TransLiteral Foundation

नाट्यशास्त्रम् - अथ षष्ठोऽध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

अथ षष्ठोऽध्यायः
पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः । भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥१॥
ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः । रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥२॥
भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि । संग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥३॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥४॥
अहं वः कथयिष्यामि निखिलेन तपोधनाः । संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥५॥
न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन । कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥६॥
एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि । गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥७॥
किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् । नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥८॥
विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥९॥
रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः । सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥१०॥
अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥११॥
नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् । धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥१२॥
स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः । धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥१३॥
सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः । विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥१४॥
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥१५॥
एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना । पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥१६॥
रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥१७॥
निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥१८॥
व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥१९॥
सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥२०॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥२१॥
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥२२॥
आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा । चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥२३॥
लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥२४॥
चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् । आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥२५॥
पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः । दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥२६॥
शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । निषादर्षभगान्धारमध्यपञ्चमधैवताः । ततं चैवावनद्धं च घनं सुषिरमेव च ॥२७॥
चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् । ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥२८॥
घनस्तु तालो विज्ञेयः सुषिरो वंश एव च । प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥२९॥
गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् । चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥३०॥
एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः । अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥३१॥
तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः । अत्राह यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति । अत्राह रस इति कः पदार्थः । उच्यते आस्वाद्यत्वात् । कथमास्वाद्यते रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा इत्यभिव्याख्याताः । अत्रानुवंश्यौ श्लोकौ भवतः यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् । आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥३२॥
भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः । आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥३३॥
अत्राह किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति । भवन्ति चात्र श्लोकाः नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥३४॥
नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा । एवं भावा भावयन्ति रसानभिनयैः सह ॥३५॥
न भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥३६॥
व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् । एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥३७॥
यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा । तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥३८॥
तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः । तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा शृङ्गारो रौद्रौ वीरो बीभत्स इति । अत्र शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः । वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच भयानकः ॥३९॥
शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः । रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥४०॥
वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः । बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥४१॥
अथ वर्णाः श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः । कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥४२॥
गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥४३॥
अथ दैवतानि शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः । रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥४४॥
बीभत्सस्य महाकालः कालदेवो भयानकः । वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥४५॥
एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि । इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च रसत्वमुपनेष्यामः । तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः । यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते । यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते । यथाच गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवेषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गार रसः। स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते । तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहार वाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः । विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्माद मदापस्मारजाड्यमरणादिभिरनुभावैरभिनतव्यः । अत्राह यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति । अत्रोच्यते पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति । वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः । ताश्च सामान्याभिनये वक्ष्यामः । करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबनधसमुत्थो निरपेक्षभावः । औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः । एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति । एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति । अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥४६॥
अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः । ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥४७॥
नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥४८॥
अथ हास्यो नाम हासस्थायिभावात्मकः । स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन दोषोदाहरणादिभिर्विभावैरुत्पद्यते । तस्योष्ठनासाकपोलस्पन्दन दृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपर्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः । द्विविधश्चायमात्मस्थः परस्थश्च । यदा स्वयं हसति तदाऽत्मस्थः । यदा तु परं हासयति तदा परस्थः । अत्रानुवंश्ये आर्ये भवतः । विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च । विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥४९॥
विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च । हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ॥५०॥
स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः । षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥५१॥
स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ॥५२॥
तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च । अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् ॥५३॥
अत्र श्लोकाः ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥५४॥
उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ । किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥५५॥
अथ मध्यमानाम् आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत्॥५६॥
उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् । निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥५७॥
अथाधमानाम् अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् ॥५८॥
संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् । करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥५९॥
हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके । उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥६०॥
इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः । द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥६१॥
अथ करुणो नाम शोकस्थायिभावप्रभवः । स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघात व्यसनसंयोगादिभिर्विभावैः समुपजायते । तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वास स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधि जडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रु स्वरभेदादयः । अत्रार्ये भवतः इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि । एभिर्भावविशेषैः करुणो नाम संभवति ॥६२॥
सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च । अभिनेयः करुणरसो देहायासाभिघातैश्च ॥६३॥
अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः संग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसंपातसंप्रहाररुधिराकर्षणाद्यानि कर्माणि । पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्च गद्गदादयः । अत्राह यदभिहितं रक्षोदानवादीनां रौद्रो रसः । किमन्येषां नास्ति । उच्यते अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारोऽत्र गृह्यते । ते हि स्वभावत एव रौद्रः । कस्मात् । बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः । रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव । यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् । शृङ्गारश्च तैः प्रायशः प्रसभ्यं सेव्यते । तेषां चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः । अत्रानुवंश्ये आर्ये भवतः युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव । संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥६४॥
नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव । एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥६५॥
इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥६६॥
अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायन विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः । अत्रार्ये रसविचारमुखे उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् । विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥६७॥
स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥६८॥
अथ भयानको नाम भयस्थायिभावात्मकः । स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते । तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेग चापलजडतात्रासापस्मारमरणादयः । अत्रार्याः विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥६९॥
गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् ॥७०॥
एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥७१॥
करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन । शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥७२॥
अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥७३॥
मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः । अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥७४॥
अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः । अत्रानुवंश्ये आर्ये भवतः यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा । तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥७५॥
स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥७६॥
शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् । अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ ॥७७॥
धर्मोपघातजश्चैव तथार्थापचयोद्भवः । तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥७८॥
दानवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥७९॥
व्याजाच्चैवापराधाच्च वित्रासितकमेव च । पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि ॥८०॥
बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः । विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः ॥८१॥
दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः । दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥८२॥
अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते । तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभतदयालिङ्गग्रहणादिभि रनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचाणश्चास्य निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः । अत्रार्याः श्लोकाश्च भवन्ति मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः । नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ॥ बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः । सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ॥ न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः । विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते । स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥ पुनर्निमित्तापाये च शान्त एवोपलीयते । एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ॥ एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥८३॥
इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः ॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-09-29T13:49:52.6430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

valve guide

  • झडप पथ 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.