सप्तविंशः पटलः - भावमाहात्म्यम्

षट्‍चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्


अथ धारनवाक्ष्ये यत्कृत्वा धैर्यरुपभाक्‍ ।
त्रैलोक्यमुदरे कृत्वा पूर्णः तिष्ठति योगिराट ॥३१॥

अङ्‌गुष्ठागुल्फजानूरुसीमनि लिङनाभिषु ।
ह्रद्‌ग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि ॥३२॥

भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ।
धारणं प्राणमरुती धारणोति निगद्यते ॥३३॥

सर्वनाडीग्रन्थिदेशे षट्‌चक्रे देवतालये ।
ब्रह्ममार्गे धारणं धारणोति निगद्यते ॥३४॥

धारणं मूलदेशे तु कुण्डलीं नासिकातटे ।
प्राणवायोः प्रशमनं धारणोति निगद्यते ॥३५॥

तत्र श्रीचरणाम्भोजमङुले चारुतेजसि ।
भावेन स्थापयेच्चित्तं धारणशक्तिमाप्नुयात् ॥३६॥

अथ ध्यानं प्रवक्ष्यामि यत् कृत्वा सर्वगो भवेत् ।
ध्यानयोगाद्‍ भवेन्मोक्षो मत्कुलागमनिर्गमः ॥३७॥

समाहितेन मनसा चैतन्यान्तर्वर्तिना ।
आत्मन्यभीष्टदेवाना योगध्यानमिहोच्यते ॥३८॥

श्रीपदाम्भोरुहद्वन्द्वे नखकिञ्जकचित्रिते ।
स्थापयित्वा मनः पद्मं ध्यायेदिष्टगणं महत् ॥३९॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP