अर्थशास्त्रम् अध्याय १२ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


५.०१
दैव.तेज्यायाम्(देवता.इज्यायाम्?) यात्रायाम् अमित्रस्य बहूनि पूजा.आगम.स्थानानि भक्तितः ॥

५.०२
तत्र_अस्य योगम् उब्जयेत् ॥

५.०३
देवता.गृह.प्रविष्टस्य_उपरि यन्त्र.मोक्षणेन गूढ.भित्तिं शिलां वा पातयेत् ॥

५.०४
शिला.शस्त्र.वर्षम् उत्तम.आगारात्, कपाटम् अवपातितं वा, भित्ति.प्रणिहितम् एक.देश.बद्धं वा परिघं मोक्षयेत् ॥

५.०५
देवता.देह.ध्वज.प्रहरणानि वा_अस्य_उपरिष्टात् पातयेत् ॥

५.०६
स्थान.आसन.गमन.भूमिषु वा_अस्य गो.मय.प्रदेहेन गन्ध.उदक.प्रसेकेन वा रसम् अतिचारयेत्, पुष्प.चूर्ण.उपहारेण वा ॥

५.०७
गन्ध.प्रतिच्छन्नं वा_अस्य तीक्ष्णं धूमम् अतिनयेत् ॥

५.०८
शूलकूपम् अवपातनं वा शयन.आसनस्य_अधस्ताद् यन्त्र.बद्ध.तलम् एनं कील.मोक्षणेन प्रवेशयेत् ॥

५.०९
प्रत्यासन्ने वा_अमित्रे जन.पदाज् जनम् अवरोध.क्षमम् अतिनयेत् ॥

५.१०
दुर्गाच् च_अनवरोध.क्षमम् अपनयेत्, प्रत्यादेयम् अरि.विषयं वा प्रेषयेत् ॥

५.११
जन.पदं च_एकस्थं शैल.वन.नदी.दुर्गेष्व् अटवी.व्यवहितेषु वा पुत्र.भ्रातृ.परिगृहीतं स्थापयेत् ॥

५.१२
उपरोध.हेतवो दण्ड.उपनत.वृत्ते व्याख्याताः ॥

५.१३
तृण.काष्ठम् आ.योजनाद् दाहयेत् ॥

५.१४
उदकानि च दूषयेत्, अवस्रावयेच् च ॥

५.१५
कूप.कूट.अवपात.कण्टकिनीश् च बहिर् उब्जयेत् ॥

५.१६
सुरुङ्गाम् अमित्र.स्थाने बहु.मुखीं कृत्वा निचय.मुख्यान् अभिहारयेत्, अमित्रं वा ॥

५.१७
पर.प्रयुक्तायां वा सुरुङ्गायां परिखाम् उदक.अन्तिकीं खानयेत्, कूप.शालाम् अनुसालं वा ॥

५.१८
तोय.कुम्भान् कांस्य.भाण्डानि वा शङ्का.स्थानेषु स्थापयेत् खात.अभिज्ञान.अर्थम् ॥

५.१९
ज्ञाते सुरुङ्गा.पथे प्रतिसुरुङ्गां कारयेत् ॥

५.२०
मध्ये भित्त्वा धूमम् उदकं वा प्रयच्छेत् ॥

५.२१
प्रतिविहित.दुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमाम् अस्य दिशं गच्छेत्, यतो वा मित्रैर् बन्धुभिर् आटविकैर् वा संसृज्येत परस्य_अमित्रैर् दूष्यैर् वा महद्भिः, यतो वा गतो_अस्य मित्रैर् वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं वा_अस्य हारयेत् वीवध.आसार.प्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् अपक्षेपेण_अस्य प्रहर्तुम्, यतो वा स्वं राज्यं त्रायेत मूलस्य_उपचयं वा कुर्यात् ॥

५.२२
यतः संधिम् अभिप्रेतं लभेत ततो वा गच्छेत् ॥

५.२३
सह.प्रस्थायिनो वा_अस्य प्रेषयेयुः "अयं ते शत्रुर् अस्माकं हस्त.गतः, पण्यं विप्रकारं वा_अपदिश्य हिरण्यम् अन्तः.सार.बलं च प्रेषय यस्य_एनम् अर्पयेम बद्धं प्रवासितं वा" इति ॥

५.२४
प्रतिपन्ने हिरण्यं सार.बलं च_आददीत ॥

५.२५
अन्त.पालो वा दुर्ग.सम्प्रदाने बल.एक.देशम् अतिनीय विश्वस्तं घातयेत् ॥

५.२६
जन.पदम् एकस्थं वा घातयितुम् अमित्र.अनीकम् आवाहयेत् ॥

५.२७
तद् अवरुद्ध.देशम् अतिनीय विश्वस्तं घातयेत् ॥

५.२८
मित्र.व्यञ्जनो वा बाह्यस्य प्रेषयेत् "क्षीणम् अस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण" इति ॥

५.२९
ततो रस.विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य.अमित्र.आटविकाः प्रवेशयेयुः, अन्ये वा_अभित्यक्ताः ॥

५.३०
तेन सर्व.भाण्ड.वीवध.ग्रहणं व्याख्यातम् ॥

५.३१
संधिं वा कृत्वा हिरण्य.एक.देशम् अस्मै दद्यात्, विलम्बमानः शेषम् ॥

५.३२
ततो रक्षा.विधानान्य् अवस्रावयेत् ॥

५.३३
अग्नि.रस.शस्त्रैर् वा प्रहरेत् ॥

५.३४
हिरण्य.प्रतिग्राहिणो वा_अस्य वल्लभान् अनुगृह्णीयात् ॥

५.३५
परिक्षीणो वा_अस्मै दुर्गं दत्त्वा निर्गच्छेत् ॥

५.३६
सुरुङ्गया कुक्षि.प्रदरेण वा प्राकार.भेदेन निर्गच्छेत् ॥

५.३७
रात्राव् अवस्कन्दं दत्त्वा सिद्धस् तिष्ठेत्, असिद्धः पार्श्वेन_अपगच्छेत् ॥

५.३८
पाषण्डच्.छद्मना मन्द.परिवारो निर्गच्छेत् ॥

५.३९
प्रेत.व्यञ्जनो वा गूढैर् निह्रियेत ॥

५.४०
स्त्री.वेष.धारी वा प्रेतम् अनुगच्छेत् ॥

५.४१
दैवत.उपहार.श्राद्ध.प्रहवणेषु वा रस.विद्धम् अन्न.पानम् अवसृज्य ॥

५.४२
कृत.उपजापो दूष्य.व्यञ्जनैर् निष्पत्य गूढ.सैन्यो_अभिहन्यात् ॥

५.४३
एवं गृहीत.दुर्गो वा प्राश्य.प्राशं चैत्यम् उपस्थाप्य दैवत.प्रतिमाच्.छिद्रं प्रविश्य_आसीत, गूढ.भित्तिं वा, दैवत.प्रतिमा.युक्तं वा भूमि.गृहम् ॥

५.४४
विस्मृते सुरुङ्गया रात्रौ राज.आवासम् अनुप्रविश्य सुप्तम् अमित्रं हन्यात् ॥

५.४५
यन्त्र.विश्लेषणं वा विश्लेष्य_अधस्ताद् अवपातयेत् ॥

५.४६
रस.अग्नि.योगेन_अवलिप्तं गृहं जतु.गृहं वा_अधिशयानम् अमित्रम् आदीपयेत् ॥

५.४७
प्रमद.वन.विहाराणाम् अन्यतमे वा विहार.स्थाने प्रमत्तं भूमि.गृह.सुरुङ्गा.गूढ.भित्ति.प्रविष्टास् तीक्ष्णा हन्युः, गूढ.प्रणिहिता वा रसेन ॥

५.४८
स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प.रस.अग्नि.धूमान् उपरि मुञ्चेयुः ॥

५.४९
प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रे_अन्तः.पुर.गते गूढ.संचारः प्रयुञ्जीत ॥

५.५०
ततो गूढम् एव_अपगच्छेत्, स्वजन.संज्ञां च प्ररूपयेत् ॥

५.५१
द्वाह्स्थान् वर्षधरांश् च_अन्यान् निगूढ.उपहितान् परे ।

५.५१च्द्/तूर्य.संज्ञाभिर् आहूय द्विषत्.शेषाणि घातयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP