TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दशकुमारचरितम् - द्वितीयोच्छ्वासः

दशकुमारचरित हे अत्यंत मधुर काव्य असून ते वाचल्याने अत्यंत समाधान मिळते .


द्वितीयोच्छ्वासः

" देव, त्वयि तदावतीर्णे द्विजोपकारायासुरविवरं त्वदन्वेषणप्रसृते च मित्रगण अहमपि महीमटन्नङ्गेषु गङ्गातटे बहिश्चम्पायाः " कश्चिदस्ति तपःप्रभावोत्पन्नदिव्यचक्षुर्मरीचिर्नाम महर्षिःऽ इति ।
कुतश्चित्संलपतो जनसमाजादुपलभ्यामुतोबुभुत्सुस्त्वद्गतिं तमुद्देशमगमम् ।
न्यशामयं च तस्मिन्नाश्रमे कस्याचिच्चूतपोतकस्य छायायां कमप्युद्विग्नवर्णं तापसम् ।
अमुना चातिथिवदुपचरितः क्षणं विश्रान्तः " क्वासौ भगवान्मरचिः, तस्मादहमुपलिप्सुः प्रसङ्गप्रोषितस्य सुहृदो गतिम आश्चर्यज्ञानविभवो हि स महर्षिर्मह्यां विश्रुतःऽ इत्यवादिपम् ।
अथासावुष्णमायतं च निःश्वस्याशंसत-" आसीत्तादृशो मुनिरस्मिन्नाश्रमे ।
तमेकदा काममञ्जरी नामाङ्गपुरीवतंसस्थानीया बारयुवतिरश्रुबिन्दुतारकितपयोधरा सनिर्वेदमभ्येत्य कीर्णशिखण्डास्तीर्णभूमिरभ्यवन्दिष्ट ।
तस्मिन्नेव च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवाविच्छिन्नपातमपतत् ।
स किल कृपालुस्तं जनमार्द्रया गिराश्वास्यार्तिकारणं तां गणिकामपृच्छत् ।
सा तु सव्रीडेव सार्वपादेव सगारैवेव चाव्रवीत् ।
" भगवन्! ऐहिकस्य सुखस्याभाजनं जनो ऽयमामुष्मिकाय श्वोवसीयायार्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं शरणमभिप्रपन्नःऽ इति ।
तस्यास्तु जनन्युदञ्जलिः परितशारशिखण्डबन्धस्पृष्टमुक्तभूमिरभाषत--" भगवन्, अस्या मे दोषमेषा वो दासी विज्ञापयति ।
दोषश्च मम स्वाधिकरारानुष्ठा पनम् ।
एष हि गणिकामातुरधिकारो यद्दुहितुर्जन्मनः प्रभृत्येवाङ्गक्रिया, तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण शरीरपोषणम्, आपञ्चमाद्वर्षात्पितुरप्यनतिदर्शनम्, जन्मदिने पुम्यदिने चोत्सवोत्तरो मङ्गलविधिः, अध्यापनमनङ्गविद्यानां साङ्गानाम्, नृत्यगीतवाद्यनाट्यचित्रास्वाद्यगन्धपुष्पकलासु लिपिज्ञानवचनकौशलादिषु च सम्यग्विनयनम्, शब्दहेतुसमयविद्यासु वार्तामात्रावबोधनम्, आजीवज्ञाने क्रीडाकौशले सजीवनिर्जीवासु च द्यूतकलास्वभ्यन्तरीकरणम्, अभ्यन्तरकलासु वैश्वासिकजनात्प्रयत्नेन प्रयोगग्रहणम्, यात्रोत्सवादिष्वादरप्रसाधितायाः स्फीतपरिबर्हायाः प्रकाशनम्, प्रसङ्गवत्यां संगीतादिप्रियायां पूर्वसंगृहीतैर्ग्राह्यवाग्भिः सिद्विलम्भनम्, दिङ्मुखेषु तत्तच्छिल्पवित्तकैर्यशःप्रख्यापनम्, कार्तान्तिकादिभिः कल्याणलक्षणोद्धोषणम्, पीठमर्दविटविदूषकैर्भिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूपशीलशिल्पसौन्दर्यमाधुर्यप्रस्थावना, युवजनमनोरथलक्ष्यभूतायाः प्रभूततमेन शुल्केनावस्थापनम् स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोर्ऽथशक्तिशौचत्यागदाक्षिण्यशिल्पशीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदानम्, अधिकगुणायास्वतन्त्राय प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम्, अस्वतन्त्रेण वा गन्धर्वसमागमेन तद्गुरुभ्यः शुल्कापहणम्, अलाभेर्ऽथस्य कामस्वीकृते स्वामिन्यधिकरणे च साधनम्, रक्तस्य दुहित्रैकचारिणीव्रतानुष्ठापनम्, नित्यनैमितिकप्रीतिदायकतया हृतशिष्टानां गम्यधनानां चित्रैरुपायैरपहरणम्, अददता लुब्धप्रायेण च विगृह्यासनम् प्रतिहस्तिप्रोत्साहनेन लुब्धस्य रागिणस्त्यागशक्तिसंधुक्षणम्, असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैव्रीडोत्पादनैरन्याभियोगैरवमानैश्चापवाहनम्, अर्थदैरनर्थप्रतिघातिभिश्चानिन्द्यैरिभ्यैरनुबद्धार्थानर्थसंशयान्विचार्य भूयोभूयः संयोजनमिति ।
गणिकायाश्च गम्यं प्रति सज्जतैव न सङ्गः ।
सत्यामपि प्रीतौ न मातुर्मातृकाया वा शासनातिवृत्तिः ।
एवं स्थिते ऽनया प्रजापतिविहितं स्वधर्ममुल्लङ्घ्य क्वचिदागन्तुकं रूपमात्रधने विप्रयूनि स्वेनैव धनव्ययेन रममाणया मासमात्रमत्यवाहि ।
गम्यजनश्च भूयानर्थयोग्यः प्रत्याचक्षणयानया प्रकोपितः ।
स्वकुटुम्बकं चावसादितम् " एषा कुमतिर्न कल्याणोऽ इति निवारयन्त्यां मयि वनवासाय कोपात् प्रस्थिता ।
सा चेदियमहार्यानिश्चया सर्व एष जनो ऽत्रैवानन्यगतिरनशनेन संस्थास्यतेऽ इत्यरोदीत् ।
अथ सा वारयुवतिस्तेन तापसेन " भद्रे! ननु दुःखीकरे ऽयं वनवासः ।
तस्य फलमपवर्गः स्वर्गो वा ।
प्रथमस्तु तयोः प्रकृष्टज्ञानसाध्यः प्रायो दुस्संपाद एव, द्वितीयस्तु सर्वमस्यैव सुलभः कुलधर्मानुष्ठायिनः ।
तदशक्यारम्भादुपरम्य मातुर्मते वर्तस्वऽ इति सानुकम्पमभिहिता यदिह भगवत्पादमूलमशरणम्, शरणमस्तु ममम कृपणाया हिरण्यरेता देव एव इत्युदमनायत ।
स तु मुनिरनुविमृश्य गणिकामातरमवदत्--" संप्रति गच्छ गृहान् ।
प्रतीक्षम्व कानि चिहिनानि यावदियं सुकुमारा सुखोपभोगसमुचिता सत्यरण्यवासव्यसनेनोद्वेजिता भूयोभूयश्चास्माभिर्विबोध्यमाना प्रकृतावेव स्थाम्यतिऽ इति ।
" तथाऽ इति तस्याः प्रतियाते स्वजने सा गणिका तमृषिमलघुभक्तिर्धौतोद्गमनीयवासिनी नात्यादृतशरीरसंस्कारा वनतरुपोतालवालपूरणैर्देवतर्चनकुसुमोच्चयावचयप्रयासैर्नैकविकल्पोपहारकर्मभिः कामशासनार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्यादिभिः क्रियाभिरेकन्ते च त्रिवर्गसंबन्धनीभिः कथाभिरध्यात्मवादैश्चानुरूपैरल्पीयसैव कालेनान्वरञ्जयत् ।
एकदा च रहसि रक्तं तमुपलक्ष्य मूढः खलु लोको यत्सह धर्मेणार्थकामावपि गणयतिऽ इति किञ्चिदस्मयत ।
" कथय वासु, केनांशेनार्थकामातिशायी धर्मस्तवाभिप्रेतःऽ इति प्रेरिता मरीचिना लज्जामन्थरमारभताभिधातुम्--" इतः किम जनाद्भगवतस्त्रिवर्गबलाबलज्ञानम् ।
अथवैतदपि प्रकारान्तरं दासजनानुग्रहस्य ।
भवतु, श्रूयताम् ।
ननु धर्मादृतेर्ऽथकामयोरनुत्पत्तिरेव ।
तदनपेक्ष एव धर्मो निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च ।
सोर्ऽथकामवद्बाह्यसाधनेषु नात्यायतते ।
तत्त्वदर्शनोपबृंहितश्च यथाकथञ्चिदष्यनुष्ठीयमानभ्यां नार्थकामाभ्यां बाध्यते ।
बाधितो ऽपि चाल्पायासप्रतिसमाहितस्तमपि दोषं निर्हृत्य श्रेयसे ऽनल्पाय कल्पते ।
तथाहि पितामहसय तिलोत्तमाभिलाषः, भवानीपतेर्मुनिपत्नीसहस्रसंद्रूषणम्, पद्मनाभस्य षोडशमहस्रान्तःपुरविहारः, प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता, शशाङ्कस्य गुरुतल्पगमनम्, अंशुमालिनो वडवालङ्घनम्, अनिलस्य केसरिकलत्रसमागमः, बृहस्पतेरुतथ्यभार्याभिसरणम्, पराशरस्य दाशकन्यादूषणम्, पाराशर्यस्य भ्रातृदारसंगतिः, अत्रेर्मृकगीसमागम ति ।
अमराणां च तेषु तेषु कार्येष्वासुरविप्रलम्भनानि ज्ञानबलान्न धर्मपीडामावहन्ति ।
धर्मपूते च मनसि नभसीव न जातु रजो ऽनुषज्यते ।
तन्मन्ये नार्थकामौ धर्मस्य शततमीमपि कलां स्पृशतःऽ इति ।
श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्यधात्--" अयि विलासिन्, साधु पश्यसि न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यत इति ।
किन्तु जन्मनः प्रभृत्यर्थकामवार्तानभिज्ञा वयम् ।
ज्ञेयौ चेमौ किंरूपौ किंपरिवारौ किंफलौ चऽ इति ।
सात्ववादति--" अर्थस्तावदर्जनवर्धनरक्षणात्मकः, कृषिपाशुपाल्यवाणिज्यसंधिविग्रहादिपरिवारः तीर्थप्रतिपादनफलश्च ।
कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसयोर्निरतिशयसुखम्पर्शविशेषः ।
परिवारस्त्वस्य यावदिह रम्यमुज्जवलं च ।
फलं पुनः परमाह्लादनम् परम्परविमर्दजन्म, स्मर्यमाणमधुरम्, उदीरिताभिमानमनुत्तमम् लुखमपरोक्षं स्वसंवेद्यमेव ।
तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तषांसि, महान्ति दानानि, दारुणानि युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाचरन्तिऽ इति ।
निशस्यैतन्नियतिवलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममनादृत्य तस्यामसौ प्रासजत् ।
सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैपीत् ।
अभूच्च घोषणा " श्वः कामोत्सवःऽ इति ।
उत्तरे द्युः स्नातानुलिप्रमारचितमञ्जुमालमारब्धकामिजनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गते ऽपि तया विना दूयमानं तमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवतिजनशतपरिवृतस्य राज्ञः संनिधौ स्मितमुखेन तेन " भद्रे, भगवता सह निषीदऽ इत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् ।
तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना " देव, जितानयाहम्, अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मयाऽ इति प्रभुं प्राणंसीत् ।
विस्मयहर्षमूलश्चकोलाहलो लोकस्योदजिहीत ।
हृष्टेन च राज्ञा महार्है रत्नालङ्कारेर्महता च परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः प्रशस्यमाना स्वभवनमगत्वैव तमृषिमभाषत--" भगवन्, अयमञ्जलिः, चिरमनुगृहीतो ऽयं दासजनः, स्वार्थ इदानीमनुष्ठेयःऽ इति ।
स तु रागादशनिहत इवोद्भाम्याब्रवीत्--" प्रियेऽ किमेतत् ।
कुत इदमौदासीन्यम् ।
क्व गतस्तव मय्यसाधारणो ऽनुरागःऽ इति ।
अथ सा सस्मितमवादीत्--" भगवन्, ययाद्य राजकले मत्तः पराजयो ऽब्युपेतस्तस्याश्च मम च कस्मिंश्चित्संघर्षे " मरीचिमावर्जितवतीव श्लाघसेऽ इति तयास्म्यहमधिक्षिप्ता ।
दास्यण्णबन्धेन चास्मिन्नर्थे प्रावर्तिषि ।
सिद्धार्था चास्मित्वत्प्रसादात्ऽ इति ।
समस्था तथावधूतो दुर्मतिः कृतानुशयः शून्यवनन्यवर्तिष्ट ।
यस्तयैवं कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व ।
स्वशक्तिनिषिक्तं रागमुद्धृत्य तत्यैव बनधक्या महद्वैराग्यमर्पितम् ।
अचिरादेव शक्य आत्मा त्वदर्थसाधनक्षमः कर्तुम् ।
अस्यामेव तावद्वसाङ्गपुर्यां चम्पायाम्ऽ इति ।
अथ तनमनश्च्युततमःस्पर्शभियेवास्तं रविरगात् ।
ऋषिमुक्तश्च रागः संध्यात्वेनास्फुरत् ।
तत्कथादत्तवैराग्याणीव कमलवनानि समकुचन् ।
अनुमतमुनिशासनस्त्वममुनैव सहोपास्य संध्यामनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुमकिसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य नगरायोदचलम् ।
अद्रशं च मार्गाभ्याशवर्तिनः कस्यापि क्षपणकविहारस्य बहिर्विविक्ते रक्ताशोकषण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमनभिरूपाणां कृपणवर्णं कमपि क्षपणकम् ।
उरसि चास्य शिथिलितमलनिचयान्मुखान्निपततो ऽश्रुबिन्दूनलक्षयम् ।
अप्राक्षं चान्तिकोपविष्टः--" क्व तपः, क्व च रुदितम् ।
न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुम्ऽ इति ।
सो ऽब्रूत-" सौम्य, श्रूयताम् ।
अहमस्यामेव चम्पायां निधिपालितनाम्नः श्रोष्ठिनो ज्येष्ठसूनुर्वसुपालितो नाम ।
वैरूप्यान्मम निरूपक इति प्रसिद्धिरासीत् ।
अन्यश्चात्र सुन्दरक इति यथार्थनामाकलागुणैः समृद्धो वसुना नातिपुष्टो ऽभवत् ।
तस्य च मम च वपुर्वसुनी निमित्तीकृत्य वैरं वैरोपजीविभिः पौरधूर्तैरुदपाद्यत ।
त एव कदाचिदावयोरुत्सवसमाजे स्वयमुत्पादितमन्योन्यावमानमूलमधिक्षेपवचनव्यतिकरमुपशमय्य " न वपुर्वसु वा पुंस्त्वमूलम्, अपि तु प्रकृष्टगणिकाप्रार्थ्ययौवनो हि यः स पुमान् ।
अतो युवतिललामभूता काममञ्जरी यं वा कामयते स हरतु सुभगपतकाम्ऽ इति व्यवास्थापयन् ।
अभ्युपेत्यावां प्राहिणुव तस्यै दूतान् ।
अहमेव किलामुष्याः स्मरोन्मादहेतुरासम् ।
आसीनयोश्चावयोर्मामेवापगम्य सा नीलोत्पलमयमिवापाङ्गदामाङ्गे मम मुञ्चन्ती तं जनमपत्रपयाधोमुखं व्यधत्त ।
सुभगंमन्येन च मया स्वधनस्य स्वगृहस्य स्वगणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरीकृता ।
कृश्चाहमनया मलमल्लकशेषः हृतसर्वस्वतया चापवाहितः प्रपद्य लोकोपहासलक्ष्यतामक्षमश्च सोढुं धिक्वृ- तानि पौरवृद्धानामिह जैनायतने मुनिनैकेनोपदिष्टमोक्षवर्त्मा सुकर एष वेषो वेशनिर्गतानामित्युदीर्णवैराग्यस्तदपि कौषीनमजहाम् ।
अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेशलुञ्चनव्यथः प्रकृष्टतमक्षुत्पिपासादिदुःखः स्थानासनशयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभिर्यन्त्रणाभिरुद्वेजितः प्रत्यवामृशम् ।
" अहमस्मि द्विजातिः ।
अस्वधर्मो ममैष पाखाण्डिपथावतारः ।
श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रावर्तन्त ।
मम तु मन्दभाग्यस्य निन्द्यवेषममन्ददुःस्वायतनं हरिहरहिरण्यगर्भादिदेवतापवादक्षश्रवणनैरन्तर्यात्प्रेत्यापि निरयफलम् अफलं विप्रलम्भप्रायमीदृशमिदमधर्मवर्त्म धर्मवत्समाचरणीयमासीत्ऽ इति प्रत्याकलितस्वदुर्नयः पिण्डीषण्डं विविक्तमेतदासाद्य पर्याप्तमश्रुमुञ्चामिऽ इति ।
श्रुत्वा चैतदनुकम्पमानो ऽब्रवम्-" भद्र, क्षमस्व ।
कञ्चित्कालमत्रैव निवस ।
निजेन द्युम्नेनासावेव वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये ।
सन्त्युपायास्तादृशाःऽ इत्याश्वास्य तमनुत्थितो ऽहम् ।
नगरमाविशन्नेव चोपलभ्य लोकवादाल्लुब्धसमृद्धपूर्णं पुरमित्यर्थानां नश्वरत्वं च प्रदर्श्य प्रकृतिस्थानमून्विधास्यन्कर्मीसुतप्रहिते तथि मतिमकरवम् ।
अनुप्रविश्य च द्यूतसभामक्षधूर्तैः समगंसि ।
तेषां च पञ्चविंशतिप्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षभूमिहस्तादिषु चात्यन्तदुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्यधिक्षेपवचनानि जीवितनिरपेक्षाणि संरम्भविचेष्टितानि सभिकप्रत्ययव्यवहारान्न्यायबलप्रतापप्रायानङ्गीकृतार्थसाधनक्षमान्बलिषु सान्त्वनानि दुर्बलेषु भर्त्सितानि पक्षरचनानैपुणमुच्चावचानि प्रलोभनानि ग्लहप्रभेदवर्णनानि द्रव्यसंविभागौदार्यमन्तरान्तराश्वीलप्रायान्कलकलानित्येतानि चान्यानि चानुभवन्न तृप्तिमध्यगच्छम् ।
अहसं च किञ्चित्प्रमाददत्तशारे क्वचित्कितवे ।
प्रतिकितवस्तु निर्दहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य " शिक्षयसि रे द्यूतवर्त्म हासव्याजेन ।
आस्तामयमशिक्षितो वराकः ।
त्वयैव तावद्विचक्षणेन देविष्यामिऽ इति द्यूताध्यक्षानुमत्या व्यत्यषजत् ।
मया जितश्चासौ षोडशसहस्राणि दीनाराणाम् ।
तदर्धं सभिकाय सभ्येभ्यश्च दत्त्वार्धं स्वीकृत्योदतिष्ठम् ।
उदतिष्ठंश्च तत्रगतानां हर्षगर्भाः प्रशंसालापाः ।
प्रार्थयमानसभिकानुरोधाच्च तदगारे ऽत्युदारमभ्यवहारविधिमकरवम् ।
यन्मूलश्च मे दुरोदरावतारः स मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदयमासीत् ।
तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य दूर्जटिकण्ठकल्माषकालतमे तमसि नीलनिवसनार्धोरुकपरिहितो बदधतीक्ष्णकौक्षेयकः फणिमुखकाकलीसंदंशकपुरुषशीर्षकयोगचूर्णयोगवर्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्ढकप्रभृत्यनेकोपकरणयुक्तो गत्वा कस्यचिल्लब्धेश्वरस्य गृहे संधिं छित्त्वा पटभाससूक्ष्माच्छिद्रालक्षितान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय निरगाम् ।
नीलनीरदनिकरपीवरतमोनिबिडितायां राजवीथ्यां झटिति शतह्रदासंपातमिव क्षणमालोकमलक्षयम् ।
अथासौ नगरदेवतेव नगरमोषरोषिता निःसंबाधवेलायां निःसृता संनिकृष्टा काचिदुन्मिषद्भूषणा युवतिराविरासीत् ।
" कासि वासु, क्वयासिऽ इति सदयमुक्ता त्रासगद्गदमगादीत्-" आर्य, पर्युस्यामर्यवर्यः कुबेरदत्तनामा वसति ।
आस्म्यहं तस्य कन्या ।
मां जातमात्रां धनमित्रनाम्ने ऽत्रत्यायैव कस्मैचिदिभ्यकुमारायान्वजानाद्भार्यां मे पिता ।
स पिनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैर्निजैः क्रीत्वेवार्थिवर्गाद्दारिद्षं दरिद्रति सत्यथोदारक इति च प्रीतलोकाधिरोपितापरश्लाध्यनामनि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थपतिनाम्ने कस्मैचिदितरस्मै यथार्थनाम्ने सार्थवाहाय दित्सति मे पिता ।
तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता वञ्चितस्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरातदगारमभिसराभि तन्मां मुञ्च ।
गृहाणैतद्भाण्डम्ऽ इत्युन्मुच्य मह्यमर्पितवती ।
दयमानश्चाहमब्रवम्--" एहि साध्वि, त्वां नयेयं त्वत्प्रियावसथम्ऽ इति त्रिचतुराणि पदान्युदचलम् ।
आपतच्च दीपिकालोकपरिलुप्यमानतिमिरभारं यष्टिकृपाणपाणि नागारिकबलमनल्पम् ।
दृष्ट्वैव प्रवेपमानां कन्यकामवदम्--" भेद्रे, मा भैषीः ।
अस्त्ययमसिद्वितीयो मे बाहुः अपि तु मृदुरयमुपायस्त्वदपेक्षया चिन्तितः ।
शये ऽहं भावितविषवेगविक्रियः ।
त्वयाप्यमी वाच्याः " निशि वयमिमां पुरी प्रविष्टाः ।
दष्टश्च ममैष नायको दर्वीकरेणामुष्मिन्सभागृहकोणे ।
यदि वः कश्चिन्मन्त्रवित् कृपालुः स एनमुज्जीवयन्मम प्राणानाहरेदनाथायाःऽ इति ।
सापि बाला गत्यन्तराभावाद्भयगद्गदस्वरा बाप्यदुर्दिनाक्षी बद्धवेपथुः कथङ्कथमपि गत्वा मदुक्तमन्वतिष्ठन्, अशयिति चादं भावितविषविक्रियः तेषु कश्चन्निरेन्द्राभिमानी मां निर्ण्यं मुद्रातन्तत्रमन्त्रध्यानादिभिश्चोपक्रम्याकृतार्थः " गत एवायं कालदष्टः ।
तथा हि स्तब्धश्यावमङ्गम्, रुद्धा दृष्टिः, शान्त एवोप्मा ।
शुचालं वासु, श्वो ऽग्निसात्करिष्यामः ।
को ऽतिवर्तते दैवम्ऽ इति सहेतरैः प्रायात् ।
उत्थितश्चाहमुदारकाय तां नीत्वाब्रवम्--" अहमस्मि को ऽपि तस्करः ।
त्वद्गतेनैव चेतसा सहायभूतेन त्वामिमामभिसरन्तीमन्तरोपलभ्य कृपया त्वत्समीपमनैषम् ।
भूषणमिदमस्याःऽ इत्यंशुपटलपाटितध्वान्तजालं तदप्यर्पितवान् ।
उदारकस्तु तदादाय सलज्जं च सहर्षं च ससंभ्रमं च मामभाषत-" आर्य, त्वयेवेयमस्यां निशि प्रिया मे दत्ता ।
वाक्पुनर्ममापहृता ।
तथा हि न जाने वक्तुं त्वत्कर्मैतदद्भुतमिति ।
न ते स्वशीलमद्भुतवत्प्रतिभाति ।
नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तुशक्तिः ।
न हि त्वय्यन्यदीया लोभादयः ।
त्वयाद्य साधुतोन्मीलितेति तत्प्रायस्त्वत्पूर्वावदानेभ्यो न रोचते ।
त्वयामुना सुकृतेन क्रीतो ऽयं दासजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः ।
प्रियादानस्य प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् ।
अथवैतावदत्र प्राप्तरूपम् ।
अद्यप्रभृति भरतव्यो ऽयं दासजनःऽ इति मम पादयोरपत् ।
अत्थाप्य चैनमुरसोपश्लिष्याभाषिषि-" भद्र, काद्य ते प्रतिपत्तिःऽ इति ।
सो ऽभ्यधत्त--" न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञयोपयम्य जीवितुम् ।
अतो ऽस्यामेव यामिन्यां देशमिमं जिहासामिऽ को वाहम्, यथा त्वमाज्ञपयसिऽ इति ।
अथ मयोक्तम्-" अस्त्येतत् ।
स्वदेशो देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य ।
किन्तु बालेयमनल्पसौकुमार्या ।
कष्टाः प्रत्यवपायभूयिष्ठाश्च कान्तारपथाः ।
शैथिल्यमिव किञ्चित्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभव्यते ।
तत्सहानया सुखमिहैव वास्तव्यम् ।
एहि नयावैनां स्वमेवावासम्ऽ इति ।
अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव ।
ततो निष्पत्य क्वचिन्मुषितकं निधाय समुच्चलन्तौ नागरिकसंपाते मार्गपार्श्वशायिनं कञ्चिन्मत्तवारयणमुपरिपुरुषमाकृष्याध्यारोहाव ।
ग्रैवेयप्रोतपादयुगलेन च मयोत्थाप्यमान एव पातिताधोरणपृथुलोरःस्थलपरिणतः पुरीतल्लतापरीदन्तकाण्डः स रक्षिकबलमक्षिणोत् ।
अध्वंसयाव चामुनैवार्थपतिभवनम् ।
अपवाह्य च क्वचन जीर्णोद्याने शाखाग्राहिकया चावातराव ।
स्वगृहगतौ च स्नातौ शयनमध्यीशश्रियाव ।
तावदेवोदगादुदधेरुदयाचलेन्द्रपद्मरागशृङ्गकल्पं कल्पद्रुमहेमपल्लवापीडपाटलं पतङ्गमण्डलम् ।
उत्थाय च धौतवक्त्रौ प्रगेतनानि मङ्गलान्यनुष्ठायास्मत्कर्मतुमुलं पुरमनुविचरन्तावशृणुव वरवधूगृहेषु कोलाहलम् ।
अथार्थैरर्थपतिः कुबेरदत्तमाश्वास्य कुलपालिकाविवाहं मासावधिकमकल्पयत् ।
उपह्वरे पुनरित्यशिक्षयं धनमित्रम्--" उपतिष्ठ सखे, एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्याङ्गराजम् ।
आचक्ष्व च जानात्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धनभि नामैकपुत्रम् ।
सो ऽहं मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः ।
मदर्थमेव संवर्धितायां कुलपालिकायां मद्दारिद्षदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगादुज्झितुमसूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि जटाधरेण निवार्यैवमुक्तः-" किं ते साहसस्य मूलम्ऽ इति ।
मयोक्तम्--" अवज्ञासोदर्यं दारिद्षम्ऽ इति ।
स पुनरेवं कृपालुरन्वग्रहीत्--" तात्, मूढो ऽसि ।
नान्यत्पापिष्ठतममात्मत्यागात् ।
आत्मानमात्मनानवसाद्यैवोद्धरन्ति सन्तः ।
सन्त्युपाया धनार्जनस्य बहवः नैको ऽपि च्छिन्नकण्ठप्रतिसंधानबूर्वस्य प्राणलाभस्य ।
किमनेन ।
सो ऽस्म्यहं मन्त्रसिद्धः ।
साधितेयं लक्षग्राहिणी चर्मरत्नभस्त्रिका ।
चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् ।
मत्सरिण्यां जरसि भूमिस्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः ।
तामिमां प्रतिगृहाण ।
मदन्यत्र चेयं वणिग्भ्यो वारमुख्याभ्यो वा दुग्धे इति हि तद्गता प्रतीतिः ।
किन्तु यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयम् ।
न्यायार्जितं तु देवब्राह्मणेभ्यस्त्याज्यम् ।
अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातः प्रातः सुवर्णपूर्णव दृश्यते ।
इयं च रत्नभूता चर्मभस्त्रिका देवायानिवेद्य नोपजीव्येत्यानीता ।
परन्तु देवः प्रमाणम्ऽ इति ।
राजा च नियतमेवं वक्ष्यति--" भेद्र, प्रीतो ऽस्मि ।
गच्छ ।
यथेष्टमिमामुपभुङ्क्ष्वऽ इति ।
भूयश्च ब्रूहि-" यथा न कश्चिदेनां मुष्णाति तथानुगृह्यताम्ऽ इति ।
तदप्यवश्यमसावभ्युपैष्यति ।
ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने वरिवस्यमानां स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राह्णे लोकाय दर्शयिष्यसि ।
ततः कुबेरदत्तस्तृणायमत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वामुप्सतास्याति ।
अथ कुपितोर्ऽथपतिर्व्यवहर्तुमर्थगर्वादभियोक्ष्यते ।
तं च भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः ।
स्वकं चौर्यमनेनैवाभ्युपायेन सुप्रच्छन्नं भविष्यतिऽ इति ।
हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् ।
तदहरेव मन्नियोगाद्विमर्दकोर्ऽथपतिसेवाभियुक्तस्तस्योदारके वैरमभ्यवर्धयत् ।
अथलुब्धश्च कुबेरदत्तो निवृत्त्यार्थपतेर्धनमित्रायैव तनयां सानुनयं प्रादित्सत ।
प्रत्यबध्नाच्चार्थपतिः ।
एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम पञ्चवीरगोष्ठे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमननागरजनः ।
स चाहं सह सख्याधनमित्रेण तत्र संन्यधिषि ।
प्रवृत्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः ।
तद्दृष्टिविभ्रमोत्पलवनसच्चापाश्रयश्च पञ्चशरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् ।
अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमालाशृङ्खलाभिर्नीलोत्पलपलाशश्यामलाभिर्मामबध्नात् ।
नृत्योत्थिता च सा सिद्धिलाभशोभिनी-" किं विलासात्, किमभिलाषात्, किमकस्मादेव वा, न जाने,- असकृत्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमारेचितभ्रूलतमभिर्वाक्ष्य, सापदेसं च किञ्चिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलोचनमानसानुयाता प्रातिष्ठत ।
सो ऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि ।
अतिनिष्णातश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्-" सखे, सैव धन्या गणिकादारिका, यामेवं भन्मनो ऽबिनिविशते ।
तस्याश्च मया सुलक्षिता भाववृत्तिः ।
तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति ।
स्थानाबिनिवेशिनोश्च वामयत्नसाध्यः समागमः ।
किन्तु सा किल वारकन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत-" गुणशुल्काहम्, न धनशुल्का ।
न च पाणिग्रहणादृते ऽन्यभोग्यं यौवनम्ऽ इति ।
तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी काममञ्जरीमाता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्-" देव, युष्मद्दासी रागमञ्जरो रूपानुरूपशीलशिल्पकौशला पूरयिष्यति मनोरथानित्यासीदस्माकमतिमहत्याशा साद्य मूलच्छिन्ना ।
यदियमतिक्रम्य स्वकुलधर्ममर्थनिरपेक्षा गुणेभ्य एवं स्वं यौवनं विचिक्रीषते कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति ।
सा चेदियं देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्ऽ इति ।
राज्ञा च तदनुरोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासीत्, तदास्याः स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम्-" यदि कश्चिद्भुजङ्गो ऽस्मदिच्छया विनैनां बालां विप्रलभ्य नाशयिष्यति स तस्करवद्वध्यःऽ इति ।
तदेवं स्थिते धनादृतेन तत्स्वतनो ऽनुमन्यते ।
न तु धनदायासावभ्युपगच्छतीति विचिन्त्यो ऽत्राभ्युपायःऽ इति ।
अथ मोयक्तम्-" किमत्र चिन्त्यम् ।
गुणैस्तामावर्ज्य गूढं धनैस्तत्स्वजनं तोषयावःऽ इति ।
ततश्च काञ्चित्काममञ्जर्याः प्रधानदूतीं धर्मरक्षितां नाम शाक्यभिक्षुकीं चीवरपिण्डदानादिनोपसंगृह्य तन्मुखेन तया बन्धक्या पणबन्धमकरवम्--" अजिनरत्नमुदारकान्मुषित्वा मया तुभ्यं देयम्, यदि प्रतिदानं रागमञ्जरीऽ इति ।
सो ऽहंसंप्रतिपन्नायां च तस्यां तथा तदर्थं संपाद्यमद्गुणोन्मादिताया रागमञ्जर्याः करकिसलयमग्रहीषम् ।
यस्यां च निशि चर्मरत्नस्तेयवादस्तस्याः प्रारम्भे कार्यान्तरापदेशेनाहूतेषु शृण्वत्स्वेव नागरमुख्येषु मत्प्रणिधिर्विमर्दकोर्ऽथपतिगृह्यो नामभूत्वा धनमित्रमुल्लङ्घ्य बह्वर्तयत् ।
उक्तं च धनमित्रेण-" भेद्र, कस्तवार्थो यत्परस्य हेतोर्मामाक्रोशसि ।
न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्ऽ इति ।
स भूयो ऽपि तर्जयन्निवाब्रवीत्--" स एष धनगर्वो नाम, यत्परस्य भार्यां शुल्कक्रीतां पुनस्तत्पितरौ द्रव्येण विलोभ्य स्वीचिकीर्षसि ।
ब्रवीषि च-" कस्तवापकारो मत्कृतःऽ इति, ननु प्रतीतमेवैतत् " सार्थवाहस्यार्थपतेर्विमर्दको बहिश्चराः प्राणाःऽ इति ।
सो ऽहं तत्कृते प्राणानपि परित्यजामि ।
ब्रह्महत्यामपि न परिहरामि ।
" ममैकरात्रजागरप्रतीकारस्तवैष चर्मरत्नाहङ्कारदाहज्वरःऽ इति ।
तथा ब्रुवाणश्च पौरमुख्यैः सामर्षं निषिध्यापवाहितो ऽभूत् ।
इयं च वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय निवेदिता ।
स चार्थपतिमाहूयोपह्वरे पृष्टवान् " अङ्ग, किमस्ति कश्चिद्विमर्दको नामात्रभवतःऽ इति ।
तेन च मूढात्मना " अस्ति देव, परं मित्रम्ऽ ।
कश्च तेनार्थःऽ इति कथिते राज्ञोक्तम्-" अपि शक्नोषि तमाह्वातुम्ऽ इति ।
" बाढमस्मि शक्तःऽ इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च निपुणमन्विष्यन्नोपलब्धवान् ।
कथं वोपलभ्येत स वराकः ।
स खलु विमर्दको मद्ग्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वेषणायोज्जयिनीं तदहरेव प्रातिष्ठत ।
अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसंबद्धं मत्वा मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभाविते कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत ।
तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काममञ्जरी पूर्वदुग्धं क्षणणीभूतं विरूपकं रहस्युपसृत्य ततो ऽपहृतं सर्वमर्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बह्वनुनीय प्रत्यागमत् ।
सो ऽपि कथञ्चिन्निर्ग्रन्थिकग्रहान्मोचितात्मा मदनुशिष्टो हृष्टतमः स्वधर्ममेव प्रत्यपद्यत ।
काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिनरत्नदोहाशया स्वमभ्युदयमकरोत् ।
अथ मत्प्रयुक्तो धनमित्रः पार्थिवं भिथो व्यज्ञापयत्-" देव, येयं गणिका काममञ्जरी लोभोत्कर्षाल्लोभमञ्जरीति लोकावक्रोशपात्रमासीत्, साद्य मुसलोऌखलान्यपि निरपेक्षं त्यजति ।
तन्मन्ये मच्चर्मरत्नालाभं हेतुम् ।
तस्य खलु कल्पस्तादृशः ।
वणिग्भ्यो वारमुख्याभ्यश्च दुग्धे नान्येभ्य इति हि तद्गता प्रतीतिः ।
अतो ऽमुष्यामस्ति मे शङ्काऽ इति ।
सा सद्य एव राज्ञा सह जनन्या समाहूयत ।
व्यथितवर्णेनेव मयोपह्वरे कथितम्-" नूनमार्ये, सर्वस्वत्यागादतिप्रकाशादाशङ्कनीयचर्मरत्नलाभा ।
तदनुयोगायाङ्गराजेन समाहूयसे ।
भूयोभूयश्च निर्बद्धया त्वया नियतमस्मि तदागतित्वेनाहमपदेश्यः ।
ततश्च मे भावी चित्रवधः ।
मृते च मयि न जीविष्यत्येव ते भगिनी ।
त्वं च निःस्वीभूता ।
चमरत्नं च धनमित्रमेव प्रतिभजिष्यति ।
तदियमापत्समन्ततो ऽनर्थानुबन्धिनी ।
तत्किमत्र प्रतिविधेयम्ऽ इति ।
तया तज्जनन्या चाश्रूणि विसृज्योक्तम्-" अस्त्येवैतदस्मद्वालिश्यान्निर्भिन्नप्रायं रहस्यम् ।
राज्ञश्च निर्बन्धाद्द्विश्त्रिश्चतुर्निह्नुत्यापि नियतमागतिरपदेश्यैव चोरितस्य त्वयि ।
त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बमवसीदेत् ।
अर्थपतौ च तदपयशो रूढम् ।
अङ्गपुरप्रसिद्धं च तस्य कीनाशस्यास्माभिः संगतम् ।
अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वरमात्मा गोपायितुम्ऽ इति मामभ्युपगमय्य राजकुलमगमताम् ।
राज्ञानुयुक्ते च " नैष न्यायो वेशकुलसय यद्दातुरपदेशः ।
न ह्यर्थैर्न्यायार्जितैरेव पुरुषा वेशमुपतिष्ठन्तिऽित्यसकृततिप्रणुद्य कर्णनासाच्छेदोपक्षेपभीषिताभ्यां दग्धबन्धकीभ्यां स एव तपस्वी तस्करत्वेनार्थपतिरग्राह्यत ।
कुपितेन च राज्ञा तस्य प्राणेषूद्यतो दण्डः ।
प्राञ्जलिना धनमित्रेणैव प्रत्यषिध्यत-" आर्य, मौर्यदत्त एष वरो वणिजाम् रिदृशेष्वपराधेष्वसुभिरवियोगः ।
यदि कुपितो ऽसि हृतसर्वस्वो निर्वासनीयः पाप एषःऽ इति ।
तन्मूला च धनमित्रस्य कीर्तिरप्रथत ।
अप्रीयत च भर्ता ।
पटच्चरच्छेदशेषोर्ऽथपतिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत ।
तस्यैव द्रव्याणां तु केनचिदवयवेन सा वराकी काममञ्जरी चर्मरत्नमृगतृष्णिकापविद्धसर्वस्वा सानुकम्पं धनमित्राभिनोदितेन भूपेनान्वगृह्यत ।
धनमित्रश्चाहनि गुणिनि कुलपालिकामुपायंस्त ।
तदेवं सिद्धसंकल्पो रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम् ।
अस्मिंश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थवर्गस्य गृहेषु भिक्षार्थमभ्रमत् ।
न ह्यलमतिनिपुणो ऽपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् ।
यतो ऽहमेकदा रागमञ्जर्याः पमास्वादमास्वादं मदेनास्पृश्ये ।
शीलं हि मदोन्मादयोरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् ।
यदहमुपोढमदः " नगरमिदमेकयैव शर्वर्या निर्धनीकृत्य त्वद्भवनं पूरयेयम्ऽ इति प्रव्यथितप्रियतमाप्रणामाञ्जलिशपथशतातिवर्ती मत्तवारण इव रभसच्छिन्नशृङ्खलः कयापि धात्र्या शृगालिकाङ्ख्ययानुगम्यमानो नातिपरिकरो ऽसिद्धितीयो रंहसा परेणोदचलम् ।
अभिपततो ऽपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर इति तैरभिहन्यमानो ऽपि नातिकुपितः क्रीडन्निव मदावसन्नहस्तपतितेन निस्त्रिंशेन द्वित्रानेव हत्वावघूर्णमानताम्रदृष्टिरपतम् ।
अनन्तरमार्तरवान्विसृजन्ती शृगालिका ममाभ्याशमागमत् ।
अबध्ये चाहमरिभिः ।
आपदा तु मदापहारिण्या सद्य एव बोधितस्तत्क्षणोपजातया प्रतिभया व्यचीचरम्-" अहो, ममेयं मोहमूला महत्यापदापतिता ।
प्रसृततरं च सख्यं मया सह धनमित्रस्य, मत्परिग्रहत्वं च रागमञ्जर्याः ।
मदेन सा च तौ प्रोर्णुतौ श्वो नियतं निग्रहिष्येते ।
तदियमिह प्रतिपत्तिर्ययानुष्ठीयमानया मन्नियोगतस्तौ परित्रास्येते ।
मां च कदाचिदनर्थादितस्तारयिष्यतिऽ इति कमप्युपायमात्मनैव निर्णीय शृगालिकामर्गादिषम्-" अपेहि जरतिके, या तामर्थलुब्धां दग्धगणिकां राजमञ्जरिकामजिनरत्नमत्तेन शत्रुणा मे मित्रचछद्मना धनमित्रेण संगमितवती, सा हतासि ।
तस्य पापस्य चर्मरत्नमोषाद्दुहितुश्च ते साराभरणापहारादहमद्य निःशल्यमुत्सृजेयं जीवितम्ऽ इति ।
सा पुनरुद्धटितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान् पुरुषान्सप्रणाममासादितवती सामपूर्वं मम पुरस्तादयाचत-" भद्रकाः, प्रतीक्ष्यतां कञ्चित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयम्ऽ इति ।
तथेति तैः प्रतिपन्ने पुनर्मत्समीपमासाद्य " सौम्य, क्षमस्वास्य दासीजनस्यैकमपराधम् ।
अस्तु स कामं त्वत्कलत्राभिमर्शी वैरास्पदं धनमित्रः ।
स्मरंस्तु चिरकृतां ते परिचर्यामनुग्रहीतुमर्हसि दासीं रागमञ्जरीम् ।
आकल्पसारो हि रूपाजीवाजनः ।
तद्ब्रूहि क्व निहितमस्यां भूषणम्ऽ इति पादयोरपतत् ।
ततो दयमान इवाहमव्रवम्-" भवतु, मृत्युहस्तवर्तिनः किं ममामुप्या वैरानुबन्धेनऽ इति तद्व्रुवन्निव कर्ण एवैनामशिक्षयम्-" एवमेवं प्रतिपत्तव्यम्ऽ इति ।
सा तु प्रतिपन्नार्थेव जीव चिरम्, प्रसीदन्तु ते देवताः, देवो ऽप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वाम्, एते ऽपि भद्रमुखास्तव दयन्ताम्, इति क्षणादपासरत् ।
आनीये चाहमारक्षकनायकस्य शासनाच्चारकम् ।
अथोत्तरेद्युरागत्य दृप्ततरः सुभगमानी सुन्दरंमन्यः पितुरत्ययादचिराधिष्ठताधिकारस्तारुण्यमदादनतिपक्वः कान्तको नाम नागारेकः किञ्चिदिव भर्त्सयित्वा मां समभ्यधत्त--" न चेद्धनमित्रस्याजिनरत्नं प्रतिप्रयच्छसि, न चेद्वा नागरिकेभ्यश्चोरितकानि परत्यर्पयसि, द्रक्ष्यसि पारमष्टादशानां कारणानामन्ते च मृत्युमुखम्ऽ इति मया तु स्मयमानेनाभिहितम्--" सौम्य, यद्यपि दद्यामाजन्मनो मुपितं धनं न त्वर्थपतिदारापहारिणः शत्रोर्मे मित्रमुखरय धननित्रस्य चर्मरत्नप्रत्याशां पूरयेयम् ।
अदत्त्वैव तदयुतमपि यातनानामनुभवेयम् ।
इयं नेसाथीयसी सन्धाऽ इति ।
तेनैव क्रमेण वर्तमाने सान्त्नतर्जनप्राये प्रतिदिनमनुयोगव्यतिकरे ऽनुगुणान्नपानलाभात्कतिपयैरेवहोभिर्विरोपि तत्रणः प्रकृतिस्थो ऽहमासम् ।
अथ कदाचिदच्युताम्बरपीतातपत्विपि क्षयिणि वासरे हृष्टवर्णा शृगालिकोज्ज्वलेन वेषेणोपसृत्य दूरस्थानुचरा मामुपश्लिष्याव्रवीत्--" आर्य, दिष्ट्या वधस ।
फलिता तव सुनीतिः ।
यथा त्वयादश्ये तथा धनमित्रमेत्यात्रवम्-- आर्य तवैवमापन्नः सुहृदित्युवाच-" अहमद्य वेशसंसर्गसुलभात्पानदोषाद्वद्धः ।
त्वया पुनरविशङ्कमद्यैव राजा विज्ञापनीयः--" देव, देवप्रसादादेव पुरापि तदजिनरत्नमर्थपतिमुषितमासादितम् ।
अथ तु भर्ता रागमञ्जर्याः कश्चिदक्षधूर्तः कलासु कवित्वेषु लोकवार्तासु चातिवैचक्षण्यान्मया समसृज्यत तत्सम्बन्धाच्च वस्त्राभरणप्रेषणादिना तद्भार्यां प्रतिदिनमन्ववर्ते ।
तदसावशङ्किष्ट निकृष्टाशयः कितवः ।
तेन च कुपितेन हृतं तच्चर्मरत्नमामरणसमुद्गकश्च तस्याः ।
स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिकपुरुषैः ।
आपन्नैन चामुनानुसृत्य रुदत्यै रागमञ्जरीपरिचारिकायै पूर्वप्रणयानुवर्तिना तद्भाण्जनिधानोद्देशः कथितः ।
ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेदह देव पादः प्रसादः कार्यः इति ।
तथा निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव संवं ते दापयितुं प्रयतिष्यते तन्नः पथ्यम्ऽ इति ।
श्रुत्वैव च त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव संपादितम् ।
अथाहं त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यर्थष्सितानि वसूनि लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन मार्गेणान्वरञ्जयम् ।
तामेव च संक्रमीकृत्य रागमञ्जर्याश्चाम्बालिकायाः सख्यं परमवीवृधम् ।
अहरङश्च नवनवानि प्राभृतान्युपहरन्ती कथाश्चित्राश्चित्तहारिणीः कथयन्ती तस्याः परं प्रसादपात्रमासम् ।
एकदा च हर्म्यगतायास्तस्याः स्थानस्थितमपि कर्णकुवलयं स्रस्तमिति समादधत्ती प्रमत्तेव प्रच्याव्य पुनरुत्क्षिष्य भूमेस्तेनोपकन्यापुरं कारणेन केनापि भवनाङ्गणं प्रविष्टस्य कान्तकस्योपरि प्रवृत्तिकुहरपारावतत्रासनापदेशात्प्रहसन्ती प्राह्र्षम् ।
सो ऽपि ते धन्यंमन्यः किञ्चिदुन्मुखः स्मयमानो मत्कर्मप्रहासितायाराजदुहितार्विलासप्रायमाकारमात्माभिलाषमूलमिव यथा संकल्पयेत्तथा मयापि संज्ञयैव किमपि चतुरमाचेष्टितम् ।
आकृष्टधन्वना च मनसिजेन विद्धः सन्दिग्धफलेन पत्रिणातिमुग्धः कथङ्कथमप्यपासरत् ।
सायं च राजकन्याङ्गुलीयकमुद्रितां वासताम्बूलपट्टांशुकयुगलभूषणावयवगर्भां च वङ्गेरिकां कयाचिद्वालिकया ग्राहयित्वा रागमञ्जर्या इति नीत्वा कान्तकस्यागारमगाम् ।
अगाधे च रागसागरे मग्नो नावमिव मामुपलभ्य परमहृष्यत् अवस्थान्तराणि च राजदुहितुः सुदारुणानि व्यावर्णयन्त्या मया स दुर्मतिः सुदूरमुदमाद्यत ।
तत्प्रार्थिता चाहं त्वत्प्रियाप्रहितमिति ममैव मुखताम्बूलोच्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येद्युरुपाहरम् ।
तदीयानि च राजकन्यार्थमित्युपादाय च्छन्नमेवापोढानि ।
इत्थं च सन्धुक्षितमन्मथाग्निः स एवैकान्ते मयोपमन्त्रितो ऽभूत्--" आर्य, लक्षणान्येव तवाविसंवादीनि ।
तथा हि मत्प्रातिवेश्यः कश्चित्कार्तान्तिकः " कान्तकस्य च त्वामियं राजकन्यका कामयते ।
तदेकापत्यश्च राजा तया त्वां समागतमुपलभ्य कुपितो ऽपि दुहितुर्मरणभयान्नोच्छेत्स्यति ।
प्रत्युत प्रापयिष्यत्येव यौवराज्यम् ।
इत्थं चायमर्थोर्ऽथानुबन्धी ।
किमिति तात्, नाराध्यते ।
यदि कुमारीपुरप्रवेशाभ्युपायं नावबुध्यसे ।
ननु बन्धनागारभित्तेव्यमित्रयमन्तरालमारमप्राकारस्य केनचित्तु हस्तवतैकागारिकेण तावतीं सुरङ्गां कारयित्वा प्रविष्टस्योपवनं तवोपरिष्टादस्मदायत्तैव रक्षा ।
" रक्ततरो हि तस्याः परिजनो न रहस्यं भेत्स्यतिऽ इति ।
सो ऽव्रवीत्--" साधु भेद्र, दर्शितम् ।
अस्ति कश्चित्तस्करः खननकर्मणि सगरसुतानामिवान्यतमः स चेल्लब्धः क्षणेनैतत्कर्म साधयिष्यतिऽ इति ।
" कतमो ऽसौ, किमिति लभ्यते इति मयोक्त " येन तद्धनमित्रस्य चर्मरत्नं मुषितम्ऽ इति त्वामेव निरदिक्षत् ।
यद्येवमेहि, त्वयास्मिन्कर्मणि साधित चित्रैरुपायैस्त्वामहं मोचयिष्यामीति शपथपूर्वं तेनाभिसन्दाय सिद्धेर्ऽथे भूयो ऽपि निगडियित्वा " यो ऽसौ चारेः स सर्वथोपक्रान्तः न तु धार्ष्ट्यभूमिः प्रकृष्टवैरस्तदजिनरत्नं दर्शयिष्यतिऽ इति राज्ञे विज्ञाप्य " चित्रमेनं हनिप्यसि, तथा च सत्यर्थः सिद्ध्यति, रहस्यं च न स्रवतिऽ इति मयोक्ते सो ऽतिहृष्टः प्रतिपद्य मानेव त्वदुपप्रलोभने नियुज्य बरिरवस्थितः प्राप्तमितः परं चिन्त्यताम्ऽ इति प्रीतेन च मयोक्तम्, " मदुक्तमल्पम्, त्वन्नय एवात्र भूयान् आनयैनम्ऽ इति ।
अथानीतेनामुनामन्मोचनाय शपथः कृतः, अहं च रहस्यानिर्भेदाय विनिगजीकृतश्च स्नानभोजनविलोपनान्यनुभूय नित्यान्धकाराद्भित्तिकोणादारभ्योरगास्येन सुरङ्गामकरत्रम् ।
अचिन्तयं चैम्-" हन्तुमनसैवामुना मन्मोचनाय शपथः कृतः तदेनं हत्वापि नासत्यवाददोषेण स्पृश्येऽ इति ।
निष्पततश्च मे निगजनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य पतितसय तस्यैवासिधेन्वा शिरो न्यकृन्तम् ।
अकथयं च शृगालिकाम्-" भण भद्रे, कथंभूतःकन्यापुरसंनिवेशः? महानयं प्रयासो मा वृथैव भूत् ।
अमुत्र किञ्चिच्चोरयित्वा निवर्तिष्येऽ इति ।
तदुपदर्शितविभागे चावगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु नैकक्रीडाखेदसुप्रस्य परजनस्य मध्ये महितमहार्घरत्नप्रत्युप्तसिंहाकारदन्तपादे हंसतूलगर्भशय्योपधानशालिनि कुसुमविच्छुरितपर्यन्ते पर्यङ्कगले दक्षिणपादपार्प्ण्यधोभागानुवलितेतरचरणाग्रपृष्टम् रिषद्विवृत्तमधुरगुलफसंधि, परस्पराश्लिष्टजङ्घाकाण्डम्, आकुञ्चितकोमलोभयजानुकिञ्चिद्वेल्लितोरुदण्डयुगलम्, अधिनितम्बस्रस्तमुक्तैकभुजलताग्रपेशलम्, अपाश्रयान्तनिमिताकुञ्चितेतरभुजलतोत्तानतलकरकिसलयम्, आमुग्नश्रोणिमण्डलम्, अतिश्लिष्टचीनांशुकान्तरीयम्, अनतिवलिततनुतरोदरम्, अतनुतरनिःश्वासारम्भकम्पमानकठोरकुचकुङ्मलम्, अतिरश्चीनबन्धुरशिरोधरोद्देशदृश्यामाननिष्टप्ततपनीयसूत्रपर्यस्तपद्मरागरुचकम्, अर्धलक्ष्याधरकर्णपाशनिभृतकुण्डलम्, उपरिपरावृत्तश्रवणपाशरत्नकर्णिकाकिरणमञ्जरीपिञ्जरितविषयव्याविद्धाशिथिलशिखण्डबन्धम्, आत्मप्रभापटलदुर्लक्ष्यपाटलोत्तराधरविवरम्, गण्डस्थलीसंक्रान्तहस्तपल्लवदर्शितकर्णावतंसकृत्यम्, उपरिकपोलादर्शतलनिषक्तचित्रवितानपत्रजातजनितविशेषकक्रियम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रूपताकम्, उद्भिद्यमानश्रमजलपुलकभिन्नशिथिलचन्दनतिलकम्, आननेन्दुसंमुखालकलतं च विश्रब्धप्रसुप्तामतिधवलोत्तरच्छदनिमग्नप्रयैकपार्श्वतया चिरविलसनखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनीं राजकन्यामपश्यम् ।
दृष्ट्वै स्फुरदनङ्गरागश्चकितश्चोरयितवयनिस्पृहस्तयैव तावच्छोर्यमाणहृदयः किङ्कर्तव्यतामूढः क्षणमतिष्ठम् ।
अतर्कयं च-" न चेदिमां वामलोचनामाप्नुयां न मृष्यति मां जीवितु वसन्तबन्धुः असंकेतितपरामृष्टा चेयमतिबाला व्यक्तमार्तस्वरेण निहन्यान्मे मनोरथम् ।
ततो ऽहमेवाहन्येय ।
तदियमत्र प्रतिपत्तिःऽ इति ।
नागदन्तलग्ननिर्यासकल्कवर्णितं फलकमादाय मणिसमुद्गकाद्वर्णवर्तिकामुद्धृत्य तां तथाशयानां तस्याश्च मामावद्धञ्जालिं चरणलग्नमालिखमार्यां चैताम्- " त्वामयमाबद्धाञ्जलि दासजनस्तमिममर्थमर्थयते ।
स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम्ऽ॥ हेमकरण्डकाच्चवासताम्बूलवीटिकां कपूरस्फुटिकां पारिजातकं चोपयुज्यालक्तकपाटलेन तद्रसेन सुधाभितौ चक्रवाकमिथुनं निरष्ठीवम् ।
अङ्गुलीयकविनिमयं च कृत्वा कथङ्कथमपि निरगाम् ।
सुरङ्गया च प्रत्येत्य बन्धागारं तत्र बद्धस्य नागरिकवरस्य सिंहघोषनाम्नस्तेष्वेव दिनेषु मित्रत्वेनोपचरितस्य " एवं मया हतस्तपस्वी कान्तकः, तत्त्वया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षःऽ इत्युपदिश्य सह शृगालिकया निरक्रामिषम् ।
नृपतिपथे च समागत्य रक्षिकपुरुषैरगृह्ये ।
अचिन्तयं च-" अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः ।
एषा पुनर्वराकी गृह्येत ।
तदिदमत्र प्राप्तरूपम्ऽ इति तानेव चपलमभिपत्य स्वपृष्ठसमर्पितकूर्परः पराङ्मुखः स्थित्वा " भद्राः, यद्यहमस्मि तस्करः बध्नीत माम् ।
युष्माकमयमधिकारः, न पुनरस्या वर्षियस्याःऽ इत्यवादिषम् ।
सा तु तावतैवोन्नीतमदभिप्राया तान्सप्रणाममभ्येत्य " भद्रमुखाः, ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः ।
पूर्वेद्यः प्रसन्नकल्पः प्रकृतिश्थ एव जातः ।
जातास्थया मया बन्धनान्निष्क्रमय्य स्नापितो ऽनुलेपितश्चपरिधाप्यनिष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरे ऽद्यकामचारः कृतो ऽभूत् ।
अथ निशीथे भूय एव वायुनिघ्नः " निहत्य कान्तकं नृपतिदुहित्रा रमेयऽ इति रंहसा परेण राजपथमभ्यपतत् ।
निरूप्य चाहं पुत्रमेवङ्गतमस्यां वेलायामनुधावामि ।
तत्प्रसीदत ।
बद्ध्वैनं मह्यमर्पयतऽ इति यावदसौक्रन्दति तावदहं " स्थविरे, केन देवो मातरिश्वा बद्धपूर्वः ।
किमेते काकाःशौङ्गेयस्य मे निग्रहीतारः ।
शान्तं पापम्ऽ इत्यभ्यधावम् ।
असावप्यमीभिः " त्वमेवोन्मत्ता यानुन्मत्त इत्युन्मत्तं मुक्तदवती ।
कस्तमिदानीं बध्नातिऽ इति निन्दिता कदर्थिता रुदत्येवमामन्वधावत् ।
गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं समाश्वास्य तं निशाशेषमनयम् ।
प्रत्यूषे पुनरुदारकेण च समगच्छे ।
अथ भगवन्तं मरीचिं वेशकृच्छुदुत्थाय पुनः प्रतितप्ततपःप्रभावप्रत्यापन्नादिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वद्दर्शनमवगमितः ।
सिंहघोषश्च कान्तकापचारं निर्भिद्य ततपदे प्रसन्नेन राज्ञा प्रतिष्ठापितः तेनैव चारकसुरङ्गापथेन कन्यापुरप्रवेशं भूयो ऽपि मे समपादयत् ।
समगंसि चाहं शृगालिकामुखनिःसृतवार्तानुरक्तया राजदुहित्रा ।
तष्वेवे दिवसेषु चण्डवर्मा सिंहवर्मावधूतदुहितृप्रार्थनः कुपितो ऽभियुज्य पुरमवारुणत् ।
अमर्षणश्चाङ्गराजो यावदरिः पारग्रामिकं विधिमाचिकीर्षति तावत्स्वयमेव प्राकारं निर्भिद्य प्रत्यासन्नानपि सहायानप्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा सिंहवर्मा बलादगृह्यत ।
अम्बालिका च बलवदभिगृह्य चण्डवर्मणा हठात्परिणेतुमात्मभवनमनीयत् ।
कौतुकं च स किल क्षपावसाने विवाह इत्यबध्नात् ।
अहं च धनमित्रगृहे तद्विवाहायैव पिनद्धमङ्गलप्रतिसरस्तमेवमवोचम्-" सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् ।
सुगूढमेव संभूय पौरवृद्धैस्तदुपावर्तय ।
उपावृत्तश्च कृत्तशिरसमेव शुत्रुं द्रक्ष्यसिऽ इति ।
" तथाऽ इति तेनाभ्युपगते गतायुषो ऽमुष्य भवनमुत्सवाकुलमुपसमाधीयमानपरिणयोपकरणमिस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाधमलक्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बलिकापाणिपल्लवमग्नौ साक्षिण्याथर्वणेन विधिनार्प्यमाणमादित्समानस्यायामिनं बाहुदुण्डमाकृष्य च्छुरिकयोरसि प्राहर्षम् ।
स्फुरतश्च कतिपयानन्यानपि यमविषयमगमयम् ।
हतविध्वस्तदं च तद्गृहमन् विचरन्वेपमानमधुरगात्रीं विशाललोचनामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्तामादाय गर्भगृहमविक्षम् ।
अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीतःऽ इति ।
श्रुत्वा च स्मित्वा च देवो ऽपि रजवाहनः " कथमसि कार्कस्येन कर्णीसुतमप्यतिक्रान्तःऽ इत्यभिधाय पुनरवेक्ष्योपहारवर्माणम् आचक्ष्व, तवेदानीमवसरःऽ इत्यभाषत ।
सो ऽपि सस्मितं प्रणस्यारभताभिधातुम् ॥२, २॥


इति श्रीदण्डिनः कृतौ दशकुमारचरिते ऽपहारवर्मचरितं नाम द्वितीय उच्छ्वासः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:15.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

haemo-agglutinin

  • लोहिता सम्मीलक 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.