अर्थशास्त्रम् अध्याय १२ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
स चेत् संधौ न_अवतिष्ठेत, ब्रूयाद् एनं - "इमे शत्रु.षड्.वर्ग.वशगा राजानो विनष्टाः, तेषाम् अनात्मवतां न_अर्हसि मार्गम् अनुगन्तुम् ॥

२.०२
धर्मम् अर्थं च_अवेक्षस्व ॥

२.०३
मित्र.मुखा ह्य् अमित्रास् ते ये त्वा साहसम् अधर्मम् अर्थ.अतिक्रमं च ग्राहयन्ति ॥

२.०४
शूरैस् त्यक्त.आत्मभिः सह योद्धुं साहसम्, जन.क्षयम् उभयतः कर्तुम् अधर्मः, दृष्टम् अर्थं मित्रम् अदुष्टं च त्यक्तुम् अर्थ.अतिक्रमः ॥

२.०५
मित्रवांश् च स राजा, भूयश् च_एतेन_अर्थेन मित्राण्य् उद्योजयिष्यति यानि त्वा सर्वतो_अभियास्यन्ति ॥

२.०६
न च मध्यम.उदासीनयोर् मण्डलस्य वा परित्यक्तः, भवांस् तु परित्यक्तः यत्त्वा समुद्युक्तम् उपप्रेक्षन्ते "भूयः क्षय.व्ययाभ्यां युज्यताम्, मित्राच् च भिद्यताम्, अथ_एनं परित्यक्त.मूलं सुखेन_उच्छेत्स्यामः" इति ॥

२.०७
स भवान् न_अर्हति मित्र.मुखानाम् अमित्राणां श्रोतुम्, मित्राण्य् उद्वेजयितुम् अमित्रांश् च श्रेयसा योक्तुम्, प्राण.संशयम् अनर्थं च_उपगन्तुम्" इति यच्छेत् ॥

२.०८
तथा_अपि प्रतिष्ठमानस्य प्रकृति.कोपम् अस्य कारयेद् यथा संघ.वृत्ते व्याख्यातं योग.वामने च ॥

२.०९
तीक्ष्ण.रसद.प्रयोगं च ॥

२.१०
यद् उक्तम् आत्म.रक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश् च प्रयुञ्जीत ॥

२.११
बन्धकी.पोषकाः परम.रूप.यौवनाभिः स्त्रीभिः सेना.मुख्यान् उन्मादयेयुः ॥

२.१२
बहूनाम् एकस्यां द्वयोर् वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः ॥

२.१३
कलहे पराजित.पक्षं परत्र.अपगमने यात्रा.साहाय्य.दाने वा भर्तुर् योजयेयुः ॥

२.१४
काम.वशान् वा सिद्ध.व्यञ्जनाः सांवदनिकीभिर् ओषधीभिर् अतिसंधानाय मुख्येषु रसं दापयेयुः ॥

२.१५
वैदेहक.व्यञ्जने वा राज.महिष्याः सुभगायाः प्रेष्याम् आसन्नां काम.निमित्तम् अर्थेन_अभिवृष्य परित्यजेत् ॥

२.१६
तस्य_एव परिचारक.व्यञ्जन.उपदिष्टः सिद्ध.व्यञ्जनः सांवदनिकीम् ओषधीं दद्यात् "वैदेहक.शरीरे_अवघातव्या" इति ॥

२.१७
सिद्धे सुभगाया अप्य् एनं योगम् उपदिशेत् "राज.शरीरे_अवधातव्या" इति ॥

२.१८
ततो रसेन_अतिसंदध्यात् ॥

२.१९
कार्तान्तिक.व्यञ्जनो वा महा.मात्रं "राज.लक्षण.सम्पन्नम्" क्रम.अभिनीतं ब्रूयात् ॥

२.२०
भार्याम् अस्य भिक्षुकी "राज.पत्नी राज.प्रसविनी वा भविष्यसि" इति ॥

२.२१
भार्या.व्यञ्जना वा महा.मात्रं ब्रूयात् "राजा किल माम् अवरोधयिष्यति, तव_अन्तिकाय पत्त्र.लेख्यम् आभरणं च_इदं परिव्राजिकया_आहृतम्" इति ॥

२.२२
सूद.आरालिक.व्यञ्जनो वा रस.प्रयोग.अर्थं राज.वचनम् अर्थं च_अस्य लोभनीयम् अभिनयेत् ॥

२.२३
तद् अस्य वैदेहक.व्यञ्जनः प्रतिसंदध्यात्, कार्य.सिद्धिं च ब्रूयात् ॥

२.२४
एवम् एकेन द्वाभ्यां त्रिभिर् इत्य् उपायैर् एक.एकम् अस्य महा.मात्रं विक्रमाय_अपगमनाय वा योजयेत् - इति ॥

२.२५
दुर्गेषु च_अस्य शून्य.पाल.आसन्नाः सत्त्रिणः पौर.जानपदेषु मैत्री.निमित्तम् आवेदयेयुः - "शून्य.पालेन_उक्ता योधाश् च_अधिकरणस्थाश् च "कृच्छ्र.गतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तम् आर्जयध्वम्, अमित्रांश् च हत" इति ॥

२.२६
बहुली.भूते तीक्ष्णाः पौरान् निशास्व् आहारयेयुः, मुख्यांश् च_अभिहन्युः "एवं क्रियन्ते ये शून्य.पालस्य न शुश्रूषन्ते" इति ॥

२.२७
शून्य.पाल.स्थानेषु च सशोणितानि शस्त्र.वित्त.बन्धनान्य् उत्सृजेयुः ॥

२.२८
ततः सत्त्रिणः "शून्य.पालो घातयति विलोपयति च" इत्य् आवेदयेयुः ॥

२.२९
एवं जानपदान् समाहर्तुर् भेदयेयुः ॥

२.३०
समाहर्तृ.पुरुषांस् तु ग्राम.मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन.पदम् अधर्मेण बाधन्ते" इति ॥

२.३१
समुत्पन्ने दोषे शून्य.पालं समाहर्तारं वा प्रकृति.कोपेन घातयेयुः ॥

२.३२
तत्.कुलीनम् अपरुद्धं वा प्रतिपादयेयुः ॥

२.३३
अन्तः.पुर.पुर.द्वारं द्रव्य.धान्य.परिग्रहान् ।

२.३३
दहेयुस् तांश् च हन्युर् वा ब्रूयुर् अस्य_आर्त.वादिनः ॥

(सेना.मुख्य.वधह्<द्वितीयो भागह्> - मण्डल.प्रोत्साहनम्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP