TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नाट्यशास्त्रम् - अथ प्रथमोऽध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

अथ प्रथमोऽध्यायः
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥१॥
समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् । अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥२॥
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥३॥
योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः । नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥४॥
कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥५॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥६॥
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः । श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥७॥
पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे । त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥८॥
ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते । ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते ॥९॥
देवदानवगन्धर्वयक्षरक्षोमहोरगैः । जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥१०॥
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् ॥११॥
न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥१२॥
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥१३॥
नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु । वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥१४॥
सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥१५॥
एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥१६॥
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥१७॥
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥१८॥
उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् । इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥१९॥
कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः । तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥२०॥
तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् । प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥२१॥
ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम । अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि ॥२२॥
य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः । एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥२३॥
श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः । त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥२४॥
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥२५॥
शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा । जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥२६॥
सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा । कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥२७॥
जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा । कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥२८॥
कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा । बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥२९॥
तैतिलं भार्गवं चैव शुचिं बहुलमेव च । अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥३०॥
ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा । मागधं सरलं चैव कर्तारं चोग्रमेव च ॥३१॥
तुषारं पार्षदं चैव गौतमं बादरायणम् । विशालं शबलं चैव सुनामं मेषमेव च ॥३२॥
कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥३३॥
पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा । अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥३४॥
कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा । लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥३५॥
पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च । विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥३६॥
श्यामायनं माठरं च लोहिताङ्गं तथैव च । संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥३७॥
शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च । शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥३८॥
विद्युतं शातजङ्घं च रौद्रं वीरमथापि च । पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥३९॥
प्रयोजितं पुत्रशतं यथाभूमिविभागशः । यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः ॥४०॥
भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा । समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥४१॥
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया । अथाह मां सुरगुरुः कैशिकिमपि योजय ॥४२॥
यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम । एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥४३॥
दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् । नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥४४॥
दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः । कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा ॥४५॥
अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते । ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥४६॥
नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः । मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥४७॥
सौदामिनीं देवदत्तां देवसेनां मनोरमाम् । सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥४८॥
सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा । मागधीमर्जुनीं चैव सरलां केरलां धृतिम् ॥४९॥
नन्दां सपुष्कलां चैव कलमां चैव मे ददौ । स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥५०॥
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः । एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह ॥५१॥
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् । उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ॥५२॥
नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् । एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥५३॥
महानयं प्रयोगस्य समयः प्रत्युपस्थितः । अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते ॥५४॥
अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् । ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥५५॥
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे । पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता ॥५६॥
अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता । तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥५७॥
सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका । ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥५८॥
प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै । प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् ॥५९॥
ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् । सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च ॥६०॥
विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा । श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥६१॥
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् ॥६२॥
अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा । दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ॥६३॥
एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने । अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः ॥६४॥
विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् । न क्षमिष्यामहे नाट्यमेतदागम्यतामिति ॥६५॥
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः । वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ॥६६॥
तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् । कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥६७॥
अथापश्यत्सदो विघ्नैः समन्ताद्परिवारितम् । सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥६८॥
उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् । सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ॥६९॥
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् । जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥७०॥
निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः । संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ॥७१॥
अहो प्रहरणं दिव्यमिदमासादितं त्वया । जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥७२॥
यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ॥७३॥
शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः । दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ॥७४॥
एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् । रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥७५॥
प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः । त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ॥७६॥
दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् । उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ॥७७॥
निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने । अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥७८॥
ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः । कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ॥७९॥
ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् । सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ॥८०॥
प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः । सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ॥८१॥
ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः । आअगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् ॥८२॥
दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः । अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः ॥८३॥
रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः । लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ॥८४॥
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे । वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥८५॥
वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः । आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ ॥८६॥
धारणीश्वथ भूतानि शालास्वप्सरस्तथा । सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥८७॥
द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च । स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ ॥८८॥
देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् । द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च ॥८९॥
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् । स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥९०॥
स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने । भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः ॥९१॥
जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् । तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥९२॥
शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा । तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥९३॥
पञ्चमे च महानागाः शेषवासुकितक्षकाः । एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः ॥९४॥
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः । इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥९५॥
पातालवासिनो ये च यक्षगुह्यकपन्नगाः । अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ।९६॥
नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती । विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः ॥९७॥
यान्येतानि नियुक्तानि दैवतानीह रक्षणे । एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥९८॥
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥९९॥
पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च । तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते ॥१००॥
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह । कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः ॥१०१॥
ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः । दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः ॥१०२॥
योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया । प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः ॥१०३॥
तन्नैतदेवं कर्तव्यं त्वया लोकपितामह । यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥१०४॥
विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । अलं वो मन्युना दैत्या विषादं त्यजतानघाः ॥१०५॥
भवतां देवतानां च शुभाशुभविकल्पकः । कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥१०६॥
नैकान्ततोऽत्र भवतां देवानां चानुभावनम् । त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥१०७॥
क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः । क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ॥१०८॥
धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुर्विनीतानां विनीतानां दमक्रिया ॥१०९॥
क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् । अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥११०॥
ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च । अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् ॥१११॥
नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥११२॥
उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥११३॥
एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ । सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥११४॥
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥११५॥
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥११६॥
तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति । सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति ॥११७॥
येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् । देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् । ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥११८॥
योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते ॥११९॥
वेदविद्येतिहासानामाख्यानपरिकल्पनम् । विनोदकरणं लोके नाट्यमेतद्भविष्यति ॥
श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् । विनोदजननं लोके नाट्यमेतद्भविष्यति ॥
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः । क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे ॥१२०॥
बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः । भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् ॥१२१॥
मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् ॥१२२॥
अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति । निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति ॥१२३॥
यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् । तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः ॥१२४॥
नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति । न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः ॥१२५॥
यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति । स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति ॥१२६॥
एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः । रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् ॥१२७॥
इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः ।
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-09-29T10:50:00.9070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

essay-type examination

  • निबंधात्मक परीक्षा 
  • (also subjective examination or subjective test) 
  • निबंधात्मक परीक्षा 
  • निबंधस्वरुपी परीक्षा 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.