मनुस्मृतिः - द्वितीयोध्यायः

मनुस्मृती हे धर्मशास्त्र आहे. वर्णधर्म, आश्रमधर्म, वर्णाश्रमधर्म, राजधर्म, व्यवहारनिर्णय, स्त्रीधर्म व पुरूषधर्म यांच्या या स्मृतीमध्ये व्याख्या सांगून त्यांची निष्कृती कोणत्या उपायांनी करावी हे सुचविले आहे.


विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥१॥

कामात्मता न प्रशस्ता न चैवैहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥२॥

सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसंभवाः । व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥३॥

अकामस्य क्रिया का चिद् दृश्यते नैह कर्हि चित् । यद् यद् हि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् ॥४॥

तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् । यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते ॥५॥

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥६॥

यः कश्चित् कस्य चिद् धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥७॥

सर्वं तु समवेक्ष्यैदं निखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥८॥

श्रुतिस्मृत्योदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥९॥

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥१०॥

योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः । स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥११॥

वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥१२॥

अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥१३॥

श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ । उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥१४॥

उदितेऽनुदिते चैव समयाध्युषिते तथा । सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥१५॥

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ॥१६॥

सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥१७॥

तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥१८॥

कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥१९॥

एतद् देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥२०॥

हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥२१॥

आ समुद्रात् तु वै पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥२२॥

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥२३॥

एतान्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः । शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ॥२४॥

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता । संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥२५॥

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च ॥२६ ॥

गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते ॥२७॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥२८॥

प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते । मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥२९॥

नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥३०॥

मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥३१॥

शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥३२॥

स्त्रीणां सुखौद्यमक्रूरं विस्पष्टार्थं मनोहरम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥३३॥

चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद् वैष्टं मङ्गलं कुले ॥३४॥

चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥३५॥

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् । गर्भादेकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥३६॥

ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे ॥३७॥

आ षोदशाद् ब्राह्मणस्य सावित्री नातिवर्तते । आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥३८॥

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥३९॥

नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् । ब्राह्मान् यौनांश्च संबन्धान्नाचरेद् ब्राह्मणः सह ॥४०॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥४१॥

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥४२॥

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥४३॥

कार्पासमुपवीतं स्याद् विप्रस्यौर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥४४॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ । पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥४५॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥४६॥

ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥४७॥

प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥४८॥

भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥४९॥

मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥५०॥

समाहृत्य तु तद् भैक्षं यावदन्नममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥५१॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥५२॥

उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः । भुक्त्वा चौपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ॥५३॥

पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥५४॥

पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति । अपूजितं तु तद् भुक्तमुभयं नाशयेदिदम् ॥५५॥

नौच्छिष्टं कस्य चिद् दद्यान्नाद्यादेतत् तथाऽन्तरा । न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद् व्रजेत् ॥५६॥

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥५७॥

ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥५८॥

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥५९॥

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥६०॥

अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः ॥६१॥

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥६२॥

उद्धृते दक्षिणे पाणावुपवीत्यौच्यते द्विजः । सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥६३॥

मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥६४॥

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः ॥६५॥

अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥६६॥

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥६७॥

एष प्रोक्तो द्विजातीनामौपनायनिको विधिः । उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥६८॥

उपनीयं गुरुः शिष्यं शिक्षयेत्शौचमादितः । आचारमग्निकार्यं च संध्यौपासनमेव च ॥६९॥

अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः ॥७०॥

ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥७१॥

व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥७२॥

अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति चारमेत् ॥७३॥

ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं ? ? पूर्वं परस्ताच्च विशीर्यति ॥७४॥

प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति ॥७४॥

अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च ॥७६॥

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥७७॥

एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् । संध्ययोर्वेदविद् विप्रो वेदपुण्येन युज्यते ॥७८॥

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत् त्रिकं द्विजः । महतोऽप्येनसो मासात् त्वचैवाहिर्विमुच्यते ॥७९॥

एतयाऋचा विसंयुक्तः काले च क्रियया स्वया । ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु ॥८०॥

ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥८१॥

योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥८२॥

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥८३॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः । अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥८४॥

विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः ॥८५॥

ये पाकयज्ञाः चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥८६॥

जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥८७॥

इन्द्रियाणां विचरतां विषयेष्वपहारिषु । संयमे यत्नमातिष्ठेद् विद्वान् यन्तैव वाजिनाम् ॥८८॥

एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः ॥८९॥

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥९०॥

बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः । कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥९१॥

एकादशं मनो ज्ञेयं स्वगुणेनौभयात्मकम् । यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥९२॥

इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥९३॥

न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥९४॥

यश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् । छप्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥९५॥

न तथैतानि शक्यन्ते संनियन्तुमसेवया । विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥९६॥

वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ॥९७॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ॥९८॥

इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥९९॥

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥१००॥

पूर्वां संध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् ।पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ॥१०१॥

पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति । पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥१०२॥

न तिष्ठति तु यः पूर्वां नौपास्ते यश्च पश्चिमाम् । स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥१०३॥

अपां समीपे नियतो नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥१०४॥

वेदौपकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥१०५॥

नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ॥॥ब्रह्माहुतिहुतं पुण्यमनध्यायवषट् कृतम् ? ? ॥१०६॥

यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः । तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥१०७॥

अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् । आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥१०८॥

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥१०९॥

नापृष्टः कस्य चिद् ब्रूयान्न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥११०॥

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥१११॥

धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे ॥११२॥

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥११३॥

विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥११४॥

यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥११५॥

ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥११६॥

लौकिकं वैदिकं वाऽपि तथाऽध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥११७॥

सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥११८॥

शय्याऽऽसनेऽध्याचरिते श्रेयसा न समाविशेत् । शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ॥११९॥

ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥१२०॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् ॥१२१॥

अभिवादात् परं विप्रो ज्यायांसमभिवादयन् । असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥१२२॥

नामधेयस्य ये के चिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥१२३॥

भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥१२४॥

आयुष्मान् भव सौम्यैति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥१२५॥

यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥१२६॥

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥१२७॥

अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥१२८॥

परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः । तां ब्रूयाद् भवतीत्येवं सुभगे भगिनीति च ॥१२९॥

मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजो गुरून् । असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः ॥१३०॥

मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा । संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ॥१३१॥

भ्रातुर्भार्यौपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि । विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसंबन्धियोषितः ॥१३२॥

पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि । मातृवद् वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी ॥१३३॥

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥१३४॥

ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । पितापुत्रौ विजानीयाद् ब्राह्मणस्तु तयोः पिता ॥१३५॥

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥१३६॥

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥१३७॥

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥१३८॥

तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥१३९॥

उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥१४०॥

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥१४१॥

निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥१४२॥

अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥१४३॥

य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । स माता स पिता ज्ञेयस्तं न द्रुह्येत् कदा चन ॥१४४॥

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥१४५॥

उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् ॥१४६॥

कामान् माता पिता चैनं यदुत्पादयतो मिथः । संभूतिं तस्य तां विद्याद् यद् योनावभिजायते ॥१४७॥

आचार्यस्त्वस्य यां जातिं विधिवद् वेदपारगः । उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥१४८॥

अल्पं वा बहु वा यस्य श्रुतस्यौपकरोति यः । तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया ॥१४९॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥१५०॥

अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः । पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् ॥१५१॥

ते तमर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् ॥१५२॥

अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥१५३॥

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥१५४॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥१५५॥

न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥१५६॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥१५७॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला । यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥१५८॥

अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् । वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥१५९॥

यस्य वाङ्मनसी शुद्धे सम्यग् गुप्ते च सर्वदा । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥१६०॥

नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः । ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥१६१॥

सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥१६२॥

सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ॥॥सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥१६३॥

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः । गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ॥१६४॥

तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥१६५॥

वेदमेव सदाऽभ्यस्येत् तपस्तप्यन् द्विजोत्तमः । वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते ॥१६६॥

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥१६७॥

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥१६८॥

मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥१६९॥

तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥१७०॥

वेदप्रदानादाचार्यं पितरं परिचक्षते । न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥१७१॥

नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते । शूद्रेण हि समस्तावद् यावद् वेदे न जायते ॥१७२॥

कृतौपनयनस्यास्य व्रतादेशनमिष्यते । ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥१७३॥

यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला । यो दण्डो यत्च वसनं तत् तदस्य व्रतेष्वपि ॥१७४॥

सेवेतैमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥१७५॥

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् । देवताभ्यर्चनं चैव समिदाधानमेव च ॥१७६॥

वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥१७७॥

अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥१७८॥

द्यूतं च जनवादं च परिवादं तथाऽनृतम् । स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥१७९॥

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित् । कामाद् हि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥१८०॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥१८१॥

उदकुम्भं सुमनसो गोशकृत्मृत्तिकाकुशान् । आहरेद् यावदर्थानि भैक्षं चाहरहश्चरेत् ॥१८२॥

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्याहरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥१८३॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥१८४॥

सर्वं वापि चरेद् ग्रामं पूर्वौक्तानामसंभवे । नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥१८५॥

दूरादाहृत्य समिधः सन्निदध्याद् विहायसि । सायंप्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ॥१८६॥

अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥१८७॥

भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥१८८॥

व्रतवद् देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् । काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते ॥१८९॥

ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः । राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते ॥१९०॥

चोदितो गुरुणा नित्यमप्रचोदित एव वा । कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥१९१॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठेद् वीक्षमाणो गुरोर्मुखम् ॥१९२॥

नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंवृतः । आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः ॥१९३॥

हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ । उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥१९४॥

प्रतिश्रावणसंभाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥१९५॥

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः । प्रत्युद्गम्य त्वाव्रजतः पश्चाद् धावंस्तु धावतः ॥१९६॥

पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥१९७॥

नीचं शय्याऽऽसनं चास्य नित्यं स्याद् गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥१९८॥

नौदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥१९९॥

गुरोर्यत्र परिवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥२००॥

परीवादात् खरो भवति श्वा वै भवति निन्दकः ।परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥२०१॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥२०२॥

प्रतिवातेऽनुवाते च नासीत गुरुणा सह । असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥२०३॥

गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥२०४॥

गुरोर्गुरौ सन्निहिते गुरुवद् वृत्तिमाचरेत् । न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥२०५॥

विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु । प्रतिषेधत्सु चाधर्माद् हितं चोपदिशत्स्वपि ॥२०६॥

श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥२०७॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति ॥२०८॥

उत्सादनं च गात्राणां स्नापनौच्छिष्टभोजने । न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् ॥२०९॥

गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥२१०॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥२११॥

गुरुपत्नी तु युवतिर्नाभिवाद्यैह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥२१२॥

स्वभाव एष नारीणां नराणामिह दूषणम् । अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥२१३॥

अविद्वांसमलं लोके विद्वांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥२१४॥

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥२१५॥

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद् वन्दनं कुर्यादसावहमिति ब्रुवन् ॥२१६॥

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥२१७॥

यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥२१८॥

मुण्डो वा जटिलो वा स्यादथ वा स्यात्शिखाजटः । नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्व चित् ॥२१९॥

तं चेदभ्युदियात् सूर्यः शयानं कामचारतः । निम्लोचेद् वाऽप्यविज्ञानाज् जपन्नुपवसेद् दिनम् ॥२२०॥

सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा ॥२२१॥

आचम्य प्रयतो नित्यमुभे संध्ये समाहितः । शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥२२२॥

यदि स्त्री यद्यवरजः श्रेयः किं चित् समाचरेत् । तत् सर्वमाचरेद् युक्तो यत्र चास्य रमेन् मनः ॥२२३॥

धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च । अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥२२४॥

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥२२५॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥२२६॥

यं मातापितरौ क्लेशं सहेते संभवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥२२७॥

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥२२८॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥२२९॥

त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः ॥२३०॥

पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥२३१॥

त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही । दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥२३२॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥२३३॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥२३४॥

यावत् त्रयस्ते जीवेयुस्तावत्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥२३५॥

तेषामनुपरोधेन पारत्र्यं यद् यदाचरेत् । तत् तन्निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥२३६॥

त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते । एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥२३७॥

श्रद्दधानः शुभां विद्यामाददीतावरादपि । अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥२३८॥

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥२३९॥

स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः ॥२४०॥

अब्राह्मणादध्यायनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ॥२४१॥

नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् । ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥२४२॥

यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले । युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥२४३॥

आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥२४४॥

न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् । स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् ॥२४५॥

क्षेत्रं हिरण्यं गामश्वं छत्रौपानहमासनम् । धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥२४६॥

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवद् वृत्तिमाचरेत् ॥२४७॥

एतेष्वविद्यमानेषु स्थानासनविहारवान् । प्रयुञ्जानोऽग्निशुश्रूषां साधयेद् देहमात्मनः ॥२४८॥

एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः । स गच्छत्युत्तमस्थानं न चैह जायते पुनः ॥२४९॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां सहितायां द्वितीयोध्यायः ॥

N/A

References : N/A
Last Updated : April 03, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP