सप्तविंशः पटलः - समाधिः

षट्‍चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्


अथ समाधिमहात्म्यं वदामि तत्त्वतः श्रृणु ।
यस्यैव कारणदेव पूर्णयोगी भवेन्नरः ॥४०॥

समत्वभावना नित्यं जीवात्मपरमात्मनोः ।
समाधिना जयी भूयादान्दभैरवेश्वर ॥४१॥

संयोगसिद्धिमात्रेण समाधिस्थ महाजनम् ।
प्रपश्यति महायोगी समाध्यष्टाङलक्षणैः ॥४२॥

एतत्समाधिमाकृत्य योगी योगान्वितो भवेत् ।
अथ चन्द्रे मनः कुर्यात् समारोप्य विभावयेत् ॥४३॥

एतद्ष्टाङसारेण योगयोग्यो भवेन्नरः ।
योगयोगाद्‌ भवेन्मोक्षो मन्त्रसिद्धिरखण्डिता ॥४४॥

योगशास्त्र प्रकारेण सर्वे वै भैरवाः स्मृताः ।
योगशास्त्रात् परं शास्त्रं त्रैलोक्य नापि वर्तते ॥४५॥

त्रैलोक्यातीतशास्त्राणि योगाङविविधानि च ।
ज्ञात्वा या पश्यति क्षिप्रं नानाध्यायेन शङ्केर ॥४६॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP