TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शारीरस्थान - अध्याय १

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १
शुद्धे शुक्रार्तवे सत्-त्वः स्व-कर्म-क्लेश-चोदितः ।
गर्भः संपद्यते युक्ति-वशाद् अग्निर् इवारणौ ॥१॥

स्व-कर्म-फल-नोदितः बीजात्मकैर् महा-भूतैः सूक्ष्मैः सत्-त्वानुगैश् च सः ।
मातुश् चाहार-रस-जैः क्रमात् कुक्षौ विवर्धते ॥२॥

तेजो यथार्क-रश्मीनां स्फटिकेन तिरस्-कृतम् ।
नेन्धनं दृश्यते गच्छत् सत्-त्वो गर्भाशयं तथा ॥३॥

कारणानुविधायि-त्वात् कार्याणां तत्-स्व-भाव-ता ।
नाना-योन्य्-आकृतीः सत्-त्वो धत्ते ऽतो द्रुत-लोह-वत् ॥४॥

अत एव च शुक्रस्य बाहुल्याज् जायते पुमान् ।
रक्तस्य स्त्री तयोः साम्ये क्लीबः शुक्रार्तवे पुनः ॥५॥

वायुना बहु-शो भिन्ने यथा-स्वं बह्व्-अपत्य-ता ।
वि-योनि-विकृताकारा जायन्ते विकृतैर् मलैः ॥६॥

मासि मासि रजः स्त्रीणां रस-जं स्रवति त्र्य्-अहम् ।
वत्सराद् द्वा-दशाद् ऊर्ध्वं याति पञ्चाशतः क्षयम् ॥७॥

पूर्ण-षो-डश-वर्षा स्त्री पूर्ण-विंशेन संगता ।
शुद्धे गर्भाशये मार्गे रक्ते शुक्रे ऽनिले हृदि ॥८॥

वीर्य-वन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः ।
रोग्य् अल्पायुर् अ-धन्यो वा गर्भो भवति नैव वा ॥९॥

वातादि-कुणप-ग्रन्थि-पूय-क्षीण-मलाह्वयम् ।
बीजा-समर्थं रेतो-ऽस्रं स्व-लिङ्गैर् दोष-जं वदेत् ॥१०॥

प्रजा-समर्थं रेतो-ऽस्रं रक्तेन कुणपं श्लेष्म-वाताभ्यां ग्रन्थि-संनिभम् ।
पूयाभं रक्त-पित्ताभ्यां क्षीणं मारुत-पित्ततः ॥११॥

कृच्छ्राण्य् एतान्य् अ-साध्यं तु त्रि-दोषं मूत्र-विट्-प्रभम् ।
कुर्याद् वातादिभिर् दुष्टे स्वौषधं कुणपे पुनः ॥१२॥

धातकी-पुष्प-खदिर-दाडिमार्जुन-साधितम् ।
पाययेत् सर्पिर् अथ-वा विपक्वम् असनादिभिः ॥१३॥

पलाश-भस्माश्मभिदा ग्रन्थ्य्-आभे पूय-रेतसि ।
परूषक-वटादिभ्यां क्षीणे शुक्र-करी क्रिया ॥१४॥

स्निग्धं वान्तं विरिक्तं च निरूढम् अनुवासितम् ।
योजयेच् छुक्र-दोषार्तं सम्यग् उत्तर-वस्तिभिः ॥१४+१॥

संशुद्धो विट्-प्रभे सर्पिर् हिङ्गु-सेव्यादि-साधितम् ।
पिबेद् ग्रन्थ्य्-आर्तवे पाठा-व्योष-वृक्षक-जं जलम् ॥१५॥

हिङ्गु-सेव्याग्नि-साधितम् पेयं कुणप-पूयास्रे चन्दनं वक्ष्यते तु यत् ।
गुह्य-रोगे च तत् सर्वं कार्यं सोत्तर-वस्तिकम् ॥१६॥

शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु ।
घृत-माक्षिक-तैलाभं सद्-गर्भायार्तवं पुनः ॥१७॥

शुद्धं शुक्रं गुरु स्निग्धं लाक्षा-रस-शशास्राभं धौतं यच् च विरज्यते ।
शुद्ध-शुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः ॥१८॥

स्नेहैः पुं-सवनैः स्निग्धं शुद्धं शीलित-वस्तिकम् ।
नरं विशेषात् क्षीराज्यैर् मधुरौषध-संस्कृतैः ॥१९॥

मधुरौषध-साधितैः नारीं तैलेन माषैश् च पित्तलैः समुपाचरेत् ।
क्षाम-प्रसन्न-वदनां स्फुरच्-छ्रोणि-पयो-धराम् ॥२०॥

क्षामां प्रसन्न-वदनां स्रस्ताक्षि-कुक्षिं पुंस्-कामां विद्याद् ऋतु-मतीं स्त्रियम् ।
पद्मं संकोचम् आयाति दिने ऽतीते यथा तथा ॥२१॥

ऋताव् अतीते योनिः सा शुक्रं नातः प्रतीच्छति ।
मासेनोपचितं रक्तं धमनीभ्याम् ऋतौ पुनः ॥२२॥

शुक्रं नान्तः प्रतीच्छति ईषत्-कृष्णं वि-गन्धं च वायुर् योनि-मुखान् नुदेत् ।
ततः पुष्पेक्षणाद् एव कल्याण-ध्यायिनी त्र्य्-अहम् ॥२३॥

मृजालङ्कार-रहिता दर्भ-संस्तर-शायिनी ।
क्षैरेयं यावकं स्तोकं कोष्ठ-शोधन-कर्षणम् ॥२४॥

कोष्ठ-शोधन-कर्शनम् पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्म-चारिणी ।
चतुर्थे ऽह्नि ततः स्नाता शुक्ल-माल्याम्बरा शुचिः ॥२५॥

इच्छन्ती भर्तृ-सदृशं पुत्रं पश्येत् पुरः पतिम् ।
ऋतुस् तु द्वा-दश निशाः पूर्वास् तिस्रो ऽत्र निन्दिताः ॥२६॥

पूर्वास् तिस्रश् च निन्दिताः एका-दशी च युग्मासु स्यात् पुत्रो ऽन्यासु कन्यका ।
उपाध्यायो ऽथ पुत्रीयं कुर्वीत विधि-वद् विधिम् ॥२७॥

स्यात् पुत्रो ऽन्य-त्र कन्यका नमस्-कार-परायास् तु शूद्राया मन्त्र-वर्जितम् ।
अ-वन्ध्य एवं संयोगः स्याद् अपत्यं च कामतः ॥२८॥

सन्तो ह्य् आहुर् अपत्यार्थं दम्-पत्योः संगतिं रहः ।
दुर्-अपत्यं कुलाङ्गारो गोत्रे जातं महत्य् अपि ॥२९॥

दम्-पत्योः संगतं रहः दुर्-अपत्यं कुलाङ्गारं इच्छेतां यादृशं पुत्रं तद्-रूप-चरितांश् च तौ ।
चिन्तयेतां जन-पदांस् तद्-आचार-परिच्छदौ ॥३०॥

कर्मान्ते च पुमान् सर्पिः-क्षीर-शाल्य्-ओदनाशितः ।
प्राग् दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया ॥३१॥

आरोहेत् स्त्री तु वामेन तस्य दक्षिण-पार्श्वतः ।
तैल-माषोत्तराहारा तत्र मन्त्र् अं प्रयोजयेत् ॥३२॥

आरोहेत् स्त्री च वामेन आहिर् अस्य् आयुर् असि सर्वतः प्रतिष्ठासि ॥३२+१अ ॥
१.३२+ अहिर् असि सर्वतः प्रतिष्ठासि धाता त्वां दधातु विधाता त्वां दधातु ॥३२+१ब् ॥
ब्रह्म-वर्चसा भवेति ॥३२+१च् ॥
१.३२+ ब्रह्म-वर्चसा भवेद् इति ब्रह्मा बृहस्पतिर् विष्णुः सोमः सूर्यस् तथाश्विनौ ।
भगो ऽथ मित्रा-वरुणौ वीरं ददतु मे सुतम् ॥३३॥

सान्त्वयित्वा ततो ऽन्य-न्यं संविशेतां मुदान्वितौ ।
उत्ताना तन्-मना योषित् तिष्ठेद् अङ्गैः सु-संस्थितैः ॥३४॥

सान्तयित्वा ततो ऽन्यो-ऽन्यं संवसेतां मुदान्वितौ तथा हि बीजं गृह्णाति दोषैः स्व-स्थानम् आस्थितैः ।
लिङ्गं तु सद्यो-गर्भाया योन्या बीजस्य संग्रहः ॥३५॥

दोषैः स्व-स्थानम् आश्रितैः योन्यां बीजस्य संग्रहः तृप्तिर् गुरु-त्वं स्फुरणं शुक्रास्रान्-अनु बन्धनम् ।
हृदय-स्पन्दनं तन्द्रा तृड् ग्लानी रोम-हर्षणम् ॥३६॥

अ-व्यक्तः प्रथमे मासि सप्ताहात् कलली-भवेत् ।
गर्भः पुं-सवनान्य् अत्र पूर्वं व्यक्तेः प्रयोजयेत् ॥३७॥

बली पुरुष-कारो हि दैवम् अप्य् अतिवर्तते ।
पुष्ये पुरुषकं हैमं राजतं वाथ-वायसम् ॥३८॥

कृत्वाग्नि-वर्णं निर्वाप्य क्षीरे तस्याञ्जलिं पिबेत् ।
गौरदण्डम् अपामार्गं जीवकर्षभ-सैर्यकान् ॥३९॥

पिबेत् पुष्ये जले पिष्टान् एक-द्वि-त्रि-समस्त-शः ।
क्षीरेण श्वेत-बृहती-मूलं नासा-पुटे स्वयम् ॥४०॥

पुत्रार्थं दक्षिणे सिञ्चेद् वामे दुहितृ-वाञ्छया ।
पयसा लक्ष्मणा-मूलं पुत्रोत्पाद-स्थिति-प्रदम् ॥४१॥

नासयास्येन वा पीतं वट-शुङ्गाष्टकं तथा ।
ओषधीर् जीवनीयाश् च बाह्यान्तर् उपयोजयेत् ॥४२॥

वट-शृङ्गाष्टकं तथा उपचारः प्रिय-हितैर् भर्त्रा भृत्यैश् च गर्भ-धृक् ।
नव-नीत-घृत-क्षीरैः सदा चैनाम् उपाचरेत् ॥४३॥

अति-व्यवायम् आयासं भारं प्रावरणं गुरु ।
अ-काल-जागर-स्वप्नं कठिनोत्कटकासनम् ॥४४॥

अति-व्यवायं व्यायामं अ-काल-जागर-स्वप्न- १.४कठिनोत्कटकासनम् कठिनोत्कटुकासनम् १.४कठिनोत्कुटकासनम् शोक-क्रोध-भयोद्वेग-वेग-श्रद्धा-विधारणम् ।
उपवासाध्व-तीक्ष्णोष्ण-गुरु-विष्टम्भि-भोजनम् ॥४५॥

उपवासादि-तीक्ष्णोष्ण- रक्तं निवसनं श्वभ्र-कूपेक्षां मद्यम् आमिषम् ।
उत्तान-शयनं यच् च स्त्रियो नेच्छन्ति तत् त्यजेत् ॥४६॥

रक्तं वि-वसनं श्वभ्र- तथा रक्त-स्रुतिं शुद्धिं वस्तिम् आ-मासतो ऽष्टमात् ।
एभिर् गर्भः स्रवेद् आमः कुक्षौ शुष्येन् म्रियेत वा ॥४७॥

एवं गर्भः स्रवेद् आमः वातलैश् च भवेद् गर्भः कुब्जान्ध-जड-वामनः ।
पित्तलैः खलतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः ॥४८॥

व्याधींश् चास्या मृदु-सुखैर् अ-तीक्ष्णैर् औषधैर् जयेत् ।
द्वितीये मासि कललाद् घनः पेश्य् अथ-वार्बुदम् ॥४९॥

पुं-स्त्री-क्लीबाः क्रमात् तेभ्यस् तत्र व्यक्तस्य लक्षणम् ।
क्षाम-ता गरिमा कुक्षेर् मूर्छा छर्दिर् अ-रोचकः ॥५०॥

१.५ क्षाम-ता गरिमा कुक्षौ जृम्भा प्रसेकः सदनं रोम-राज्याः प्रकाशनम् ।
अम्लेष्ट-ता स्तनौ पीनौ स-स्तन्यौ कृष्ण-चूचुकौ ॥५१॥

पाद-शोफो विदाहो ऽन्ये श्रद्धाश् च विविधात्मिकाः ।
मातृ-जं ह्य् अस्य हृदयं मातुश् च हृदयेन तत् ॥५२॥

१.५ पाद-शोफो विदाहो ऽन्ने संबद्धं तेन गर्भिण्या नेष्टं श्रद्धा-विमाननम् ।
देयम् अप्य् अ-हितं तस्यै हितोपहितम् अल्पकम् ॥५३॥

१.५ नेष्टं श्रद्धा-विधारणम् १.५ नेष्टं श्रद्धावमाननम् श्रद्धा-विघाताद् गर्भस्य विकृतिश् च्युतिर् एव वा ।
व्यक्ती-भवति मासे ऽस्य तृतीये गात्र-पञ्चकम् ॥५४॥

१.५ श्रद्धाभिघाताद् गर्भस्य मूर्धा द्वे सक्थिनी बाहू सर्व-सूक्ष्माङ्ग-जन्म च ।
समम् एव हि मूर्धाद्यैर् ज्ञानं च सुख-दुःखयोः ॥५५॥

१.५ सर्व-सूक्ष्माङ्ग-जन्म तु १.५ विज्ञानं सुख-दुःखयोः गर्भस्य नाभौ मातुश् च हृदि नाडी निबध्यते ।
यया स पुष्टिम् आप्नोति केदार इव कुल्यया ॥५६॥

१.५ यया पुष्टिम् अवाप्नोति चतुर्थे व्यक्त-ताङ्गानां चेतनायाश् च पञ्चमे ।
षष्ठे स्नायु-सिरा-रोम-बल-वर्ण-नख-त्वचाम् ॥५७॥

सर्वैः सर्वाङ्ग-संपूर्णो भावैः पुष्यति सप्तमे ॥५८॥
गर्भेणोत्पीडिता दोषास् तस्मिन् हृदयम् आश्रिताः ॥५८॥
कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च ॥५८॥
नव-नीतं हितं तत्र कोलाम्बु-मधुरौषधैः ।
सिद्धम् अल्प-पटु-स्नेहं लघु स्वादु च भोजनम् ॥५९॥

चन्दनोशीर-कल्केन लिम्पेद् ऊरु-स्तनोदरम् ।
श्रेष्ठया वैण-हरिण-शश-शोणित-युक्तया ॥६०॥

अश्वघ्न-पत्त्र-सिद्धेन तैलेनाभ्यज्य मर्दयेत् ।
पटोल-निम्ब-मञ्जिष्ठा-सुरसैः सेचयेत् पुनः ॥६१॥

दार्वी-मधुक-तोयेन मृजां च परिशीलयेत् ।
ओजो ऽष्टमे संचरति माता-पुत्रौ मुहुः क्रमात् ॥६२॥

तेन तौ म्लान-मुदितौ तत्र जातो न जीवति ।
शिशुर् ओजो-ऽन्-अवस्थानान् नारी संशयिता भवेत् ॥६३॥

१.६ स्याताम् अत्र न जीवति १.६ स्यातां जातो न जीवति क्षीर-पेया च पेयात्र स-घृतान्वासनं घृतम् ।
मधुरैः साधितं शुद्ध्यै पुराण-शकृतस् तथा ॥६४॥

१.६ स-घृतान्वासनं हितम् शुष्क-मूलक-कोलाम्ल-कषायेण प्रशस्यते ।
शताह्वा-कल्कितो वस्तिः स-तैल-घृत-सैन्धवः ॥६५॥

तस्मिंस् त्व् एकाह-याते ऽपि कालः सूतेर् अतः परम् ।
वर्षाद् विकार-कारी स्यात् कुक्षौ वातेन धारितः ॥६६॥

१.६ तस्मिन्न् एकाह-याते ऽपि शस्तश् च नवमे मासि स्निग्धो मांस-रसौदनः ।
बहु-स्नेहा यवागूर् वा पूर्वोक्तं चानुवासनम् ॥६७॥

१.६ स्निग्ध-मांस-रसौदनः तत एव पिचुं चास्या योनौ नित्यं निधापयेत् ।
वात-घ्न-पत्त्र-भङ्गाम्भः शीतं स्नाने ऽन्व्-अहं हितम् ॥६८॥

निः-स्नेहाङ्गी न नवमान् मासात् प्रभृति वासयेत् ।
प्राग् दक्षिण-स्तन-स्तन्या पूर्वं तत्-पार्श्व-चेष्टिनी ॥६९॥

पुं-नाम-दौर्हृद-प्रश्न-रता पुं-स्वप्न-दर्शिनी ।
उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले ॥७०॥

पुत्रं सूते ऽन्य-था कन्यां या चेच्छति नृ-संगतिम् ।
नृत्य-वादित्र-गान्धर्व-गन्ध-माल्य-प्रिया च या ॥७१॥

क्लीबं तत्-संकरे तत्र मध्यं कुक्षेः समुन्नतम् ।
यमौ पार्श्व-द्वयोन्नामात् कुक्षौ द्रोण्याम् इव स्थिते ॥७२॥

प्राक् चैव नवमान् मासात् सा सूति-गृहम् आश्रयेत् ।
देशे प्रशस्ते संभारैः संपन्नं साधके ऽहनि ॥७३॥

१.७ सूतिका-गृहम् आश्रयेत् तत्रोदीक्षेत सा सूतिं सूतिका-परिवारिता ।
अद्य-श्वः-प्रसवे ग्लानिः कुक्ष्य्-अक्षि-श्लथ-ता क्लमः ॥७४॥

१.७ आसन्न-प्रसवे ग्लानिः अधो-गुरु-त्वम् अ-रुचिः प्रसेको बहु-मूत्र-ता ।
वेदनोरूदर-कटी-पृष्ठ-हृद्-वस्ति-वङ्क्षणे ॥७५॥

योनि-भेद-रुजा-तोद-स्फुरण-स्रवणानि च ।
आवीनाम् अनु जन्मातस् ततो गर्भोदक-स्रुतिः ॥७६॥

अथोपस्थित-गर्भां तां कृत-कौतुक-मगलाम् ।
हस्त-स्थ-पुं-नाम-फलां स्व्-अभ्यक्तोष्णाम्बु-सेचिताम् ॥७७॥

१.७ स्व्-अक्ताम् उष्णाम्बु-सेचिताम् पाययेत् स-घृतां पेयां तनौ भू-शयने स्थिताम् ।
आभुग्न-सक्थिम् उत्तानाम् अभ्यक्ताङ्गीं पुनः पुनः ॥७८॥

अधो नाभेर् विमृद्नीयात् कारयेज् जृम्भ-चङ्क्रमम् ।
गर्भः प्रयात्य् अवाग् एवं तल्-लिङ्गं हृद्-विमोक्षतः ॥७९॥

आविश्य जठरं गर्भो वस्तेर् उपरि तिष्ठति ।
आव्यो ऽभित्वरयन्त्य् एनां खट्वाम् आरोपयेत् ततः ॥८०॥

१.८ आव्यो हि त्वरयन्त्य् एनां अथ संपीडिते गर्भे योनिम् अस्याः प्रसारयेत् ।
मृदु पूर्वं प्रवाहेत बाढम् आ-प्रसवाच् च सा ॥८१॥

१.८ योनिम् अस्याः प्रसाधयेत् हर्षयेत् तां मुहुः पुत्र-जन्म-शब्द-जलानिलैः ।
प्रत्यायान्ति तथा प्राणाः सूति-क्लेशावसादिताः ॥८२॥

धूपयेद् गर्भ-सङ्गे तु योनिं कृष्णाहि-कञ्चुकैः ।
हिरण्यपुष्पी-मूलं च पाणि-पादेन धारयेत् ॥८३॥

सुवर्चलां विशल्यां वा जराय्व्-अ-पतने ऽपि च ।
कार्यम् एतत् तथोत्क्षिप्य बाह्वोर् एनां विकम्पयेत् ॥८४॥

१.८ कार्यम् एतत् तथोत्कृष्य १.८ बाह्वोर् एतां विकम्पयेत् कटीम् आकोटयेत् पार्ष्ण्या स्फिजौ गाढं निपीडयेत् ।
तालु-कण्ठं स्पृशेद् वेण्या मूर्ध्नि दद्यात् स्नुही-पयः ॥८५॥

भूर्ज-लाङ्गलिकी-तुम्बी-सर्प-त्वक्-कुष्ठ-सर्षपैः ।
पृथग् द्वाभ्यां समस्तैर् वा योनि-लेपन-धूपनम् ॥८६॥

१.८ योनि-धूपं च लेपनम् कुष्ठ-तालीश-कल्कं वा सुरा-मण्डेन पाययेत् ।
यूषेण वा कुलत्थानां बाल्बजेनासवेन वा ॥८७॥

१.८ बिल्व-जेनासवेन वा शताह्वा-सर्षपाजाजी-शिग्रु-तीक्ष्णक-चित्रकैः ।
स-हिङ्गु-कुष्ठ-मदनैर् मूत्रे क्षीरे च सार्षपम् ॥८८॥

तैलं सिद्धं हितं पायौ योन्यां वाप्य् अनुवासनम् ।
शतपुष्पा-वचा-कुष्ठ-कणा-सर्षप-कल्कितः ॥८९॥

१.८ योन्यां वा ह्य् अनुवासनम् निरूहः पातयत्य् आशु स-स्नेह-लवणो ऽपराम् ।
तत्-सङ्गे ह्य् अनिलो हेतुः सा निर्यात्य् आशु तज्-जयात् ॥९०॥

कुशला पाणिनाक्तेन हरेत् कॢप्त-नखेन वा ।
मुक्त-गर्भापरां योनिं तैलेनाङ्गं च मर्दयेत् ॥९१॥

मक्कल्लाख्ये शिरो-वस्ति-कोष्ठ-शूले तु पाययेत् ।
सु-चूर्णितं यव-क्षारं घृतेनोष्ण-जलेन वा ॥९२॥

धान्याम्बु वा गुड-व्योष-त्रि-जातक-रजो-ऽन्वितम् ।
अथ बालोपचारेण बालं योषिद् उपाचरेद् ॥९३॥

सूतिका क्षुद्-वती तैलाद् घृताद् वा महतीं पिबेत् ।
पञ्च-कोलकिनीं मात्राम् अनु चोष्णं गुडोदकम् ॥९४॥

वात-घ्नौषध-तोयं वा तथा वायुर् न कुप्यति ।
विशुध्यति च दुष्टास्रं द्वि-त्रि-रात्रम् अयं क्रमः ॥९५॥

१.९ यथा वायुर् न कुप्यति स्नेहा-योग्या तु निः-स्नेहम् अमुम् एव विधिं भजेत् ।
पीत-वत्याश् च जठरं यमकाक्तं विवेष्टयेत् ॥९६॥

जीर्णे स्नाता पिबेत् पेयां पूर्वोक्तौषध-साधिताम् ।
त्र्य्-अहाद् ऊर्ध्वं विदार्य्-आदि-वर्ग-क्वाथेन साधिता ॥९७॥

हिता यवागूः स्नेहाढ्या सात्म्यतः पयसाथ-वा ।
सप्त-रात्रात् परं चास्यै क्रम-शो बृंहणं हितम् ॥९८॥

१.९ सप्त-रात्रात् परं चास्याः १.९ सप्त-रात्रात् परं वास्याः द्वा-दशाहे ऽन्-अतिक्रान्ते पिशितं नोपयोजयेत् ।
यत्नेनोपचरेत् सूतां दुः-साध्यो हि तद्-आमयः ॥९९॥

१.९ पिशितं नैव योजयेत् गर्भ-वृद्धि-प्रसव-रुक्-क्लेदास्र-स्रुति-पीडनैः ।
एवं च मासाद् अध्य्-अर्धान् मुक्ताहारादि-यन्त्रणा ॥१००॥

गत-सूताभिधाना स्यात् पुनर् आर्तव-दर्शनात् ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:02.0870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

KĀŚĪ I(काशी)

  • (VĀRĀṆASĪ. BANARAS). (See under Divodāsa also).
    1) General.
    One of the oldest and most popular sacred centres in India, Kāśī is reputed for its Viśvanātha temple of hoary traditions, according to one of which the Śivaliṅga in the temple was installed by Brahmā himself. [Hālāsya Māhātmya].
    2) Pilgrimage on foot to Kāśī.
    Devotees from many parts of India go on pilgrimage to Kāśī on foot, bathe in the holy waters of the Gaṅgā and thus earn spiritual satisfaction and release from worldly attachments. The reason for the above is stated in the [Agni Purāṇa] as follows:-- Once, at Kailāsa Śiva told Pārvatī that the temple at Kāśī was called ‘Avimukta’ (unreleased) as it never perished, and all Japa, tapa, homa and dāna made there never cease to give auspicious results. One should walk on foot to Kāśī and live there. Having gone there one should never leave the place. There are eight great tīrthas at Avimukta, i.e. Hariścandra tīrtha, Āvrātakeśvara tīrtha, Japyeśvara tīrtha, Śrī Parvatīrtha, Mahālayatīrtha, Bhṛgu tīrtha, Caṇḍeśvara tīrtha and Kedāratīrtha. These tīrthas extend to two yojanas to the east of the Kāśī temple and half-ayojana to the west of it. The river Varaṇā is also there, and Vārāṇasī is at the centre of all these. Whatever is done at Vārāṇasī like bath, Japa, homa, worship of Devas, dāna, obsequies for the dead, oneself living there etc. is productive of devotion and salvation. [Agni Purāṇa, Chapter 112].
    3) References to Kāśī in the Mahābhārata.
    (i) Pāṇḍu once conquered Kāśī. [Bhīṣma Parva, Chapter 9].
    (ii) Bhīma married Balandharā, daughter of the King of Kāśī. [Ādi Parva, Chapter 35, Verse 77].
    (iii) Bhīmasena conquered Kāśī. [Sabhā Parva, Chapter 30, Verse 6].
    (iv) Sahadeva conquered Kāśī. [Udyoga Parva, Chapter 50, Verse 31].
    (v) In the war between the Pāṇḍavas and the Kauravas, the King of Kāśī fought on the side of the former. [Udyoga Parva, Chapter 196, Verse 2].
    (vi) Arjuna conquered Kāśī. [Ādi Parva, Chapter 122, Verse 40].
    (vii) Śrī Kṛṣṇa conquered Kāśī. [Droṇa Parva, Chapter 11, Verse 15].
    (viii) Karṇa once conquered Kāśī on behalf of Duryodhana. [Karṇa Parva, Chapter 8, Verse 19].
    (ix) Kāśī had been ruled by the Kings called Haryaśva. Sudeva, and Divodāsa. [Anuśāsana Parva, Chapter 30, Verses 12 to 15].
    (x) King Vṛṣadarbha and Uśīnara had ruled over Kāśī. [Anuśāsana Parva, Chapter 30, Verse 9].
    (xi) Bhīṣma conquered Kāśī during the Svayaṁvara of Ambā. [Anuśāsana Parva, Chapter 44, Verse 38].
    (xii) The horse sent out in connection with Yudhiṣṭhira's Aśvamedha passed through Kāśī also. [Aśvamedha Parva, Chapter 83, Verse 14].
    (xiii) For the origin of the name Kāśī see under Divodāsa.
     
RANDOM WORD

Did you know?

प्रदक्षिणा कशी व कोणत्या देवास किती घालावी ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site