमान् ॥६५॥

स्विन्न-स्रस्त-श्लथ-तनुं हरत्य् एनं ततो ऽन्तकः ।
वर्धयेत् संधितो गात्रं मर्मण्य् अभिहते द्रुतम् ॥६६॥

छेदनात् संधि-देशस्य संकुचन्ति सिरा ह्य् अतः ।
जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति ॥६७॥

सु-विक्षतो ऽप्य् अतो जीवेद् अ-मर्मणि न मर्मणि ।
प्राण-घातिनि जीवेत् तु कश्-चिद् वैद्य-गुणेन चेत् ॥६८॥

अ-समग्राभिघाताच् च सो ऽपि वैकल्यम् अश्नुते ।
तस्मात् क्षार-विषाग्न्य्-आदीन् यत्नान् मर्मसु वर्जयेत् ॥६९॥

मर्माभिघातः स्व्-अल्पो ऽपि प्राय-शो बाधते-तराम् ।
रोगा मर्माश्रयास् तद्-वत् प्रक्रान्ता यत्नतो ऽपि च ॥७०॥

रोगा मर्माश्रितास् तद्-वत्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:02.7430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गोज्जणें

  • स.क्रि. ( बे . ) शिंपडणें ; शिंतडणें ( पाणी इ० ). 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.