नाट्यशास्त्रम् - अथ नवमोऽध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् । कर्म लक्षणसंयक्तमुपाङ्गाना।म् मयोदितम् ॥१॥
हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः । लक्षण म् सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः ॥२॥
हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम्  । यथा येनाभिनेयं च तन्मे निगदतः शृणु ॥३॥
पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः । अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥४॥
मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः । सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः ॥५॥
मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः । काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ ॥६॥
हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः ॥७॥
असंयुताः संयुताश्च गदतो मे निबोधत । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥८॥
खटकावर्धमानश्च ह्युत्संगो निषधस्तथा । दोलः पुष्पपुटश्चैव तथा मकर एव च ॥९॥
गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च । एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥१०॥
नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत । चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ॥११॥
स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ । आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ॥१२॥
उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ । नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च ॥१३॥
सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च । पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा ॥१४॥
ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च । ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा ॥१५॥
उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ ॥१६॥
अलपद्मावुल्बनौ च ललितौ वलितौ तथा । सप्तषष्टिकरा ह्येते नामतोऽभिहिता मया ॥१७॥
यथा लक्षणमेतेषां कर्माणि च निबोधत । प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥१८॥
एष प्रहारपाते प्रतापन नोदने प्रहर्षे च । गर्वेऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः ॥१९॥
एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च । संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥२०॥
स्वस्तिकविच्युतिकरणात् पल्लवपुष्पोपहारशष्पाणि । विरचितमुर्वीसंस्थं यद् द्रव्य तच्च निर्द्देश्यम् ॥२१॥
स्वस्तिकविच्युतिकरणात् पुनरेवाधोमुखेन कर्तव्यम् । संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च ॥२२॥
अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः । वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः ॥२३॥
उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् । पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् ॥२४॥
परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च । पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् ॥२५॥
एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः । पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥२६॥
दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च । अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥२७॥
पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् । त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥२८॥
आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च । उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥२९॥
मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च । उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् ॥३०॥
अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् । लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् ॥३१॥
अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च  । त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च ॥३२॥
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने ॥३३॥
परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने । तिर्यक् स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने ॥३४॥
तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ । परस्पराभिमुखौ च कर्तव्यौ वरदर्शने ॥३५॥
उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ । वडवानलसङ्ग्राममकराणां च दर्शने ॥३६॥
अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः । पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥३७॥
संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने । पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः ॥३८॥
त्रिपताके यदा हस्ते भवेत् पृष्ठावलोकनी  । तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥३९॥
पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव । ऊर्ध्वमुखेन तु कुर्यात् दष्टं शृङ्गं च लेख्यं च ॥४०॥
पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् । भिन्नवलितेन कुर्यात् कर्तर्यास्याङ्गुलिमुखेन ॥४१॥
संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः । रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु ॥४२॥
यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् । सोऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते ॥४३॥
एतेन बालतरवः शशिलेखाम्बुकलशवलयानि । निर्घाटनमायस्तं मध्यौपम्यं च पीनं च ॥४४॥
रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् । कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण ॥४५॥
आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा । शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे ॥४६॥
एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् । आशीर्वादाश्च तथा भावा हितसंज्ञकाः कार्याः ॥४७॥
एतेन पुनः स्त्रीणां केशानां संग्रहोत्कर्षौ । सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् ॥४८॥
कौतुकविवाहयोगं प्रदक्षिणेनैव संप्रयोगं च । अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव ॥४९॥
प्राद्क्षिण्य परिमण्डलं च कुर्यान् महाजनं चैव । यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ॥५०॥
आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च । स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष ॥५१॥
त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि । तानि त्वरालयोगात् स्त्रीभिः सम्यक् प्रयोज्यानि ॥५२॥
अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् । शुकतुण्डस्तु स करः कर्म चास्य निबोधत ॥५३॥
एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये । आवाहने विसर्गे धिगिति वचने च सावज्ञम् ॥५४॥
अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः । तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति संज्ञितः ॥५५॥।
एष प्रहारे व्यायामे निर्गमे पीडने तथा । संवाहनेऽसियष्टीनां कुन्तदण्डग्रहे तथा ॥५६॥
अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते । हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥५७॥
रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव । अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव ॥५८॥
अस्यैव शिखराख्यस्य ह्यङ्गुष्ठकनिपीडिता । यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥५९॥
असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि । शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च ॥६०॥
उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी । अस्यैव तु कपित्थस्य तदासो खटकामुखः ॥६१॥
होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च । आदर्शधारणं खण्डनं तथा पेषणं चैव ॥६२॥
आयतदण्डग्रहणं मुक्ताप्रालम्बसंग्रहं चैव । स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव ॥ ६३॥
मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि । अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च ॥६४॥
खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता । हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥६५॥
अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः। ऊर्ध्वनतलोलकम्पितविजृंभितोद्वाहितचलायाः ॥६६॥
चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव । कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च ॥६७॥
बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च । परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया ॥६८॥
वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या । भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च । विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन ॥६९॥
पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य । प्रणतोन्तेए च कार्ये ह्याद्ये दीर्घे च दिवसे च ॥ ७०॥
श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे । मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना ॥७१॥
कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव । कुन्तलकुण्डलाङ्गदगण्डाश्रयेऽभिनय ॥७२॥
गर्वेऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे । कोऽसाविति निर्देशेऽथ कर्णकण्डुनयने चैव ॥७३॥
संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च । कलहे स्वस्तिकयुपतां परस्परोत्पीडिता बन्धे ॥७४॥
द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि । अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत ॥७५॥
पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु । परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् ॥७६॥
श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या । शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या ॥७७॥
द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् । श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया ॥७८॥
परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य । हरनयने च ललाटे शक्रस्यऽप्युगुत्ताना ॥७९॥
यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः । ऊर्ध्वा ह्यसंगताग्राश्च स भवेत् पद्मकोशकः ॥८०॥
बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् । ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु ॥८१॥
बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् । देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च । कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन ॥८२॥
मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् । कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः ॥८३॥
अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च । तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥८४॥
एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव । आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु ॥८५॥
अधोमुखीनां सर्वासामङ्गुलीनां समागमः । कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत् मृगशीर्षकः ॥८६॥
इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासनेऽक्षपाते च । स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् ॥८७॥
त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा । काङ्गुलोऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी ॥८८॥
एतेन तरुणफलानि नानाविधानि च लघूनि । कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः ॥८९॥
मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् । ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु ॥९०॥
आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि । पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः ॥९१॥
प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु । पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥९२॥
तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी । तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः ॥९३॥
नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु । वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥९४॥
एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन । विकृतविचारितचरितं वितर्कितं लज्जितं चैव ॥९५॥
नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः । संयुतकरणेनैव तु चरेणैतानि कुर्वीत ॥९६॥
लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च । सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् ॥९७॥
चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् । प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् ॥९८॥
विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् । नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥९९॥
सितमूर्ध्वेन तु कुर्यात् रक्तं पीतं च मण्डलकृतेन । परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन ॥१००॥
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे ॥१०१॥
पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् । पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च ॥१०२॥
विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । बालालापे च शीघ्रे च ताले विश्वासने तथा ॥१०३॥
तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः । भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ॥१०४॥
श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु । कार्योऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण ॥१०५॥
समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी । अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥१०६॥
एष च निवापसलिले दातव्ये गण्डसंश्रये चैव । कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् ॥१०७॥
आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव । स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव ॥१०८॥
पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः । कार्या यथारसं स्युर्दुःखे हनुधारणे चैव ॥१०९॥
तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् । आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः ॥११०॥
सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा । तथा पार्श्वगतश्चैव रसभावोपबृंहितः ॥१११॥
पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् । शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः ॥११२॥
वृन्तात् पुष्पोद्धरणं वर्तिशलाकादिपूरणं चैअव । धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि ॥११३॥
यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु । योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः ॥११४॥
पेशलकुत्सासूयादोषवचने च वामहस्तेन । किञ्चिद् विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः ॥११५॥
आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च । निष्पीडनं तथालक्तकस्य कार्य च नारीभिः ॥११६॥
समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः ॥११७॥
देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव । विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च ॥११८॥
भोजनहिरण्यगणनामुखसंकोचप्रदानशीघ्रेषु । मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः ॥११९॥
पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा । ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु ॥१२०॥
शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे । संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा ॥१२१॥
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली ॥१२२॥
विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । ताले विश्वसने चैव शीघ्रार्थे संज्ञितेषु च ॥१२३॥
तथा कलासु काष्ठासु निमेषे तु क्षणे तथा । एश एव करः कार्यो बालालापनिमन्त्रणे ॥१२४॥
अथवा अङ्गुल्यः संहिता वक्रा उपर्युङ्गुष्ठपीडिताः । प्रसारिता कनीष्ठाच ताम्रचूडः करः स्मृतः ॥१२५॥
शतं सहस्रं लक्षं च करेणैकेन योजयेत् । क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा ॥१२६॥
असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः । अतश्च संयुतान् हस्तान् गदतो मे निबोधत ॥१२७॥
पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । देवतानां गुरूणां च मित्राणां चाभिवादने ॥१२८॥
स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा । देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः । वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् ॥१२९॥
उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसंग्रहात् । हस्तः कपोतको नाम कर्म चास्य निबोधत ॥१३०॥
एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च सम्भाषे । शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः ॥१३१॥
अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु । एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे ॥१३२॥
अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥१३३॥
एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे । हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः ॥१३४॥
मणिबन्धविन्यस्तावरालौ स्त्रीप्रयोजितौ । उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥१३५॥
स्वस्तिकविच्युइतिकरणाद् दिशो घनाः खं वनं समुद्राश्च । ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् ॥१३६॥
खटकः खटके न्यस्तः खटकावर्धमानकः । शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा ॥१३७॥
अन्ये - कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे । इति ॥१३८॥
अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ । उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥१३९॥
सनिष्पेषकृते चैव रोमामर्षकृतेऽपि च । निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ॥१४०॥
मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् । स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः ॥१४१॥
संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च । सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥१४२॥
शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः । निषधो नाम विज्ञेयः स भयार्ते विधीयते ॥१४३॥
गृहीत्वाअ वामहस्तेन कर्पुराभ्यन्तरे भुजम् । दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् ॥१४४॥
स चापि दक्षिणो हस्तः सम्यङ् मुष्टीकृतो भवेत् । इत्येष निषधो हस्तः कर्म चास्य निबोधत ॥१४५॥
एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः । अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः ॥१४६॥
ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने ॥१४७॥
अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ । यदा भवेतां करणे स दोल इति संज्ञितः ॥१४८॥
संभ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे । व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनयोगः ॥१४९॥
यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः । द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः ॥१५०॥
धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि । ग्राह्याण्युपनेयानि च तोयानयनापनयने च ॥१५१॥
पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ । उपर्युपरि विन्यस्तौ तदा स मकरः करः ॥१५२॥
सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् । ये चान्ये क्रव्यादा ह्यभिनेयास्तेऽर्थयोगेन ॥१५३॥
कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ । गजदन्तः स विज्ञेयः कर्म चास्य निबोधत॥१५४॥
एव च वधुवराणमुद्वाहे चातिभारयोगे च । स्तंभग्रहणे च तथा शैलशिलोत्पाटने चैव ॥१५५॥
शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ । शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः ॥१५६॥
दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च । उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः ॥१५७॥
मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः । वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ॥१५८॥
संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च । संक्षेपतस्तु संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥१५९॥
ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्यो विघाटने ॥१६०॥
उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् । अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः ॥१६१॥
आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः । स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥१६२॥
नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति । यस्य यद् दृश्यते रूपं बहुशस्तन्मयोषितम् ॥१६३॥
अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह । छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः ॥१६४॥
देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च । हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः ॥१६५॥
सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि । तान्यहं संप्रवक्ष्यामि रसभावकृतानि तु ॥१६६॥
उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् । परिग्रहो निग्रहश्चाह्वानं नोदनमेव च ॥१६७॥
संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा । विक्षेपधूनने चैव विसर्गस्तर्जनं तथा ॥१६८॥
छेदनं भेदनं चैव स्फोटनं मोटनं तथा । ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति ॥१६९॥
उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ॥१७०॥
सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः । नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः ॥१७१॥
करणं कर्म स्थानं प्रचायुक्तिं क्रियां च संप्रेक्ष्य । हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण ॥१७२॥
उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः । वक्षःस्थाश्चैव मध्यानामधमामधोगता ॥१७३॥
ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः । अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः ॥१७४॥
लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः । लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः ॥१७५॥
अथवान्यादृशं प्राप्य प्रयोगं कालमेव च । विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा ॥१७६॥
विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते । ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे ॥१७७॥
व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते । मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥१७८॥
हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते । स्वप्नायिते च संभ्रान्ते नतसंस्फोटने तथा ॥१७९॥
न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य संग्रहः । तथा काकुविशेषश्च नानाभवरसान्वितः ॥१८०॥
यत्र व्यग्राअवुभौ हस्तौ तत्तद् दृष्टिविलोकनैः । वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः ॥१८१॥
उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः ॥१८२॥
उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च । पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥१८३॥
एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः । अत ऊर्ध्वं प्रवक्ष्यामि हस्तान् नृत्तसमाश्रयान् ॥१८४॥
वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ । समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ ॥१८५॥
हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् । उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ॥१८६॥
चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा । तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति ॥१८७॥
तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ । स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥१८८॥
अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ । अरालखटकाख्यौ चाप्यरालखटकामुखौ ॥१८९॥
तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ । ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति ॥१९०॥
भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ । पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ ॥१९१॥
हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा । तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ॥१९२॥
सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ । मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥१९३॥
रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ । प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ ॥१९४॥
चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः । विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसंज्ञकौ ॥१९५॥
अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ । किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ ॥१९६॥
मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ । बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ॥१९७॥
केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा । विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ ॥१९८॥
तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च । लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥१९९॥
समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः । त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥२००॥
कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ । पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः ॥२०१॥
तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ । अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥२०२॥
हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ । तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥२०३॥
ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥२०४॥
उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः । भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥२०५॥
अलपल्लवकारालावुरोद्वभ्रमणक्रमात् । पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ ॥२०६॥
हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा । खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥२०७॥
पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ । नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः ॥२०८॥
करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ । ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति ॥२०९॥
पल्लवौ च शिरोदेशे संप्राप्तौ ललितौ स्मृतौ । कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति ॥२१०॥
करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः । तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः ॥२११॥
संकरोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः । प्राधान्येन पुनः संज्ञा नाट्ये नृत्ते करेष्विह ॥२१२॥
वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः । अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् ॥२१३॥
सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः । विधातव्या प्रयत्नेन करणं तु चतुर्विधम् ॥२१४॥
अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् । व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् ॥२१५॥
आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् । अभ्यन्तरेण करणं तदावेष्टितमुच्यते ॥२१६॥
उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् । क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥२१७॥
आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्योऽभ्यन्तरेण तु । यथा क्रमेण करणं तद् व्यावर्तितमुच्यते ॥२१८॥
उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा । अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥२१९॥
नृत्तेऽभिनययोगे वा पाणिभिर्वर्तनाश्रये । मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् ॥२२०॥
तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु । मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च ॥२२१॥
उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु । बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः ॥२२२॥
हस्तानां करणविधिर्मया समासेन निगदितो विप्राः । अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि ॥२२३॥
आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् । उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् ॥२२४॥
निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् । आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत ॥२२५॥
स।म्भ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु । कार्यं शीतस्पर्शे वर्षे लाजान्वितेऽर्थवशात् ॥२२६॥
स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् । उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥२२७॥
स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च । अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ॥२२८॥
दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा । बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ॥२२९॥
ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् । प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः ॥२३०॥
हसितरुदितादिसंभ्रमभयश्रमव्याधिपीडितार्थेषु । नानाभावोपगतं कार्यमुरो नाट्ययोगेषु ॥२३१॥
हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव । हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन ॥२३२॥
उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः । दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते॥२३३॥सर्वैः
ससौष्ठवैरञ्गैश्चतुरस्रकृतैः कृतम् । उरः समन्। तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥२३४॥
एतदुक्तं मय सम्यगरसस्तु विकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् ॥२३५॥
नतं समुन्नतं चैव प्रसारितविवर्तितो । तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥२३६॥
कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च । तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् ॥२३७॥
तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः । कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् ॥२३८॥
आयामनादुभयतः पाश्वयोः स्यात् प्रसारितम् । परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते ॥२३९॥
विवर्तितापनयनाद् भवेदपसृतं पुनः । पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥२४०॥
उपसर्पे नतं कार्यमुन्नतं चापसर्पणे । प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ॥२४१॥
विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् । एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥२४२॥
क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा । तनु क्षामं नत।म् खल्व।म् पूर्णमाध्मातमुच्यते ॥२४३॥
क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भने भवेत् । व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते ॥२४४॥
पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु । इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत ॥२४५॥
अन्ये तु । क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् । छिना चैव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा ॥२४६॥
कटी मध्यस्य वलनात्च्छिना संपरिकीर्तिता । पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता ॥२४७॥
सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी । तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता ॥२४८॥
नितम्बपार्श्वोद्वहनात् शनेइरुद्वाहिता कटी । कटीकर्म मया प्रोक्तं विनियोगं निबोधत ॥२४९॥
छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु । निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु ॥२५०॥
कुब्जवामननीचानां गतौ कार्या प्रकम्पिता । स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च ॥२५१॥
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा । निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् ॥२५२॥
नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् । गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् ॥२५३॥
स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् । वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् ॥२५४॥
पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् । गतिष्वधमपात्रणां भये चापि हि कम्पनम् ॥२५५॥
वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे । साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ॥२५६॥
व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः । निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे ॥२५७॥
यथादर्शनमन्यच्च लोकाद् ग्राह्यं प्रयोक्तृभिः । इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत ॥२५८॥
आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च । परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा ॥२५९॥
वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः । पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते ॥२६०॥
जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् । जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः । विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते ॥२६१॥
नतं स्याज्जानुनमनात् क्षिप्तं विक्षेपणाद् बहि। उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि । प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते ॥२६२॥
आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे । नतं चापि हि कर्तव्यं स्थानासनगतादिषु ॥२६३॥
क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते । तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु ॥२६४॥
ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः । इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत ॥२६५॥
उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः । अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः ॥२६६॥
स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते । यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः ॥२६७॥
अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य । द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः ॥२६८॥
स्वभावरचिते भूमौ समस्थाने च यो भवेत् । समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः ॥२६९॥
स्थिरस्वभावाभिनये नानाकरणसंश्रये । चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते ॥२७०॥
समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् । बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः ॥२७१॥
त्य कृत्वा समपदं स्थानमश्वक्रान्ते तथैव च । स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः ॥२७२॥
अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् । त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ॥२७३॥
उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा । अङ्गुल्यश्चाञ्चिताः सर्वा पादेऽग्रतलसञ्चरः ॥२७४॥
तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे । विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन ॥२७५॥
पार्ष्णिर्यस्याञ्चिता भूमौ पादमग्रतलं तथा । अङ्गुल्यश्चाञ्चिताः सर्वाः स पादस्त्वञ्चितः स्मृतः ॥२७६॥
पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा । एव पादाहते कार्यो नानाभ्रमरकेषु च ॥२७७॥
उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा । तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः ॥२७८॥
उदत्तगमने चैव वर्तितोद्वर्तिते तथा । उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ॥२७९॥
वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः । नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते ॥२८०॥
अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् । पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः ॥२८१॥
पादस्य करणं सर्व जङ्घोरुकृतमिष्यते । यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते ॥२८२॥
अनयोः समानकरणात् पादचारी प्रयोजयेत् । इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि ॥२८३॥
अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् ॥२८४॥
इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP