TransLiteral Foundation

अर्थशास्त्रम् अध्याय १२ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग १
(दूत.कर्म)

१.०१
"बलीयसा_अभियुक्तो दुर्बलः सर्वत्र_अनुप्रणतो वेतस.धर्मा तिष्ठेत् ॥

१.०२
इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ॥

१.०३
"सर्व.संदोहेन बलानां युध्येत ॥

१.०४
पराक्रमो हि व्यसनम् अपहन्ति ॥

१.०५
स्व.धर्मश् च_एष क्षत्रियस्य, युद्धे जयः पराजयो वा" इति विशाल.अक्षः ॥

१.०६
न_इति कौटिल्यः ॥

१.०७
सर्वत्र_अनुप्रणतः कुलैडक इव निराशो जीविते वसति ॥

१.०८
युध्यमानश् च_अल्प.सैन्यः समुद्रम् इव_अप्लवो_अवगाहमानः सीदति ॥

१.०९
तद्.विशिष्टं तु राजानम् आश्रितो दुर्गम् अविषह्यं वा चेष्टेत ॥

१.१०
त्रयो_अभियोक्तारो धर्म.लोभ.असुर.विजयिन इति ॥

१.११
तेषाम् अभ्यवपत्त्या धर्म.विजयी तुष्यति ॥

१.१२
तम् अभ्यवपद्येत, परेषाम् अपि भयात् ॥

१.१३
भूमि.द्रव्य.हरणेन लोभ.विजयी तुष्यति ॥

१.१४
तम् अर्थेन_अभ्यवपद्येत ॥

१.१५
भूमि.द्रव्य.पुत्र.दार.प्राण.हरणेन_असुर.विजयी ॥

१.१६
तं भूमि.द्रव्याभ्याम् उपगृह्य_अग्राह्यः प्रतिकुर्वीत ॥

१.१७
तेषाम् अन्यतमम् उत्तिष्ठमानं संधिना मन्त्र.युद्धेन कूट.युद्धेन वा प्रतिव्यूहेत ॥

१.१८
शत्रु.पक्षम् अस्य साम.दानाभ्याम्, स्व.पक्षं भेद.दण्डाभ्याम् ॥

१.१९
दुर्गं राष्ट्रं स्कन्ध.आवारं वा_अस्य गूढाः शस्त्र.रस.अग्निभिः साधयेयुः ॥

१.२०
सर्वतः पार्ष्णिम् अस्य ग्राहयेत् ॥

१.२१
अटवीभिर् वा राज्यं घातयेत्, तत्.कुलीन.अपरुद्धाभ्यां वा हारयेत् ॥

१.२२
अपकार.अन्तेषु च_अस्य दूटं प्रेषयेत् ॥

१.२३
अनपकृत्य वा संधानम् ॥

१.२४
तथा_अप्य् अभिप्रयान्तं कोश.दण्डयोः पाद.उत्तरम् अहो.रात्र.उत्तरं वा संधिं याचेत ॥

१.२५
स चेद् दण्ड.संधिं याचेत, कुण्ठम् अस्मै हस्त्य्.अश्वं दद्याद्, उत्साहितं वा गर.युक्तम् ॥

१.२६
पुरुष.संधिं याचेत, दूष्य.अमित्र.अटवी.बलम् अस्मै दद्याद् योग.पुरुष.अधिष्ठितम् ॥

१.२७
तथा कुर्याद् यथा_उभय.विनाशः स्यात् ॥

१.२८
तीक्ष्ण.बलं वा_अस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलम् अनुरक्तं वा यद् अस्य व्यसने_अपकुर्यात् ॥

१.२९
कोश.संधिं याचेत, सारम् अस्मै दद्याद् यस्य क्रेतारं न_अधिगच्छेत्, कुप्यम् अयुद्ध.योग्यं वा ॥

१.३०
भूमि.संधिं याचेत, प्रत्यादेयां नित्य.अमित्राम् अनपाश्रयां महा.क्षय.व्यय.निवेशां वा_अस्मै भूमिं दद्यात् ॥

१.३१
सर्व.स्वेन वा राज.धानी.वर्जेन संधिं याचेत बलीयसः ॥

१.३२
यत् प्रसह्य हरेद् अन्यस् तत् प्रयच्चेद् उपायतः ।

१.३२
रक्षेत् स्व.देहं न धनं का ह्य् अनित्ये धने दया ॥

(मन्त्र.युद्ध)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:27.1700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पाटा पाणी पाटा लागलें

  • (गो.) पाटाचें पाणी पाटाला मिळालें. पाताल्याकडेला असलेल्या झाडांना पाणी शिंपलें कीं थोडया वेळानें तेंच झिरपून पाटाला येऊन मिळतें. वियोगानंतर ज्याचें माणूस त्याला मिळालें कीं म्हणतात. 
RANDOM WORD

Did you know?

जननशांतीचे महत्व स्पष्ट करा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.