माँ काली की पूजा वर्षभर कभी भी किया जा सकता है। कार्तिक मास की अमावस्या तिथि जिस दिन पूरे भारत में दीपावली का पर्व और लक्ष्मी पूजा मनायी जाती है उसी दिन काली पूजा, महानिशा पूजा अथवा श्यामा पूजा पूर्वी भारत, मुख्यतः बंगाल, त्रिपुरा, ओड़िशा और असम में की जाती है। काली पूजन पूरी विधि-विधान के साथ करने से सुख,शांति-समृद्धि-सफलता व सिद्धि अनायास ही मिलना प्रारम्भ हो जाता है ।
पूजन से पूर्व पूजन सामाग्री को यथाक्रम यथास्थान रखकर पूर्व या उत्तर दिशा की ओर मुख करके शुद्ध आसन पर बैठकर पहले आचमन और प्राणायाम, पवित्री-धारण, शरीर-शुद्धि और आसन-शुद्धि कर लेनी चाहिये । तत्पश्चात्
अखण्डदीपपूजनम् - भगवती काली के दक्षिण भाग में स्थित घृत से युक्त अखण्ड दीपक प्रज्वलित कर यजमान से गन्ध, अक्षत, पुष्प के द्वारा पूजन करवा के आचार्य निम्न श्लोक का उच्चारण करते हुए यजमान से प्रार्थना करवायें।
भो दीप! देवीरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्कर्मसमाप्तिः स्यात् तावत्त्वं सुस्थिरो भव ॥
प्रार्थना
मनो मृगो धावति सर्वदा मुधा विचित्रसंसारमरीचिकां प्रति ।
अयेऽधुना किं स्वदया सरोवरं प्रकाश्य तस्मान्न निवर्तयिष्यसि ॥
अब स्वस्तिवाचन का पाठ करे, फिर संकल्प करें –
ॐविष्णुर्विष्णुर्विष्णुः..........................................कालीपूजनमहंकरिष्ये।
संकल्प कर गौरी-गणपति पूजन, कलश स्थापन, पुण्याहवाचन, अभिषेक, नवग्रह मण्डल का पूजन, षोडशमातृका, सप्तघृतमातृका पूजन, नांदीश्राद्ध और सर्वतोभद्र मण्डल का पूजन करना चाहिये । इन पूजन विधियों के लिए डी पी कर्मकांड की सीरीज का अवलोकन करें। इसके बाद काली यंत्र निर्माण कर माता काली का पूजन विधि अनुसार करना चाहिये ।
काली पूजन विधि
काली पूजन पद्धति प्रारम्भ
ध्यानम्
श्मशानमध्ये कुणपाधिरूढां दिगम्बरां नीलरुचित्रिनेत्राम् ।
चतुर्भुजां भीषणाहासयुक्तां काली स्वकीये हृदि चिन्तयामि ॥
ॐ कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभिचाकशीमि ।
यत्र सोमः । सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥
ॐ भगवत्यै कालीदेव्यै नमः, ध्यानं समर्पयामि ।
आवाहनम्
कालिदेवि समागच्छ सर्वसम्मत् प्रदायिनी! ।
यावद् व्रतं समाप्येत तावत्त्वं सन्निधौ भव ॥
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो म ऽआ वह ॥
ॐ भगवत्यै कालीदेव्यै नमः, आवाहनं समर्पयामि ।
आसनम्
प्रतप्तकार्तस्वरनिर्मितं यत् प्रौढोल्लसद्रत्नगणैः सुरम्यम् ।
दत्योधनाशाय प्रचण्डरूपे! सनाथ्यतामासनमेत्य देवि! ॥
तां म आओ वह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
ॐ भगवत्यै कालीदेव्यै नमः, आसनार्थे अक्षतान् समर्पयामि ।
पाद्यम्
सुवर्णपात्रेऽतितमां पवित्रे भागीरथीवारिमयोपनीतम् ।
सुरासुरैरर्चितपादयुग्मे गृहाणपाद्यं विनिवेदितं ॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम् ॥
ॐ भगवत्यै कालीदेव्यै नमः, पाद्यं समर्पयामि ।
अर्घ्यम्
दयार्दचिते मम हस्तमध्ये स्थितं पवित्रं धनसारयुक्तम् ।
प्रफुल्लमल्लीकुसुमैः सुगन्धिंगृहाण कल्याणि! मदीयमर्घ्यम् ॥
कां सोस्मितां हिण्यप्राकारामार्दा ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोप ह्वये श्रियम् ॥
ॐ भगवत्यै कालीदेव्यै नमः, अर्घ्यं समर्पयामि ।
आचमनीयम्
समस्तदुःखौघविनाशदक्षे! सुगन्धितं फुल्लप्रशस्तपुष्पैः।
अये! गृहाणाचमनं सुवन्द्ये! निवेदनं भक्तियुतः करोमि ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीं शरणं प्रपद्ये अलक्ष्मींमे नश्यतां त्वां वृणोमि ॥
ॐ भगवत्यै कालीदेव्यै नमः, आचमनीयं जलं समर्पयामि ।
मधुपर्कम्
दधि-मधु-घृतैर्युक्तं पात्रयुग्मं समन्वितम् ।
मधुपर्कं गृहाण त्वं शुभदा भव शोभने ॥
ॐ भगवत्यै कालीदेव्यै नमः, मधुपर्कं समर्पयामि ।
स्नानम्
कर्पूरकाश्मीरजमिश्रितेन जलेन शुद्धेन सुशीतलेन ।
स्वर्गापवर्गस्य फलप्रदाढये स्नानं कुरु त्वं जगदेकधन्ये! ॥
आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्त्व वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु या अन्तरा या बाह्या अलक्ष्मीः ॥
ॐ भगवत्यै कालीदेव्यै नमः, स्नानीयं जलं समर्पयामि।
पञ्चामृतस्नानम्
पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ पञ्च नद्यः सरस्वतीमपियन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
ॐ भगवत्यै कालीदेव्यै नमः, पञ्चामृतस्नानं समर्पयामि ।
पञ्चामृत स्नानान्ते शुद्धोदक आचमनीयं जलं समर्पयामि।
महाभिषेकस्नानम्-
काली देवी की मूर्ति के महाभिषेक स्नान के लिए आचार्य श्रीसूक्त के सोलह मन्त्रों का क्रम से उच्चारण करे।
शुद्धोदकस्नानम्
शुद्धं यत्सलिलं दिव्यं गङ्गाजलसमं स्मृतम् ।
समर्पितं मया भक्त्या स्नानार्थं प्रतिगृह्यताम् ॥
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त ऽआश्विनाः ।
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा
यामा ऽअवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
ॐ भगवत्यै कालीदेव्यै नमः, शुद्धोदक स्नानं समर्पयामि ।
शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।
वस्त्रम्
वस्त्रञ्च सोमदैवत्यं लज्जायास्तु निवारणम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरि ॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्ति मृद्धिं ददातु मे ॥
ॐ भगवत्यै कालीदेव्यै नमः, वस्त्रं समर्पयामि ।
वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
यज्ञोपवीतम्
स्वर्गसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा ।
उपववीतं मयादत्तं गृहाण परमेश्वरि! ॥
ॐ भगवत्यै कालीदेव्यै नमः, यज्ञोपवीतं समर्पयामि ।
सौभाग्यसूत्रम्
सौभाग्यसूत्रं वरदे! सुवर्णमणिसंयुते ।
कंठे बन्ध्नामि देवेशि! सौभाग्यं देहि मे सदा ॥
ॐ भगवत्यै कालीदेव्यै नमः, सौभाग्यसूत्रं समर्पयामि ।
उपवस्त्रम्
कञ्चुकीमुपवस्त्रं च नानारत्नैः समन्वितम् ।
गृहाण त्वं मयादत्तं शङ्करप्राणवल्लभे ॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
ॐ भगवत्यै कालीदेव्यै नमः, उपवस्त्रं समर्पयामि।
कुङ्कुमम्
कुङ्कुम कान्तिदं दिव्यं कामिनीकामसम्भवम् ।
कुङ्कुमेनार्चिते देवि! प्रसीद परमेश्वरि ॥
प्रत्यूषमार्तण्डमयूखतुल्यं सुगन्धयुक्तं मृगनाभिचूर्णैः।
माणिक्यपात्रस्थितमञ्जुकान्ति त्रयीमये! देवि! गृहाण कुङ्कुमम् ॥
ॐ भगवत्यै कालीदेव्यै नमः, कुङ्कुमं समर्पयामि ।
सिन्दूरम्
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् ।
पूजिताऽसि मया देवि! प्रसीद परमेश्वरि! ॥
ॐ सिन्धोरिव प्राद्ध्वने शूघनासो वातप्रमिय:पतयन्ति यह्वा: ।
घृतस्य धारा ऽअरुणो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमान: ॥
ॐ भगवत्यै कालीदेव्यै नमः, सिन्दूरं समर्पयामि ।
गन्धम्
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् ।
विलेपनं च देवेशि! चन्दनं प्रतिगृह्यताम् ॥
गन्धद्वारां दुराधर्षां न्तियपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
ॐ भगवत्यै कालीदेव्यै नमः, गन्धानुलेपनं समर्पयामि ।
अक्षतान्
अक्षतान् निर्मलान् शुद्धान् मुक्तामणिसमन्वितान् ।
गृहाणेमान् महादेवि! देहि मे निर्मलां धियम् ॥
ॐ अक्षन्नमीमदन्त ह्यवप्रिया ऽअधूषत ।
अस्तोषत स्वभानवो विप्रामविष्ठया योजान्विन्द्र तेहरी ॥
ॐ भगवत्यै कालीदेव्यै नमः, अक्षतान् समर्पयामि ।
पुष्पमालाम्
मन्दार-पारिजातादि-पाटाली-केतकानि च ।
जाती-चम्पक-पुष्पाणि गृहाणेमानि शोभने! ॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥
ॐ भगवत्यै कालीदेव्यै नमः, पुष्पमालां समर्पयामि ।
बिल्वपत्राणि
अमृतोद्भवः श्रीवृक्षो महादेवप्रियः सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥
ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नम: ।
श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
ॐ भगवत्यै कालीदेव्यै नमः, बिल्वपत्राणि समर्पयामि ।
दूर्वाङ्कुरान्
दूर्वादले श्यामले त्वं महीरूपे हरिप्रिये ।
दूर्वाभिराभिर्भवती पूजयामि सदा शिवे ॥
ॐ काण्डात्काण्डात्प्ररोहन्ती पुरुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्त्रेण शतेन च ॥
ॐ भगवत्यै कालीदेव्यै नमः, दूर्वाङ्कुरान् समर्पयामि ।
नानापरिमलद्रव्याणि
अवीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नानापरिमलं द्रव्यं गृहाण परमश्वरि ॥
ॐ भगवत्यै कालीदेव्यै नमः, नानापरिमलद्रव्याणि समर्पयामि।
सौभाग्यद्रव्याणि
हरिद्रा-कुङ्कुमं चैव सिन्दूरादिसमन्वितम् ।
सौभाग्यद्रव्यमेतद्वै गृहाण परमेश्वरि ॥
ॐ ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्यः पद्भ्याम৶ शूद्रो ऽअजायत ॥
ॐ भगवत्यै कालीदेव्यै नमः, सौभाग्यद्रव्याणि समर्पयामि ।
सुगन्धितद्रव्यम्
चन्दनागुरुकर्पूरैः संयुतं कुङ्कमं तथा ।
कस्तूर्यादिसुगन्धांश्च सर्वाङ्गेषु विलेपनम् ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमाऽमृतात् ॥
ॐ भगवत्यै कालीदेव्यै नमः, सुगन्धितद्रव्यं समर्पयामि ।
काली पूजन विधि
अङ्गपूजनम्
ॐ दुर्गायै नमः, पादौ पूजयामि ।
ॐ महाकाल्यै नमः, गुल्फौ पूजयामि ।
ॐ मङ्गलायै नमः, जानुद्वयं पूजयामि ।
ॐ कात्यायन्यै नमः, ऊरुद्वयं पूजयामि ।
ॐ भद्रकाल्यै नमः, कटिं पूजयामि ।
ॐ कमलवासिन्यै नमः, नाभिं पूजयामि ।
ॐ शिवायै नमः, उदरं पूजयामि ।
ॐ क्षमायै नमः, हृदयं पूजयामि ।
ॐ कौमार्यै नमः, स्तनौ पूजयामि ।
ॐ उमायै नमः, हस्तौ पूजयामि ।
ॐ महागौर्यै नमः, दक्षिणबाहुं पूजयामि ।
ॐ वैष्णव्यै नमः, वामबाहुं पूजयामि ।
ॐ रमायै नमः, स्कन्धौ पूजयामि ।
ॐ स्कन्दमात्रे नमः, कण्ठं पूजयामि ।
ॐ महिषासुरमर्दिन्यै नमः, नेत्रे पूजयामि ।
ॐ सिंहवाहिन्यै नमः, मुखं पूजयामि ।
ॐ माहेश्वर्यै नम:, शिरः पूजयामि ।
ॐ कात्यायन्यै नमः, सर्वाङ्गं पूजयामि ।
काली पूजन विधि
नवशक्तिपूजनम्
ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ अजितायै नमः ।
ॐ अपराजितायै नमः ।
ॐ नित्यायै नम: ।
ॐ विलासिन्यै नमः ।
ॐ दोग्ध्र्यै नमः ।
ॐ अघोरायै नमः ।
ॐ मङ्गलायै नमः ।
काली पूजन विधि
आवरणपूजनम्
सबसे पहले पुष्पाञ्जलि अपने दायें हाथ में लेकर निम्न श्लोक का उच्चारण करें-
ॐ संविन्मये परेशानि परामृते चरुप्रिये ।
अनुज्ञां दक्षिणे देहि परिवारार्च्यनाय मे ॥
इसके पश्चात् निम्न वाक्य का उच्चारण करें-
पूजितास्ततर्पिता: सन्तु।
पुनः निम्न क्रमानुसार आवरण पूजा प्रारम्भ करें।
प्रथम आवरण-
फिर षट्कोण केसरों में आग्नेयादि चारों दिशाओं में और मध्य दिशा में क्रमानुसार पूजा आरम्भ करें। प्रथम आवरण की पूजा करते समय निम्न श्लोक का उच्चारण करके ध्यान करें-
तुषारस्फटिकश्याम नीलकृष्णारुणास्तथा ।
वरदाभयधारिण्यः प्रधान तनवः स्त्रियः ॥
ध्यान के उपरान्त-
ॐ क्रां हृदयाय नमः। हृदय देवता: श्रीपादुकां पूजयामि तर्पयामि नमः॥ १॥
ॐ क्रीं शिरसे स्वाहा । शिरो देवता: श्रीपादुकां पूजयामि तर्पयामि नमः॥२॥
ॐ क्रूं शिखायै वषट् । शिखा देवता: श्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३॥
ॐ क्रैं कवचाय हुँ । कवच देवताः श्रीपादुकां पूजयामि तर्पयामि नमः॥४॥
ॐ क्रौं नेत्रत्रयाय वौषट् । नेत्र देवता: श्रीपादुकां पूजयामि तर्पयामि नमः॥ ५॥
ॐक्र:अस्त्राय फट् । अस्त्र देवता: श्रीपादुकां पूजयामि तर्पयामि नमः॥ ६॥
उपरोक्त प्रकार से षडंगों की पूजा करने के पश्चात् हाथ में पुष्पांजलि लेकर निम्न श्लोक का उच्चारण करें-
ॐ अभीष्ट-सिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
द्वितीयावरणम्-
इसके उपरान्त पूज्य एवं पूजक के मध्य पूर्व दिशा को अन्तराल मानकर उसी के अनुसार अन्य दिशाओं की कल्पना करें। फिर प्राची क्रम द्वारा षटकोणों में काली आदि का पूजन करें और निम्न श्लोक का उच्चारण करके ध्यान करें-
ॐ सर्वाः श्यामा असिकरा मुण्डमाला विभूषिताः ।
तर्जनी वामहस्तेन धारर्यत्यश्च सुस्मिताः ॥
ध्यान के उपरान्त-
ॐ काल्यै नमः। काली देवता:श्रीपादुकां पूजयामि तर्पयामि नमः॥१॥
ॐ कपालिन्यै नम:। कपालिनी श्रीपादुकां पूजयामि तर्पयामि नमः॥ २॥
ॐ कुल्यायै नमः। कुल्ला श्रीपादुकां पूजयामि तर्पयामि नमः॥ ३॥
ॐ कुरुकुल्याय नम: । कुरुकुल्ला श्रीपादुकां पूजयामि तर्पयामि नमः॥ ४॥
ॐ विरोधिन्यै नमः। विरोधिनी श्रीपादुकां पूजयामि तर्पयामि नमः॥ ५॥
ॐ विप्रचित्तायै नमः । विप्रचित्ता श्रीपादुकां पूजयामि तर्पयामि नमः॥६॥
हाथ में पुष्पांजलि लेकर निम्न श्लोक का उच्चारण करें-
ॐ अभीष्ट-सिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
तृतीय आवरण-
तदुपरान्त यंत्र के तीनों कोणों में 'उग्रा आदि नौ देवियों की पूजा निम्न क्रमानुसार करें । प्रथम त्रिकोण के सम्मुख-
ॐ उग्रायै नमः। उग्रा श्रीपादुकां पूजयामि तर्पयामि नमः॥ १॥
ॐ उग्रप्रभायै नमः। उग्रप्रभा श्रीपादुकां तर्पयामि नमः॥२॥
ॐ दीप्तायै नम:।दीप्ता श्रीपादुकां पूजयामि तर्पयामि नमः॥ ३॥
ॐ नीलायै नमः। नीला श्रीपादुकां पूजयामि तर्पयामि नमः॥४॥
ॐ घनायै नमः। घना श्रीपादुकां पूजयामि तर्पयामि नमः॥ ५॥
ॐ बलाकायै नमः। बलाका श्रीपादुकां पूजयामि तर्पयामि नमः॥ ६॥
ॐ मात्रायै नम: । मात्रा श्रीपादुकां पूजयामि तर्पयामि नमः ॥ ७॥
ॐ मुद्रायै नमः। मुद्रा श्रीपादुकां पूजयामि तर्पयामि नमः॥ ८॥
ॐ मित्रायै नम:। मित्रा श्रीपादुकां पूजयामि तर्पयामि नमः॥ ९॥
हाथ में पुष्पांजलि लेकर निम्न श्लोक का उच्चारण करें-
ॐ अभीष्ट-सिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
दण्डं निम्न श्लोकदल में पूर्वाधिक
चतुर्थ आवरण-
पुनः अष्टदल में पूर्वादिक्रम के अनुसार आठ शक्तियों का पूजन करें। सबसे पहले निम्न श्लोक का उच्चारण करके ध्यान करें-
दण्डं कमण्डलुं पश्चादक्षसूत्रं महाभयम् ।
बिभ्रती कनकच्छाया ब्राह्मकृष्णा जिनोज्ज्वला ॥१॥
शूलं परश्वधङ् क्षुद्रदुन्दुभीं नृकरोटिकाम् ।
वहन्ती हिमसंकाशा ध्येया माहेश्वरी शुभा ॥२॥
अंकुशं दण्ड खट्वाङ्गौ पाशं च दधती करैः ।
बन्धूक पुष्प-संकाशा कुमारी कामदायिनी ॥३॥
चक्रं घण्टां कपालं च शंखं च दधती करैः ।
तमालश्यामला ध्येया वैष्णवी विभ्रमोज्वला ॥४॥
मुशलं करवालं च खेटकं दधती हलम् ।
करैश्चतुर्भिर्वाराही ध्येया कालघनच्छविः ॥५॥
अंकुशं तोमरं विद्युत्कुलिशं बिभ्रती करैः ।
इन्द्र नीलनिभेन्द्राणी ध्येया सर्वासमृद्धिदा ॥६॥
शूलं कृपाणं नृशिरः कपालं दधती करैः ।
मुण्डस्त्रङ् मण्डिता ध्येया चामुण्डा रक्त विग्रहा ॥७॥
अधस्त्रजं बीजपूरं कपालं दधती करैः ।
वहन्ती हेमसङ्काशा मोहलक्ष्मीस्समीरिता ॥८॥
ध्यान के उपरान्त-
ॐ ब्राह्मौ नमः। ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः॥१॥
ॐ नारायण्यै नमः। नारायणी श्रीपादुकां पूजयामि तर्पयामि नमः ॥ २॥
ॐ माहेश्वर्यै नम: । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः॥ ३॥
ॐ चामुण्डायै नमः। चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः॥४॥
ॐ कौमार्यै नमः। कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः॥ ५॥
ॐ अपराजितायै नमः। अपराजिता श्रीपादुकां पूजयामि तर्पयामि नमः॥ ६॥
ॐ वाराह्यै नमः। वाराही श्रीपादुकां पूजयामि तर्पयामि नमः॥ ७॥
ॐ नारसिंह्मै नमः। नारसिंही श्रीपादुकां पूजयामि तर्पयामि नमः॥ ८॥
हाथ में पुष्पांजलि लेकर निम्न श्लोक का उच्चारण करें-
ॐ अभीष्ट-सिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥
काली पूजन विधि
भैरवपूजनम्-
तदुपरान्त भूपुर के अन्दर आठों दिशाओं में पूर्वादिक्रम से अष्ट भैरवों का पूजन करें। उनका ध्यान निम्न श्लोक का उच्चारण करके करें-
भीषणास्यं त्रिनयनमर्द्धचन्द्रं विभूषितम् ।
स्फटिकाभं कंकणादि भूषाशत समायुतम् ॥१॥
अष्ट वर्ष वयस्कं च कुन्तलोल्लसितं भजे ।
धारयन्तं दण्ड शूले भैरव्यादिसमायुतम् ॥२॥
नाममन्त्रों द्वारा अष्टभैरवों का पूजन-
ॐ ऐं ह्रीं अं असिताङ्ग भैरवाय नमः। असिताङ्गभैरव श्रीपादुकां पूजयामि तर्पयामि नमः॥१॥
ॐ ऐं ह्रीं इं रुरु भैरवाय नमः। रुरुभैरव श्रीपादुकां पूजयामि तर्पयामि नमः॥२॥
ॐ ऐं ह्रीं उं चण्डभैरवाय नमः। चण्डभैरव श्रीपादुकां पूजयामि तर्पयामि नमः॥३॥
ॐ ऐं ह्रीं ऋं क्रोधभैरवाय नमः। क्रोधभैरव श्रीपादुकां पूजयामि तर्पयामि नमः॥ ४॥
ॐ ऐं ह्रीं लृं उन्मत्तभैरवाय नमः। उन्मत्तभैरव श्रीपादुकां पूजयामि तर्पयामि नमः॥५॥
ॐ ऐं ह्रीं एं कपालिभैरवाय नमः। कपालिभैरव श्रीपादुकां पूजयामि तर्पयामि नमः॥६॥
ॐ ऐं ह्रीं ओं भीषणभैरवाय नमः। भीषणभैरव श्रीपादुकां पूजयामि तर्पयामि नमः ॥ ७॥
ॐ ऐं ह्रीं अं संहारभैरवाय नमः। संहारभैरव श्रीपादुकां पूजयामि तर्पयामि नमः॥८॥
काली पूजन विधि
भैरवीपूजनम्-
भैरव पूजन करने के उपरान्त उन्हीं के समीप आठ भैरवी का पूजन करें। उनका ध्यान निम्न श्लोक का उच्चारण करके करें-
भावयेच्च महादेवि चन्द्रकोटियुतप्रभाम् ।
हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् ॥१॥
अष्टादश भुजैर्युक्तां सर्वानन्दकरोद्यताम् ॥
प्रहसन्तीं विशालाक्षीं देवदेवस्य सन्मुखीम् ॥२॥
ध्यान के उपरान्त-
ॐ भैरव्यै नमः। भैरवी श्रीपादुकां पूजयामि तर्पयामि नम:॥१॥
ॐ मम महाभैरव्यै नमः। महा भैरवी श्रीपादुकां पूजयामि तर्पयामि नमः॥२॥
ॐ सिं सिंह भैरव्यै नम:। सिंह भैरवी श्रीपादुकां पूजयामि तर्पयामि नम:॥३॥
ॐ धूं धूम्र भैरव्यै नमः। धूम्र भैरवी श्रीपादुकां पूजयामि तर्पयामि नमः॥ ४॥
ॐ भीं भीम भैरव्यै नमः। भीम भैरवी श्रीपादुकां पूजयामि तर्पयामि नमः॥ ५॥
ॐ उं उन्मत्त भैरव्यै नमः। उन्मत्त भैरवी श्रीपादुकां पूजयामि तर्पयामि नमः॥६॥
ॐ वं वशीकरण भैरव्यै नमः। वशीकरण भैरवी श्रीपादुकां पूजयामि तर्पयामि नमः॥ ७ ॥
ॐ मों मोहन भैरव्यै नमः। मोहन भैरवी श्रीपादुकां पूजयामि तर्पयामि नमः॥ ८॥
धूपम्
दशाङ्ग-गुग्गुलं धूपं चन्दना-ऽगरु-संयुतम् ।
समर्पितं मया भक्त्या महादेवि! प्रतिगृह्यताम् ॥
ॐ धूरसि धूर्व धूर्वन्तं धूर्वतं योऽस्मान् धूर्वति तं धूर्वये तं वयं धूर्वामः।
देवनामसि वह्नितम৶ सस्नितमं प्रपितमं जुष्टतमं देवहूतमम् ॥
ॐ भगवत्यै कालीदेव्यै नमः, धूपमाघ्रापयामि ।
दीपम्
आज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेशि! त्रैलोक्यतिमिरापहम् ॥
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा
सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ।
अनिर्वर्चो ज्योतिर्वर्च: स्वाहा
सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥
ॐ भगवत्यै कालीदेव्यै नमः, दीपं दर्शयामि ।
(हाथों को शुद्ध जल से धो लें)
नैवेद्यम्
अन्नं चतुर्विधं स्वादु-रसैः षड्भिः समन्वितम् ।
नैवेद्यं गृह्यतां देवि! भक्तिं मे ह्यचलां कुरु ॥
ॐनाभ्या आसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्द्दिश: श्रोत्रात्तथा लोकाँ२॥ अकल्पयन् ॥
ॐ भगवत्यै कालीदेव्यै नमः, नैवेद्यं निवेदयामि ।
ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा ।
ॐ ब्रह्मणे स्वाहा ।
आचमनीयं जलं समर्पयामि ।
मध्ये पानीयं समर्पयामि ।
उत्तरापोशनं समर्पयामि ।
हस्तप्रक्षालनार्थे मुखप्रक्षालनार्थे आचमनीयं जलं समर्पयामि ।
ताम्बूलम्
पूगीफलं महद्दिव्यं नागवल्लि-दलैर्युतम् ।
एलादि-चूर्णसंयुक्तं ताम्बूलं प्रतिगृह्याताम् ॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ।
ॐ भगवत्यै कालीदेव्यै नमः,
मुखवासार्थे एलालवङ्गादिभिर्युतं पुंगीफलताम्बूलं समर्पयामि।
द्रव्यदक्षिणाम्
राक्षसौघजयचण्डचरित्रे! किं ददामि निखिलं तव वस्तु ।
भक्तिभावयुतदत्तसुवर्णदक्षिणां सफलयस्व तथापि ॥
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥
ॐ भगवत्यै कालीदेव्यै नमः, द्रव्यदक्षिणां समर्पयामि ।
प्रदक्षिणाम्
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणा पदे पदे ॥
यः शुचिः प्रयतोभूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥
ॐ भगवत्यै कालीदेव्यै नमः, प्रदक्षिणां समर्पयामि ।
विशेषार्घ्य:
पूजाफलसमृद्धयर्थं तवाग्रे परमेश्वरि! ।
विशेषार्घ प्रयच्छामि पूर्णान्कुरु मनोरथान् ॥
ॐ भगवत्यै कालीदेव्यै नमः, विशेषार्घ्यं समर्पयामि ।
आर्तिक्यम्
ॐ इद৶ हविः प्रजननं मे अस्तु दशवीर৶ सर्वगणे৶ स्वस्तये ।
आत्मसनि प्रजासानि पशुसनि लोकसन्यभसनि ।
अग्निः प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो अस्मामासु धत्त।
आ रात्रि पार्थिव৶ रजः पितुरप्रायि धामभिः।
दिव सदा৶सि बृहती वितिष्ट्ठस आत्त्वेषं वर्त्तते तमः॥
माँ काली की आरती नीचे दिया गया है ।
ॐ भगवत्यै कालीदेव्यै नमः, आर्तिक्यं समर्पयामि ।
पुष्पाञ्जलिम्
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साद्धयाः सन्ति देवाः ॥
ॐ भगवत्यै कालीदेव्यै नमः, पुष्पाञ्जलिम् समर्पयामि ।
== माँ काली की आरती सुन मेरी देवी पर्वत पर रहनेवाली,
कोई तेरा पार न पाया ।
पान सुपारी ध्वजा नारियल,
तुझको भेंट चढ़ाया ॥
साड़ी, चोली तेरे अंग विराजे,
केसर तिलक लगाया ।
ब्रह्मा वेद पढ़े तेरे द्वारे,
शङ्कर ध्यान लगावें ॥
नंगे-नंगे पैरों माता,
राजा दौड़ा आया,
सोने का छत्र चढ़ाया ।
ऊँचे-ऊँचे पर्वत पर बना देवालय
नीचे शहर बसाया ॥
सतयुग, त्रेता, द्वापर मध्ये,
कलियुग राज सवाया ।
धूप दीप नैवेद्य आरती,
सुमधुर भोग लगाया ॥
ध्यानू भगत तेरा गुन गाया,
मनोवांछित फल पाया ।
भगवती तेरी विलक्षण माया,
पार किसी ने ना पाया ॥
अनया पूजया कालीदेव्यै प्रीयतां न मम समर्पयामि।
काली पूजन विधि समाप्त ॥