TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दशकुमारचरितम् - पञ्चमोच्छ्वासः

दशकुमारचरित हे अत्यंत मधुर काव्य असून ते वाचल्याने अत्यंत समाधान मिळते .


पञ्चमोच्छ्वासः
N/A

सो ऽपि प्रणम्य विज्ञापयामास -"देव देवस्यान्वेषणायदिक्षु भ्रमन्नभ्रङ्कपस्यापि विन्ध्यपार्श्वरूढस्य वनस्पतेरधः , परिणतपतङ्गबालपल्लवावतंसिते पश्चिमदिगङ्गनामुखे पल्वलाम्भस्युपस्पुपस्पृश्योपासय संध्याम् , तमःसमीकृतेषु निम्नोन्नतेषुगन्तुमक्षमः क्षमातले किसलयैरुपरचय्य शय्यां शिशयिषमाणः , शिरसि कुर्वन्नञ्जलिम् , "यस्मिन्वनस्पतौ वसति देवता सैव म शरणमस्तु शरारुचक्रचारभीषणायां शर्वगलश्यामशार्वरान्धकारपूराध्मातगभीरगह्वरायामस्यां महाटव्यामेककस्य प्रसुप्तस्यऽ इत्युपधाय वामभुजमशयिषि ।
ततः क्षणादेवावनिदुर्लभेन स्पर्शेनासुखायिषत किमपि गात्राणि , आह्लादयिषतेन्द्रियाणि , अभ्यमनायिष्ट चान्तरात्मा , विशेषतश्च हृषितास्तनूरुहाः , पर्यस्फुरन्मे दक्षिणभुजः ।
"कथंन्विदम्ऽ इति मन्दमन्दमुन्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्पं शुक्लांशुकवितानमैक्षिषि ।
वामतश्चलितदृष्टिः समया सौधभित्तिं चित्रास्तरयणशायिनमतिविश्रब्धप्रसुपतमङ्गनाजनमलक्षयम् ।
दक्षिणतो दत्तचक्षुरागलितस्तनांशुकाम् , अमृतफेनपटलपाण्डुरशयनशायिनीम् , आदिवराहदंष्ट्रांशुजाललग्नाम् , अंसस्रस्तदुग्धसागरदुकूलोत्तरीयाम् , भयसाध्वसमूर्च्छितामिव धरणिम् , अरुणाधरकिरणबालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वाहिभि र्निःश्वासमातरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषमनङ्गमिव संधुक्षयन्तीम् , अन्तःसुप्तषटूपदमम्बुजमिव जातिनिद्रमामीलितलोचनेन्दीवरमाननं दधानाम् , ऐरावतमदावलेपलूनापविद्धामिव नन्दनवनकल्पवृक्षरत्नवल्लरीं कामपि तरुणीमालोकयम् ।
अतर्कयं च --"क गता सा महाटवी , कुत इदमूर्ध्वाण्डसंपुटोल्लेखि शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम् , क्व च तदरण्यस्थलीसमास्तीर्णं पल्लवशयनम् , कुतस्त्यं चेदमिन्दुगभस्तिसंभारभासुरं हंसतूलदुकूलशयनम् , एष च को नु शीतरश्मिकिरणरज्जुदोलापरिभ्रष्टमूर्च्छित इवाप्सरोगणः स्वैरसुप्तः सुन्दरीजनः , का चेयं देवीवारविन्दहस्ता शारदशशाङ्कमण्डलामलदुकलोत्तरच्छदमधिशेते शयनतलम् ।
न तावदेषा देवयोषा , यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना कमलिनीव संकुचति ।
भग्नवृन्तच्युतरसबिन्दुशबलितं पाकपाण्डु चूतफलमिवोद्भिन्नस्वेदरेखं गण्डस्थलमालक्ष्यते , अभिनवयौवनविदाहनिर्भरोष्मणि कुचतटे वैवर्ण्यमुपैति वणकम् ।
वाससी च परीभोगानुरूपं धूसरिमाणमदर्शयतः , तदेषा मानुष्येव ।
दिष्ट्या चानुच्छिष्टयौवना , यतः सौकुमार्यमागताः सन्तो ऽपि संहता इवावयवाः , प्रस्निग्धतमापि पाण्डुतानुवद्धेव देहच्छविः , स्मरपीडानभिज्ञतया नातिविशदरागो मुखे , विद्रुमद्युतिरधरमणिछः अनत्यापूर्णमारक्तमूलं चम्पककुङ्मलदलमिव कठोरं कपोलतलम् , अनङ्गबाणपातमुक्ताशङ्कं च विस्रब्धमधुरं सुप्यते , न चैतद्वक्षःस्थलं निर्दयविमर्दविस्तारितमुखस्तनयुगलम् , अस्ति चानतिक्रान्तशिष्टमर्यादचेतसो ममास्यामासक्तिः ।
आसत्त्यनुरूपं पुनराश्लिष्टा यदि , स्पष्टमार्तरवेणैव सह निद्रां मोक्ष्यति ।
अथाहं न शक्ष्यामि चानुपश्लिष्य शयितुम् ।
अतो यद्भावि तद्भवतु ।
"भाग्यमत्र परीक्षिष्येऽ इति स्पष्टास्पृष्टमेव किमप्याविद्धरागसाध्वत्तंलक्षसुप्तः स्थितो ऽस्मि ।
साप किमष्युत्कम्पिना रोमोद्बेदवता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी , त्वङ्गदग्रपक्ष्मणोश्चक्षुषोरलसतान्ततारकेणानतिपक्वनिद्राकषाय् इतापाङ्गपरभागेन युगलेनेषदुन्मिषन्ती , त्रासविस्मयहर्षरागशङ्काविलासविभ्रमव्यवहितानि व्रीडान्तराणि कानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्यमाणा , परिजनप्रबोधनोद्यतां गिरं कामावेगपरवशं हृदयमङ्गानि च साध्वसायाससंबध्यमानस्वेदपुलकानि कथङ्कथमपि निगृह्य , सस्पृहेण मधुरकूणितत्रिभागेन मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य , दूरोत्सर्पितपूर्वकायापि तस्मिन्नेव शयने सचकितमशयिष्ट ।
अजनिष्ट मे रागाविष्टचेतसो ऽपि किमपि निद्रा ।
पुनरननुकूलस्पर्शदुःखायत्तगात्रः प्राबुध्ये ।
प्रबुद्धस्य च सवे मे महाटवी , तदेव तरुतलम् , स एव पत्रास्तरः ममाभूत् ।
विभावरी च व्ययासीत् ।
अभूच्च मे मनसि किमयं स्वप्नः किं विप्रलम्भो वा , किमियमासुरी दैवी वा कापि माया ।
यद्भावि तद्भवतु ।
नाहमिदं तत्त्वतो नावबुध्यमोक्ष्यामि भूमिशय्याम् ।
यावदायुरत्रत्यायै देवतायै प्रतिशयितो भवामिऽ इति निश्चितमतिरतिष्ठम् ।
अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः , क्लिष्टनिवसनोत्तरीया , निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्जरितत्विषा दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलम् , अनवरतसलिलधाराविसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयमक्ष्णोरुद्वहन्ती , कुलचारित्रबन्धनपाशविभ्रमेणैकवेणीभूतेन केशपाशेन , नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव संचरन्ती , क्षामक्षामापि देवतानुभावादनतिक्षीणवर्मआवकाशा सीमन्तिनी , प्रणिपतन्तं मां प्रहर्षेत्कम्पितेन भुजलताद्वयेनोत्थाप्य पुत्रवत्परिष्वज्य शिरस्युपघ्राय वात्सल्यमिव स्तनयुगलेन स्तन्यच्छलात्प्रक्षरन्ती , शिशिरेणाश्रुणा निरुद्वकण्ठी स्नेहगद्गदं व्याहार्षीत् --"वत्स , यदि वः कथितवती मगधराजमहिषी वसुमती मम हस्ते वालमर्थपालं निधाय कथां च काञ्चिदात्मभर्तृपुत्रसखीजनानुबद्धां राजराजप्रवर्तितां कृत्वान्तर्धानमगादात्मजा मण्भद्रस्येतिऽ साहमस्मि वो जननी ।
पितुर्वो धर्मपालसूनोः सुमन्त्रानुजस्य कामपालस्य पादमूलान्निष्कारणकोपकलुषिताशया प्रोष्यानुशयविधुरा स्वप्ने केनापि रक्षोरुपेणोपेत्य शप्तास्मि --"चण्डिकायां त्वयिवर्षमात्रं वसामि प्रवासदुःखायऽ इति व्रुवतैवाहमाविष्टा प्राबुध्ये ।
गतं च तद्वर्षं वर्षसहस्रदीर्घम् ।
अतीतायां तु यामिन्यां देवदेवस्य त्र्यम्बकस्य श्रावस्त्यामुत्सवसमाजमनुभूय बन्धुजनं च स्थानस्थानेभ्यः संनिपातितमभिसमीक्ष्य मुक्तशापापत्युः पार्श्वमभिसरामीति प्रस्थितायामेव मयि , त्वमत्राभ्युपेत्य "प्रतिपन्नो ऽस्मिशरणमिहत्यां देवताम्ऽ इति प्रसुप्तो ऽसि ।
एवं शापदुःखाविष्टया तु मया तदा न तत्त्वतः परिच्छिन्नो भवान् अपि तु शरणागतस्त्वविरलप्रमादायामस्यां महाटव्यामयुक्तं परित्यज्य गन्तुमिति मया त्वमपि स्वपन्नेवासि नीतः ।
प्रत्यासन्ने च तस्मिन्देवगृहे पुनरचिन्तयम् --"कथमिह तरुणेनानेन सह समाजं गमिष्यामिऽ इति ।
अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशालकोमलतलं शय्यातलमधिशयानां यदृच्छयोपलभ्य "दिष्ट्येयं सुप्ता , परिजनश्च गाढनिद्रः ।
शेतामयमत्र मुहूर्तमात्रं ब्राह्मणकुमारो यावत्कृतकृत्या निवर्तेयऽ इति त्वां तत्र शाययित्वा तमुद्देशमगमम् ।
दृष्ट्वा चोत्सवश्रियम् , निर्विश्य च स्वजनदर्शनसुखमभिवाद्य च त्रिभुवनेश्वरमात्मालीकपरत्याकलनोपारूढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदयां भगवतीम्बिकाम् , तया गिरिदुहित्रा देव्या सस्मितम् अयि भद्रे , मा भैषीः ।
भवेदानीं भर्तृषार्श्वगामिनी ।
गतस्ते शापःऽ इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा प्रतिनिवृत्त्य दृष्ट्वैव त्वां यथावदभ्यजानाम् --"कथं मत्सुत एवायं वत्सस्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति पापया मयास्मिन्नज्ञानादौदासीन्यमाचरितम् ।
अपि चायमस्यामासक्तभावः ।
कन्या चैनं कामयते ।
युवानम् ।
उभौ चेमौ लक्षसुप्तौ त्रपया साध्वसेन वान्योन्यमात्मानं न विवृण्वाते ।
गन्तव्यं च मया ।
कामाघ्रातयाप्यनया कन्यया रहस्यरक्षणाय न समाभाषितः सखीजनः परिजनो वा ।
नयामि तावत्कुमारम् ।
पुनरपीममर्थं लब्धलक्षो यथोपपन्नैरुपायैः साधयिष्यतिऽ इति मत्प्रभावप्रस्वापितं भवन्तमेतदेव पत्रशयनं प्रत्यनैषम् ।
एवमिदं वृत्तम् ।
"एषा चाहं पितुस्ते पादमूलं प्रत्युपसर्पेयम्ऽ इति प्राञ्जलिं मां भूयोभूयः परिष्वज्य शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा स्नेहविह्वलागतासीत् ।
अहं च पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
मार्गे च महति निगमे नैगमानां ताम्रचूडनुद्धकोलाहलो महानासीत् ।
अहं च तत्र संनिहितः किञ्चिदस्मेषि ।
संनिधिनिषण्णस्तु मे वृद्धविटः को ऽपि ब्राह्मणछ शनकैः स्मतहतेमपृच्छत् ।
अव्रवं च -"कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमक्ष्यि बलाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैवं प्रतिविसृष्टःऽ इति ।
सो ऽपि तज्ज्ञः "किमज्ञैरेभिर्व्युत्पादितैः ।
तूष्णीमास्स्वऽित्युपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं दत्त्वा चित्राः कथा कथयन्क्षणमतिष्ठत् ।
प्रायुध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् ।
जितश्चासौ प्रतीच्यवाटकुक्कुटः ।
सो ऽपि विटः स्ववाटकुक्कुटविजयहृष्टः , मयि वयोविरुद्धं सख्यमुपेत्य तदहरेव स्वगृहे स्नानभोजनादि कारयित्वोत्तरेद्युः क्षावस्तीं प्रति यान्तं मामनुगम्य "स्मर्तव्यो ऽस्मि सत्यर्थेऽ इति मित्रवद्विसृज्य प्रत्ययासीत् ।
अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्मोद्याने लतामण्डपे शयितो ऽस्मि ।
हंसरवप्रबोधितश्चोत्थाय कामपि क्वणितनूपुरमुखराभ्यां चरणाभ्यां मदन्तिकमुपसन्तीं युवतीमद्राक्षम् ।
सा त्वागत्य स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं कमपि पुंरूपं मां च पर्यायेण निर्वर्णयन्ती सविस्मयं सवितर्कं सहर्षं च क्षणमवातिष्ठत् ।
मयापि तत्र चित्रपटे मत्सादृश्यं पश्यता तद्दृष्टिचेष्टितमनाकस्मिकं मन्यमानेन "ननु सर्वसाधारणो ऽयंरमणीयः पुण्यारामभूमिभागः ।
किमिति चिरस्थितिक्लेशो ऽनुभूयते ।
ननूपवेष्टव्यम्ऽ इत्यभिहिता सा सस्मितम् "अनुगृहीतास्मिऽ इति न्यपीदत् ।
संकथा च देशवार्तानुविद्धा काचनावयोरभूत् ।
कथासंश्रिता च सा "देशातिथिरसि ।
दृश्यन्ते च ते ऽध्वश्रान्तानीव गात्राणि ।
यदि न दोषो मद्गृहे ऽद्य विश्रमितुमनुग्रहः क्रियताम्ऽ इत्यसंसत् ।
अहं च "अयि मुग्धे , नैष दोषः , गुण एवऽ इति तदनुमार्गगामी तद्गृहगतो राजार्हेण स्नानभोजनादिनोपचरितः , सुखं निषण्णो रहसि पर्यपृच्छ्ये -महाभाग , दिगन्तराणि भ्रमता कच्चिदस्ति किञ्चिदद्भुतं भवतोपलब्धम्ऽ इति ।
ममाभवन्मनसि "महदिदमाशास्पदम् ।
एषा खलु निखिलपरिजनसंबाधसंलक्षितायाः सखी राजदारिकायाः ।
चित्रपटे चास्मिन्नपि तदुपरि विरचितसितवितानं हर्म्यतलम् , तद्गतं च प्रकामविस्तीर्णं शरदभ्रपटलपाण्डुरं शयनम् , तदधिशायिनी च निद्रालीढलोचना ममैवेयं प्रतिकृतिः अतो नूनमनङ्गेन सापि राजकन्या तावतीं भूमिमारोपिता ।
यस्यामसह्यमदनज्वरव्यथितोन्मादिता सती सखीनर्बन्धपृष्टविक्रियानिमित्ता चातुर्येणैतद्रूपनिर्माणेनैव समर्थमुत्तरं दत्तवती ।
रूपसंवादाच्च संशयादनया पृष्टो भिन्द्यामस्याः संशयं यथानुभवकथनेनऽ इति जातनिश्चयो ऽब्रवम् -"भद्रे , देहि चित्रपटम्ऽ इति ।
सा त्वर्पितवती मद्धस्ते ।
पुनस्तमादाय तामपि व्याजसुप्तामुल्लसन्मदनरागविह्वलां वल्लभां तत्रैवाभिलिख्य "काचिदेवंभूता युवतिरीदृशस्य पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयोपलब्धा ।
किलैष स्वप्नःऽ इत्यालपं च ।
हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयम् ।
असौ च सख्या मन्निमित्तान्यवस्थान्तराण्यवर्णयत् ।
तदाकर्ण्य च यदि तत्र सख्या मदनुग्रहोन्मुखं मानसम् ।
गमय कानिचिदहानि ।
कमपि कन्यापुरे निराशङ्कनिवासकरणमुपायमारचय्यागमिष्यामिऽ इति कथञ्चिदेनामभ्युपगमय्य गत्वा तदेव खर्वटं वृद्धविटेन समगंसि ।
ससंभ्रमं सो ऽपि विश्रमय्य तथैव स्नानभोजनादि कारयित्वा रहस्यपृच्छम् -"आर्य , कस्य हेतोरचिरेणैवप्रत्यागतो ऽसिऽ ।
प्रत्यवादिषमेनम् -"स्थान एवाहमार्येणास्मि पृष्टः ।
श्रूयताम् ।
अस्ति हि श्रावस्तीनाम नगरी ।
तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा ।
तस्य दुहिता , प्रत्यादेश इव श्रियः , प्राणा इव कुसुमधन्वनः सौकुमार्याविडम्बितनवमालिका , नवमालिका नाम कन्यका ।
सा मया समापत्तिदृष्टा कामनाराचपङ्क्तिमिव कटाक्षमालां मम मर्मणि व्यकिरत् ।
तच्छल्योद्धरणाक्षमश्च धन्वन्तरिसदृशस्त्वदृते नेतरो ऽस्ति वैद्य इति प्रत्यागतो ऽस्मि ।
तत्प्रसीद कञ्चिदुपायमाचरितुम् ।
अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयम् ।
अनुगतश्च मया त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि --"ममेयमेकैव दुहिता ।
जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता ।
माता च पिता च भूत्वाहमेव व्यवर्धयम् ।
एतदर्थमेव विद्यामयं शुल्कमर्जितुं गतो ऽबूदवन्तिनगरीमज्जयिनीमस्मद्वैवाह्यकुलजः को ऽपि विप्रदारकः ।
तस्मै चेयमनुमता दातुमितरस्मै न योग्या ।
तरुणीभूता चेयम् ।
स च विलम्बितः ।
तेन तमानीय पाणिमस्या ग्राहयित्वा तस्मिन् न्यस्तभारः संन्यसिष्ये ।
दुरभिरक्षतया तु दुहितॄणां मुक्तशैशवानाम् , विशेषतश्चामातृकाणाम् , इह देवं मातृपितृस्थानीयं प्रजानामापन्नशरणमागतो ऽस्मि ।
यदि वृद्धं ब्राह्मणमधीतिनमगतिमतिथिं च मामनुग्राह्यपक्षे गणयत्यादिराजचरितधुयो देवः , सैषा भवद्भुजतरुच्छायामखण्डितचारित्रा तावदध्यास्तां यावदस्याः पाणिग्राहकमानयेयम्ऽ इति ।
स एवमुक्तो नियतमभिमनायमानः स्वदुहितृसंनिधौ मां वासयिष्यति ।
गतस्तु भवानागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तःपुरजनस्य तीर्थयात्रोत्सवो भविष्यति ।
तीर्थस्थानात्प्राच्यां दिशिगोरुतान्तरमतिक्रम्य , वानीरवलयमध्यवर्तिनि कार्त्तिकेयगृहे करतलगतेन शुक्लाम्बरयुगलेन स्थास्यसि ।
स खल्वहमनभिशङ्क एवैतावन्तं कालं सहाभिविहृत्य राजकन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यकासमाजेमग्नोपसृतस्त्वदभ्याश एवोन्मङ्क्ष्यामि ।
पिनस्त्वदुपहृते वाससी परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् ।
नृपात्मजा तु मामितस्ततो ऽन्विष्यानासादयन्ती "तया विना न भोक्ष्येऽ इति रुदन्त्येवावरोधने स्थास्यति ।
तन्मूले च महति कोलाहले , क्रन्दत्सु परिजनेषु , रुदत्सु सखीजनेषु , शोचत्सु पौरजनेषु , किङ्कर्तव्यतामूढे सामात्ये पार्थिवे , त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्यसि -"देव , स एष मे जामाता तवार्हति श्रीभुजाराधनम् ।
अधीति चतुर्ष्वाम्नायेषु , गृहीती षट्स्वङ्गेषु , आन्वीक्षिकीविचक्षणः , चतुःषष्टिकलागमप्रयोगचतुरः , विशेषेण गजरथतुरङ्गतन्त्रवित् , इष्वसनास्त्रकर्मणि गदायुद्धे च निरूपमः , पुराणेतिहासकुशलः , कर्ता काव्यनाटकाख्यायिकानाम् , वेत्ता सोपनिषदोर्ऽथशास्त्रस्य , निर्मत्सरो गुणेषु , विश्रम्भी सुहृत्सु , शक्लः , संविभागशीलः , श्रुतधरः , गतस्मयश्च ।
नास्य दोषमणीयांसमप्युपलभे ।
न च गुणेष्वविद्यमानम् ।
तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एव सम्बन्धी ।
दुहितरमस्मै समर्प्य बार्धकोचितमन्त्यमाश्रमं संक्रमेयम् , यदि देवः साधु मन्यतेऽ इति ।
स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्रः परमुपेतो वैलक्ष्यमारप्स्यते ऽनुनेतुमनित्यतादिसंकीर्तनेनैत्रभवन्तं मन्त्रिभिः सह ।
त्वं तु तेषामदत्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य बाप्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे चिताधिरोहणायोपक्रमिष्यसे ।
स तावदेव त्वत्पादयोर्निपत्य सामात्यो नरपतिरनूनैर्थैस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यतासमाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति ।
सो ऽयमभ्युपायो ऽनुष्ठेयो यदि तुभ्यं रोचतेऽ इति ।
सो ऽपि पटुर्विटानामग्रणीरसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुणमुपक्रान्तवान् ।
आसीच्च मम समीहितानामहीनकालसिद्धिः ।
अन्वभवं च मधुकर इव नवमालिकामार्द्रसुमनसम् ।
अस्य राज्ञः सिंहवर्मणः साहाय्यदानं सुहृत्संकेतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसंदोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनसुखमनुभवामिऽ इति ।
श्रुत्वैततप्रमतिचरितं स्मितमुकुलितमुखनलिनः विलासप्रायमूर्जितम् , मृदुप्रायं चेष्टितम् , इष्ट एष मार्गः प्रज्ञावताम् ।
"अथेदानीमत्रभवान्प्रविशतुऽ इति मित्रगुप्तमैक्षत क्षितीशपुत्रः ॥२ ,५॥


श्रीदण्डिनः कृतौ दशकुमारचरितं नाम पञ्चम उच्छ्वासःइति

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:15.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अविचारें न्याय करी, पश्र्चात्ताप पावे तरी

  • पूर्ण विचार केल्याशिवाय जर एखाद्या गोष्टीचा निर्णय केला तर पश्र्चात्ताप करण्याची पाळी येते. 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.