TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नाट्यशास्त्रम् - अथ तृतीयोध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

अथ तृतीयोध्यायः
सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे । गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥१॥
ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥२॥
यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः ॥३॥
नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥४॥
सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् । सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥५॥
मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा । मृत्युं च नियतिं चैव कालदण्डं तथैव च ॥६॥
विष्णुप्रहरणं चैव नागराजं च वासुकिम् । वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् ॥७॥
भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् । असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् ॥८॥
तथा नाट्यकुमारीश्च महाग्रामण्यमेव च । यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च ॥९॥
एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः । यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥१०॥
भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः । साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥११॥
सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥१२॥
त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण ॥१३॥
नृपस्य विजयं शंस रिपूणां च पराजयम् । गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् ॥१४॥
एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे । निशायां तु प्रभातायां पूजनं प्रक्रमेदिह ॥१५॥
आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु । आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥१६॥
आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥१७॥
दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते । आचम्य तु यथान्यायं देवता वै निवेशयत् ॥१८॥
रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः । रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥१९॥
यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥२०॥
एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् । आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः ॥२१॥
समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् । द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् ॥२२॥
मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । तयोः कक्ष्याविभागेन दैवतानि निवेशयत् ॥२३॥
पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् । आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः ॥२४॥
नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी । सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥२५॥
पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह । विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा ॥२६॥
दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः । पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् ॥२७॥
नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् । पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् ॥२८॥
वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥२९॥
उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् । नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् ॥३०॥
तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् । ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् ॥३१॥
स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् ॥३२॥
अनेनैअव विधानेन यथास्थानं यथाविधि । सुप्रसादानि सर्वाणि दैवतानि निवेशयत् ॥३३॥
स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः । तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः ॥३४॥
देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् । गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् ॥३५॥
गन्धं माल्यं च धूपं च यथावदनुपूर्वशः । दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः ॥३६॥
ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् । शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥३७॥
घृतौदनेन हुतभुक्सोमर्कौ तु गुडौदनैः । विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥३८॥
यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा । पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ॥३९॥
पक्वानेन तु मांसेन सुरासीथुफलासवैः । अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः ॥४०॥
अनेनैव विधानेन सम्पूज्या मत्तवारणी । पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥४१॥
सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् । शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ॥४२॥
मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥४३॥
नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् । वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥४४॥
मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः । अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥४५॥
एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते ॥४६॥
देवदेव महाभाग सर्वलोकपितामह । मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् ॥४७॥
देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥४८॥
नारायणामितगते पद्मनाभ सुरोत्तम । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥४९॥
पुरन्दरामरपते वज्रपाणे शतक्रतो । प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः ॥५०॥
देवसेनापते स्कन्द भगवन् शङ्करप्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥५१॥
महादेव महायोगिन्देवदेव सुरोत्तम । संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥
देवि देवमहाभागे सरस्वति हरिप्रिये । प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥५२॥
नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु । राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् ॥५३॥
लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥५४॥
सर्वभूतानुभावज्ञ लोकजीवन मारुत । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥५५॥
देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥५६॥
सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥५७॥
सर्वग्रहपते सोम द्विजराज जगत्प्रिय । प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥५८॥
महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥५९॥
नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् । भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः । कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥६०॥
नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥६१॥
यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ । इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् ॥६२॥
रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥६३॥
सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रीतमानस्तु ससमुद्रनदीनदः ॥६४॥
वैनतेय महासत्व सर्वपक्षिपते विभो । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥६५॥
धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥६६॥
नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥६७॥
रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् । विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥६८॥
तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥६९॥
याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥७०॥
अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः ॥७१॥
कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् । स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥७२॥
आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥
पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः ॥७३॥
श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि । विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ॥७४॥
मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥७५॥
आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् ॥७६॥
सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥७७॥
अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः ॥७८॥
शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह । द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥७९॥
चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः । नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव ॥८०॥
नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन । जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥८१॥
जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च । अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् ॥८२॥
हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् ॥८३॥
अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥८४॥
महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥८५॥
एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः । नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥८६॥
सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः ॥८७॥
होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥८८॥
अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥८९॥
भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥९०॥
क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् ॥९१॥
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् ॥९२॥
तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् । क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥९३॥
सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् । पुरस्याबालवृद्धस्य तथा जानपदस्य च ॥९४॥
दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् ॥९५॥
य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥९६॥
यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥९७॥
पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥९८॥
न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥९९॥
शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥१००॥
स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥१०१॥
इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥१०२॥
इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः ।
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-09-29T10:57:46.7200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

constant strain rate test

  • स्थिर विकृति दर चाचणी 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.