अर्थशास्त्रम् अध्याय १२ - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


३.०१
राज्ञो राज.वल्लभानां च_आसन्नाः सत्त्रिणः पत्त्य्.अश्व.रथ.द्विप.मुख्यानां "राजा क्रुद्धः" इति सुहृद्.विश्वासेन मित्र.स्थानीयेषु कथयेयुः ॥

३.०२
बहुली.भूते तीक्ष्णाः कृत.रात्रि.चार.प्रतीकारा गृहेषु "स्वामि.वचनेन_आगम्यताम्" इति ब्रूयुः ॥

३.०३
तान्निर्गच्छत एव_अभिहन्युः, "स्वामि.संदेशः" इति च_आसन्नान् ब्रूयुः ॥

३.०४
ये च_अप्रवासितास् तान् सत्त्रिणो ब्रूयुः "एतत् तद् यद् अस्माभिः कथितम्, जीवितु.कामेन_अपक्रान्तव्यम्" इति ॥

३.०५
येभ्यश् च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ च_असौ च मा याचते, मया प्रत्याख्याताः शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥

३.०६
ततः पूर्ववद् आचरेत् ॥

३.०७
येभ्यश् च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ च_असौ च मा याचते, तेभ्यो मया सो_अर्थो विश्वास.अर्थं दत्तः, शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥

३.०८
ततः पूर्ववद् आचरेत् ॥

३.०९
ये च_एनं याच्यम् अर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "याच्यम् अर्थम् असौ च_असौ च मा न याचते, किम् अन्यत् स्व.दोष.शङ्कितत्वात्, तेषाम् उद्धरणे प्रयतस्व" इति ॥

३.१०
ततः पूर्ववद् आचरेत् ॥

३.११
एतेन सर्वः कृत्य.पक्षो व्याख्यातः ॥

३.१२
प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् "असौ च_असौ च ते महा.मात्रः शत्रु.पुरुषैः सम्भाषते" इति ॥

३.१३
प्रतिपन्ने दूष्यान् अस्य शासन.हरान् दर्शयेत् "एतत् तत्" इति ॥

३.१४
सेना.मुख्य.प्रकृति.पुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा ॥

३.१५
यो_अस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणा_उपजापयेत् "आत्म.सम्पन्नतरस् त्वं पुत्रः, तथा_अप्य् अन्तर्.हितः, तत्.किम् उपेक्षसे विक्रम्य गृहाण, पुरा त्वा युव.राजो विनाशयति" इति ॥

३.१६
तत्.कुलीनम् अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् "अन्तर्.बलं प्रत्यन्त.स्कन्धम् अन्तं वा_अस्य प्रमृद्नीहि" इति ॥

३.१७
आटविकान् अर्थ.मानाभ्याम् उपगृह्य राज्यम् अस्य घातयेत् ॥

३.१८
पार्ष्णि.ग्राहं वा_अस्य ब्रूयात् "एष खलु राजा माम् उच्छिद्य त्वाम् उच्छेत्स्यति, पार्ष्णिम् अस्य गृहाण, त्वयि निवृत्तस्य_अहं पार्ष्णिं ग्रहीष्यामि" इति ॥

३.१९
मित्राणि वा_अस्य ब्रूयात् "अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय वा_अस्य यात्रां विहनाम" इति ॥

३.२०
तत्.संहतानाम् असंहतानां च प्रेषयेत् "एष खलु राजा माम् उत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वम्, अहं वः श्रेयान् अभ्युपपत्तुम्" इति ॥

३.२१
मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः ।

३.२१
यथा_आसन्नस्य मोक्ष.अर्थं सर्व.स्वेन तद्.अर्पणम् ॥

(शस्त्र.अग्नि.रस.प्रणिधयह् - वीवधा.सार.प्र्रसार.वधह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP