गणेश स्थापना - भाग १


हिंदू धर्मात गणेशाला बुद्धीची, ज्ञानाची देवता मानतात. सर्व शुभ कार्यात प्रथम गणपतीची पूजा करतात, कारण तो सुखकर्ता, दुःखहर्ता, विघ्नहर्ता आहे.
 
Ganesh is one of the best-known God of knowledge and most worshipped deities in Hinduism. Lord Shree Ganesha is worshipped as the lord of beginnings and as the lord of remover of obstacles, patron of arts and sciences, and the god of intellect and wisdom. He is honoured with affection at the start of any ritual or ceremony.


भाद्रपद शुक्ल चतुर्थी
पूजा विधान
१) आचमन
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।

या नावांनी दोनदा आचमने करावी.
ॐ गोविंदाय नमः ।

या नावाने पाणी सोडावे. पुढील नावे हात जोडून म्हणावीत. नंतर प्राणायाम करावा.
ॐ केशवाय नमः ।
ॐ नारायणाय नमः ।
ॐ माधवाय नमः ।
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ संकर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।

२) प्राणायाम
प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री छंदः । सप्तानां व्याहृतीनां विश्वामित्र, जमदग्नि, भरद्वाज, गौतम, अत्रि, वसिष्ठ, काश्यप ऋषयः । अग्नि, वाय्वादित्य, बृहस्पति, वरुणेन्द्र, विश्वेदेवा देवताः । गायत्र्युष्णिग् - अनुष्टप् - बृहतीपंक्ति - त्रिष्टुब - जगत्यश्छंदांसि । गायत्र्या गाथिनो विश्वामित्र ऋषिः । सविता देवता । गायत्री छंदः । गायत्री शिरसः प्रजापतिऋषिः । ब्रह्माग्निवाय्वादित्या देवताः । यजुश्छंदः । प्राणायामे विनियोगः ।
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ।
ॐ भूर्भवः स्वः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात ॥
ॐ आपो ज्योती रसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् ॥

३) देवतावंदन

हात जोडून शांत मनाने सावकाश म्हणावे
ॐ श्रीमन्महागणपतये नमः । इष्टदेवताभ्यो नमः । श्रीसरस्वत्यै नमः । श्री गुरुभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । मातृपितृभ्यां नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । निर्विघ्नमस्तु ।

सुमुखश्वैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥१॥
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः ।
द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥२॥
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥३॥
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥४॥
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते ॥५॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।
येषां हृदिस्थो भगवान्मंगलायतनं हरिः ॥६॥
तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥७॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः ॥८॥
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ।
सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥९॥
अभीप्सितार्थसिद्धयर्थ पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥१०॥
सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु न सिद्धिं ब्रह्मेशानजनार्दनाः ॥११॥
गणनाथसरस्वतीरविशुक्रबृहस्पतीन् ।
पंचैतानि स्मरेन्नित्यं वेदवाणीप्रवत्तये ॥१२॥
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥१३॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१४॥
४) संकल्प

( टिप- संकल्पामध्ये ज्या ठिकाणी---- अशी खूण आहे तेथे त्या दिवशीच्या संवत्सराचे, नक्षत्राचे, वाराचे योग व करण यांची नावे पंचांगात पाहून म्हणावीत. )
श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वियीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे, वैवस्वतमन्वन्तरे, कलियुगे, प्रथमचरणे, भरतवर्षे, भरतखंडे, जंबुद्वीपे, दण्डकारण्ये देशे, गोदावर्याः दक्षिणे तीरे ----मण्डले, ----ग्रामे, शालिवाहन शके, ----नाम संवत्सरे, ----अयने, ----ऋतौ, ----मासे, -----पक्षे, -----तिथौ, -------वासरे, ------दिवस, ----नक्षत्रे, एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ, मम आत्मनः श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थ अस्माकं सर्वेषां सहकुटुंबानां सहपरिवाराणां क्षेम स्थैर्य विजय अभय आयुरारोग्यैश्वर्याभिवृद्धयर्थ शान्त्यर्थ पुष्टयर्थ तुष्टयर्थ समस्तमंगलावाप्त्यर्थ समस्तदुरितोषशांत्यर्थं समस्ताभ्युदयार्थ च इष्टकामसंसिद्धयर्थ कल्पोक्तफलावाप्त्यर्थ मम इह जन्मनि जन्मजन्मांतरे च सहकुटुंबस्य क्षेमस्थित्यायुरारोग्यैश्वर्यादिवृद्धि सर्वकामर्निर्विघ्नसिद्धि पुत्रपौत्रधनधान्यविद्याजययशसमृद्धिद्वारा अद्य भाद्रपदशुक्लचतुर्थ्या प्रतिवार्षिकं विहितं श्रीसिद्धिविनायकदेवताप्रीत्यर्थ यथाशाक्ति यथाज्ञानेन यथामीलितोपचारद्रव्यैः ध्यानावाहनादिषोडशोपचारैः पूजां करिष्ये । तथा च आसनादि दिग्बंधादि कलशपूजनं शंखार्चनं घंटाराधनं दीपपूजनं च करिष्ये । शरिरशुद्धयर्थं षडंगन्यासं च करिष्ये । आदौ निर्विघ्नतासिद्धयर्थ श्रीमहागणपतिस्मरणं च करिष्ये ।

( हातात गंधाक्षतांसहित उदक घेऊन सोडावे )

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP