सप्तविंशः पटलः - प्रत्याहारः

षट्‍चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्



उत्तमस्य गुणप्राप्तिर्यावच्छीलमिष्यते ।
तावज्जपेत् सूक्ष्मवायुः प्रत्याहारप्रसिद्धये ॥२५॥

इन्दियाणां विचरतां विषयेषु निवर्तनम् ।
बलादाहरणं तेभ्यः प्रत्याहारो विधीयते ॥२६॥

नान्यकर्मसु धर्मेषु शास्त्रधर्मेषु योगिराट्‍ ।
पतितं चित्तमानीय स्थापयेत् पादपङ्कजे ॥२७॥

दुर्निवार्यं दृढचित्तं दुरत्ययमसम्मतम् ।
बलादाहरणं तस्य प्रत्याहारो विधीयते ॥२८॥

एतत् प्रत्याहारबलात् योगी स्वस्थो भवेद्‍ ध्रुवम‍ ।
अकस्माद्‍ भावमाप्नोति भावराशिस्थिरो नरः ॥२९॥

भावात् परतर नास्ति भावाधीनमिदं जगत् ।
भावेन लभ्यते योगं तस्माद्‍भावं समाश्रयेत् ॥३०॥

N/A

References : N/A
Last Updated : April 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP