सप्तविंशः पटलः - दार्शनिकमतकथनम्

षट्‍चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्


बिन्दुस्थानं परं ज्ञेयं गणानां मतमाश्रृणु ।
बौद्धा वदन्ति चात्मानमात्मज्ञानी न ईश्वरः ॥७१॥

सर्वं नास्तीति चार्वाका नानकर्मिवर्जिताः ।
वेदनिन्दापराः सर्वे बौद्धाः शून्याभ्वादिनः ॥७२॥

मम ज्ञानाश्रिताः कान्ताश्चीनभूमिनिवासिनः ।
आत्मानमपरिच्छिन्न विभाव्य भाव्यते मया ॥७३॥

श्रीपदाब्जे बिन्दुयुग्मं नखेन्दुमण्डलं शुभम् ।
शिवस्थानं प्रवदन्ति शैवाः शाक्ता महर्षयः ॥७४॥

परमं पुरुषं नित्यं वैष्णवाः प्रीतिकारकाः ।
हरिहरात्मकं रुपं संवदन्ति परे जनाः ॥७५॥

देव्याः पदं नित्यरुपाश्चरनानन्दनिर्भराः ।
वदन्ति मुनयो मुख्याः पुरुषं प्रकृतात्मकम् ॥७६॥

पुंप्रकृत्याख्यभावेन मग्ना भान्ति महीतले ।
इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् ॥७७॥

योगमार्गानुसारेण भावयेत् सुसमाहितः ।
आदौ महापूरकेण मूले संयोजयेन्मनः ॥७८॥

गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबुद्धयेत् ।
लिङभेदक्रमेणैव प्रापयेद्‍बिन्दुचक्रकम् ॥७९॥

शम्भुलाभां परां शक्तिमेकीभावैर्विचिन्तयेत् ।
तत्रोत्थितामृतरसं द्रुतलाक्षारासोपमम् ॥८०॥

पाययित्वा परां शक्तिं कृष्णाख्यां योगसिद्धिदाम् ।
षट्‌चक्रभेदकस्तत्र सन्तर्प्यामृतधारया ॥८१॥

आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ।
एवमभ्यस्यमानस्य अहन्यहनि मारुतम् ॥८२॥

जरामरण्दुःखाद्यैर्मुच्यते भवबन्धनात् ।
तन्त्रोक्तकथिता मन्त्राः सर्वे सिद्धयन्ति नान्यथा ॥८३॥

स्वयं सिद्धो भवेत् क्षिप्रं योगे हि योगवल्लभा ।
ये गुणाः सन्ति देवस्य पञ्चकृत्यविधायिनः ॥८४॥

ते गुणाः साधकवरे भवन्त्येव न चान्यथा ।
इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् ॥८५॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP