TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नाट्यशास्त्रम् - अथ द्वितीयोऽध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

अथ द्वितीयोऽध्यायः
भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः । भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥१॥
अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् । भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥२॥
इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि । तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥३॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् । लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः ॥४॥
दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च । यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ॥ नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥५॥
श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥६॥
इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा । त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः ॥७॥
विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः । तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् ॥८॥
प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् । शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च ॥९॥
अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् । कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते ॥१०॥
देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् । शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥११॥
प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥
प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा । प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥१२॥
अणू रजश्च वालश्च लिक्षा यूका यवस्तथा । अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥१३॥
अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते । वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् ॥१४॥
यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् । अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥१५॥
चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः । अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥१६॥
चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् । द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह ॥१७॥
अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥१८॥
मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् । अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् ॥१९॥
यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः । स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम् ॥२०॥
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते । यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥२१॥
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ]॥
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च । यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा ॥२२॥
तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥२३॥
भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक । ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया ॥२४॥
समा स्थिरा तु कठिनाअ कृष्णा गौरी च या भवेत् । भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥२५॥
प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् । अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् ॥२६॥
शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती ।,
हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि । पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् ॥२७॥
कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च । सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते ॥२८॥
अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् । त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते ॥२९॥
छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते । हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् ॥३०॥
तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते । कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥३१॥
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः ॥३२॥
शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् । चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् ॥३३॥
पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु । सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् ॥३४॥
पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् । विभज्य भागान्विधिवद्ययथावदनुपूर्वशः ॥३५॥
शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् । शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥३६॥
सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु । उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा ॥३७॥
काषायवसनाश्चैव विकलाश्चैअव ये नराः । निशायां च बलिः कार्या नानाभोजनसंयुतः ॥३८॥
गन्धपुष्पफलोपेता दिशो दश समाश्रितः । पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च ॥३९॥
पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु । यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥४०॥
तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः । स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥४१॥
मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् । नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥४२॥
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥४३॥
भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः । तिथिनक्षत्रयोगेन शुभेन करणेन च ॥४४॥
स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा । आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ॥४५॥
स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे । प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः ॥४६॥
सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च । ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥४७॥
सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् । वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥४८॥
सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् । शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥४९॥
नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् । पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने ॥५०॥
निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् । ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥५१॥
वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् । शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च ॥५२॥
सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् । स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥५३॥
स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् । रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः ॥५४॥
ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः । अचलं चाप्यकम्पञ्च तथैवावलितं पुनः ॥५५॥
स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः । अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् ॥५६॥
कम्पने परचक्रात्तु भयं भवति दारुणम् । दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् ॥५७॥
पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः । शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् ॥५८॥
मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता । पुरोहितं नृपं चैव भोजयेन्मधुपायसैः ॥५९॥
कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् । सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥६०॥
अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः । यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः ॥६१॥
जयावहो नरेन्द्रस्य तथा त्वमचलो भव । स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥६२॥
एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा । रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥६३॥
चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः । अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी ॥६४॥
उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् । तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥६५॥
नानावर्णानि देयानि तथा भूतप्रियो बलिः । आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः ॥६६॥
भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् । एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥६७॥
रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा । रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् ॥६८॥
कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु । पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥६९॥
लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् । लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः ॥७०॥
कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः । अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः ॥७१॥
एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः । कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥७२॥
शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते । रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥७३॥
वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा । प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥७४॥
एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् । ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् ॥७५॥
नानासञ्जवनोपेतं बहुव्यालोपशोभितम् । ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥७६॥
निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् । नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् ॥७७॥
सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् । नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥७८॥
एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् । स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥७९॥
कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् । कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥८०॥
मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥८१॥
गम्भीरस्वरता येन कुतपस्य भविष्यति । भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥८२॥
सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः । भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥८३॥
समासु जातशोभासु चित्रकर्म प्रयोजयेत् । चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा ॥८४॥
लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् । एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥८५॥
पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् । समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥८६॥
शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ॥८७॥
विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् । चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥८८॥
बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा । तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥८९॥
दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे । स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् ॥९०॥
इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् । हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥९१॥
रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् । षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् ॥९२॥
विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे । अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥९३॥
स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः । विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् ॥९४॥
तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे । धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः ॥९५॥
नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः । द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् ॥९६॥
जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् । रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥९७॥
अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः । चतुरश्रं समतलं वेदिकासमलङ्कृतम् ॥९८॥
पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी । चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥९९॥
समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् । विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा ॥१००॥
एवमेतेन विधिना चतुरश्रं गृहं भवेत् । अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥१०१॥
त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः । मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥१०२॥
द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः । द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥१०३॥
विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः । स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥१०४॥
एवमेतेन विधिना कार्या नाट्यगृहा बुधैः । पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः ॥१०५॥
इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः ॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-09-29T10:54:53.3300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कायळ्याक तवशारि दोळो

  • (गो.) कावळ्याचा काकडीवर डोळा. फायद्यावर दृष्‍टि. कावळा पहा. 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.