TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दशकुमारचरितम् - अष्टमोच्छ्वासः

दशकुमारचरित हे अत्यंत मधुर काव्य असून ते वाचल्याने अत्यंत समाधान मिळते .


अष्टमोच्छ्वासः

अथ सो ऽप्याचचक्षे -"देव , मयापि परिभ्रमता विन्ध्याटव्यां को ऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशार्हः क्वचित्कूपाभ्याशे ऽष्टवर्षदेशीयो दृष्टः ।
स च त्रासगद्गदमगदत् -"महाभाग , क्लिष्टस्य मे क्रियतामार्य , साहाय्यकम् ।
अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमुदञ्चन्निह कूपे को ऽपि निष्कलो ममैकशरणभूतः पतितः ।
तमलमस्मि नाहमुद्धर्तुम् , ।
इति अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य , तं च बालं वंशनालीमुकोद्धृताभिरद्भिः फलैश्च पञ्चपैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य शिखरात्पाषाणपातितैः प्रात्यानीतप्राणवृत्तिमापाद्य , तरुतलनिषण्णस्तं जरन्तमब्रवम् -"तात , क एष बालः , को वा भवानन् , कथं चेयमापदापन्नाऽ इति ।
सो ऽश्रुगद्गदमगदत् -"श्रूयतां महाभाग विदर्भो नाम जनपदः तस्मिन्भोजवंशभूषणम् , अंशावतार इव धर्मस्य , अतिसत्त्वः , सत्यवादी , वदान्यः , विनीतः , निनेता प्रजानाम् , रञ्जितभृत्यः , कीर्तिमान् , उदग्रः , बुद्धिमूर्तिभ्यामुत्थानशीलः , शास्त्रप्रमाणकः , शक्यभव्यकल्पारम्भी , संभावयिता बुदान् प्रभावयिता सेवकान् , उद्भावयिता बन्धून् , न्यग्भावयिता शत्रून् , असंबद्धप्रलापेष्वदत्तकर्णः , कदाचिदप्यवितृष्णो गुणेषु , अतिनदीष्णः कलासु , नेदिष्टो धर्मार्थसंहितासु , स्वल्पे ऽपि सुकृते सुतरां प्रत्युपकर्ता , प्रत्यवेक्षिता कोशवाहनयोः , यत्नेन परीक्षिता सर्वाध्यक्षाणाम् , षाड्गुण्योपयोगनिपुणः मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य , पुण्यश्लोकः , पुण्यवर्मा नामासीत् ।
स पुण्यैः कर्मभिः प्राण्य पुरुषायुषम् , पुनरपुण्येन प्राजानामगण्यतामरेषु ।
तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् ।
स सर्वगुणैः समृद्धो ऽपि दैवाद्दण्ढनीत्यां नात्यादृतो ऽभूत् ।
तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत -"तात , सर्वैवात्मसंपदभिजनात्प्रभृत्यन्यूनैवात्रभवति लक्ष्यते ।
बुद्धिश्च निसर्गपट्वी , कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते ।
तथाप्यसावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेषु , अनग्निसंशोधितेन हेमजातिर्नातिभाति बुद्धिः ।
बुद्धिहीनो हि भूभृदत्युच्छ्रितो ऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते ।
न च शक्तः साध्यं साधनं वा विभ्ज्य वर्तितुम् ।
अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते ।
न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय ।
अतिक्रान्तशासनाश्च प्रजा यत्किञ्चनवादिन्यो यताकथञ्चिद्वर्तिन्यः सर्वाः स्थितीः संकिरेयुः निर्मर्यादश्च लोको लोकादितो ऽमुतश्च स्वामिनमात्मानं च भ्रंशयेत ।
आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा ।
दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति ।
तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसामर्थ्यात्ऽ अतो विहाय बाह्मविद्यास्वभिषङ्गमागमय दण्डनीतिं कुलविद्याम् ।
तदर्थानुष्ठानन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीम् इति ।
एतदाकर्ण्य स्थान एव गुरुभिरनुशिष्ठम् ।
तथा क्रियतेऽ इत्यन्तःपुरमविशत् ।
तां च वार्तां पार्थिवेन प्रमदासंनिधौ प्रसङ्गेनोदीरितामुपनिशम्य समीपोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्यवाद्यादिष्वबाह्मो बाह्मनारीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशारदः परमर्मान्वेषणपरः परिहासयिता परिवादरुचिः पैशुन्यपण्ढितः सचिवमण्डलादप्युत्कोचहारी सकलदुर्नयोपाध्यायः कामतन्त्रकर्णधारः कुमारसेवको विहारभद्रो नाम स्मितपूर्वं व्यज्ञपयत् -"देव , दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः , तमकस्मादुच्चावचैरुपप्रलोभनैः कदर्थयन्तः स्वार्थं साधयन्ति शिरः , बद्ध्वा द --भिः , अजिनेनाच्छाद्य , नवनीतेनोपलिप्य , अनशनं च शाययित्वा , सर्वस्वं स्वीकरिष्यन्ति ।
तेभ्यो ऽपि घोरतराः पाषण्ढिनः पुत्रदारशरीरजीवितान्यपि मोचयन्ति ।
यदि कश्चित्पटुजातीयो नास्यै मृगतृष्णिकायै हस्तगतं त्यक्तुमिच्छेत् ।
तमन्ये परिवार्याहुः --"एकामपि काकिणीं कार्षापणलक्षमापादयेम , शस्त्रादृते सर्वशत्रुन् घातयेम् , एकशरीरिणमपि मर्त्यं चक्रवर्तिनं विदधीमहि , यद्यस्मदुद्दिष्टेन मार्गेणाचर्यतेऽ इति ।
स पुनरिमान्प्रत्याह -"को ऽसौ मार्गःऽ इति ।
पुनरिमे ब्रुवते -"ननु चतस्रो राजविद्यास्त्रयी वार्तान्वीक्षिकी दण्डनीतिरिति ।
तासु तिस्रस्त्रयीवार्तान्वीक्षिक्यो महत्यो मन्दफलाश्च , तास्तावदासताम् ।
अधीष्व तावदृण्डनीतिम् ।
इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षडूभिः श्लोकसहस्रैः संक्षिप्ता ।
सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमाऽ इति ।
स "तथाऽ इत्यधीते ।
शृणोति च ।
तत्रैव जरां गच्छति ।
तत्तु किल शास्त्रं शास्त्रान्तरानुबन्धि ।
सर्वमेव वाङ्मयमविदित्वा न तत्त्वतो ऽधिगंस्यते ।
भवतु कालेन बहुनाल्पेन वा तदर्थाधिगतिः ।
अधिगतशास्त्रेण चादावेव पुत्रदारमपि न विश्वास्यम् ।
आत्मकृक्षेरपि कृते तण्डुलैरियद्भिरियानोदनः संपद्यते ।
इयत ओदनस्य पाकायेतावदिन्धनं पर्याप्तमिति मानोन्मानपूर्वकं देयम् ।
उत्थितेन च राज्ञा क्षालिताक्षालिते मुखे मुष्टिमर्धमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्नः प्रथमे ऽष्टमे वा भागे श्रोतव्यम् ।
शृण्वत एवास्य द्विगुणमपहरन्ति ते ऽध्यक्षधूर्ताश्चत्वारिंशतं चाक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्ध्यैव ते विकल्पयितारः ।
द्वितीये ऽन्योन्यं विवदमानानां जनानामाक्रोशाद्दह्यमानकर्णः कष्टं जीवतिः तत्रारि प्राड्विवाकादयः स्वेच्छया जयपरौजया विदधानाः पापेनाकीर्त्या च भर्तारमात्मनश्चार्थैर्योजयन्ति ।
तृतीये स्नातुं च लभते ।
भुक्तस्य यावदन्धःपरिणआमस्तावदस्य विषभयं न शाम्यत्येव ।
चतुर्थे हिरण्यप्रतिहाय हस्तं प्रसारयन्नेवोत्तिष्ठति ।
पञ्चमे मन्त्रचिन्तया महान्तमायासमनुभवति ।
तत्रापि मन्त्रिणो मध्यस्था इवान्योन्यं मिथः संभूय दोषगुणौ दूतचारहवाक्यानि शक्याशक्यतां देशकालकार्यावस्थाश्च स्वेच्छया विपरिवर्तयन्तः , स्वपरिमित्रमण्डलान्युपजीवन्ति ।
बाह्माभ्यन्तरांश्च कोपान् गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति ।
षष्ठे स्वैरविहारो मन्त्रो वा सेव्यः॥ सो ऽस्यैतावान्स्वैरविहारकालो यस्य तिस्रस्त्रिपादोत्तरा नाडीकाः ।
सप्तमे चतुरङ्गबलप्रत्यवेक्षणप्रयासः ।
अष्टमे ऽस्य सेनापतिसखस्य विक्रमचिन्ताक्लेशः ।
पुनरुपास्यैव संध्याम् , प्रथमे रात्रिभागे गूढपुरुषा द्रष्टव्याः ।
तन्मुखेन चातिनृशंसाः शस्त्राग्निरसप्रणिधयो ऽनुष्ठेयाः ।
द्वितीये भोजनानन्तरं श्रोत्रिय इव स्वाध्यायमारभेत ।
तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत किल ।
कथमिवास्याजस्रचिन्तायासविह्वलमनसो वराकस्य निद्रासुखमुपनमेत् ।
पुनः षष्ठे शास्त्रचिन्ताकार्यचिन्तारम्भः ।
सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च ।
दूताश्च नामोभयत्र प्रियाख्यानलब्धानर्थान्वीतशुल्कबाधवर्त्मनि वाणिज्यया वर्धयन्तः , कार्यमविद्यामानमपि लेशेनोत्पाद्यानवरतं भ्रमन्ति ।
अष्टमे पुरोहितादयो ऽभ्येतद्यैनमाहुः -"अद्य दृष्टो दुःस्वप्नः ।
दुःस्था ग्रहाः शकुनानि चाशुभानि ।
शान्तयः क्रियन्ताम् ।
सर्वमस्तु सौवर्णमेव होमसाधनम् ।
एवं सति कर्म गुणवद्भवति ।
ब्रह्मकल्पा इमे ब्राह्माणाः ।
कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति ।
ते चामी कष्टद्र्या बह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्तप्रतिग्रहाः ।
दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवतिऽ इति बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति ।
तदेवमहर्निशमविहितसुखलेशमायासबहुलमविरलकदर्थनं च नयतो ऽनयज्ञस्यास्तां चक्रवार्तिता स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत् ।
शास्त्रज्ञसमाज्ञातो हि यद्ददाति , यन्मानयति , यत्प्रियं ब्रवीति , तत्सर्वमतिसंधातुमित्यविश्वासः ।
अविश्वासता हि जन्मभूमिरलक्ष्म्याः ।
यावता च नयेन विना न लोकयात्रा स लोक एव सिद्धः नात्र शास्त्रेणार्थः स्तनन्धयो ऽपि हि तैस्तैरुपायैः स्तनपानं जनन्या लिप्सते तदपास्यातियन्त्रणामनुभूयन्तां यथेष्टमिन्द्रियसुखानि ।
यऽप्युपदिशन्ति "एवमिन्द्रियाणि जेतव्यानि , एवमरिषड्वर्गस्त्याज्यः , सामादिरुपायवर्गः स्वेषु परेषु चाजस्रं प्रयोज्यः , संधिविग्रहचिन्तयैव नेयः कालः , स्वल्पो ऽपि सुखस्यावकाशो न देयःऽ इति , तैरप्येभिर्मन्त्रिबकैर्युष्मत्त्श्चौर्यार्जितं धनं दासीगृहेष्वेव भुज्यते ।
के चैते वराकाः ।
ये ऽपि मन्त्रकर्कशास्तन्त्रकर्तारः शुक्राङ्गिरसविशालाक्षबाहुदन्तिपुत्रपराशरप्रभृतयस्तैः -किमरिषड्वर्गो जितः , कृतं वा तैः शास्त्रानुष्ठानम् ।
तैरपि हि प्रारब्धेषु कार्येषु दृष्टे सिद्ध्यसिद्धी ।
पठन्तश्चापठद्भिरतिसंधीयमाना बहवः ।
नन्विदमुपपन्नं देवस्य , यदुत सर्वलोकस्य वन्द्या जातिः , अयातयामं वयः , दर्शनीयं वपुः , अपरिमाणा विभूतिः ।
तत्सर्वं सर्वाविश्वासहेतुना सुखोपभोगप्रतिबन्धिना बहुमार्गविकल्पनात्सर्वकार्येष्वमुक्तसंशयेन तन्त्रावापेन मा कृथा वृक्षा ।
सन्ति हि ते दन्तिनां दशसहस्राणि , हयानां लक्षत्रयम् , अनन्तं च पादातम् ।
अपि च पूर्णान्येव हैमरत्नैः कोशगृहाणि ।
सर्वश्चैष जीवलोकः समग्रमपि युगसहस्रं भुञ्जानो न ते कोष्ठागाराणि रेचयिष्यति ।
किमिदमपर्याप्तं यदन्यायार्जितायासः क्रियते ।
जीवितं हि नाम जन्मवतां चतुःपञ्चान्यहानि ।
तत्रापि भोगयोग्यमल्पाल्पं वयः -खण्डम् ।
अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते ।
नार्जितस्य वस्तुनो लवमप्यास्वादयितुमीहन्ते ।
किं बहुना राज्यभारं भारक्षमेष्वन्तरङ्गेषु भक्तिमत्सु समर्प्य , अप्सरःप्रतिरूपाभिरन्तःपुरिकाभी रममाणो गीतसंगीतपानगोष्ठीश्च यथर्तु बध्नन्यथार्हं कुरु शरीरलाभम्ऽ इति पञ्चाङ्गीस्पृष्टभूमिरञ्जलिचुम्बितचूडश्चिरमशेत ।
प्राहसीच्च प्रीतिफुल्ललोचनो ऽन्तःपुरप्रमदाजनः ।
जननाथश्च सस्मितम् "उत्तिष्ठ , ननु हितोपदेशाद्गुरवो भवन्तः ।
किमिति गुरुत्वविपरीतमनुष्ठितम्ऽ इति तमुत्थाप्य क्रीडीनिर्भरमतिष्ठत् ।
अथैषु दिनेषु भूयोभूयः प्रस्तुतेर्ऽथे प्रेर्यमाणो मन्त्रिवृद्धेन , वचसाभ्युपेप्य मनसैवाचित्तज्ञ इत्यवज्ञातवान् ।
अथैवं मन्त्रिणो मनस्यभूत् --"अहो मे मोहाद्बालिश्यम् ।
अरुचितेर्ऽथे चोदयन्नर्थीवाक्षिगतो ऽहमस्य हास्यो जातः ।
स्पष्टमस्य चेष्टानामायथापूर्व्यम् ।
तथा हि ।
न मां स्निग्धं पश्यति , न स्मितपूर्वं भाषते , न रहस्यानि विवृणोति , न हस्ते स्पृशति , न व्यसनेष्वनुकम्पते , नोत्सवेष्वनुगृह्णाति , न विलोभनवस्तु प्रेषयति , न मत्सुकृतानि प्रगणयति , न मे ग -हवार्तां पृच्छति , न मत्पक्षान्प्रत्यवेक्षते , न मामासन्नकार्येष्वभ्यन्तरीकरोति , न मामन्तःपुरं प्रवेशयति ।
अपि च मामनर्हेषु कर्मसु नियुङ्क्ते , मदासनमन्यैरवष्टभ्यमानमनुजानाति , मद्वैरिषु विश्रम्भं दर्शयति , मदुक्तस्योत्तरं न ददाति , मत्समानदोषान्वगर्हति , मर्मणि मामुपहसति , स्वमतमपि मया वर्ण्यमानं प्रतिक्षिपति , महार्हाणि वस्तूनि मत्प्रहितानि नाभिनन्दति , नयज्ञानां स्खलितानि मत्समक्षं मूर्खैरुद्धोषयति , सत्यमाहचाणक्यः -"चित्तज्ञानानुवर्तिनो ऽनर्था अप प्रियाः स्युः ।
दक्षिणा अप तद्भावबहिष्कृता द्वेष्या भवेयुःऽ इति ।
तथापि का गतिः ।
अविनीतो ऽपि न परित्याज्यः पितृपितामहानुयातैरस्मादृशैरयमधिपतिः ।
अपरित्यजन्तो ऽपि कमुपकारमश्रूयमाणवाचः कुर्मः ।
सर्वथा नयज्ञस्य वसन्तभानोरश्मकेन्द्रस्य हस्ते राज्यमिदं पतितम् ।
अपि नामापदो भाविन्यः प्रकृतिस्थमेनमापादयेयुः ।
अनर्थेषु सुलभव्यलीकेषु क्वचिदुत्पन्नो ऽपि द्वेषः सद्वृत्तमस्मैरोचयेत् ।
भवतु भविता तावदनर्थः ।
स्तम्भितपिशुनजिह्वो यथाकथञ्चिदभ्रष्टपदस्तिष्ठेयम्ऽ इति ।
एवं गते मन्त्रिणि , राजनि च कामवृत्ते , चन्द्रपालितो नामाश्वकेन्द्रामात्यस्येन्द्रपालितस्य सूनुः , असद्वृत्तः पितृनिर्वासितो नाम भूत्वा , बहुभिश्चारणगणैर्बह्वीभिरनल्पकौशलाभिः शिल्पकारिणीभिरनेकच्छन्नकिङ्करैश्च परिवृतो ऽब्येत्य विविधाभिः क्रीडाभिर्विहारभद्रमात्मसादकरोत् ।
अमुना चैव संक्रमेण राजन्यास्पदमलभत ।
लब्धरन्ध्रश्च स यद्यद्वय्यसनमारभते तत्तथेत्यवर्णयत् --"देव , यथा मृगया ह्यौपकारिकी न तथान्यत् ।
अत्र हि व्यायामोत्कर्षादापत्सूपकर्ता दीर्घाध्वलङ्घनक्षमो जङ्घाजवः , कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः , मेदोपकर्षादङ्गानां स्थैर्यकार्कश्यातिलाघवादीनि , शीतोष्णवातवर्षक्षुत्पिपासासहत्वम् , सत्त्वानामवस्थान्तरेषु चित्तचेष्टितज्ञानम् , हरिणगवलगवयादिवधेन सस्यलोपप्रतिक्रिया , वृकव्याघ्नादिघातेन स्थलपथशल्यशोधनम् , शैलाटवीप्रदेशानां विविधकर्मक्षमाणामालोचनम् , आटविकवर्गविश्रम्भणम् , उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।
द्यूते ऽपि द्रव्यराशेस्तृणवत्त्यागादनुपमानमाशयौदार्यम् , जयपराजयानवस्थानाद्धर्षविवादयोरविवेयत्वम् , पौरुषैकनिमित्तस्यामर्षस्य वृद्धिः , अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्मणामुपलक्षणादनन्तबुद्धिनैपुण्यम् , एकविषयोपसंहाराच्चित्तस्यातिचित्रमैकाग्र्यम् , अध्यवसायसहचरेषु साहसेष्वतिरतिः , अतिकर्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता , मानावधारणम् , अकृपणं च शरीरयापनमिति ।
उत्तमाङ्गनोपभोगे ऽप्यरह्थधर्मयोः सफलीकरणम् , फुष्कलः पुरुषाभिमानः भावज्ञानकौशलम् , अलोभक्लिष्टमाचेष्टितम् , अखिलासु कलासु वैचक्षण्यम् , अलब्धोपलब्धिलब्धानुरक्षणरक्षितोपभोगभुक्तानुसंधानरुष्टानुनयादि ष्वजस्रमभ्युपायरचनया बुद्धिवाचोः पाटवम् , उत्कृष्टशरीरसंस्कारात्सुभगवेषतया लोकसंभावनीयता , परं सुहृत्प्रियत्वम् , गरीयसी परिजनव्यपेक्षा , स्मितपूर्वाभिभाषित्वम् , उद्रिक्तसत्त्वता , दाक्षिण्यानुवर्तनम् ।
अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति ।
पाने ऽपि नानाविधरागभङ्गपटीयसामासवानामासेवनात्स्पृहणीयवयोव्यवस्थापनम् , अहङ्कारप्रकर्षादशेषदुः -खतिरस्करणम् , अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम् , अपराधप्रमार्जनान्मनःशल्योन्मार्जनम् , अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम् , अपराधप्रमार्जनान्मनःशल्योन्मार्जनम् , अश्राव्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणम् , मत्सराननुबन्धादानन्दैकतानता , शब्दादीनामिन्द्रियार्थानां सातत्येनानुभवः , संविभागशीलतया सुहृद्वर्गसंवर्गणम् , अनुपमानमङ्गलावण्यम् , अनुत्तराणि विलसितानिं , भयार्तिहरणाच्च साङ्ग्रमिकत्वमिति ।
वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि ।
नहि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुलमलम् , अबलम्बितुं च लोकतन्त्रम्ऽ इति ।
असावपि गुरुपदेशमिवात्यादरेण तस्य मतमन्ववर्तत ।
तच्छीलानुसारिण्यश्च प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि ।
सर्वश्च समानदोषतया न कस्यचिच्छिद्रान्वेषणायायतिष्ट ।
समानभर्तृप्रकृतयस्तन्त्राध्यक्षाः स्वानि कर्मफलान्यभक्षयन् ।
ततः क्रमादायद्वाराणि व्यशीर्यन्त ।
व्ययमुखानि विटविधेयतया विभोरहरहर्व्यवर्धन्त ।
सामन्तपौरजानपदमुख्याश्च समानशीलतयोपारूढविश्रम्भेण राज्ञा सजानयः पानगोष्ठीष्वभ्यन्तरीकृताः स्वंस्वमाचारमत्याचारिषुः ।
तदङ्गानासु चानेकापदेशपूर्वमपाचरन्नरेन्द्रः ।
तदन्तःपुरेषु चामी भिन्नवृत्तेषु मन्द्रत्रासा बहुसुखैरवर्तन्त ।
सर्वश्च कुलाङ्गनाजनः सुलभभङ्गिभाषणरतो भग्नचारित्रयन्त्रणस्तृणायापि न गणयित्वा भर्तॄन्धातृणमन्त्रणान्यशृणोत् ।
तन्मूलाश्च कलहाः सामर्षाणामुदभवन् ।
अहन्यन्त दुर्बला बलिभिः ।
अपहृतानि धनवतां धनानि तस्करादिभिः ।
अपहृतपरिभूतयः प्रहताश्च पातकपथाः ।
हतबान्धवा हृतवित्ता बधबन्धातुराश्च मुक्तकण्ठमाक्रोशन्नश्रुकण्ठ्यः प्रजाः ।
दण्डश्चायथाप्रणीतो भयक्रोधावजनयत् ।
कृशकुटुम्बेषु लोभः पदमधत्तः विमानिताश्च तेजस्विनो ऽमानेनादह्यन्त ।
तेषु तेषु चाकृत्येषु प्रासरन्परोषजापाः ।
तदा च मृगयुवेषमृगबाहुल्यवर्णनेनाद्रिद्रोणीरनपसारमार्गाः सुष्कतृणवंशगुल्माः प्रवेश्य द्वारतो ऽग्निविसर्गैः , व्याघ्रादिवधे प्रोत्साह्य तन्मुखपातनैः , इष्टकूपतृष्णोत्पादनेनातिदूरहारितानां प्राणहारिभिः क्षुत्पिपासाभिवर्धनैः , तृणगुल्मगूढतटप्रदरपातहेतुभिर्विषममार्गप्रधावनैः , विषमुखीभिः क्षुरिकाभिश्चरणकण्टकोद्धरणैः विष्वग्विसरविच्छिन्नानुयातृतयैकाकीकृतानां यथेष्टघातनैः , मृगदेहापराद्धैर्नामेषुमोक्षणैः , सपणबन्धमधिरुह्याद्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैः , आटविकच्छद्मना विपिनेषु विरलसैनिकानां प्रतिरोधनैः , अक्षद्यूतपक्षियुद्धयात्रोत्सवादिसंकुलेषु बलबदनुप्रवेशनैः , इतरेषां हिंसोत्पादनैः , गूढोत्पादितव्यलीकेभ्यो ऽप्रियाणि प्रकाशं लब्ध्वा साक्षिषु तद्विख्याप्याकीर्तिगुप्तिहेतुभिः पराक्रमैः , परकलत्रेषु सुहृत्तेवनाभियोज्य जारान्भर्तॄनुमयं वा प्रहृत्य तत्साहसोपन्यासैः , योग्यनारीहारितानां संकेतेषु प्रागुपनिलीय पश्चादभिदुत्याकीर्तनीयैः प्रमापणैः , उपप्रलोभ्य बिलप्रवेशेषु निधानखननेषु मन्त्रसाधनेषु च विघ्नव्याजसाध्यैर्व्यापादनैः , मत्तगजाधिरोहणाय प्रेय प्रत्यपायनिवर्तनैः , व्यालहस्तिनं कोषयित्वा लक्ष्यीकृतमुक्यमण्डलेष्वपक्रमणैः , योग्याङ्गनाभिरहर्निशमभिरमय्य राजयक्ष्मोत्पादनैः , वस्त्राभरणमाल्याङ्गरागादिषु रसविधानकौशलैः , चिकित्सामुखेनामयोपबर्हणैरन्यैश्चाभ्युपायेरश्मकेन्द्रप्रयुक्तास्तीक्ष्णरसदादयः प्रक्षपितप्रवीरमनन्तवर्मकटकं जर्जरमकुर्वन् ।
अथ वसन्तभानुर्भानुवर्माणं नाम वानवास्यं प्रोत्साह्यानन्तवर्मणा व्यग्राहयत् ।
तत्परामृष्टराष्ट्रपर्यन्तश्चानन्तवर्मा तमभियोक्तुं बलसमुत्थानमकरोत् ।
सर्वसामन्तेभ्यश्चाश्मकेन्द्रः प्रागुपेत्यास्य प्रियतरो ऽभूत् ।
अपरे ऽपि सामान्ताः ससगंसत ।
गत्वा चाभ्यर्णे नर्मदारोधसि न्यविशन ।
तस्मिंश्चावसरे महासामन्तस्य कुन्तलपतेरवन्तिदेवस्यात्मनाटकीयां क्ष्मातलोर्वशीं नाम चन्द्रपालितादिभिरतिप्रशस्तनृत्यकौशलामाहूयान्तवर्मा नृत्यमद्राक्षीत् ।
आतिरक्तश्च भुक्तवानिमां मधुमत्ताम् ।
अश्मकेन्द्रस्तु कुन्तलपतिमेकान्ते समभ्यधत्त -"प्रमत्त एष राजा कलत्राणि नः परामृशति ।
कियत्यवज्ञा सोढव्या ।
मम शतमस्ति हस्तिनाम् , पञ्चशतानि च ते ।
तदावां संबूय मुरलेशं वीरसेनमृचीकेशमेकवीरं कोङ्कणपतिं कुमारगुप्तं सासिक्यनाथं च नागपालमुपजपाव ।
ते चावश्यमस्याविनयमसहमाना अस्मन्मतेनैवोपावर्तेरन् ।
अयं च वानवास्यः प्रियं मे मित्रम् ।
अमुनैनं दुर्विनीतमग्रतो व्यतिपक्तं पृष्टतः प्राहरेम ।
कोशवाहनं च विभज्य गृह्णीमःऽ इति ।
हृष्टेन चामुनाभ्युपेते , विंशतिं वशरांशुकानाम् , पञ्चविंशतिं काञ्जनकुङ्कुमपलानाम् , प्राभृतीकृत्याप्तमुखेन तैः सामन्तैः संमन्त्र्य तानपि स्वमतावस्थापयत् ।
उत्तरेद्युस्तेषां सामन्तानां वानवास्यस्य च अनन्तवर्मा नयद्वेषादामिपत्वमगमत् ।
वसन्तभानुश्च तत्कोशवाहनमवशीर्णमात्माधिष्टितमेव कृत्वा यथाप्रयासं यथाबलं च विभज्य गृह्णीत ।
युष्मदनुज्ञया येनकेनचिदंशेनाहं तुष्यामिऽ इति शाठ्यात्सर्वानुवर्त्ती , तेनैवामिषेण निमित्तीकृतेनोत्पादितकलहः सर्वसामन्तानध्वंसयत् ।
तदीयं च सर्वस्वं स्वयमेवाग्रसत् ।
वानवाम्यं केनचिदंशेनानुगृह्य प्रत्यावृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् ।
अस्मिंश्चान्तेर मन्त्रिवृद्धो वसुरक्षितः कैश्चिन्मौलैः संभूय बालमेनं भास्करवर्माणम् , अस्यैव ज्यायसीं बगिनीं त्रयोदशवर्षां मञ्जुवादिनीम् , अनयोश्च मातरं महादेवीं वसुंधरामादायापसर्पन्नापदो ऽस्या भावितया दाहज्वरेण देहमजहात् ।
अस्मादृशैर्मित्रैस्तु नीत्वा माहिष्मतीं भर्तृद्वैमातुराय भ्रात्रे मित्रवर्मणे सापत्या देवी दर्शिताभूत् ।
तां चार्यामनार्यो ऽसावन्यथाभ्यमन्यत ।
निर्भर्त्सितश्च तया "सुतमियमखण्डचारित्रा राज्यर्हिं चिकीर्षतिऽ इति नैर्घृण्यात्तमेनं बालमजिघांसीत् ।
इदं तु ज्ञात्वा देव्याहमाज्ञप्तः -"तात , नालीजङ्गः , जीवतानेनार्भकेण यत्र क्वचिदवधाय जीव ।
जीवेयं चेदहमप्येनमनुसरिष्यामि ।
ज्ञापय मां क्षेमप्रवृत्तः व्यगाहिषि ।
पादचारिणं चैनमाश्वासयितुं घोषे क्वचिदहानि कानिचिद्विश्रमय्य , तत्रापि राजपुरुषसंपातभीतो दुरध्वमपासरम् ।
तत्रास्य दारुणपिपासापीडितस्य वारि दातुकामः कूपे ऽस्मिन्नपभ्रश्य पतितस्त्वयैवमनुगृहीतः ।
स्वमेवास्यातः शरणमेधि विशरणस्य राजसूनोःऽ इत्यञ्जलिमबध्नात् ।
"किमीया जात्यास्य माताऽ इत्यनुयुक्ते मयामुनोक्तम् -"इत्यञ्जलिमबध्नात् ।
"किमीया जात्यास्य माताऽ इत्यनुयुक्ते मयामुनोक्तम् -"पाटलिपुत्रस्य वणिजो वैश्रवणस्य दुहितरि सागरदत्तायां कोसलेन्द्रात्कुसुमधन्वनो ऽस्य माता जाताऽ इति ।
"यद्येवमेतन्मातुर्मत्पितुश्चैको मातामहःऽ इति सस्नेहं तमहं सस्वजे ।
वृद्धेनोक्तम् -"सिन्धुदत्तपुत्राणां कतमस्ते पिताऽ इति ।
"सुश्रुतःऽ इत्युक्ते सो ऽत्यहृष्यत् ।
अहं तु "तपनयावलिप्तमश्मकनयेनैवोन्मूल्य बालमेनं पित्र्ये पदे प्रतिष्ठापयेयम्ऽ इति प्रतिज्ञाय कथमस्यैनां क्षुधं क्षपयेयम्ऽ इत्यचिन्तयम् ।
तावदापतितौ च कस्यापि व्याधस्य त्रीनिपूनतीत्य द्वौ मृगौ स च व्याधः ।
तस्य हस्तादवशिष्टमिषुद्वयं कोदण्डं चाक्षिष्यावधिषम् ।
एकश्च सपत्राकृतो ऽन्यश्च निष्पत्राकृतो ऽपतत् ।
तं चैकं मृगं दत्त्वा मृगयवे , अन्यस्यापलोमत्वचः क्लोमापाह्ये , निष्कुलाकृत्य विकृत्योर्वङ्घ्रिग्रीवादीनि शूलाकृत्य दावाङ्गारषुष तप्तेनामिषेण तयोरात्मनश्च क्षुधमतार्षम् ।
एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरातमस्मि पृष्टवान् -"अपि जानासि माहिष्मतीवृत्तान्तम्ऽ इति ।
असावाचष्ट -" तत्र व्याघ्रत्वचो दृतश्चि विक्रीयादैवागतः किं न जानामि ।
प्रचण्डवर्मा नाम चण्डवर्मानुजो मित्रवर्मदुहितरं मञ्जुवादिनीं विलिप्सुरभ्येतीति तेनोत्सवोत्तरा पुरीऽ इति ।
अथ कर्णे जीर्णमब्रवम् -"धूर्तो मित्रवर्मा दुहितरि सम्यक्प्रतिपत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृष्य बालकं जिघांसति ।
तत्प्रतिगत्यं कुशलमस्य मद्वार्ता च देव्यै रहो निवेद्य पुनः कुमारः शार्दूलभक्षित इति प्रकाशमाक्रोशनं कार्यम् ।
स दुर्मतिरन्तःप्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति ।
पुनस्तया त्वन्मुखेन स वाच्यः -"यदपेक्षया त्वन्मतमत्यक्रमिषं सो ऽपि बालः पापेन मे परलोकमगात् ।
अद्य तु त्वदादेशकारिण्येवाहम्ऽ इति ।
स तयोक्तः प्रीतिं प्रतिपद्याभिपत्स्यति ।
पुनरनेन वत्सनाभनाम्ना महाविषेण संनीय तोयं तत्र मालां मज्जयित्वा तया स वक्षसि मुखे च हन्तव्यः ।
"स एवायमसिप्रहारः पापीयसस्तव भवतु यद्यस्मि पतिव्रताऽ ।
पुनरनेनागदेन संगमिते ऽम्भसि तां मालां मज्जयित्वा स्वदुहित्रे देया ।
मृते तु तस्मिंस्तस्यां च निर्विकारायां सत्याम् , सतीत्येवैनां प्रकृतयो ऽनुवर्तिष्यन्ते ।
पुनः प्रचण्डवर्मणे संदेश्यम् -"अनायकमिदं राज्यम् ।
अनेनैव सह वालिकेयं स्वीकर्तव्याऽ इति ।
तावदावां कापालिकवेपच्छन्नौ देव्यैव दीयमानभिक्षौ पुरो वहिरुपश्मशानं वत्स्यावः ।
पुनरार्यप्रायान्पौरवृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी -"स्वप्ने ऽद्य मे देव्या विन्ध्यवासिन्या कृतः प्रसादः ।
अद्य चतुर्थे ऽहनि प्रचण्डवर्मा मरिष्यति ।
पञ्चमे ऽहनि रेवातटवर्तिनि मद्भवने परीक्ष्य वैजन्यम् , जनेषु निर्गतेषु कपाटमुद्धाट्य त्वत्सुतेन सह को ऽपि द्विजकुमारो निर्यास्यति ।
स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति ।
स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः ।
सा चेयं वत्सा मञ्जुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पिताऽ इति ।
तदेतदतिरहस्यं युष्मास्वेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यतेऽ इति ।
स सांप्रतमतिप्रीतः प्रयातोर्ऽथश्चयायं यथाचिन्तितमनुष्ठितो ऽभूत् ।
प्रतिदिशं च लोकवादः प्रासर्पत् -"अहो माहात्म्यं पतिव्रतानाम् ।
असिप्रहार एव हि स मालाप्रहारस्तस्मै जातः ।
न शक्यमुपधियुक्तमेतत्कर्मेति वक्तुम् ।
यतस्तदेव दत्तं दाम दुहित्रे स्तनमण्डनमेव तस्यै जातं न मृत्युः ।
यो ऽस्याः पतिव्रतायाः शासनमतिवर्तते स भस्मैव भवेत्ऽ इति ।
अथ महाव्रतिवेषेण मां च पुत्रं च भिक्षायै प्रविष्टौ दृष्ट्वा प्रस्नुतस्तनी प्रत्युत्थाय हर्षाकुलमब्रवीत् -"भगवन् , अयमञ्जलिः अनाथो ऽयं जनो ऽनुगृह्यताम् ।
असति ममैकः स्वप्नः स किं सत्यो न वाऽ ति ।
मयोक्तम् -"फलमस्याद्यैव द्रक्ष्यसिऽ इति ।
"यद्येवं बहु भागधेयमस्या वो दास्याः ।
स खल्वस्याः सानाथ्यशंसी स्वप्नःऽ इति मद्दर्शनरागबद्धसाध्वसां मञ्जुवादिनीं प्रणमय्य , भूयो ऽपि सा हर्षगर्भमब्रूत -"तच्चेन्मिथ्या सो ऽयं युष्मदीयो बालकपाली श्वो मया निरोद्धव्यःऽ इति ।
मयापि सस्मितं मञ्जुवादिनीरागलीनदृष्टिलीढधैर्येण "एवमस्तुऽ इति लब्धभैक्षः , नालीजङ्घमाकार्य निर्गम्य ततश्च तं चानुयान्तं शनैरपृच्छम् -"क्वासावल्यायुः प्रथितः प्रचण्डवर्माऽ इति ।
सो ऽब्रूत -"राज्यमिदं ममेत्यपास्तशङ्को राजास्थानमण्डप एव तिष्ठत्युपास्यमानः कुशीलवैःऽ इति ।
"यद्येवमुद्याने तिष्ठऽ इति तं जरन्तमादिश्य तत्प्रकारैकपार्श्वैक्वचिच्छून्यमठिकायां मात्राः समवतार्य , तद्रक्षणनियुक्तराजपुत्रः , कृतकुशीलववेषलीलः प्रचण्डवर्माणमेत्यान्वरञ्जयम् ।
अनुरञ्जितातपे तु समये , जनसमाजज्ञानोपयोगीनि संहृत्य नृत्यगीतनानारुदितादिहस्तचङ्क्रमणमूर्ध्वपादालातपादपीठवृश्चिकमकरलङ्घनादीनि मस्त्योद्वर्तनादीनि च करणानि , पुनरादायादायासन्नवर्तिनां क्षुरिकाः ताभिरुपाहितवर्ष्मा चित्रदुष्कराणि करणानि श्येनपातोत्क्रोशपातादीनि दर्शयन् , विंशतिचापान्तरालावस्थितस्य प्रचण्डवर्मणश्छुरिकयैकया प्रत्युरसं प्रहृत्य , "जीव्याद्वर्षसहस्रं वसन्तभानुःऽ इत्यभिगर्जन् , मद्गात्रमरुकर्तुमुद्यतासेः कस्यापि चारभटस्य पीवरांसबाहुशिखरमाक्रम्य , तावतैव तं विचेताकुर्वन् , साकुलं च लोकमुच्चक्षूकुर्वन् , द्विपुरुषोच्छ्रितं प्राकारमत्यलङ्घयम् ।
अवप्लुत्य चोपवने "मदनुपातिनामेष पन्था दृश्यतेऽ इति ब्रुवाण एव नालीजङ्घसमीकृतसैकतस्पृष्टपादन्यासया तमालवीथ्या चानुप्राकारं प्रचा प्रतिप्रधावितः॑ पुनरवाचोच्चितेष्टकचितत्वादलक्ष्यपातेन प्रद्रुत्य , लङ्घितप्राकारवप्रखातवलयः , तस्यां शन्यमठिकायां तूर्णमेव प्रविश्य , प्रतिमुक्तपूर्ववेषः सह कुमारेण मत्कर्मतुमुलराजद्वारदुःखलब्धवर्तमा श्मशानोद्देशमभ्यगाम् ।
प्रागेव तस्मिन्दुर्गागृहे प्रातिमाधिष्ठान एव मया कृतं भग्रपार्श्वस्थैर्यस्थूलप्रस्तरस्थगितबाह्मद्वारं बिलम् ।
अथ गलति मध्यरात्रे वर्षवरोपनीतमहार्हरत्नभूषणपट्टनिवसनौ तद्बिलमावां प्रविश्य तूष्णीमतिष्ठाव ।
देवी तु पूर्वेद्युरेव यथार्हमग्निसंस्कारं मालवाय दत्त्वा प्रचण्डवर्मणे चण्डवर्मणे च तामवस्थामश्मकेन्द्रोपधिकृतामेव संदिश्य , उत्तरेद्युः प्रत्युषस्येव पूर्वसंकेतितपौरामात्यसामन्तवृद्धैः सहाभ्यत्य भगवतीमर्चयित्वा समर्चनप्रत्यक्षं परीक्षितकुक्षिवैजन्यं तद्भवनं पिधाय दत्तदृष्टिः सह जनेन स्थित्वा , पटीयांसं पटहशब्दमकारयत् ।
अणुतररन्ध्रप्रविष्टेन तेन नादेनाहं दत्तसंज्ञः शिरसैवोत्क्षिप्य सप्रतिमं लोहपादपीठमंसलपुरुषप्रयत्नदुश्चलमुभयकरविधृतमेकपाश्व्रमेकतो निवेश्य निरगमम् ।
निरगमयं च कुमारम् ।
अथ यथापूर्वमर्चयित्वा दुर्गामुद्धाटितकपाटः प्रत्यक्षीभूय प्रत्ययहृष्टदृष्टि ।
स्पष्टरोमाञ्चमुद्यताञ्जलिरूढविस्मयं च प्रणिपतन्तीः प्रकृतीरभ्यधाम् -"इत्थं देवी विन्ध्यवासिनी मन्मुखेन युष्मानाज्ञापयति -मया सकृषया शार्दूलरूपैण तिरस्कृत्याद्य वो दत्तमेनमद्यप्रभृति मत्पुत्रतया मन्दमातृपक्ष इति परिगृह्णन्तु भवन्तः ।
अपि च दुर्घटकूटकोटिघटनापाटवप्रकटशाठ्यनिष्ठुराश्मकघटघट्टनात्मानं मां मन्यध्वमस्य रक्षितारम् ।
रक्षानिर्वेशश्चास्य स्वसेयं सुभ्रूरभ्यनुज्ञाता मह्यमार्ययाऽ इति ।
श्रुत्वैतत् "अहो भाग्यवान्भोजवंशः , यस्य त्वमार्यादत्तो नाथःऽ इत्यप्रीयन्त प्रकृतयः ।
सा तु वाचामगोचरां हर्षावस्थामस्पृशन्मे श्वश्रूः ।
तदहरेव च यथावदग्राहयन्मञ्जुवादिनीपाणिपल्लवम् ।
प्रपन्नायां च यामिन्यां सम्यगेव बिलप्रत्यपूरयम् ।
अलब्धरन्ध्रश्च लोको नष्टमुष्टिचिन्तादिकथनैरभ्युपायान्तरप्रयुक्तैर्द्विव्यांशतामेव मम समर्थयमानः , मदाज्ञां नात्यवर्तत ।
राजपुत्रस्यार्यापुत्र इति प्रभावहेतुः प्रसिद्धिरासीत् ।
तं च गुणवत्यहनि भद्राकृतमुपनाय्य पुरोहितेन पाठयन्नीतिं राजकार्याण्यन्वतिष्ठम् ।
अचिन्तयं च -"राज्यं नाम शक्तित्रयायत्तम , शक्तयश्च मन्त्रप्रभावोत्साहाः परस्परानुगृहीताः कृत्येषु क्रमन्ते ।
मन्त्रेण हि विनिश्चयोर्ऽथानाम् , प्रभावेण प्रारम्भः , उत्साहेन निर्वहणम् ।
अतः पञ्चाङ्गमन्त्रमूलः , द्विरूपप्रभावस्कन्धः , चतुर्गणोत्साहविटपः , द्विसप्ततिप्रकृतिपत्रः , षड्गुणकिसलयः , शक्तिसिद्धिपुष्पफलश्च , नयवनस्पतिर्नेतुरुपकरोति ।
स चायमनेकाधिकरणत्वादसहायेन दुरुपजीव्यः ।
यस्त्वयमार्यकेतुर्नाम मित्रवर्ममन्त्री स कोसलाभिजनत्वात्कुमारमातृपक्षो मन्त्रिगुणैश्च युक्तः तन्मतिमवमत्यैव ध्वस्तो मित्रवर्मा , स चेल्लब्धः पेशलम्ऽ इति ।
अथ नालीजङ्घं रहस्यशिक्षयम् -"तात , आर्यमार्यकेतुमेकान्ते ब्रूहि -"को मायापुरुषो य इमां राज्यलक्ष्मीमनुभवति , स चायमस्मद्बालो भुजङ्गेनामुना परिगृहीतः ।
किमुद्गीर्येत ग्रस्येत वाऽ इति ।
स यद्वदिष्यति "तदस्मि बोध्यःऽ इति ।
सो ऽन्यदैवं मामावेदयत् -"मुहुरुपास्य प्राभृतैः प्रवर्त्य चित्राः कथाः , संवाह्य पाणिपादम् , अति विस्रम्भदत्तक्षणं तमप्राक्षं त्वदुपदिष्टेन नयेन ।
साप्येवमकथयत् -"भद्र , मैवं वादीः ।
अबिजनस्य शुद्धिदर्शनम् , असाधारणं बुद्धिनैपुणम् , अतिमानुषं प्राणबलम् , अपरिमाणमौदार्यम् , अत्याश्चर्यमस्त्रकौशलम् , अनल्पं शिल्पज्ञानम् , अनुग्रहार्द्रं चेतः , तेजश्चाप्यविषह्यमभ्यमित्रीणम् ।
इत्यस्मिन्नेव संनिपातिनो गुणाः ये ऽन्यत्रैकैकशो ऽपि दुर्लभाः ।
द्विषतामेष चिरबिल्वद्रुमः , प्रह्वाणां तु चन्दनतरुः , तमुद्धृत्य नीतिज्ञंमन्यमश्मकमिमं च राजपुत्रं पित्र्ये पदे प्रतिष्ठितमेव विद्धि ।
नात्र संशयः कार्यःऽ इति ।
तच्चापि श्रुत्वा भूयोभूयश्चोपदाभिर्विशोध्य तं मे मतिसहायमकरवम् ।
तत्सखश्च सत्यशौचयुक्तानमात्यान्विविधव्यञ्जनांश्च गूढपुरुषानुदपादयम् ।
तेभ्यश्चोपलभ्य लुब्धसमृद्धमत्युत्सिक्तमविधेयप्रायं च प्रकृतिमण्डलमलुब्धतामभिख्यापयन् , धार्मिकत्वमुद्भावयन , नास्तिकान्कदर्थयन् , कण्टकान्विशोधयन् , अमित्रोपधीनपघ्नन् , चातुर्वर्ण्यं च स्वधर्मकर्मसु स्थापयन् , अभिसमाहरेयमर्थानर्थमूला हि दण्डविशिष्टकर्मारम्भा न चान्यदस्ति पापिष्ठं तत्र दौर्बल्यात् , इत्याकलय्य योगानन्वतिष्ठम् ।
व्यचिन्तयं च --सर्वो ऽप्यतिशूरः सेवकवर्गो मयि तथानुरक्तो यथाज्ञया जीवितमपि तृणाय मन्यते ।
राज्यद्वितयसैन्यसामग्र्या च नाहमश्मकेशाद्वसन्तभानोर्न्यूनो नीत्याविष्टश्च ।
अतो वसन्तभानु पराजित्य विदर्भाधिपतेरनन्तवर्मणस्तनयं भास्करवर्माणं पित्र्ये पदे स्थापयितुमलमस्मि ।
अयं च राजसूनुर्भवान्या पुत्रत्वेन परिकस्पितः ।
अहं चास्य साहाय्ये नियुक्त इति सर्वत्र किंवदन्ती संजातास्ति ।
अद्यापि चैतन्मत्कपटकृत्यं न केनापि विदितम् , ।
अत्रस्थाश्चास्मिन्भास्करवर्मणि राजतनये "अयमस्मत्स्वामिनो ऽनन्तवर्मणः पुत्रो भवान्याः प्रसादादेतद्राज्यमवाप्स्यतिऽ इति बद्धाशा वर्तन्ते ।
अश्मकेशसैन्यं च राजसूनोर्भवानीसाहाय्यं विदित्वा "दव्याः शक्तेः पुरो न बलवती मानवी शक्तिःऽ इत्यस्माभिर्विग्रहे चलचित्तमिवोपलक्ष्यते ।
अत्रत्याश्च मौलाः प्रकृतयः प्रथममेव राजसुताभ्युदयाभिलाषिण्य इदानीं च पुनर्मया दानमानाद्यावजर्नन विश्वासिता विशेषेण राजपुत्रमेवाभिकाङ्क्षन्ति ।
अश्मकेन्द्रान्तरङ्गाश्च भृत्या मदीयैर्विश्वास्यतमैः पुरुषैः प्रभूतां प्रीतिमुत्पाद्य मदाज्ञया रहसीत्युपजप्ताः --"यूयमस्मन्मित्राणि , अतो ऽस्माकं शुभोदर्कं वचो वाच्यमव ।
अत्र भवान्या राजसूनोःसाहाय्यकाय विश्रुतं विश्रुतं मां नियुज्य तद्धस्तेनाश्मकेन्द्रस्य वसन्तभानोस्तत्पक्षेस्थित्वा ये चानेन सह योस्त्यन्ति तेषामप्यन्तकातिथिभवनं विहितम् ।
यावदश्मकेन्द्रेण स जन्यवृत्तिर्न जातस्तावदेनमनन्तवर्मतनयं भास्करवर्माणमनुसरिष्यथ ।
स वीतभयो भूयसीं प्रवृत्तमासाद्य सपरिजनः सुखन निवत्स्यति न चेद्भवानीत्रिशूलवश्यो भविष्यति ।
भवान्या च ममेत्याज्ञप्तमस्ति यदेकवरं सर्वेषां कथय ।
अतो मया युष्माभिः संहमैत्रीमवबुध्य सर्वेभ्यो गदितम्ऽ इत्याकर्ण्य ते ऽश्मकेन्द्रान्तरङ्गभृत्या राजसूनोर्भवानीवरं विदित्वा पूर्वमेव भिन्नमनस आसन् ।
विशेषतश्च मदीयमिति वचनं श्रुत्वा ते सर्वे ऽपि मद्वशे समभवन् ।
एन सर्वमपि वृत्तान्तभवबुध्याश्मकेशेन व्यचिन्ति --"यद्राजसूनोर्मौलाः प्रजास्ताः सर्वा अप्येनमेव प्रभुमभिलषन्ति ।
मदीयश्च बाह्म आभ्यन्तरो भृत्यवर्गो भिन्मना इब लक्ष्यते ।
एवं यद्यहं क्षमामवलम्ब्य गृह एव स्थास्यामि तत उत्पन्नोपजापं स्वराज्यमपि परित्रातु न शक्ष्यामि ।
अतो यावता भिन्नचित्तेन मदवबोधकं प्रकटयन्ता मद्बलेन सह मिथोवचनं न संजातं तावतैव तेन साकं विग्रहं रचयामि इत्येवं विहिते सो ऽवश्यं मदग्रे न क्षणमवस्थास्यतेऽ इति निश्चित्यान्यायेन परराज्यक्रमणपापप्रेरितः ससैन्यो मृत्युमुखमिवास्मत्सैन्यमभ्ययात् ।
तमभ्यायान्तं विदित्वा राजपुत्रः पुरो ऽभवत् ।
अतो ऽश्मकेन्द्रमेव तुरगाधिरूढो यान्तमभ्यसरम् ।
तावत् सर्वा एव तत्सेना "यदयमेतावतो ऽपरिमितस्यास्मत्सैन्यस्योपर्येक एवाभ्यागच्छति तत्र भवानीवर एवासाधारणं कारणं नान्यत्ऽ इति निश्चित्यालेख्यालिखिता इवावस्थिताः ।
ततो मयाभिगम्य संगराय समाहूतो वसन्तभानुः समेत्य मामसिप्रहारेण दृढमभ्यहन् ।
अहं च शिक्षाविशेषविफलिततदसिप्रहारः प्रतिप्रहारेण तं प्रहृत्यावकृत्तमश्मकेन्द्रशिरो ऽवनौ विनिपात्य तत्सैनिकानवदम् --"अतः परमपि ये युयुत्सवो भवन्ति ते समेत्य मया युध्यन्ताम् ।
न चेद्राजतनयचरणप्रणामं विधाय तदीयाः सन्तः स्वस्ववृत्त्युपभोगपूर्वकं निजान्निजानधिकारान्निःशङ्कं परिपालयन्तः सुखेनावतिष्ठन्तुऽ इति ।
मद्वचनश्रवणानन्तरं सर्वे ऽप्यश्मकेन्द्रसेवकाः खखवाहनात्सहसावतीर्य राजसूनुमानस्य तद्वशवर्तिनः समभवन् ।
ततो ऽहं तदश्मकेन्द्रराज्यं राजसूनुसाद्विधाय तद्रक्षणार्थं मौलान्त्वानधिकारिणो नियुज्यात्मीभूतेनाश्मकेन्द्रसैन्येन च साकं विदर्भानभ्येत्य राजधान्यां तं राजतनयं भास्करवर्माणमभिषिच्य पित्र्ये पदे न्यवेशयम् ।
एकदा च मात्रा वसुन्धरया सहावस्थितं तं राजानं वप्यजिज्ञपम् --"मयैकस्य कार्यस्यारम्भश्चिकीर्षितो ऽस्ति ।
स यावन्न सिद्ध्यति तानवन्मया न कुत्राप्येकत्रावस्थातुं शक्यम् ।
अत इयं मद्भार्या त्वद्भगिनी मञ्जुवादिनी कियन्त्यहानि युष्मदन्तिकमेव तिष्ठतु ।
अहं च यावदिष्टजनोपलम्भं कियन्तमप्यनेहसं भुवं विभ्रम्यं तमासाद्य पुनरत्र समेष्यामिऽ इत्याकर्ण्य मात्रानुमतेन राज्ञाहमगादि -"यदेतदस्माकमेतदराज्योपलम्भलक्षणस्यैतावतोभ्युदयस्यासाधारणो हेतुर्भवानेव ।
भवन्तं विना क्षणमप्यस्माभिरियं राज्यधूर्न निर्वाह्या ।
अतः किमेवं वक्ति भवान्ऽ इत्याकर्ण्य मया प्रत्यवादि -"युष्माभिरयं चिन्तालवो ऽपि न चित्ते चिन्तनीयः ।
युष्मद्गृहे यः सचिवरत्नमार्यकेतुरस्ति सर् इदृग्विधानामनेकेषां राज्यानां धुरमुद्वोढुं शक्तः ।
ततस्तं तत्र नियुज्याहं गमिष्यामिऽ इत्यादिवचनसंदोहैः प्रलोभितो ऽपि सजननीको नृपो ऽनेकैराग्रहैर्मां कियन्तमपि कालं प्रयाणोपक्रमात् न्यवर्तयत् ।
उत्कलाधिपतेः प्रचण्डवर्मणो राज्यं मह्यं प्रादान् ।
अहं च तद्राज्यमात्मसात्कृत्वा राजानमामन्त्र्य यावत्त्वदन्वेषणाय प्रयाणोपक्रमं करोमि तावदेवाङ्गनाथेन सिंहवर्मणा स्वसाहाय्यायाकारितो ऽत्र समागतः पूर्वपुण्यपरिपाकात्स्वामिना समगंसिऽ इति॥ इति श्रदण्डिनः कृतौ दशकुमारचरिते विश्रुतचरितं नामाष्टम उच्छ्वासः॥ ८ .॥ अथ कथोपसंहारः ।
ततस्ते तत्र संगता अपहारवर्मोपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे पूर्वकृतसंकेतं वामलोचनया भार्यया सह कुमारं सोमदत्तं सेवकैरानाय्य सराजवाहनाः संभूयावस्थिता मिथः सप्रमोदसंवलिताः कथा यावद्विदधति तावत्पुष्पपुराद्राज्ञो राजहंसस्याज्ञापत्रमादाय समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन् -"स्वामिन् , एतज्जनकस्य राजहंसस्याज्ञापत्र गृह्यताम्ऽ इत्याकर्ण्य समुत्थाय भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् ।
शिरसि चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवावाचयत् -"स्वस्ति श्रीः पुष्पपुरराजधान्याः श्रीराजहंसभूपतिश्चम्पानगरीमधिवसतो राजवाहनप्रमुखान् कुमारानाशास्याज्ञापत्रं प्रेषयति ।
यथा यूयमितो मामामन्त्र्य प्रणम्य प्रस्थिताः पथि कस्मिंश्चिद्वनोद्देश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः ।
तत्र राजवाहनं शिवपूजार्थंनिशि शिवालये स्थितं प्रातरनुपलभ्यावशिष्टाः सर्वे ऽपि कुमाराः "सहैव राजवाहनेन राजहंसं प्रणंस्यामो न चेत्प्राणांस्त्यक्ष्यामःऽ इति प्रतिज्ञाय सैन्यं परावर्त्य राजवाहनमन्वेष्टं पृथक्प्रस्थिताः ।
एतं भवद्वृत्तान्तं ततप्रत्यावृत्तानां सैनिकानां मुखादाकर्ण्यासह्यदुःखोदन्वति मग्नमनसावुभावहं युष्मज्जननी च "वामदेवाश्रमं गत्वैतद्वृत्तान्तं तद्विदितं विधाय प्राणपरित्यायं कुर्वःऽ इति निश्चित्य तदाश्रममुपगतौ तं मुनिं प्रणम्य यावत्स्थितौ तावदेव तेन त्रिकालवेदिना मुनिना विदितमेवास्मन्मनीषितम् ।
निश्चयमवबुध्य प्रावाचि -"राजन् , प्रथममेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि ।
यदत त्वत्कुमारा राजवाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसाधारणेन विक्रमेण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य षोढशाब्दान्ते विजयिनं राजवाहनं पुरस्कृत्य प्रत्येत्य तव वसुमत्याश्च पादानभिवाद्य भवदाज्ञाविधायिनो भविष्यन्ति ।
अतस्तन्निमित्तं किमपि साहसं न विधेयम्ऽ इति ।
तदाकर्ण्य तत्प्रत्ययाद्धैर्यमवलम्ब्याद्यप्रभृत्यहं देवी च प्राणमधारयाव ।
इदानीमासन्नवर्तिन्यवधौ वामदेवाश्रमे गत्वा विज्ञप्तिः कृता -"स्वामिन् , त्वदुक्तावधिः पूर्णप्रायो भवति तत्प्रवृत्तिस्त्वयाद्यापि विज्ञायतेऽ इति ।
श्रुत्वा मुनिरवदत् -"राजन् , राजवाहनप्रमुखाः सर्वे ऽपि कुमारा अनेकान्दुर्जयाञ्शत्रून्विजित्य दिग्विजयं विधाय भूवलयं वशीकृत्य चम्पायामेकत्र स्थिताः ।
तवाज्ञापत्रमादाय तदानयनाय प्रेष्यन्तां शीघ्रमेव सेवकाःऽ इति मुनिवचनमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति ।
अतःपरं चेत्क्षणमपि यूयं विलम्बं विधास्यथ ततो मां वसुमतीं च मातरं कथावशेषावेव श्रोष्यथेति ज्ञात्वा पानीयमपि पथि भूत्वा पेयम्ऽ इति ।
एवं पितुराज्ञापत्रं मूर्ध्नि विधृत्य गच्छेमेति निश्चयं चक्रुः ।
अथ वशीकृतराज्यरक्षापर्याप्रानि सैन्यानि समर्थतरान्पुरुषानाप्तान्स्थाने स्थाने नियुज्य कियता सैन्यैन मार्गरक्षां विधाय पूर्ववरिणं मालवेशं मानसार पराजत्य तदपि राज्यं वशीकृत्य पुष्पपुरे राज्ञो राजहंसस्य देव्या वसुमत्याश्च पादान्नमस्यामः ।
एवं निश्चित्य स्वस्वभार्यासंयुताः परिमितेन सैन्यन मालवेशं प्रति प्रस्थिताः ।
प्राप्य चोज्जयिनीं तदैव सहायभूतैस्तैः कुमारैः परिमितेन राजवाहनेनातिबलवानपि मालवेशो मानसारः क्षणेन पराजिग्ये निहतश्च ।
ततस्तद्दहितरमवन्तिसुन्दरीं समादाय चण्जवर्मणा तन्मन्त्रिणा पूर्वं कारागृहे रक्षितं पुष्पोद्भवं कुमारं सकुटुम्बं तत उन्मोचितं सह नीत्वा मालवेन्द्रराज्यं वशीकृत्य तद्रक्षणाय कांश्चित्सैन्यसाहितान्मान्त्रिणो नित्युज्यावशिष्टपरिमितसैन्यसहितास्ते कुमाराः पुष्पपुरं समेत्य राजवाहनं पुरस्कृत्य तस्य राजहंसस्य मातुर्वसुमत्याश्च चरणानभिवन्दितवन्तः ।
तौ च पुत्रसमागमं प्राप्य परमानन्दमधिगतौ ।
ततो राज्ञो वसुमत्याश्च देव्याः ।
समक्षं वामदेवो राजवाहनप्रमुखानां दशानामपि कुमाराणामभिलाषं विज्ञाय तानाज्ञापयत् --भवन्तः सर्वे ऽप्येकवारं गत्वा स्वानि स्वानि राज्यानि न्यायेन परिपालयन्तु ।
पुनर्यदेच्छा भवति तदा पित्रोश्चरणाभिवन्दनायागन्तव्यम्ऽ इति ।
ततस्ते सर्वे ऽपि कुमारास्तन्मुनिवचनं शिरम्याधाया तं प्रणम्य पितरौ च , गत्वा दिग्विजयं विधाय प्रत्यागमनान्तं स्वस्ववृत्तं पृथक्पृथड्मुनिसमक्षं न्यवेदयन् ।
पितरौ च कुमाराणां निजपराक्रमावबोधकान्यतिदुर्घटानि चरितान्याकर्ण्य परमानन्दमाप्नुताम् ।
ततो राजा मुनिं सविनयं व्यजिज्ञपत् --"भगवत् , तव प्रसादादग्माभिर्मनुजमनोरथाधिकमवाङ्मनरसगोचरं सुखमधिगतम् ।
अतःपरं मम स्वाभिचरणसंनिधौ वानप्रस्थाश्रममौ त्यात्मसाधनमेव विधातुमुचितम् ।
अतः पुष्पपुरराझ्ये मानसारराज्ये चराजबाहनमभिषिच्यावशिष्टानिराज्यानि नवभ्यः कुमारेभ्यो यथोचितं सम्प्रदाय ते कुमारा राजवाहनाज्ञाबिधायिनस्तदेकमत्या वर्तमानाश्चतुरुदधिमेखलां वसुंधरां समुद्धृत्य कण्टकानुपभुञ्जन्ति तथा विधेयं स्वामिना इति ।
तेषां तत्पितुर्वानग्रस्थाश्रमप्रहणोपक्रमनिषेधे भूयांसमाग्रहं विलोक्य मुनिस्तानबदत् -"भोः कुमारकाः , अयं युष्मज्जनक एतद्वयःसमुचिते पथि वर्मानः कायक्लेशं विनव मदाश्रमस्थो वानप्रश्थाश्रमाश्रयणं सर्वथा भवद्धर्नि निवारणीयः ।
अत्र स्थितस्त्वयं भङ्गवद्भक्तिमुपलप्स्यते ।
भवन्तश्च पितृसंनिधौ न सुखमवाप्स्थन्तिऽ इति महर्षेराज्ञामधिगम्य ते पितुर्वानप्रस्थाश्रमाधिगमप्रतिषेधाग्रहमत्यजन् ।
राजवाहनं पुष्पपुरे ऽवस्थाप्य तदनुज्ञया सर्वे ऽपि परिजनाः स्वानि स्वानि राज्यानि प्रतिपाल्य स्वेच्छया पित्रो समीप गतागतमकुर्वन् ।
एवमवस्थितास्ते राजवाहनप्रमुखाः सर्वे ऽपि कुमारा राजवाहनाज्ञया सर्वमपि वसुधावलयं न्यायेन परिपालयन्तः परस्परमैकमत्येन वर्तमानाः पुरन्दरप्रभृतिभिरप्यतिदुर्लभानि राज्यसुखान्यन्वभूवन् ॥२ ,८॥


इति श्रीदण्डिनः कृतौ दशकुमारचरिते कथोपसंहारः


इति श्रीमहामहोपाध्यायकविकुलसार्वभौमनिखिलविद्याकुमुदिनीशर्वरीश्वरसरस्वतीनिःश्वसितकषिदण्डिपण्डितविरचितं दशकुमारचरितं संपूर्णम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:15.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शिलाजित्

  • m  Bitumen. 
RANDOM WORD

Did you know?

गणपतीची पूजा आणि व्रत फक्त पुरूषच करतात, मग फक्त स्त्रियांसाठी गणेश व्रत आहे काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.