चाणक्यनीतिदर्पणाः - त्रयोदशोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


मुहूर्त्तं माप जीवेच्च नरः शुक्लेण कर्मणा ।

न कल्पमापि कष्टेन लोकद्वयविरोधिना ॥१॥

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।

वर्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः ॥२॥

स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता ।

ज्ञातयः स्नान-पानाभ्यां वाक्यदानेन पंडिताः ॥३॥

आयुः कर्म च वित्तञ्च विद्या निधनमेव च ।

पञ्चैतानि च सृज्यन्ते गर्भस्थस्यैव देहिनः ॥४॥

अहो वत ! विचित्राणि चरितानि महात्मनाम् ।

लक्ष्मी तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥५॥

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् ।

स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥६॥

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा ।

द् वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥७॥

राज्ञधर्मणि धर्मिष्ठाः पापे पापाः समे समाः ।

राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥८॥

जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् ।

मृतो धर्मेण संतुक्तो दीर्घजीवी न संशयः ॥९॥

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।

अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥१०॥

दह्यमानाः सुतीब्रेण नीचाः परयशोऽग्निना ।

अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥११॥

बन्धाय विषयासङ्गं मुक्त्यै निर्विषयं मनः ।

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥१२॥

देहाभिमानगलिते ज्ञानेन परमात्मनः ।

यत्र यत्र मनो याति तत्र तत्र समाधयः ॥१३॥

ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम् ।

दैवायत्तं यतः सर्वं तस्मात्‍ संतोषमाश्रयेत् ॥१४॥

यथा धेनुसहस्त्रेषु वत्सो गच्छति मातरम् ।

तथा यच्च कृतं कर्म कर्तारमनुगच्छाति ॥१५॥

अनवस्थितकार्यस्य न जने न वने सुखम् ।

जनो दहति संसर्गाद्वनं संगविवर्जनात् ॥१६॥

यत् खनित्वा खनित्रेण भुतले वारि विन्दति ।

तथा गुरुगतां विद्या शुश्रुषुरधिगच्छति ॥१७॥

कर्मायत्तं फलं पुंसां बुध्दिः कर्मानुसारिणी ।

तथाऽपि सुधियश्चार्या सुविचार्यैव कुर्वते ॥१८॥

एकाक्षरप्रदातारं यो गुरुं नाऽभिवन्दते ।

श्वानयोनिशतं भुक्त्वा चांडालेष्वभिजायते ॥१९॥

युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः ।

साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥२०॥

पृथिव्यां त्रीणि रत्नानि अन्नमापः सुभाषितम् ।

मूढैः पाषाणखण्डॆषु रत्नसंख्या विधीयते ॥२१॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP