TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दशकुमारचरितम् - चतुर्थोच्छ्वासः

दशकुमारचरित हे अत्यंत मधुर काव्य असून ते वाचल्याने अत्यंत समाधान मिळते .


चतुर्थोच्छ्वासः

देव , सो ऽहमप्योभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमिभूमिवलयं परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम् ।
उपस्पृश्य मणिभङ्गनिर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धकमथनमभिप्रणम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसपरि घपीवराभ्यां भुजाभ्यामाबध्वमानपरिकरमविरतरुदितोच्छूनताम्रदृष्टिमद्राक्षम् ।
अतर्कयं च -"कर्कशो ऽयं पुरुषः कार्पण्यमिव वर्षपि क्षीणतारं चक्षुः , आरम्भश्च साहसानुवादी , नूनमसौ प्राणनिःस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं प्रतिपत्स्यते ।
तत्पृच्छेयमेनम् ।
अस्ति चेन्ममापि को ऽपि साहाय्यदानावकाशस्तमेनमभ्युपेत्येत्यपृच्छम् -"भद्र , संनाहो ऽयं साहसमवगमयति ।
न चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्ऽ इति ।
स मां सबहुमानं निर्वर्ण्य "को दोषः , श्रूयताम्ऽ इति ।
क्वचित्करवीरतले मया सह निषण्णः कथामकारषित् -"महाभाग , सो ऽहमस्मि पूर्वेषु कामचरः पूर्णभद्रो नाम गृहपतिपुत्रः ।
प्रयत्नसंवर्धितो ऽपि पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् ।
अथास्यां काशीपुर्यामर्यवर्यस्य कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः ।
वध्ये च मयि मत्तहस्ती मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य पश्यतः कामपालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरवद्विगुणितघण्टारवो मण्डलितहस्तकाण्डं समभ्यधावत् ।
अभिपत्य च मया निभयन निर्भर्त्सितः परिणमन्दारुखण्डसुषिरानुप्रविष्टोभयभुजदण्डघटितप्रतिमानो भीतवन्न्यवर्तिष्ट ।
भूयश्च नेत्रा जातसंरम्भेण निकामदारुणैर्वागङ्कुशपादपातैरभिमुखीकृतः ।
मयापि द्विगुणाबद्धमन्युना निर्भर्त्स्याभिहतो निवृत्यापाद्रवत् ।
अथ मयोपेत्य सरभसमाक्रुष्टो रुष्टश्च यन्ता "हन्त , मृतो ऽसि कुञ्जरापसदऽ इति निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मदभिमुखमकरोत् ।
अथावोच्यम् --"अपसरतु द्विककीट एषः ।
अन्यः कश्चिन्मातङ्गफतिरानीयताम् ।
येनाहं मुहूर्तं विहृत्य गच्छामि गन्तव्यां गतिम्ऽ इति ।
दृष्टैव स मां रुष्टमुद्गर्जन्तमुत्क्रान्तयन्तृनिष्ठुराज्ञः पलायिष्ट ।
मन्त्रिणा पुनरहमाहूयाभ्यधायिषि --"भद्र , मृत्युरेवैष मृत्युविजयो नाम हिंसाविहारी ।
सो ऽयमपि तावत्त्वयैवंभूतः कृतः ।
तद्विरम् कर्मणो ऽस्मान्मलीमसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम्ऽ इति ।
"यथाज्ञापितो ऽस्मिऽ इति विज्ञापितो ऽयं मया मित्रवन्मय्यवर्तिष्ट ।
पृष्टश्च मयैकदा रहसि जातविश्रम्भेणाभाषत स्वचरितम् --"आसीत्कुसुमपुरे राज्ञो रिपुञ्जयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतऋषिः ।
अमुष्य पुत्रः सुमित्रो नाम पित्रैव समः प्रज्ञागुणेषु ।
तस्यास्मि द्वैमातुरः कनीयन्भ्राताहम् ।
वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् ।
अवार्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वारणस्यां प्रमदवने मदनदमनाराधनाय निर्गत्य सहसखीभिः कन्दुकेनानुक्रीडमानां काशीभर्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नाम चकमे ।
कथमपि समगच्छे च ।
अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा ।
कञ्चित्सुतं च प्रसूतवती ।
मृतजात इति सो ऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले ।
शबर्या च स्मशानाभयाशं नीतः ।
तयैव निवर्तमानया निशीथे राज्यविध्यमारक्षिकपुरुषैरभिगृहंय तर्जितया दण्डपारुप्यभीतया निर्भिन्नप्रायं रहस्यम् ।
राजज्ञया निशीथे ऽहमाक्रीजनगिरिदरीगृहे विश्रब्धप्रसुप्तस्तयोपदरशितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीर्ष्ये नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्यान्त्यजं तमन्यांश्च कांश्चित्प्रहृत्यापासरम् ।
अशरण्श्च भ्रमन्नटव्यामेकदाश्रुमुख्या कयापि दिव्याकारया सपरिचारया कन्ययोपास्थायिपि ।
सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणम्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निषण्णा , "कासि वासु , कुतो ऽस्यागता , कस्य हेतोरस्य मे प्रसीदसिऽ इति साभिलाषमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत् -"आर्य , नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम ।
साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् ।
आदाय चैनं तीव्रस्नेहान्ममपित्रोः संनिधिमनैषम् ।
अनैपीच्च मे पिता देवस्यालकेश्वरस्यास्थानीम् ।
अथाहमाहूयाज्ञप्ता हरसखेन , "बाले बाले ऽस्मिन्कीदृशस्ते भावःऽ इति ।
"औरस इवास्मिन्वत्से वत्सलताऽ इति मया विज्ञापितः "सत्यमाह वराकीऽ इति तन्मूलामतिमहतीं कथामकरोत् ।
तत्रैतावन्मयावगतम् "त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः ।
बन्धुमती विनयवती कान्तिमती चाभिन्ना ।
वेदिमत्यार्यदासी सोमदेवी वैकैव ।
हंसावली शूरसेना सुलोचना चानन्या ।
नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता ।
या किल शौनकावस्थायामग्निसाक्षिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुनश्चाद्य तारावलीत्यभूवम् ।
बालश्च किलशूद्रकावस्थे त्वय्यार्यदास्यवस्थायां मय्युदभूत् ।
अवर्ध्यत च विनयवत्या स्नेहवासनया ।
स तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् ।
एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशाद्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राजवाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुखभ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मिऽ इति ।
श्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरे ऽहर्निशं भूमिदुर्लभान्भोगानन्वभूवम् ।
द्वित्राणि दनान्यतिक्रम्य मत्तकाशिनीं तामवादिषम् -"प्रिये , प्रत्यपकृत्य मत्प्राणद्गोहिणश्चण्डसिंहस्य वैरनिर्यातनसुखमनुबुभूषामिऽ इति तया सस्मितमभिहितम् -"एहि कान्त , कान्तिमतीदर्शनाय नयामि त्वाम्ऽ इति ।
स्थितेर्ऽधरात्रे राज्ञो वासगृहनीये ।
ततस्तच्छिरोभागवर्तिनीमादायासियष्टिं प्रबोध्यैनं प्रस्फुरन्तमब्रवम् --"अहमस्मि भवज्जामाता ।
भवदनुमत्या विना तव कन्याभिमर्शी ।
तमपराधमनुवृत्त्या प्रमार्ष्टुमागतःऽ इति ।
सो ऽतिभीतोमामभिप्रणम्याह -"अहमेव मूढो ऽपराद्धः यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा भवदधीनम्ऽ इत्यवादीत् ।
अथापरेद्युः प्रकृतिण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् ।
अश्रावयच्च तनयवार्तां तारावली कान्तिमत्यै , सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् ।
इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्विहरामि विलासिनीभिःऽ इति ।
स एवं मादृशे ऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे , ज्यायसि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे , ज्यायसि च श्याले चण्डघोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि , पञ्चवर्षदेशीयं सिहघोषनामानं पैशुन्यवादिनां दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः ।
तैः किलासावित्थमग्राह्यत -"प्रसङ्यैव स्वसा तवामुना भुजङ्गेन संगृहीता ।
पुनः प्रसुप्ते राजनि प्राहर्तुमद्युतासिरासीत् ।
तेनास्मै तल्क्षणप्रवृद्धेन भीत्यानुनीय दत्ता कन्या ।
तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालो ऽयमसमर्थ इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः ।
क्षिणोति च पुरा स कृतघ्नो भवन्तम् ।
तमेवान्तकपुरमभिगमयितुं यतस्वऽ इति ।
स तथा दूषितो ऽपि यक्षिणीभयान्नामुष्मिन्पापमाचरितुमशकत् ।
एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्रणयमपृच्छत् -"देवि , नाहमायथातथ्येन विप्रलम्भनीया ।
कथय तथ्यं केनेदमयथापूर्वमाननारविन्दे तवैषु वासरेषुऽ इति ।
सा त्ववदीत् -"भद्रे , स्मरसि किमद्याप्यायथातथ्येन किञ्चिन्मयोक्तपूर्वम् ।
सखी मे तारावली सपत्नी च किमपि कलुषिताशया रहसि भर्त्रा मद्गोत्रापदिष्टा प्रणयमप्युपेक्ष्य प्रणम्यमानाप्यस्मभिरुपोढमत्सरा प्रावसत् ।
अवसीदति च नः पतिः ।
अतो मे दौर्मनत्यम्ऽ इति ।
तत्प्रायेणैकान्ते सुलक्षणया कान्ताय कथितम् ।
"अथासौ निर्भयो ऽद्य प्रियतमाविरहपाण्डुभिरवयैर्घैर्यस्तम्भिताश्रुपर्याकुलेन चक्षुषोष्मश्वासशोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम् , कथमपि राजकुले कार्याणि कारयन्तम् , पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्धयत् ।
तस्य किल स्थाने स्थाने दोषानुद्धोष्य तथोद्धरणीये चक्षुषी यथा तन्मूलमेवास्य मरणं भवेत्ऽ इति ।
अतो ऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्ऽ इति ।
मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सो ऽभिहितः -"सौम्य , किं तव गोपायित्वा ।
यस्तस्य सुतो यक्षकन्यया देवस्य राजवाहनस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सो ऽहमस्मि ।
शक्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् ।
अपि तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मानि हुतमिव भवेत्ऽ इति ।
अनवसितवचन एव मयि महानाशीविषः प्राकाररन्ध्रेणोदैरयच्छिरः ।
तमहं मन्त्रौषधबलेनाभिगृह्य पूर्णभद्रमब्रवम् -"भद्र , सिद्धं नः समीहितम् ।
अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पतितेन नाम दंशयित्वा तथा विषं स्तम्भवेवं यथा मृत इत्युदास्येत ।
त्वया तु मुक्तसाध्वसेन माता मे बोधयितव्या -" या यक्ष्या वने देव्या वसुमत्या हस्तार्पितो युष्मत्सूनुः सो ऽनुप्राप्तः पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थामाचरिष्यति ।
त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम् -"एष खलु क्षात्रधर्मो यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निर्ग्राह्य इति ।
स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति ।
तदहममुनैव सह चिताग्निमारोक्ष्यामि ।
युवतिजनानुकूलः पश्चिमो विधिरनुज्ञातव्यःऽ इति ।
स एव निवेदितो नियतमनुज्ञास्यति ।
ततः स्वमेवागारमानीय काण्डपटीपरिक्षिप्ते विविक्तोद्देर्शे दर्भसस्तरणमधिशाय्य स्वयं कृतानुमरणमण्डनया त्वया च तत्र संनिधेयम् ।
अहं च बाह्यकक्षागतस्त्वया प्रवेशयिष्ये ।
ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्यामहेऽ इति ।
स "तथाऽ इति हृष्टतरस्तूर्णमगमत् ।
अहं तु घोषणस्थाने चिञ्चावृक्षं घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् ।
आरूढश्च लोको यथायथमुच्चैस्थानानि ।
उच्चावचप्रलापाः प्रस्तुताः ।
तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनि महाजनानुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गस्त्रिरघोषयत् -"एष मन्त्री कामपालो राज्यलोभद्भर्तारं चण्डसिंहम् , युवराजं चण्डघोषं च विषान्नेनोपांशु हत्वा पुनर्देवो ऽपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाचरिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्षं च राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो राज्यकामुकस्यास्य ब्राह्मणस्यान्धतमसप्रवेशो न्याय्य इति प्राङ्विवाकवाक्यादक्ष्युद्धरणाय नीयते ।
पुनरन्यो ऽपि यदि स्यादन्यायवृत्तिस्तमष्येवमेव यथार्हेण दण्डेन योजयिष्यति देवःऽ इति ।
श्रुत्वैतद्भद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं व्यक्षिपम् ।
अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्ध्वयालदष्टस्य तातस्य विहितजीवरक्षो विषक्षणादस्तम्भयम् ।
अपतच्चैष भूमौ मृतकल्पः ।
प्रालपं च "सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति ।
यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः , प्राणैरेव वियोजितो विधिनाऽ इति ।
मदुक्तं च केचिदन्वमन्यन्त , अपरे पुनर्निनिन्दुः ।
दर्वीकरस्तु तमपि चण्डालं दष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।
अथ मदम्बा पूर्णभद्रबोधितार्था तादृशे ऽपि व्यसने नातिविह्वला कुलपरिजनानुयाता पद्भ्यामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्सङ्गेन धारयन्त्यासित्वा राज्ञे समादिशत् -"एष मे पतिस्तवापकर्ता न वेति दैवमेव जानाति ।
न मे ऽनयास्ति चिन्तया फलम् ।
अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं कलङ्कयेयम्ऽ अतो ऽनुमन्तुमर्हसि भर्त्रा सह चिताधिरोहणाय माम्ऽ इति ।
श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षितीश्वरः -"क्रियतां कुलोचितः संस्कारः ।
उत्सवो त्तरं च पश्चिमं विधिसंस्कारमनुभवतु मे भगिनीपतिःऽ इति चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते "कामपालो ऽपि कालदष्ट एवऽ इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाशनाय महीपतिरन्वमंस्त ।
आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्यामधिशाय्य स्थितो ऽभूत् ।
अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य , मुहुरभिप्राणम्य भव नदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयनस्थानमेकाकिनी प्राविक्षत् ।
तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन च मया वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत ।
हृष्टतमा पत्युः पादयोः पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्नुतस्तनी परिष्वज्य सहर्षबाष्पगद्गदमगदत् -"पुत्र , यो ऽसि जातमात्रः पापया मया परित्यक्तः , स किमर्थमेवं मामतिनिर्घृणामनुगृह्णासि ।
अथवैपनिरपराध एव ते जगयिता ।
युक्तमस्य प्रत्यानयनमन्तकाननात् ।
क्रूरा खलु तारावली या त्वासुपलभ्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै सैव वा सदृशकारिणी ।
नहि तादृशाद्भाग्यराशेर्विना मादृशो जनो ऽल्पपुण्यस्तवर्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् ।
एहि , परिष्वजस्वऽ इति भूयोभूयः शिरसि जिघ्रन्यङ्कमारोपयन्ती , तारावलीं गर्हयन्त्यालिङ्गयन्त्यश्रुभिरभिषिञ्चती चोत्कम्पिताङ्गयष्टिरन्यादृशीव क्षणमजनिष्ट ।
जनयितापिमे नरकादिव स्वर्गम् , तादृशादव्यसनात्तथाबूतमभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथाव -त्तान्तमावेदितो भगवतो मघवतो ऽपि भाग्यवन्तमात्मानमजीगणत् ।
मनगिव च मत्संबन्धमाख्याय हर्पविस्मितात्मनोः पित्रोरकथयम् -"आज्ञापयतं काद्य नः प्रितपत्तिःऽ इति ।
पिता मे प्राब्रवीत् -"वत्स , गृहमेवेदमस्मदीयमतिविशालप्राकारबलयमक्षय्यानुधस्थानम् ।
अलङ्घ्यतमा च गुप्तिः ।
उपकृताश्चमयातिबहवः सन्ति सामन्ताः ।
प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते ।
सुभटानां चानेकसहस्रमस्त्येव समुहृत्पुत्रदारम् ।
अतो ऽत्रैव कतपयान्यहानि स्थित्वा बाह्यभ्यन्तरङ्गान्कोपानुत्पादयिष्यामः ।
कुपितांशञ्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः , दुर्दान्तमेनमुच्छेत्स्यामःऽ इति ।
"को दोषः , तथास्तुऽ इति तातस्य मतमन्वमंसि ।
तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो जातानुतापः पारप्रामिकान्प्रयोगान्प्रायः प्रायुङ्क ।
ते चास्माभिः प्रत्यहमहन्यन्त ।
अस्मिन्नेवावकाश पूर्णभद्रमुखाच्च राज्ञः शय्यास्थानमवगस्य तदैव स्वोदवसितभित्तिकोणादारभ्योरगास्येन सुरङ्गामकार्षम् ।
गता च सा भूमिस्वर्गकल्पमनल्पकन्यकाजनं कमप्युद्देशम् ।
अव्यथिष्ट च दृष्टैव स मां नारीजनः ।
तत्र काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारांनह्नुवाना विग्रहिणीव देवी विश्वंभराःहरगृहिणीवासुरविजयायावतीर्णा , पातालमागता गृहिणीव भगवतः कुसुमधन्वनः गतलक्ष्मीरिवानेकदुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा , निष्टप्तकनकपुत्रिकेवावदातकान्तिः कन्यका , चन्दनलतेव मलयमारुतेन , मद्दर्शनेनोद्रकम्पत्र ।
तथा भूते च तस्मिन्नङ्गनासमाजे , कुसुमितेव काशयष्टिः , पाण्डुशिरसिज्ञा न्यविगकाचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत -"दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय ।
किमसि देवकुमारो दनुजयुद्धतृष्णया रसातलंविविक्षुः ।
आज्ञापयको ऽसि ।
कस्य हेतोरागतो ऽसिऽ इति ।
सातु मया प्रत्यवादि --"सुदत्यः , मास्म भवत्यो भैषुः ।
अहमस्मि द्विजातिवृषात्कामपालाद्देव्यां कान्तिमत्यामुत्पन्नोर्ऽथ पालो नाम ।
सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपसरसन्निहान्तरे वो दृष्टवान् ।
कथयत क स्थ यूयम् ।
कथमिह निवसथऽ इति ।
सोदञ्जलिरुदीरितवती -"भर्तृदारक , भाग्यवत्यो वयम् , यास्त्वामेभिरेव चक्षुर्भिरनघमद्राक्ष्म ।
श्रूयताम् ।
यस्तवमातामहश्चणअडसिहः , तेनास्यां देव्यां लीलावतयां चण्डघोषः कान्तिमतीत्यपत्यद्वयमुदपादि ।
चण्डघोपस्तु युवराजो ऽत्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयमगादन्तर्वर्त्न्यां देव्यामाचारवत्याम् ।
अमुया चेयं मणिकर्णिका नाम कन्या प्रसृता ।
अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगमत् ।
अथ देवश्चण्डसिहो मामाहूयोपह्वरे समाज्ञापयत् -"ऋद्धिमति , कन्यकेयं कल्याणलक्षणा ।
तामिमां मालवेन्द्रनन्दनाय दर्षसाराय विधिवद्वर्धयित्वा दित्सामि ।
बिभेमि च कान्तिमतीबृत्तान्तादारभ्य कन्यकानां प्रकाशावस्थापनात् ।
अत इयमरातिवयसनाय कारिते महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामणअडपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या संवर्ध्यताम् ।
अस्त्यतिर भोग्यवस्तु वर्पशतेनाप्यक्षय्यम्ऽ इति ।
स तथोक्त्वा निजवासगृहस्य द्व्यङ्गुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण त्थानाभिदमस्मानवीविशत् ।
इह च नो वसन्तीनां द्वादशसमाः समत्ययुः ।
इयं च वत्सा तरुणीबूता ।
न चाद्यापि स्मरति राजा ।
काममियं पितामहेन दर्पसाराय संकगल्पिता ।
त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यृतजिता स्वमात्रातवैव जायात्वेन समकल्प्यत ।
"तदत्र प्राप्तरूपं चिन्त्यतां कुमारेणैवऽ इति ।
तां पुनरवोचम् -"अद्यैव राजगृहे किमपि कार्यं साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्हं प्रतिपत्स्येऽ इति ।
तेनैव दीपदर्शितबिलपथेन गत्वा स्थितेर्ऽधरात्रे तदर्धपादं प्रत्युद्धृत्य वासगृहं प्रविष्टो विस्रब्धसुप्तं सिहघोषं जीवग्राहमग्रहीषम् ।
आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन स्त्रैणसंनिधिमनैषम् ।
आनीय च स्वभवनमायसनिगडसंदितचरणयुगलमवनामितमलिनवनमश्रुबहुलरक्तचक्षुषमेकान्ते जनयित्रोरदर्शयम् ।
अकथयं च बिलकथाम् ।
अथ पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशम्य बन्धने नियम्य तस्या दारिकाया यथार्हेण कर्मणा मां पाणिमग्राहयेताम् ।
अनाथकं च तद्राज्यमस्मदायत्तमेव जातम् ।
प्रकृतिकोपभयात्तु मन्मात्रा मुमुक्षितो ऽपि न मुक्त एव सिंहघोषः ।
तथास्थिताश्च वयमङ्गराजः सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनमभ्यसराम ।
अभूवं च भवत्पादपङ्कजरजो ऽनुग्राह्याः स चेदानीं भवच्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंहघोषःऽ इत्यर्थपालः प्राञ्जलिः प्रणनाम ।
देवो ऽपि राजवाहनः "बहु पराक्रान्तम् ।
बहूपयुक्ता च बुद्धिः , मुक्तबन्धस्ते श्वशुरः पश्यतु माम्ऽ इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः "प्रस्तूयतां तावदात्मीयं चरितम्ऽ इत्याज्ञापयत् ॥२ ,४॥


इति श्रीदण्डिनः कृतौ दशकुमारचरितेर्ऽथपालचरितं नाम चतुर्थ उच्छ्वासः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:15.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कांक्षी, कांक्षेखोर

  • a  That carps or cavils; that objects to or disputes perversely; also fanciful; one dubious, ever full of doubts and difficulties. 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site