TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दशकुमारचरितम् - तृतीयोच्छ्वासः

दशकुमारचरित हे अत्यंत मधुर काव्य असून ते वाचल्याने अत्यंत समाधान मिळते .


तृतीयोच्छ्वासः

एषो ऽस्मि पर्यटन्नेकदा गतो विदेहेषु ।
मितिलामप्रविश्यैव बहिः क्वचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्तपाद्यः क्षणमलिन्दभूमाववास्थिषि ।
तस्यास्तु मद्दर्शनादेव किमप्याबद्धधारमश्रु प्रावर्तत ।
"किमेतदम्ब , कथय कारणम्ऽ इति पृष्टा सकरुणमाचष्ट --"जैवातृक , ननु श्रूयते पातिरस्या मिथिलायाः प्राहरवर्मा नामासीत् ।
तस्य खलु मगधराजो राजहंसः परं मित्रमासीत् ।
तयोश्च वल्लभे बलशम्बलयोरिव वसुमतीप्रियंवदे सख्यमप्रतिममधत्ताम् ।
अथ प्रथमगर्बाभिनन्दितां तां च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत् ।
तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि ।
तत्र लेशतो ऽपि दुर्लक्ष्यां गतिमगमन्मगधराजः , मैथिलेन्द्रस्तु मालवेन्द्रप्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्मप्रभृतिभिर्व्याप्तं राज्यमाकर्ण्य स्वस्रीयात्सुह्यपतेर्दण्डावयवमादित्सुरटवीपदमवगाह्यलुब्धकलुप्तसर्वस्वो ऽभूत् ।
तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिना वनचरशरवर्षभयपलायिता वनमगाहिषि ।
तत्र च मे शार्दूलनखावलीझनिपतितायाः पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
तच्छवाकर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् ।
भिल्लदारकैःस बालो ऽपाहारि ।
सात्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमावेश्यकृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया यावद्व्याकुलीभवामि तावन्ममैव दुहीता सह यूना केनापि तमेवोद्देशमागमत् ।
सा भृशं रूरोद ।
रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम् , आत्मनश्च केनापि वनचरेण व्रणविरोपणम् , स्वस्थायाश्च पुनस्तेनोपयन्तुं चिन्तिताया निकृष्टजातिसंसर्गवैक्लव्यात्प्रत्याख्यानपारुष्यम् , तदक्षणेण चामुना विविक्ते विपिने स्वशिरः - कर्तनोद्यमम् , अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम् , आत्मनश्चोपयमनमित्यकथयत् ।
स तु पृष्टो मैथिलेन्द्रस्यैव को ऽपि सेवकः कारणविलम्बी तन्मार्गानुसारि जातः ।
सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्रमस्य देव्याः प्रियंवदायाश्चादहाव ।
स च राजा दिष्टदोषाज्ज्येष्ठपुत्रैश्चिरं विगृह्य पुनरसहिष्णुतयातिमात्रं चिरं प्रयुध्य बद्धः ।
देवी च बन्धनं गमिता ।
दग्धा पुनरहमस्मिन्नपिवार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीपम् ।
दुहीता तु मम हतजीविताकृष्टा विकटवर्ममहादेवी कल्पसुन्दरी किलाशिश्रियत् ।
तौ चेद्राजपुत्रौनिरुपद्रवावेवावर्धिष्येताम् , इयता कालेन तवेमां वयोवस्थामम्प्रक्ष्येताम् ।
तयोश्च सतोर्न दायादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुःऽ इति प्रमन्युरभिरुरोद ।
श्रुत्वा च तापसीगिरमहमपि प्रवृद्धवाप्पो निगृढमभ्यधाम् -"यद्येवमम्ब , समाश्वसिहि ।
नन्वन्ति कश्चिन्मुनिस्त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितस्तेन स लब्धो वर्धतश्च ।
वार्तेयमतिमहती ।
किमनया ।
सो ऽहमस्मि ।
शक्यश्च मयासौ विकटवर्मा यताकथञ्चिदुपश्लिष्य व्यापादयितुम् ।
अनुजाः पुनरतिबहवः , तैरपि घटन्ते पौरजानपदाः ।
मां तु न कश्चिदिहत्यर्ः इदृक्तया जनो जानाति ।
पितरावपि तावन्मां न संविदाते , किमुतेतरे तमेनमर्थमुपायेन साधयिष्यामिऽ इत्यगादिपम् ।
सा तु हर्षनिर्भरनिपीडिता चिरं प्ररुद्य बहुं विलप्य शान्ता पुनः स्वमात्रा राजान्तःपुरवृत्तान्ताख्याने न्ययुज्यत ।
उक्तं च तया -"कुमार ,कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे चाप्सरसो ऽपयतिक्रान्ता पतिमभिभूय वर्तते ।
तदेकवल्लभः , स तु बह्ववरोधो ऽपि विकटवर्माऽ इति ।
तामवोचम् -"उपसर्पैनां मत्प्रयुक्तैर्गन्धमाल्यैः ।
उपजनयचासमानदोषनिन्दादिना स्वभर्तरि द्वेषम् ।
अनुरूपभर्तृगामिनीनां च वासवदत्तादीनां वर्णनेन ग्राहयानुशयम् ।
अवरोधनान्तरेषु च राज्ञो विलसितानि सुगूढान्यपि प्रयत्नेनान्विप्य प्रकाशयन्ती मानसस्या वर्धयऽ इति ।
पुनरिदमम्बामवोचम् -"इत्थमेव त्वयाप्यनन्यव्यापारया नृपाङ्गनासावुपस्थातव्या ।
प्रत्यहं च यद्यत्र वृत्तं तदस्मि त्वयैव बोध्यः , मदुक्ता पुनरियमुदर्कस्वादुनो ऽस्मत्कर्मणः प्रसाधनाय च्छायेवानयायिनी कल्पसुन्दरीमनुवर्तताम्ऽ इति ।
तेन च तमर्थं तथैवान्वतिष्ठताम् ।
केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा "वत्स , माधवीव पिचुमन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य स्थापिता ।
किं भूयः कृत्यम्ऽ इति ।
पुनरहमभिलिख्यात्मनः प्रतिकृतम् "इत्यममुष्यै नेया ।
नीतां चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति ।
"नन्वस्ति कश्चिदीदृशाकारः पुमान्ऽ इति ।
प्रतिब्रूह्येनाम् -"यदि स्यात्ततः किम्ऽ इति ।
तस्य यदुत्तरं सा दास्यति "तदहमस्मि प्रतिबोधनीयःऽ इति ।
सा "तथा इति राजकुलमुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत् -"वत्स , दर्शितो ऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै ।
चित्रीयमाणा चासौ भुवनमिदं सनाथीकृतं यद्देवे ऽपि कुसुमधन्वनि नेदृशी वपुःश्रीः संनिधत्ते ।
चित्रमेतच्चित्रतरम् ।
न च तमवैमि यर् इदृशमिदमिहत्यो निर्मिमीते ।
केनेदमालिखितम् , इत्यादृतवती व्याहृतवती च ।
मया च स्मेरयोदीरितम् -"देवि , सदृशमाज्ञापयसि ।
भगवान्मकरकेतुरप्येवंसुन्दरं इति न शक्यमेव संभवायितुम् ।
अथ च विस्तीर्णेयमर्णवनेमिः ।
क्वचिदीदृशमपि रूपं दैवशक्त्या संभवेत् ।
अथ तु यद्येवंरूपो रूपानुरूपशिल्पशीलविदयाज्ञानकौशलो युवा महाकुलीनश्च कश्चित्संनिहितः स्यात् , स किं लप्स्यतेऽ इति ।
तयोक्तम् -"अम्ब , किं ब्रवीमि ।
शरीरं हृदयं जीवितमिति सर्वमिदमल्पमनर्हं च ।
ततो न किञ्चिल्लप्स्यते न चेदयं विप्रलम्भस्तस्यामुप्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानुग्रहः कार्यःऽ इति ।
भूयो ऽपि मया दृढतरीकर्तुमुपन्यस्तम् -"अस्ति को ऽपि राजसूनुर्निगूढं चरन् ।
अमुप्य वसन्तोत्सवे सहसखीभिर्नगरोपवनविहारिणीरतिरिव विग्रहिणी यदृच्छया दर्शनपथं गतासि ।
गतश्चासौ कामशरैकलक्ष्यतां मामन्ववर्तिष्ट ।
मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणातिशयैश्च प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासितासि ।
सादृश्यं च स्वमनेन स्वयमेवाभिलिख्य त्वत्समाधिगाढत्वदर्शनाय प्रेषितम् ।
एष चेदर्थो निश्चितस्तस्यामुप्यातिमानुषप्राणसत्तवप्रज्ञाप्रकर्षस्य न किञ्चिद्दुष्करं नाम ।
तमद्यैव दर्शयेयम् ।
संकेतो देयःऽ इति ।
तया तदु किञ्चिदिव ध्यात्वा पुनरभिहितम् --"अम्ब , तव नैतदिदानीं गोप्यतम् ।
अतः कथयामि ।
मम तातस्य राज्ञ प्रहारवर्मणा सह महती प्रीतिरासीत् ।
मातुश्च मे मानवत्याः प्रियवयस्या देवी प्रियंवदासीत् ।
ताभ्यां पुनरजातापत्याभ्यामेवकृतः समयो ऽभूत् --"आवयोः पुत्रमत्याः पुतराय दुहितृमत्या दुहिता देयाऽ इति ।
तातस्तु मां जातां प्रनष्टापत्या प्रियंवदेति प्रार्थयमानाय विकटवर्मणे दैवाद्दत्तवान् ।
अयं च निष्ठुरः पितृद्रोही नाप्युपपन्नसंस्थानः कामोपचारेष्वलब्धवैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः सौर्योन्मादी दुर्विकत्थनो ऽनृतवादी चास्थानवर्पी ।
नातिरोचते म एष भर्ता विशेषतश्चैषु वासरेषु यदयमुद्याने मदन्तरङ्गभूतां पुष्करिकामप्युपान्तवर्तिनीमनादृत्य मयि बद्धसापत्न्यमतसरामनात्मज्ञामात्मनाटकीयां रमयन्तिकां नामापत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायां स्वयमवचिताभिः सुमनोभिरलमकार्षित् ।
मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतस्य तया सह व्यहार्षित् ।
अयोग्यश्च पुमानवज्ञातं च प्रवृत्तः ।
तत्किमित्यपेक्ष्यते परलोकभयं चैहिकेन दुःखेनान्तरितम् ।
अविषह्यं हि योषितामनङ्गशरनिषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् ।
अतो ऽमुना पुरुषेण ममाद्योद्यानमाधवीगृहे समागमय ।
तद्वार्थाश्रवणमात्रेणैव हि ममातिमात्रं मनो ऽनुरक्तम् ।
अस्ति चायमर्थराशिः ।
अनेनामुप्य पदे प्रतिष्ठाप्य तमेवात्यन्तमुपचर्य जीविष्यामिऽ इति ।
मयापि तदभ्युपेत्य प्रत्यागतम् ।
अतः परं भर्तृदारकः प्रमाणम्ऽ इति ।
ततस्तस्या एव सकाशादन्तःपुरनिवेशमन्तर्वंशिकपुरुषस्थान् प्रमदवनप्रदेशानपि विभागेनावगम्य , अस्तगिरिकूटपातक्षुभितशोणित इव शोणीभवति भानुबिम्बे , पश्चिमाम्बुधिषयःपातनिर्वापितपतङ्गाङ्गारधूमसंभार इव भरितनभसितमसि विजृम्भते , परदारपरामर्शोन्मुखस्य ममाचार्यकमिव कर्तुमुत्थिते गुरुपरिग्रहश्लाघिनि ग्रहाग्रेसरे क्षपाकरे , कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन संधुक्ष्यमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि , यतोचितं शयनीयमभजे ।
व्यचीचरं च -"सिद्धप्राय एवायमर्थः ।
किन्तु परकलत्रलङ्घानाद्धर्मपीडा भवेत् , साप्यर्थकामयोर्द्वयोरुपलम्भेशास्त्रकारैरनुमतैवेति ।
गुरुजनबन्धमोक्षोपायसंधिना मया चैप व्यतिक्रमः कृतः , तदपि पापं निर्हृत्य कियत्यापि धर्मकलया मां समग्रयेदिति ।
अपि त्वेतदाकर्ण्य देवो राजवाहनः सुहृदो वा किं नु वक्ष्यन्तिऽ इति चिन्तापराधीन एव निद्रया परामृश्ये ।
अदृस्यत च स्वप्नो हस्तिवक्रो भगवान् ।
आहस्म च -"सौम्य उपहारवर्मन् , मा स्म ते दुर्विकल्पो भूत् ।
यतस्त्वमसि मदंशः ।
शङ्करजटाभारलालनोचिता सुरसरिदसौ वरवर्णिनी ।
सा च कदाचिन्मद्विलोडनासहिष्णुर्मामशपत् -"एहि मर्त्यत्वम्ऽ इति ।
अशप्यत मया च -"यथेह बहुभोग्या तथा प्राप्यापि मानुप्यकमनेकसाधारणी भवऽ इति ।
अब्यर्थितश्चानया "एकपूर्वा पुनस्त्वामेवोपचर्य यावज्जीवं रमेयम्ऽ इति ।
तदयमर्थो भव्य एव भवता निराशङ्क्यःऽ इति ।
प्रतिबुध्य च प्रीतियुक्तस्तदहरपि प्रियासंकेतव्यतिकरादिस्मरणेनाहमनैषम् ।
अन्येद्युरनन्यथावृत्तिरनङ्गो मय्येवेषुवर्षमवर्षत् ।
अशुष्यच्च ज्योतिष्मतः प्रभामयं सरः ।
प्रासरच्च तिमिरमयः कर्दमः ।
कार्दमिकनिवसनश्च दृझतरपरिकरः खङ्गपाणिरुपहृतप्रकृतोपस्करः ।
स्मरन्मातृदत्तान्यभिज्ञानानि राजमन्दिरपरिखामुदम्भसमुपातिष्ठम् ।
अथोपखातं मातृगृहद्वारे पुष्करिकया प्रथमसंनिधापितां वेमुयष्टिमादाय तया शायितया च परिखाम् , स्थापितया च प्राकारभित्तिमलङ्घयम् ।
अधिरुह्य पक्वेष्टकचितेन गोपुरोपरितलाधिरोहेण सोपानपथेन भुवमवातरम् ।
अवतीर्णश्च बकुलवीथीमतिक्रम्य चम्पकावलिवर्त्मना मनागिवोपसृत्योत्तराहि करुणं चक्रवाकमिथुनरवमशृणवम् ।
पुनरुदीचा पाटलिपथेन स्पर्शलभ्यविशालसौधकुड्योदरेण शरक्षेपमिव गत्वा पुनः प्राचा पिण्डीभाण्डीरषण्डमण्डितोभयपार्श्वेन सैकतपथेन किञ्चिदुन्त्तरमतिक्रम्य पुनरवाचीं चूतवीथीमगाहिषि ।
ततश्च गहनतरमुदरोपचितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृतसमुद्गकोन्मिषितभासा दीपवर्त्या न्यरूपयम् ।
प्रविश्य चैकपार्श्वे फुल्लपुष्पनिरन्तरकुरण्टपोतपङ्क्तिभित्तिपरिगतं गर्भगृहम् , अवनिपतितारुणाशोकलतामयमभिनवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपाटलं कपाटमुद्धाट्य प्राविक्षम् , तत्र चासीत्स्वास्तीर्णं कुसुमशयनम् , सुरतोपकरणवस्तुगर्भाश्चभृङ्गारकः ।
समुपविश्य मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् ।
अश्रौषं च मन्दमन्दं पदशब्दम् ।
श्रुत्वैव संकेतगृहान्निर्गत्य रक्ताशोकस्कन्धपार्श्वव्यवहिताङ्गयष्टिः स्थितो ऽस्मि ।
सा च सुभ्रूः सुषीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवदव्यथिष्ट ।
व्यसृजच्च मत्तराजहंसवि कण्ठरागवल्गुगद्गदां गिरम् -"व्यक्तमस्मि विप्रलब्धा ।
नास्त्युपायः प्राणितुम् ।
अयि हृदय , किमिदमकार्यं कार्यवदध्यवसाय तदसंभवेन किमेवमुत्ताम्यसि ।
भगवन्पञ्चबाण , कस्तवापराधः कृतो मया यदेवं दहसि , न च भस्मीकरोषिऽ इति ।
अथाहमाविर्भूय विवृतदीपभाजनः "भामिनि , ननु बह्वपराद्धं भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदर्थिता , धनुर्यष्टिर्भ्रूलताभ्याम् , भ्रमरमालामयी ज्या नीलालकद्युतिभिः , अस्त्राण्यपाङ्गवीक्षितवृष्टिभिः , महारजनरञ्जितध्वजपटांशुकं दन्तच्छदमयूखजालैः , प्रथमसुहृन्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन , परभृतो ऽतिमञ्जुलैः प्रलापैः , पुष्पमयी पताका भुजयष्टिभ्याम् , दिग्विजयारम्भपूर्णकुम्भमिथुनमुरोजकुम्भयुगलेन , क्रीजासरो नाबिमम्डलेन , संनाह्यरथः श्रोणिमण्डलेन , भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन , लीलाकर्णकिसलयं चरणतलप्रभाभिः ।
अतः स्थान एव त्वां दुनोति मीनकेतुः ।
मां पुनरनपराधमधिकमायासयतीत्येष एव तस्य दोषः ।
तत्प्रसीद सुन्दरि , जीवय मां जीवनौषधिभिरवापाङ्गैरनङ्गभुजङ्गदष्टम्ऽ इत्याश्लिष्टवान् ।
अरीरमं चानङ्गरागपेशलविशाललोचनाम् ।
अवसितार्थां चारक्तवलितेक्षणामीषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलामनर्गलकलकलप्रलापिनीमकरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्लथाङ्गीमार्तामिव लक्षयित्वा मानसीं शारीरीं च धारणां शिथिलयन्नात्मानमपि तया समानार्थमापादयम् ।
तत्क्षणविमुक्तसंगतौ रतावसानकं विधिमनुभवन्तौ चिरपरिचिताविवातिरूढविश्रम्भौ क्षणमवातिष्ठावहि ।
पुनरहमुष्णमायतं च निःश्वस्य किञ्चिद्दीन दृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामनतिपीडं परिष्वज्य नातिविशदमचुम्बिषम् ।
अश्रुमुखी तु सा "यदि प्रायासि नाथ , प्रयातमेव मे जीवितं गणय ।
नय मामपि ।
न चेदसौ दासजनो निष्प्रयोजनःऽ इत्यञ्जलिमवतंसतामनैषीत् ।
अवादिषं च ताम् --"अयि मुग्धे , कः सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति ।
यदि मदनुग्रहनिश्चलस्तवाभिसंधिराचराविचारं मदुपदिष्टम् ।
आदर्शय रहसि राज्ञे मत्सादृश्यगर्भं चित्रपटम् ।
आचक्ष्व च किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वाऽ इति ।
"बाढमारूढाऽ इति नूनमसौ वक्ष्यति ।
ब्रूहि भूयः --"यद्येवम् , अस्ति कापि तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूताऽ ।
तयेदमालेख्यरूपं पुरस्कृत्याहमुक्ता -"सो ऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विविक्तायां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं चन्दनसमिधः , शतमगुरुसमिधः कर्पूरमुष्ठिः पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः ।
अथ चालयिष्यसि घण्टाम् ।
घण्टापुटक्वणिताहूतश्च भर्ता भवत्यै सर्वरहस्यमाख्याय निमीलिताक्षो यदि त्वामालिङ्गेत् , इयमाकृतिरमुमुपसंक्रामेत् ।
त्वं तु भविष्यसि यथापुराकारैव यदि भवत्यै भवत्प्रियाय चैवं रोचेत , न चास्मिन्विधौ विसंवादः कायःऽ इति ।
"वपुश्चोदिदं तवाभिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च संप्रधार्य तेषामप्यनुमते कर्मण्यभिमुखेन स्तेयम्ऽ इति ।
स नियतमभ्युपैष्यति ।
पुनरस्यामेव प्रमदवनवाटीशृङ्गाटिकायामाथर्वणिकेन विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि धूमपटेन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् ।
त्वं पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकटवर्माणम् --"धूर्तो ऽसि त्वमकृतज्ञश्च ।
मदनुग्रहलब्धेनापि रूपेण लोकलोचनोत्सवायमानेन मत्सपत्नीरभिरमयिष्यसि ।
नाहमात्मविनाशाय वेतालोत्थापनमाचरेयम्ऽ इति ।
श्रुत्वेदं त्वद्वचः स यद्वदिष्यति तन्मह्यमेकाकिन्युपागत्य निवेदयिष्यसि ततः परमहमेव ज्ञास्यामि ।
मत्पदचिह्नानि चोपवने पुष्करिकया प्रमार्जयऽ इति ।
सा "तथाऽ इति शास्त्रोपदेशमिव मदुक्तमादृत्यातृप्तसुरतरागैव कथङ्कथमप्यगादन्तःपुरम् ।
अहमपि यथाप्रवेशं निर्गत्य स्वमेवावासमयासिपम् ।
अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् ।
अतिष्ठच्च तन्मते स दुर्मतिः ।
अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना वार्ता -"राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुरासादयिष्यति ।
नूनमेष विप्रलम्भो नातिकल्याण ) ।
कैव कथा प्रमादस्य ।
स्वस्मिन्नेवान्तःपुरोपवने स्वाग्रमहिष्यैव संपाद्यः किलायमर्थः ।
तथाहि बृहस्पतिप्रतिमबुद्धिभिर्मन्त्रिभिरप्यभ्यूह्यानुमतः ।
यद्येवं भावि नान्यदतः परमस्ति किञ्चिदद्भुतम् ।
अचिन्त्यो हि मणिमन्त्रौपधीनां प्रभावः इति प्रसृतेषु लोकप्रवादेषु प्राप्ते पर्वदिवसे , प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादुदैरयद्धूर्जटिकण्ठधूम्रो धूमोद्गमः ।
क्षीराज्यदधितिलगौरसर्पपवसामांसरुधिराहुतीनां च परिमलः पवनानुसारी दिशिदिशि प्रावात्सीत् ।
प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमविशम् ।
निशान्तोद्यानमगाच्च गजगामिनी ।
आलिङ्ग्य च मां सस्मितं समभ्यधत्त --"धूर्त , सिद्धं ते समीहेतम् ।
अवसितश्च पशुरसौ ।
अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम् -"कितव , न साधयामि ते सौन्दर्यम् ।
एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि , किमुत मानुषीणाम् ।
मधुकर इव निसर्गचपलो यत्र क्वचिदसज्जति भवादृशो नृशंसःऽ इति ।
तेन तु मे पादयोर्निपत्याभिहितम् -"रम्भोरु , सहस्व मत्कृतानि दुश्चरितानि ।
मनसापि न चिन्तयेयमितःपरमितरनारम् ।
त्वरस्व प्रस्तुते कर्मणिऽ इति ।
तदहमीदृशेनवैवाहिकेननेपथ्येन त्वामभिसृतवती ।
प्रागपि रागाग्निसाक्षिकमनङ्गेन गुणरूपा दत्तैव तुभ्यमेषा जाया ।
पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रपदेन चरणपृष्ठे निष्पीड्योत्क्षिप्तपादपार्प्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कन्धरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विभ्रान्तविशालदृष्टिरसकृदभ्यचुम्बत् ।
अथैनाम् "इहैव कुरण्टकगुल्मगर्भे तिष्ठ यावदहं निर्गत्य साधयेयं साध्यं सम्यक्ऽ इति विसृज्य तामुपसृत्य होमानलप्रदेशमशोकशाखावलम्बिनीं घण्टामचालयम् ।
अकूजचच सा तं जनं कृतान्तदृतीवाह्वयन्ती ।
प्रावर्तिषि चाहमगुरुचन्दनप्रमुखानि होतुम् ।
आयासीच्च राजा यथोक्तं देशम् ।
शङ्कापन्नमिव किञ्चित्सविस्मयं विचार्य तिष्ठन्तमब्रवम् --"ब्रूहि सत्यं भूयो ऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य ।
न चेदनेन रूपेण मत्सपत्नीरभिरमयिष्यसि , ततस्त्वयीदं रूपं संक्रामयेयम्ऽ इति ।
स तदैव "देव्यैवेयम् , नोपधिःऽ इति स्फुटोपजातसंप्रत्ययः प्रावर्तत शपथाय ।
स्मित्वा पुनर्मयोक्तम् --"किं वा शपथेन ।
कैव हि मानुपी मां परिभविष्यति ।
यद्यप्सरोभिः संगच्छसे , संगच्छस्व कामम् ।
कथय कानि ते रहस्यानि ।
तत्कथनान्ते हि त्वत्स्वरूपभ्रंशःऽ इति ।
सो ऽब्रवीत् --"अस्ति बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा ।
तं विषान्नेन व्यापाद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहा ध्यवसितम् ।
अनुजाय विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् ।
पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः स्वनतिनाम्नो यवनाद्वज्रमेकं वसुंधरामूल्यं लधीयसार्धेण लभ्यमिति ममैकान्ते ऽमन्त्रयेताम् ।
गृहपतिश्च ममान्तरङ्गभूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमनन्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नियोक्तुमभ्युपागमत् ।
इत्थमिदमचिरप्रस्तुतं रहस्यम्ऽ ।
इत्याकर्ण्य -तम् "इयत्तवायुः ।
उपपद्यस्व स्वकर्मोचितां गतिम्ऽ इति च्छुरिकया द्विधाकृत्य कृत्तमात्रं तस्मिन्नेव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्यजूहवम् ।
अभूच्चासौ भस्मसात् ।
अथ स्त्रीस्वभावादीषद्विह्वलां हृदयवल्लभां समाश्वास्य हस्तकिसलये ऽवलम्ब्य गत्वा तद्गृहमनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् ।
सविस्मितविलासिनीसार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतोरूमूरूपपीडं भुजोपपीडं चोपगुह्य तल्पे ऽभिरमयन्नल्पामिव तां निशामत्यनैषम् ।
अलभे च तन्मुखात्तद्राजकुलस्य शीलम् ।
उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे ।
तांश्चाब्रवम् --"आर्याः , रूपेणैव सह परिवृत्तौ मम स्वभावः ।
य एव विषान्नेन हन्तु चिन्तितः पता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः ।
पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे ।
न ह्यस्ति पितृवधात्परं पातकम्ऽ इति ।
भ्रातरं च विशालवर्माणमाहूयोक्तवान् --"वत्स , न सुभिक्षाः सांप्रतं पुण्ड्राः ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः ।
अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि , नाद्य यात्रा युक्ताऽ इति ।
नगरवृद्धावप्यवलापिषम् --"अल्पीयसा मूल्येन महार्हं वस्तु मास्तु मे लभ्यं धर्मरक्षायै , तदनुगुणेनैव मूल्येनादः क्रीयताम्ऽ इति ।
शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान् --"यो ऽसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः , सो ऽपि पितरि मे प्रकृतिस्थि किमिति नाश्येत , तत्त्वयापि तस्मिन्संरम्भो न कार्यःऽ इति ।
त इमे सर्वमाभिज्ञानिकमुपलभ्य "स एवायम्ऽ इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्धोपयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् ।
अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरवगमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे ।
अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया ।
प्रसाधितात्मा देवपादविरहृदुःखदुर्भगान्भोगान्निर्विशन्भूयो ऽस्य पितृसखस्य सिंहवर्मणो लेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य "शत्रुवधो मित्ररक्षा चोभयमपि करणीयमेवऽ इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् ।
अभवं च भूमित्स्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेःऽ इति ।
श्रुत्वैतद्देवो राजवाहनः सन्मितमवादीत् --"पश्यत पारतल्पिकमुपधियुक्तमपि गुरुजनून्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणाभ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् ।
किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्ऽ इति ।
अर्थपालमुखे निधाय स्निग्धदीर्घां दृष्टिम् "आचष्टां भवानात्मीयचरितम्ऽ इत्यादिदेश ।
सो ऽपि बद्धाञ्जलिरभिदधे ॥२ ,३॥


इति श्रीदण्डिनः कतौ दशकुमारचरिते उपहारवर्मचरितं नाम तृतीय उच्छ्वासः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:15.6000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मुरणें

  • अ.क्रि. 
  • अ.क्रि. दोघांचा वगैरे अंश असणें ; कांही व्यंग , कमीपणा असणें सामान्यत ; पाणी सुरणें असा प्रयोग . 
  • ( पाणी , दूध , तेल , तूप , रंग इ० ) पातळ पदार्थ , वस्त्र , भाकरी , लांकूड , जमीन इ० मध्यें शिरुन त्यांत निविष्ट होऊन राहणें ; त्यांत जिरणें . 
  • शोषून घेतला जाणें ; पाकांत घातलेल्या आंब्यांत , लोणच्याच्या फोडींत पाक किंवा क्षार भरला जाणें ; किंवा जिरुन सर्व भागांत पसरुन असणें ; पाकणें . 
More meanings
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site