श्रीसुब्रह्मण्यत्रिशतीस्तोत्रम् - ॐ सौं शरवणभवः शरच्चन्द्रा...

त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो.


ॐ सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।
शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ॥१
शतायुष्यप्रदाता च शतकोटिरविप्रभः ।
शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥२
शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः ।
शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः ॥३
शङ्करः शङ्करप्रीतः शंयाककुसुमप्रियः ।
शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ॥४
शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।
शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः ॥५
शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः ।
शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः ॥६
शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः ।
शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः ॥७
शतकोटिप्रविस्तारयोजनायतमन्दिरः ।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥८
शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः ।
शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकः ॥९
शतकोटीन्द्रदिक्पालहस्तचामरसेवितः ।
शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः ॥१०
शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।
शङ्खपद्मनिधीनां च कोटिभिः परिसेवितः ॥११
शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः ।
शङ्खपालाद्यष्टनागकोटीभिः परिसेवितः ॥१२
शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः ।
शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः ॥१३
शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।
शतपत्रसमासीनः शतपत्रासनस्तुतः ॥१४
शारीरब्रह्ममूलादिषडाधारनिवासकः ।
शतपत्रसमुत्पन्नब्रह्मगर्वनिभेदनः॥१५
शशाङ्कार्धजटाजूटः शरणागतवत्सलः ।
रकाररूपो रमणो राजीवाक्षो रहोगतः ॥१६
रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः ।
रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥१७
राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः ।
रत्नप्रभाकिरीटाग्रो रविचन्द्राग्निलोचनः ॥१८
रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः ।
रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥१९
रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः ।
रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहः ॥२०
रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः ।
रत्नसिंहासनासीनो रत्नशोभितमन्दिरः ॥२१
राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः ।
राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः ॥२२
रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः ।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥२३
राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः ।
रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥२४
रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः ।
रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः ॥२५
रक्तपीतांबरधरो रक्तगन्धानुलेपनः ।
रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥२६
रविप्रियो रावणेशस्तोत्रसाममनोधरः ।
राज्यप्रदो रन्ध्रगुह्यो रतिवल्लभसुप्रियः ॥२७
रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः ।
राजीवसंभवद्वेषी राजीवासनपूजितः ॥२८
रमणीयमहाचित्रमयूरारूढसुन्दरः ।
रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥२९
वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।
वामदेवादिसम्पूज्यो वज्रपाणिमनोहरः ॥३०
वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः ।
वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥३१
वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् ।
वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥३२
वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः ।
वल्लीमनोहृत्सौन्दर्यो वल्लीविद्युल्लताघनः ॥३३
वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः ।
वल्लीकुचगिरिद्वन्द्वकुंकुमाङ्कितवक्षकः ॥३४
वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।
वक्रतुण्डानुजो वत्सो वत्सलो वत्सरक्षकः ॥३५
वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।
वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥३६
वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।
वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥३७
वामाङ्गो वामनयनो वचद्भूर्व्मनप्रियः ।
वरवेषधरो वामो वाचस्पतिसमर्चितः ॥३८
वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः ।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥३९
णकाररूपो नादान्तो नारदादिमुनिस्तुतः ।
णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥४०
णकारनादसन्तुष्टो नागाशनरथस्थितः ।
णकारजपसुप्रीतो नानावेषो नगप्रियः॥४१
णकारबिन्दुनिलयो नवग्रहसुरूपकः ।
णकारपठनानन्दो नन्दिकेश्वरवन्दितः ॥४२
णकारघण्टानिनदो नारायणमनोहरः ।
णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥४३
णकारपङ्कजादित्यो नववीराधिनायकः ।
णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥४४
णकारानर्घशयनो नवशक्तिसमावृतः ।
णकारवृक्षकुसुमो नाट्यसङ्गीतसुप्रियः ॥४५
णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः ।
णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः ॥४६
णकारपेटकमणिर्नागपर्वतमन्दिरः ।
णकारकरुणानन्दो नादात्मा नागभूषणः ॥४७
णकारकिङ्किणीभूषो नयनादृश्यदर्शनः ।
णकारवृषभावासो नामपारायणप्रियः ॥४८
णकारकमलारूढो नामानन्तसमन्वितः ।
णकारतुरगारूढो नवरत्नादिदायकः ॥४९
णकारमकुटज्वालामणिर्नवनिधिप्रदः ।
णकारमूलमन्त्रार्थो नवसिद्धादिपूजितः॥५०
णकारमूलनादान्तो णकारस्तम्भनक्रियः ।
भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥५१
भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः ।
भक्तार्तिभञ्जनो भद्रो भक्तसौभाग्यदायकः ॥५२
भक्तमङ्गलदाता च भक्तकल्याणदर्शनः ।
भक्तदर्शनसन्तुष्टो भक्तसङ्घसुपूजितः ॥५३
भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः ।
भक्तसम्पूर्णफलदो भक्तसाम्राज्यभोगदः॥ ५४
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।
भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥५५
भवान्धकारमार्ताण्डो  भववैद्यो भवायुधम् ।
भवशैलमहावज्रो भवसागरनाविकः ॥५६
भवमॄत्युभयध्वंसी भावनातीतविग्रहः ।
भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥५७
भाषितध्वनिमूलान्तो भावाभावविवर्जितः ।
भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥५८
भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।
भारक्रौञ्चासुरद्वेषो भार्गवीनाथवल्लभः ॥५९
भटवीरनमस्कॄत्यो भटवीरसमावृतः ।
भटतारागणोड्वीशो भटवीरगणस्तुतः ॥६०
भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।
भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥६१
वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।
वकारकुमुदेन्दुश्च वकाराब्धिसुधामयः ॥६२
वकारामृतमाधुर्यो वकारामृतदायकः ।
वज्राभीतिदक्षहस्तो वामे शक्तिवरान्वितः ॥६३
वकारोदधिपूर्णेन्दुःवकारोदधिमौक्तिकम् ।
वकारमेघसलिलो वासवात्मजरक्षकः ॥६४
वकारफलसारज्ञो वकारकलशामृतम् ।
वकारपङ्कजरसो वसुवंशविवर्धनः ॥६५
वकारदिव्यकमलभ्रमरो वायुवन्दितः ।
वकारशशिसङ्काशो वज्रपाणिसुताप्रियः ॥६६
वकारपुष्पसद्गन्धो वकारतटपङ्कजम् ।
वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥६७
वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।
वकारफलसत्कारो वकाराज्यहुताशनः ॥६८
वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।
वकारवटमूलस्थो वकारजलधेस्तटः ॥६९
वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः ।
वातरोगहरो वाणीगीतश्रवणकौतुकः ॥७०
वकारमकरारूढो वकारजलधेः पतिः ।
वकारामलमन्त्रार्थो वकारगृहमङ्गलम् ॥७१
वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः ।
वकारपञ्जरशुको वलारितनयास्तुतः ॥७२
वकारमन्त्रमलयसानुमन्मन्दमारुतः ।
वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनः ॥७३
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।
वकुलोत्पल्कादम्बपुष्पदामस्वलङ्कृतः ॥७४
वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः ।
वासनागन्धलिप्ताङ्गो वषट्कारो वशीकरः ॥७५
वासनायुक्ततांबूलपूरिताननसुन्दरः ।
वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥७६

N/A

References : N/A
Last Updated : January 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP