TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शारीरस्थान - अध्याय ३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३
शिरो ऽन्तर्-आधिर् द्वौ बाहू सक्थिनीति समासतः ।
षड्-अङ्गम् अङ्गं प्रत्यङ्गं तस्याक्षि-हृदयादिकम् ॥१॥

सक्थिनी च समासतः शब्दः स्पर्शश् च रूपं च रसो गन्धः क्रमाद् गुणाः ।
खानिलाग्न्य्-अब्-भुवाम् एक-गुण-वृद्ध्य्-अन्वयः परे ॥२॥

खानिलाग्न्य्-अम्बु-भूष्व् एक- ३.गुण-वृद्ध्यान्वयः परे तत्र खात् खानि देहे ऽस्मिन् श्रोत्रं शब्दो विविक्त-ता ।
वातात् स्पर्श-त्वग्-उच्छ्वासा वह्नेर् दृग्-रूप-पक्तयः ॥३॥

आप्या जिह्वा-रस-क्लेदा घ्राण-गन्धास्थि पार्थिवम् ।
मृद्व् अत्र मातृ-जं रक्त-मांस-मज्ज-गुदादिकम् ॥४॥

पैतृकं तु स्थिरं शुक्र-धमन्य्-अस्थि-कचादिकम् ।
चैतनं चित्तम् अक्षाणि नाना-योनिषु जन्म च ॥५॥

आत्म-जं चित्तं अक्षाणि सात्म्य-जं त्व् आयुर् आरोग्यम् अन्-आलस्यं प्रभा बलम् ।
रस-जं वपुषो जन्म वृत्तिर् वृद्धिर् अ-लोल-ता ॥६॥

सात्म्य-जं चायुर् आरोग्यम् सात्त्विकं शौचम् आस्तिक्यं शुक्ल-धर्म-रुचिर् मतिः ।
राजसं बहु-भाषि-त्वं मान-क्रुद्-दम्भ-मत्सरम् ॥७॥

मान-क्रुद्-दम्भ-मत्सराः तामसं भयम् अ-ज्ञानं निद्रालस्यं विषादि-ता ।
इति भूत-मयो देहस् तत्र सप्त त्वचो ऽसृजः ॥८॥

पच्यमानात् प्रजायन्ते क्षीरात् संतानिका इव ।
धात्व्-आशयान्तर-क्लेदो विपक्वः स्वं स्वम् ऊष्मणा ॥९॥

श्लेष्म-स्नाय्व्-अपराच्छन्नः कलाख्यः काष्ठ-सार-वत् ।
ताः सप्त सप्त चाधारा रक्तस्याद्यः क्रमात् परे ॥१०॥

३.१०अच् श्लेष्म-स्नाय्व्-अपरा-छन्नः रक्तस्याधः क्रमात् परे कफाम-पित्त-पक्वानां वायोर् मूत्रस्य च स्मृताः ।
गर्भाशयो ऽष्टमः स्त्रीणां पित्त-पक्वाशयान्तरे ॥११॥

कोष्ठाङ्गानि स्थितान्य् एषु हृदयं क्लोम फुप्फुसम् ।
यकृत्-प्लीहोण्डुकं वृक्कौ नाभि-डिम्बान्त्र-वस्तयः ॥१२॥

हृदयं क्लोम फुप्फुसः हृदयं क्लोम-फुप्फुसे दश जीवित-धामानि शिरो-रसन-बन्धनम् ।
कण्ठो ऽस्रं हृदयं नाभिर् वस्तिः शुक्रौजसी गुदम् ॥१३॥

वस्तिः शुक्रौजसी गुदः जालानि कण्डराश् चाङ्गे पृथक् षो-डश निर्दिशेत् ।
षट् कूर्चाः सप्त सीवन्यो मेढ्र-जिह्वा-शिरो-गताः ॥१४॥

षट् कूर्चाः सप्त सेवन्यो षट् कूर्चाः सप्त सेविन्यो शस्त्रेण ताः परिहरेच् चतस्रो मांस-रज्जवः ।
चतुर्-दशास्थि-संघाताः सीमन्ता द्वि-गुणा नव ॥१५॥

शस्त्रेणैताः परिहरेच् अस्थ्नां शतानि षष्टिश् च त्रीणि दन्त-नखैः सह ।
धन्वन्तरिस् तु त्रीण्य् आह संधीनां च शत-द्वयम् ॥१६॥

अस्थ्नां शतानि षष्ठीनि दशोत्तरं सहस्रे द्वे निजगादात्रि-नन्दनः ।
स्नाव्नां नव-शती पञ्च पुंसां पेशी-शतानि तु ॥१७॥

स्नायोर् नव-शती पञ्च पुंसां पेशी-शतानि च अधिका विंशतिः स्त्रीणां योनि-स्तन-समाश्रिताः ।
दश मूल-सिरा हृत्-स्थास् ताः सर्वं सर्वतो वपुः ॥१८॥

योनि-स्तन-समाश्रयाः रसात्मकं वहन्त्य् ओजस् तन्-निबद्धं हि चेष्टितम् ।
स्थूल-मूलाः सु-सूक्ष्माग्राः पत्त्र-रेखा-प्रतान-वत् ॥१९॥

भिद्यन्ते तास् ततः सप्त-शतान्य् आसां भवन्ति तु ।
तत्रैकैकं च शाखायां शतं तस्मिन् न वेधयेत् ॥२०॥

तत्रैकैक-त्र शाखायां सिरां जालन्-धरां नाम तिस्रश् चाभ्यन्तराश्रिताः ।
षो-डश-द्वि-गुणाः श्रोण्यां तासां द्वे द्वे तु वङ्क्षणे ॥२१॥

द्वे द्वे कटीक-तरुणे शस्त्रेणाष्टौ स्पृशेन् न ताः ।
पार्श्वयोः षो-डशैकैकाम् ऊर्ध्व-गां वर्जयेत् तयोः ॥२२॥

ऊर्ध्व-गां वर्जयेत् सिराम् द्वा-दश-द्वि-गुणाः पृष्ठे पृष्ठ-वंशस्य पार्श्वयोः ।
द्वे द्वे तत्रोर्ध्व-गामिन्यौ न शस्त्रेण परामृशेत् ॥२३॥

पृष्ठ-वंशस्य पार्श्व-गे पृष्ठ-वज् जठरे तासां मेहनस्योपरि स्थिते ।
रोम-राजीम् उभयतो द्वे द्वे शस्त्रेण न स्पृशेत् ॥२४॥

चत्वारिंशद् उरस्य् आसां चतुर्-दश न वेधयेत् ।
स्तन-रोहित-तन्-मूल-हृदये तु पृथग् द्वयम् ॥२५॥

अपस्तम्भाख्ययोर् एकां तथापालापयोर् अपि ।
ग्रीवायां पृष्ठ-वत् तासां नीले मन्ये कृकाटिके ॥२६॥

विधुरे मातृकाश् चाष्टौ षो-डशेति परित्यजेत् ।
हन्वोः षो-डश तासां द्वे संधि-बन्धन-कर्मणी ॥२७॥

षो-डशैताः परित्यजेत् जिह्वायां हनु-वत् तासाम् अधो द्वे रस-बोधने ।
द्वे च वाचः-प्रवर्तिन्यौ नासायां चतुर्-उत्तरा ॥२८॥

विंशतिर् गन्ध-वेदिन्यौ तासाम् एकां च तालु-गाम् ।
षट्-पञ्चाशन् नयनयोर् निमेषोन्मेष-कर्मणी ॥२९॥

द्वे द्वे अपाङ्गयोर् द्वे च तासां षड् इति वर्जयेत् ।
नासा-नेत्राश्रिताः षष्टिर् ललाटे स्थपनी-श्रिताम् ॥३०॥

तत्रैकां द्वे तथावर्तौ चतस्रश् च कचान्त-गाः ।
सप्तैवं वर्जयेत् तासां कर्णयोः षो-डशात्र तु ॥३१॥

द्वे शब्द-बोधने शङ्खौ सिरास् ता एव चाश्रिताः ।
द्वे शङ्ख-संधि-गे तासां मूर्ध्नि द्वा-दश तत्र तु ॥३२॥

एकैकां पृथग् उत्क्षेप-सीमन्ताधिपति-स्थिताम् ।
इत्य् अ-वेध्य-विभागार्थं प्रत्यङ्गं वर्णिताः सिराः ॥३३॥

अ-वेध्यास् तत्र कार्त्स्न्येन देहे ऽष्टा-नवतिस् तथा ।
संकीर्णा ग्रथिताः क्षुद्रा वक्राः संधिषु चाश्रिताः ॥३४॥

तासां शतानां सप्तानां पादो ऽस्रं वहते पृथक् ।
वात-पित्त-कफैर् जुष्टं शुद्धं चैवं स्थिता मलाः ॥३५॥

शरीरम् अनुगृह्णन्ति पीडयन्त्य् अन्य-था पुनः ।
तत्र श्यावारुणाः सूक्ष्माः पूर्ण-रिक्ताः क्षणात् सिराः ॥३६॥

प्रस्पन्दिन्यश् च वातास्रं वहन्ते पित्त-शोणितम् ।
स्पर्शोष्णाः शीघ्र-वाहिन्यो नील-पीताः कफं पुनः ॥३७॥

गौर्यः स्निग्धाः स्थिराः शीताः संसृष्टं लिङ्ग-संकरे ।
गूढाः सम-स्थिताः स्निग्धा रोहिण्यः शुद्ध-शोणितम् ॥३८॥

धमन्यो नाभि-संबद्धा विंशतिश् चतुर्-उत्तरा ।
ताभिः परिवृता नाभिश् चक्र-नाभिर् इवारकैः ॥३९॥

ताभिः परिवृतो नाभिश् ताभिश् चोर्ध्वम् अधस् तिर्यग् देहो ऽयम् अनुगृह्यते ।
स्रोतांसि नासिके कर्णौ नेत्रे पाय्व्-आस्य-मेहनम् ॥४०॥

स्तनौ रक्त-पथश् चेति नारीणाम् अधिकं त्रयम् ।
जीवितायतनान्य् अन्तः स्रोतांस्य् आहुस् त्रयो-दश ॥४१॥

प्राण-धातु-मलाम्भो-ऽन्न-वाहीन्य् अ-हित-सेवनात् ।
तानि दुष्टानि रोगाय विशुद्धानि सुखाय च ॥४२॥

स्व-धातु-सम-वर्णानि वृत्त-स्थूलान्य् अणूनि च ।
स्रोतांसि दीर्घाण्य् आकृत्या प्रतान-सदृशानि च ॥४३॥

आहारश् च विहारश् च यः स्याद् दोष-गुणैः समः ।
धातुभिर् वि-गुणो यश् च स्रोतसां स प्रदूषकः ॥४४॥

अति-प्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयो ऽपि वा ।
वि-मार्गतो वा गमनं स्रोतसां दुष्टि-लक्षणम् ॥४५॥

३.४ स्रोतसां दुष्ट-लक्षणम् बिसानाम् इव सूक्ष्माणि दूरं प्रविसृतानि च ।
द्वाराणि स्रोतसां देहे रसो यैर् उपचीयते ॥४६॥

व्यधे तु स्रोतसां मोह-कम्पाध्मान-वमि-ज्वराः ।
प्रलाप-शूल-विण्-मूत्र-रोधा मरणम् एव वा ॥४७॥

स्रोतो-विद्धम् अतो वैद्यः प्रत्याख्याय प्रसाधयेत् ।
उद्धृत्य शल्यं यत्नेन सद्यः-क्षत-विधानतः ॥४८॥

अन्नस्य पक्ता पित्तं तु पाचकाख्यं पुरेरितम् ।
दोष-धातु-मलादीनाम् ऊष्मेत्य् आत्रेय-शासनम् ॥४९॥

वाम-पार्श्वाश्रितं नाभेः किञ्-चित् सूर्यस्य मण्डलम् ।
तन्-मध्ये मण्डलं सौम्यं तन्-मध्ये ऽग्निर् व्यवस्थितः ॥४९+१॥

जरायु-मात्र-प्रच्छन्नः काच-कोश-स्थ-दीप-वत् ॥४९+२॥
तद्-अधिष्ठानम् अन्नस्य ग्रहणाद् ग्रहणी मता ।
सैव धन्वन्तरि-मते कला पित्त-धराह्वया ॥५०॥

आयुर्-आरोग्य-वीर्यौजो-भूत-धात्व्-अग्नि-पुष्टये ।
स्थिता पक्वाशय-द्वारि भुक्त-मार्गार्गलेव सा ॥५१॥

३.५ भुक्त-मार्गार्गलेव या भुक्तम् आमाशये रुद्ध्वा सा विपाच्य नयत्य् अधः ।
बल-वत्य् अ-बला त्व् अन्नम् आमम् एव विमुञ्चति ॥५२॥

ग्रहण्या बलम् अग्निर् हि स चापि ग्रहणी-बलः ।
दूषिते ऽग्नाव् अतो दुष्टा ग्रहणी रोग-कारिणी ॥५३॥

यद् अन्नं देह-धात्व्-ओजो-बल-वर्णादि-पोषणम् ।
तत्राग्निर् हेतुर् आहारान् न ह्य् अ-पक्वाद् रसादयः ॥५४॥

अन्नं काले ऽभ्यवहृतं कोष्ठं प्राणानिलाहृतम् ।
द्रवैर् विभिन्न-संघातं नीतं स्नेहेन मार्दवम् ॥५५॥

३.५ कोष्ठे प्राणानिलाहृतम् संधुक्षितः समानेन पचत्य् आमाशय-स्थितम् ।
औदर्यो ऽग्निर् यथा बाह्यः स्थाली-स्थं तोय-तण्डुलम् ॥५६॥

आदौ षड्-रसम् अप्य् अन्नं मधुरी-भूतम् ईरयेत् ।
फेनी-भूतं कफं यातं विदाहाद् अम्ल-तां ततः ॥५७॥

३.५ फेन-भूतं कफं यातं पित्तम् आमाशयात् कुर्याच् च्यवमानं च्युतं पुनः ।
अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम् ॥५८॥

भौमाप्याग्नेय-वायव्याः पञ्चोष्माणः स-नाभसाः ।
पञ्चाहार-गुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्य् अनु ॥५९॥

यथा-स्वं ते च पुष्णन्ति पक्वा भूत-गुणान् पृथक् ।
पार्थिवाः पार्थिवान् एव शेषाः शेषांश् च देह-गान् ॥६०॥

३.६ यथा-स्वं ते च पुष्यन्ति किट्टं सारश् च तत् पक्वम् अन्नं संभवति द्वि-धा ।
तत्राच्छं किट्टम् अन्नस्य मूत्रं विद्याद् घनम् शकृत् ॥६१॥

३.६ किट्टं सारस् तथा पक्वम् सारस् तु सप्तभिर् भूयो यथा-स्वं पच्यते ऽग्निभिः ।
रसाद् रक्तं ततो मांसं मांसान् मेदस् ततो ऽस्थि च ॥६२॥

३.६ मांसान् मेदो ऽस्थि मेदसः अस्थ्नो मज्जा ततः शुक्रं शुक्राद् गर्भः प्रजायते ।
कफः पित्तं मलाः खेषु प्रस्वेदो नख-रोम च ॥६३॥

३.६ कफः पित्तं मलः खेषु स्नेहो ऽक्षि-त्वग्-विषाम् ओजो धातूनां क्रम-शो मलाः ।
प्रसाद-किट्टौ धातूनां पाकाद् एवं द्वि-धर्च्छतः ॥६४॥

परस्-परोपसंस्तम्भाद् धातु-स्नेह-परम्-परा ।
के-चिद् आहुर् अहो-रात्रात् षड्-अहाद् अपरे परे ॥६५॥

मासेन याति शुक्र-त्वम् अन्नं पाक-क्रमादिभिः ।
संतता भोज्य-धातूनां परिवृत्तिस् तु चक्र-वत् ॥६६॥

वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते ।
प्रायः करोत्य् अहो-रात्रात् कर्मान्यद् अपि भेषजम् ॥६७॥

३.६ सद्यः शुक्रं प्रकुर्वते व्यानेन रस-धातुर् हि विक्षेपोचित-कर्मणा ।
युग-पत् सर्वतो ऽजस्रं देहे विक्षिप्यते सदा ॥६८॥

क्षिप्यमाणः ख-वैगुण्याद् रसः सज्जति यत्र सः ।
तस्मिन् विकारं कुरुते खे वर्षम् इव तोय-दः ॥६९॥

दोषाणाम् अपि चैवं स्याद् एक-देश-प्रकोपणम् ।
अन्न-भौतिक-धात्व्-अग्नि-कर्मेति परिभाषितम् ॥७०॥

अन्नस्य पक्ता सर्वेषां पक्तॄणाम् अधिको मतः ।
तन्-मूलास् ते हि तद्-वृद्धि-क्षय-वृद्धि-क्षयात्मकाः ॥७१॥

तस्मात् तं विधि-वद् युक्तैर् अन्न-पानेन्धनैर् हितैः ।
पालयेत् प्रयतस् तस्य स्थितौ ह्य् आयुर्-बल-स्थितिः ॥७२॥

समः समाने स्थान-स्थे विषमो ऽग्निर् वि-मार्ग-गे ।
पित्ताभिमूर्छिते तीक्ष्णो मन्दो ऽस्मिन् कफ-पीडिते ॥७३॥

समो ऽग्निर् विषमस् तीक्ष्णो मन्दश् चैवं चतुर्-विधः ।
यः पचेत् सम्यग् एवान्नं भुक्तं सम्यक् समस् त्व् असौ ॥७४॥

३.७ भुक्तं सम्यक् समस् तु सः विषमो ऽ-सम्यग् अप्य् आशु सम्यग् वापि चिरात् पचेत् ।
तीक्ष्णो वह्निः पचेच् छीघ्रम् अ-सम्यग् अपि भोजनम् ॥७५॥

३.७ विषमो ऽ-सम्यग् एवाशु ३.७ सम्यग् एव चिरात् पचेत् मन्दस् तु सम्यग् अप्य् अन्नम् उपयुक्तं चिरात् पचेत् ।
कृत्वास्य-शोषाटोपान्त्र-कूजनाध्मान-गौरवम् ॥७६॥

३.७ उपभुक्तं चिरात् पचेत् शान्ते ऽग्नौ म्रियते युक्ते चिरं जीवत्य् अन्-आमयः ।
रोगी स्याद् विकृते मूलम् अग्नि-स्तम्भान् निरुच्यते ॥७६+१॥

३.७६+ अग्नि-स्तम्भान् निरूप्यते सह-जं काल-जं युक्ति-कृतं देह-बलं त्रि-धा ।
तत्र सत्-त्व-शरीरोत्थं प्राकृतं सह-जं बलम् ॥७७॥

वयः-कृतम् ऋतूत्थं च काल-जं युक्ति-जं पुनः ।
विहाराहार-जनितं तथोर्जस्-कर-योग-जम् ॥७८॥

देशो ऽल्प-वारि-द्रु-नगो जाङ्गलः स्व्-अल्प-रोग-दः ।
आनूपो विपरीतो ऽस्मात् समः साधारणः स्मृतः ॥७९॥

मज्ज-मेदो-वसा-मूत्र-पित्त-श्लेष्म-शकृन्त्य् असृक् ।
रसो जलं च देहे ऽस्मिन्न् एकैकाञ्जलि-वर्धितम् ॥८०॥

पृथक् स्व-प्रसृतं प्रोक्तम् ओजो-मस्तिष्क-रेतसाम् ।
द्वाव् अञ्जली तु स्तन्यस्य चत्वारो रजसः स्त्रियाः ॥८१॥

सम-धातोर् इदं मानं विद्याद् वृद्धि-क्षयाव् अतः ॥८२॥
शुक्रासृग्-गर्भिणी-भोज्य-चेष्टा-गर्भाशयर्तुषु ।
यः स्याद् दोषो ऽधिकस् तेन प्रकृतिः सप्त-धोदिता ॥८३॥

३.८ प्रकृतिः सप्त-धा स्मृता विभु-त्वाद् आशु-कारि-त्वाद् बलि-त्वाद् अन्य-कोपनात् ।
स्वातन्त्र्याद् बहु-रोग-त्वाद् दोषाणां प्रबलो ऽनिलः ॥८४॥

प्रायो ऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटित-धूसर-केश-गात्राः ।
शीत-द्विषश् चल-धृति-स्मृति-बुद्धि-चेष्टा-सौहार्द-दृष्टि-गतयो ऽति-बहु-प्रलापाः ॥८५॥

अल्प-वित्त-बल-जीवित-निद्राः सन्न-सक्त-चल-जर्जर-वाचः ।
नास्तिका बहु-भुजः स-विलासा गीत-हास-मृगया-कलि-लोलाः ॥८६॥

३.८ अल्प-पित्त-कफ-जीवित-निद्राः ३.८ अल्प-वित्त-कफ-जीवित-निद्राः ३.८ अल्प-पित्त-बल-जीवित-निद्राः मधुराम्ल-पटूष्ण-सात्म्य-काङ्क्षाः कृश-दीर्घाकृतयः स-शब्द-याताः ।
न दृढा न जितेन्द्रिया न चार्या न च कान्ता-दयिता बहु-प्रजा वा ॥८७॥

३.८ कृश-दीर्घाकृतयः स-शब्द-यानाः नेत्राणि चैषां खर-धूसराणि वृत्तान्य् अ-चारूणि मृतोपमानि ।
उन्मीलितानीव भवन्ति सुप्ते शैल-द्रुमांस् ते गगनं च यान्ति ॥८८॥

३.८ नेत्राणि वैषां खर-धूसराणि अ-धन्या मत्सराध्माताः स्तेनाः प्रोद्बद्ध-पिण्डिकाः ।
श्व-शृगालोष्ट्र-गृध्राखु-काकानूकाश् च वातिकाः ॥८९॥

३.८ स्तेनाः प्रोद्वृत्त-पिण्डिकाः पित्तं वह्निर् वह्नि-जं वा यद् अस्मात् पित्तोद्रिक्तस् तीक्ष्ण-तृष्णा-बुभुक्षः ।
गौरोष्णाङ्गस् ताम्र-हस्ताङ्घ्रि-वक्त्रः शूरो मानी पिङ्ग-केशो ऽल्प-रोमा ॥९०॥

३.९ पित्तोद्रिक्तस् तीव्र-तृष्णा-बुभुक्षः दयित-माल्य-विलेपन-मण्डनः सु-चरितः शुचिर् आश्रित-वत्सलः ।
विभव-साहस-बुद्धि-बलान्वितो भवति भीषु गतिर् द्विषताम् अपि ॥९१॥

मेधावी प्र-शिथिल-संधि-बन्ध-मांसो नारीणाम् अन्-अभिमतो ऽल्प-शुक्र-कामः ।
आवासः पलित-तरङ्ग-नीलिकानां भुङ्क्ते ऽन्नं मधुर-कषाय-तिक्त-शीतम् ॥९२॥

घर्म-द्वेषी स्वेदनः पूति-गन्धिर् भूर्य्-उच्चार-क्रोध-पानाशनेर्ष्यः ।
सुप्तः पश्येत् कर्णिकारान् पलाशान् दिग्-दाहोल्का-विद्युद्-अर्कानलांश् च ॥९३॥

तनूनि पिङ्गानि चलानि चैषां तन्व्-अल्प-पक्ष्माणि हिम-प्रियाणि ।
क्रोधेन मद्येन रवेश् च भासा रागं व्रजन्त्य् आशु विलोचनानि ॥९४॥

३.९ तनूनि पिङ्गानि चलानि वैषां मध्यायुषो मध्य-बलाः पिण्डिताः क्लेश-भीरवः ।
व्याघ्रर्क्ष-कपि-मार्जार-यक्षानूकाश् च पैत्तिकाः ॥९५॥

३.९वृकानूकाश् च पैत्तिकाः श्लेष्मा सोमः श्लेष्मलस् तेन सौम्यो गूढ-स्निग्ध-श्लिष्ट-संध्य्-अस्थि-मांसः ।
क्षुत्-तृड्-दुःख-क्लेश-घर्मैर् अ-तप्तो बुद्ध्या युक्तः सात्त्विकः सत्य-संधः ॥९६॥

प्रियङ्गु-दूर्वा-शर-काण्ड-शस्त्र- गो-रोचना-पद्म-सुवर्ण-वर्णः ।
प्रलम्ब-बाहुः पृथु-पीन-वक्षा महा-ललाटो घन-नील-केशः ॥९७॥

मृद्व्-अङ्गः सम-सु-विभक्त-चारु-देहो बह्व्-ओजो-रति-रस-शुक्र-पुत्र-भृत्यः ।
धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम् ॥९८॥
३.९ मृद्व्-अङ्गः सम-सु-विभक्त-चारु-वर्ष्मा स-मद-द्वि-रदेन्द्र-तुल्य-यातो जल-दाम्भो-धि-मृदङ्ग-सिंह-घोषः ।
स्मृति-मान् अभियोग-वान् विनीतो न च बाल्ये ऽप्य् अति-रोदनो न लोलः ॥९९॥

३.९ जल-दाम्भो-धि-मृदङ्ग-शङ्ख-घोषः तिक्तं कषायं कटुकोष्ण-रूक्षम् अल्पं स भुङ्क्ते बल-वांस् तथापि ।
रक्तान्त-सु-स्निग्ध-विशाल-दीर्घ- सु-व्यक्त-शुक्लासित-पक्ष्मलाक्षः ॥१००॥

अल्प-व्याहार-क्रोध-पानाशनेहः प्राज्यायुर्-वित्तो दीर्घ-दर्शी वदान्यः ।
श्राद्धो गम्भीरः स्थूल-लक्षः क्षमा-वान् आर्यो निद्रालुर् दीर्घ-सूत्रः कृत-ज्ञः ॥१०१॥
३.१० अल्प-व्याहार-क्रोध-पानाशनेर्ष्यः ३.१० प्राज्यायुर्-वृत्तो दीर्घ-दर्शी वदान्यः ३.१० श्राद्धो गम्भीरः स्थूल-लक्ष्यः क्षमा-वान् ३.१० आर्यो निद्रालुर् दीर्घ-सूत्री कृत-ज्ञः ऋजुर् विपश्चित् सु-भगः सु-लज्जो भक्तो गुरूणां स्थिर-सौहृदश् च ।
स्वप्ने स-पद्मान् स-विहङ्ग-मालांस् तोयाशयान् पश्यति तोय-दांश् च ॥१०२॥

३.१० ऋजुर् विपश्चित् सु-भगः स-लज्जो ब्रह्म-रुद्रेन्द्र-वरुण-तार्क्ष्य-हंस-गजाधिपैः ।
श्लेष्म-प्रकृतयस् तुल्यास् तथा सिंहाश्व-गो-वृषैः ॥१०३॥

प्रकृतीर् द्वय-सर्वोत्था द्वन्द्व-सर्व-गुणोदये ।
शौचास्तिक्यादिभिश् चैवं गुणैर् गुण-मयीर् वदेत् ॥१०४॥

वयस् त्व् आ-षो-डशाद् बालं तत्र धात्व्-इन्द्रियौजसाम् ।
वृद्धिर् आ-सप्ततेर् मध्यं तत्रा-वृद्धिः परं क्षयः ॥१०५॥

स्वं स्वं हस्त-त्रयं सार्धं वपुः पात्रं सुखायुषोः ।
न च यद् युक्तम् उद्रिक्तैर् अष्टाभिर् निन्दितैर् निजैः ॥१०६॥

अ-रोमशासित-स्थूल-दीर्घ-त्वैः स-विपर्ययैः ।
सु-स्निग्धा मृदवः सूक्ष्मा नैक-मूलाः स्थिराः कचाः ॥१०७॥

ललाटम् उन्नतं श्लिष्ट-शङ्खम् अर्धेन्दु-संनिभम् ।
कर्णौ नीचोन्नतौ पश्चान् महान्तौ श्लिष्ट-मांसलौ ॥१०८॥

नेत्रे व्यक्तासित-सिते सु-बद्ध-घन-पक्ष्मणी ।
उन्नताग्रा महोच्छ्वासा पीनर्जुर् नासिका समा ॥१०९॥

३.१० सु-बद्धे घन-पक्ष्मणी ओष्ठौ रक्ताव् अन्-उद्वृत्तौ महत्यौ नोल्बणे हनू ।
महद् आस्यं घना दन्ताः स्निग्धाः श्लक्ष्णाः सिताः समाः ॥११०॥

जिह्वा रक्तायता तन्वी मांसलं चिबुकं महत् ।
ग्रीवा ह्रस्वा घना वृत्ता स्कन्धाव् उन्नत-पीवरौ ॥१११॥

उदरं दक्षिणावर्त-गूढ-नाभि समुन्नतम् ।
तनु-रक्तोन्नत-नखं स्निग्धं आ-ताम्र-मांसलम् ॥११२॥

दीर्घा-च्छिद्राङ्गुलि महत् पाणि-पादं प्रतिष्ठितम् ।
गूढ-वंशं बृहत् पृष्ठं निगूढाः संधयो दृढाः ॥११३॥

३.११ गूढ-वंशं महत् पृष्ठं धीरः स्वरो ऽनुनादी च वर्णः स्निग्धः स्थिर-प्रभः ।
स्व-भाव-जं स्थिरं सत्-त्वम् अ-विकारि विपत्स्व् अपि ॥११४॥

उत्तरोत्तर-सु-क्षेत्रं वपुर् गर्भादि-नी-रुजम् ।
आयाम-ज्ञान-विज्ञानैर् वर्धमानं शनैः शुभम् ॥११५॥

इति सर्व-गुणोपेते शरीरे शरदां शतम् ।
आयुर् ऐश्वर्यम् इष्टाश् च सर्वे भावाः प्रतिष्ठिताः ॥११६॥

त्वग्-रक्तादीनि सत्-त्वान्तान्य् अग्र्याण्य् अष्टौ यथोत्तरम् ।
बल-प्रमाण-ज्ञानार्थं साराण्य् उक्तानि देहिनाम् ॥११७॥

३.११ अग्राण्य् अष्टौ यथोत्तरम् सारैर् उपेतः सर्वैः स्यात् परं गौरव-संयुतः ।
सर्वारम्भेषु चाशा-वान् सहिष्णुः सन्-मतिः स्थिरः ॥११८॥

३.११ सहिष्णुः सु-मतिः स्थिरः अन्-उत्सेकं अ-दैन्यं च सुखं दुःखं च सेवते ।
सत्-त्व-वांस् तप्यमानस् तु राजसो नैव तामसः ॥११९॥

३.११ सत्-त्व-वान् स्तभ्यमानस् तु दान-शील-दया-सत्य-ब्रह्म-चर्य-कृत-ज्ञ-ताः ।
रसायनानि मैत्री च पुण्यायुर्-वृद्धि-कृद् गणः ॥१२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:02.5700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

beneficiate

  • संस्करण करणे 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.