संस्कृत सूची|संस्कृत स्तोत्र साहित्य|त्रिशती नामावलिः| अगस्त्य उवाच -- हयग्रीव द... त्रिशती नामावलिः गिरीशं मरकतशृङ्गवासिनं म... नमः शिवाभ्यां सरसोत्सवाभ्... ॐ अस्य श्रीकुमारत्रिशतीमह... श्रीगणेशाय नमः । पूर्वपीठ... प्रचण्डचण्डीत्रिशती अस्य श्रीबालात्रिपुरसुन्द... विहायाद्रिनाथं विभुष्टान्... ध्यानम् - ब्रह्माण्डव्याप... अगस्त्य उवाच -- हयग्रीव द... श्रीमती शर्मदिश्यान्मे गो... सूर्य उवाच --- एकार्णमन्त... ॐ गणेश्वराय नमः । गणक्रीड... श्रीदेव्युवाच - त्रिशतीं ... ॐ सौं शरवणभवः शरच्चन्द्रा... हरिः ॐ । ॐ स्वर्णमहालक्ष्... ललिता त्रिशती - अगस्त्य उवाच -- हयग्रीव द... त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो. Tags : 300त्रिशतीनामावलिः ललिता त्रिशती Translation - भाषांतर अगस्त्य उवाच --हयग्रीव दयासिन्धो भगवन्शिष्यवत्सल ।त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥१॥रहस्य-नाम-साहस्रमपि त्वत्तः श्रुतं मया ।इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥२॥तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥३॥किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः ।अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्ता प्रणम्य तम् ॥४॥सूत उवाच -समाललम्बे तत्पाद युगळं कलशोद्भवः ।हयाननो भीतभीतः किमिदं किमिदं त्विति ॥५॥मुञ्चमुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।चिरं विचार्य निश्चिन्वन् वक्तव्यं न मयेत्यसौ ॥६॥तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।प्रणम्य विप्रं स मुनिस्तत्पादावत्यजन्स्थितः ॥७॥वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ ।तछृंण्वन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः ॥८॥तत्र श्रीललितादेवी कामेश्वरसमन्विता ।प्रादुर्भूता हयग्रीवं रहस्येवमचोदयत् ॥९॥श्रीदेवी उवाच -अश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि ।राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥१०॥स्वमातृ-जारवत् गोप्या विद्यैषेत्यागमा जगुः ।ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥११॥मया कामेश्वरेणापि कृता साङ्गोपिता भृशम् ।मदाज्ञया वचोदेव्यश्चत्ररर्नामसहस्रकम् ॥१२॥आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः ।सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥१३॥सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया ।तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥१४॥पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।अयञ्च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥१५॥अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः ।एतज्ज्ञातुमतो भक्त्या हितमेव निदर्शनम् ॥१६॥चित्तपर्याप्तिरेतस्य नान्यथा सम्भविष्यति ।सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥१७॥सूत उवाच -इत्युक्त्वाऽन्तरधादम्बा कामेश्वरसमन्विता ।अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥१८॥संस्थाप्य निकटेवाचमुवाच भृशविस्मितः ।हयग्रीव उवाच --कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥१९॥त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्त्रये ।येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥२०॥सच्छिष्येण त्वया चाहं दृष्टवानस्मि तां शिवाम् ।यतन्ते यद्दर्शनाय ब्रह्मविष्ण्वीश-पूर्वकाः ॥२१॥अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् ।यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद्धृदि ॥२२॥रहस्यनाम-साह्स्रादपि गुह्यतमं मुने ।आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥२३॥तदहं सम्प्रवक्ष्यामि ललिताम्बानुशासनात् ।श्रीमत्पञ्चदशाक्षर्याः कादिवर्णान्क्रमान् मुने ॥२४॥पृथग्विंशति नामानि कथितानि घटोद्भव ।आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारिणी ॥२५॥रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः ।तां शृणुष्व महाभाग सावधानेन चेतसा ॥२६॥केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज ।मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥२७॥तस्मादेकाग्र-मनसा श्रोतव्यं च त्वया सदा ।सूत उवाच -इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥२८॥॥ इति श्रीललितात्रिशतीस्तोत्रस्य पूर्वपीठिका सम्पूर्णा ।॥ न्यासः॥अस्य श्रीललितात्रिशती-स्तोत्र-महामन्त्रस्य भगवान् हयग्रीव ऋषिः,अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता,ऐं बीजम्, सौः शक्तिः, क्लीं कीलकम्,मम चतुर्विध-फलपुरुषार्थे जपे (वा) पारायणे विनियोगः॥ऐं अङ्गुष्ठाभ्यां नमः ।क्लीं तर्जनीभ्यां नमः ।सौः मध्यमाभ्यां नमः ।ऐं अनामिकाभ्यां नमः ।क्लीं कनिष्ठिकाभ्यां नमः ।सौः करतलकरपृष्ठाभ्यां नमः॥ऐं हृदयाय नमः ।क्लीं शिरसे स्वाहा ।सौः शिखायै वषट् ।ऐं कवचाय हुम् ।क्लीं नेत्रत्रयाय वौषट् ।सौः अस्त्राय फट् ।भूर्भुवस्सुवरोमिति दिग्बन्धः॥॥ ध्यानम्॥अतिमधुर-चापहस्तामपरिमितामोद-बाण-सौभाग्याम् ।अरुणामतिशयकरुणामभिनव-कुलसुन्दरीं वन्दे॥॥ लं इत्यादि पञ्चपूजा॥लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि ।हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि ।यं वाय्वात्मिकायै श्रीललिताम्बिकायै धूपमाघ्रापयामि ।रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि ।वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि ।सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि॥॥ अथ श्रीललितात्रिशती स्तोत्रम्॥ककाररूपा कल्याणी कल्याणगुणशालिनी ।कल्याणशैलनिलया कमनीया कलावती ॥१॥कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।कदम्ब-काननावासा कदम्ब- कुसुमप्रिया ॥२॥कन्दर्पविद्या कन्दर्प-जनकापाङ्गवीक्षणा ।कर्पूरवीटी-सौरभ्य-कल्लोलित-ककुप्तटा ॥३॥कलिदोषहरा कञ्जलोचना कम्रविग्रहा ।कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥४॥एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥५॥एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।एकाग्रचित्त-निर्ध्याता चैषणा-रहितादृता ॥६॥एलासुगन्धिचिकुरा चैनः कूटविनाशिनी ।एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥७॥एकातपत्र-साम्राज्यप्रदा चैकान्तपूजिता ।एधमानप्रभा चैजदनेकजगदीश्वरी ॥८॥एकवीरादि-संसेव्या चैकप्राभव-शालिनी ।ईकाररूपा चेशित्री चेप्सितार्थ-प्रदायिनी ॥९॥ईदृगित्यविनिर्देश्या चेश्वरत्व-विधायिनी ।ईशानादि-ब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥१०॥ईक्षित्रीक्षण-सृष्टाण्डकोटिरीश्वरवल्लभा ।ईडिता चेश्वरार्धाङ्गशरीरेशाधिदेवता ॥११॥ईश्वरप्रेरणकरी चेशताण्डव-साक्षिणी ।ईश्वरोत्सङ्गनिलया चेतिबाधा-विनाशिनी ॥१२॥ईहाविराहिता चेशशक्तिरीषत्स्मितानना ।लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥१३॥लाकिनी ललनारूपा लसद्दाडिमपाटला ।ललन्तिका-लसत्फाला ललाटनयनार्चिता ॥१४॥लक्षणोज्ज्वल-दिव्याङ्गी लक्षकोट्यण्ड-नायिका ।लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥१५॥ललामराजदलिका लम्बिमुक्तालताञ्चिता ।लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥१६॥ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया ।ह्रींकारबीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥१७॥ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥१८॥ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका ।ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥१९॥हकाररूपा हलधृत्पूजिता हरिणेक्षणा ।हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥२०॥हयारूढा-सेविताङ्घ्रिर्हयमेध-समर्चिता ।हर्यक्षवाहना हंसवाहना हतदानवा ॥२१॥हत्यादिपापशमनी हरिदश्वादिसेविता ।हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्ति-प्रियाङ्गना ॥२२॥हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।हरिकेशसखी हादिविद्या हालामदालसा ॥२३॥ (हालामदोल्लसा)सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥२४॥सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥२५॥सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥२६॥ककारार्था कालहन्त्री कामेशी कामितार्थदा ।कामसञ्जीविनी कल्या कठिनस्तनमण्डला ॥२७॥करभोरुः कलानाथमुखी कचजिताम्बुदा ।कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥२८॥कारुण्यविग्रहा कान्ता कान्तिधूत-जपावलिः ।कलालापा कम्बुकण्ठी करनिर्जित-पल्लवा ॥२९॥कल्पवल्ली-समभुजा कस्तूरी-तिलकाञ्चिता ।हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥३०॥हारहारि-कुचाभोगा हाकिनी हल्यवर्जिता ।हरित्पति-समाराध्या हठात्कार-हतासुरा ॥३१॥हर्षप्रदा हविर्भोक्त्री हार्द-सन्तमसापहा ।हल्लीसलास्यसन्तुष्टा हंसमन्त्रार्थ-रूपिणी ॥३२॥हानोपादान-निर्मुक्ता हर्षिणी हरिसोदरी ।हाहाहूहू-मुखस्तुत्या हानिवृद्धि-विवर्जिता ॥३३॥हय्यङ्गवीन-हृदया हरिगोपारुणांशुका ।लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥३४॥लास्यदर्शन-सन्तुष्टा लाभालाभ-विवर्जिता ।लङ्घ्येतराज्ञा लावण्य-शालिनी लघुसिद्धिदा ॥३५॥लाक्षारस-सवर्णाभा लक्ष्मणाग्रज-पूजिता ।लभ्येतरा लब्धभक्ति-सुलभा लाङ्गलायुधा ॥३६॥लग्नचामर-हस्त-श्रीशारदा-परिवीजिता ।लज्जापद-समाराध्या लम्पटा लकुलेश्वरी ॥३७॥लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः ।ह्रींकारिणी ह्रींकाराद्या ह्रींमध्या ह्रींशिखामणिः ॥३८॥ह्रींकार-कुण्डाग्निशिखा ह्रींकार-शशिचन्द्रिका ।ह्रींकार-भास्कररुचिर्ह्रींकाराम्भोद-चञ्चला ॥३९॥ह्रींकारकन्दाङ्कुरिका ह्रींकारैक-परायणा ।ह्रींकार-दीर्घिकाहंसी ह्रींकारोद्यान-केकिनी ॥४०॥ह्रींकारारण्य-हरिणी ह्रींकारावाल-वल्लरी ।ह्रींकार-पञ्जरशुकी ह्रींकाराङ्गण-दीपिका ॥४१॥ह्रींकार-कन्दरासिंही ह्रींकाराम्भोज-भृङ्गिका ।ह्रींकारसुमनो-माध्वी ह्रींकार-तरुमञ्जरी ॥४२॥सकाराख्या समरसा सकलागम-संस्तुता ।सर्ववेदान्त-तात्पर्यभूमिः सदसदाश्रया ॥४३॥सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।सनकादि-मुनिध्येया सदाशिव-कुटुम्बिनी ॥४४॥सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः ।सर्वप्रपञ्च-निर्मात्री समानाधिक-वर्जिता ॥४५॥सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा । (सकलेश्वरी)ककारिणी काव्यलोला कामेश्वर-मनोहरा ॥४६॥कामेश्वर-प्राणनाडी कामेशोत्सङ्ग-वासिनी ।कामेश्वरालिङ्गिताङ्गी कामेश्वर-सुखप्रदा ॥४७॥कामेश्वर-प्रणयिनी कामेश्वर-विलासिनी ।कामेश्वर-तपःसिद्धिः कामेश्वर-मनःप्रिया ॥४८॥कामेश्वर-प्राणनाथा कामेश्वर-विमोहिनी ।कामेश्वर-ब्रह्मविद्या कामेश्वर-गृहेश्वरी ॥४९॥कामेश्वराह्लादकरी कामेश्वर-महेश्वरी ।कामेश्वरी कामकोटि-निलया काङ्क्षितार्थदा ॥५०॥लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्छिता ।लब्धपाप-मनोदूरा लब्धाहङ्कार-दुर्गमा ॥५१॥लब्धशक्तिर्लब्धदेहा लब्धैश्वर्य-समुन्नतिः ।लब्धवृद्धिर्लब्धलीला लब्धयौवन-शालिनी ॥५२॥ (लब्धबुधिः)लब्धातिशय-सर्वाङ्ग-सौन्दर्या लब्ध-विभ्रमा ।लब्धरागा लब्धपतिर्लब्धनानागम-स्थितिः ॥५३॥ (लब्धगति)लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । (पूजिता)ह्रींकारमूर्तिर्ह्रींकार-सौधशृङ्ग-कपोतिका ॥५४॥ह्रींकार-दुग्धाब्धि-सुधा ह्रींकार-कमलेन्दिरा ।ह्रींकार-मणिदीपार्चिर्ह्रींकार-तरुशारिका ॥५५॥ह्रींकार-पेटकमणिर्ह्रींकारदर्श-बिम्बिता ।ह्रींकार-कोशासिलता ह्रींकारास्थान-नर्तकी ॥५६॥ह्रींकार-शुक्तिका-मुक्तामणिर्ह्रींकार-बोधिता ।ह्रींकारमय-सौवर्ण-स्तम्भ-विद्रुम-पुत्रिका ॥५७॥ह्रींकार-वेदोपनिषद् ह्रींकाराध्वर-दक्षिणा ।ह्रींकार-नन्दनाराम-नवकल्पक-वल्लरी ॥५८॥ह्रींकार-हिमवद्गङ्गा ह्रींकारार्णव-कौस्तुभा ।ह्रींकार-मन्त्रसर्वस्वा ह्रींकारपर-सौख्यदा ॥५९॥॥ इति श्रीललितात्रिशतीस्तोत्रं सम्पूर्णम्॥॥ श्रीललिता त्रिशती उत्तरपीठिका॥हयग्रीव उवाच -इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् ।रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥१॥शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।शक्तयक्षराणि नामानि कामेश-कथितानि च ॥२॥उभयाक्षर-नामानि ह्युभाभ्यां कथितानि वै ।तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥३॥नानेन सदृशं स्तोत्रं श्रीदेवी-प्रीतिदायकम् ।लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः ॥४॥सूत उवाच -इति हयमुखगीतं स्तोत्रराजं निशम्यप्रगलित-कलुषोऽभूच्चित्त-पर्याप्तिमेत्य ।निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तंपुनरधिक-रहस्यं ज्ञातुमेवं जगाद ॥५॥अगस्त्य उवाच --अश्वानन महाभाग रहस्यमपि मे वद ।शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥६॥उभयोरपि वर्णानि कानि वा वद देशिक ।इति पृष्टः कुम्भजेन हयग्रीवोऽवदत् पुनः ॥७॥हयग्रीव उवाच -तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् ।इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज ॥८॥एतद्विज्ञान-मात्रेण श्रीविद्या सिद्धिदा भवेत् ।कत्रयं हद्बयं चैव शैवो भागः प्रकीर्तितः ॥९॥शक्त्यक्षराणि शेषाणि ह्रींकार उभयात्मकः ।एवं विभागमज्ञात्वा ये विद्याजप-शालिनः ॥१०॥न तेषां सिद्धिदा विद्या कल्पकोटि-शतैरपि ।चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥११॥नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः ।त्रिकोणमष्टकोणं च दशकोणद्बयं तथा ॥१२॥चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।बिन्दुश्चाष्टदलं पद्मं पद्मं षोडश-पत्रकम् ॥१३॥चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्ट-दलाम्बुजम् ॥१४॥दशारयोः षोडशारं भूगृहं भुवनाश्रके ।शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥१५॥अविनाभाव-सम्बन्धं यो जानाति स चक्रवित् ।त्रिकोणरूपिणी शक्तिर्बिन्दुरूपपरः शिवः ॥१६॥अविनाभाव-सम्बन्धं तस्माद्बिन्दु-त्रिकोणयोः ।एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥१७॥न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।ये च जानन्ति लोकेऽस्मिन् श्रीविद्या-चक्रवेदिनः ॥१८॥सामान्य-वेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः ।स्वयं विद्या-विशेषज्ञो विशेषज्ञं समर्चयेत् ॥१९॥तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् ।अन्धं तमः प्रविशन्ति येऽविद्यां समुपासते ॥२०॥इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥२१॥अश्रुता सश्रुतासश्च यज्चानो येऽप्ययज्वनः ।स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निञ्च ये विदुः ॥२२॥सिकता इव संयन्ति रश्मिभिः समुदीरिताः ।अस्माल्लोकादमुष्माच्चेत्याह चारण्यक-श्रुतिः ॥२३॥यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् ।तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥२४॥इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥२५॥न शिल्पादि-ज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते ।मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥२६॥तस्माद्विद्या-विदेवात्र विद्वान्विद्वानितीर्यते ।स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥२७॥स्वयंविद्या-रहस्यज्ञो विद्या-माहात्म्य-वेद्यपिविद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥२८॥प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज ।यः कीर्तयेत्सकृत्भक्त्या दिव्य-नामशत-त्रयम् ॥२९॥तस्य पुण्यमहं वक्ष्ये शृणु त्वं कुम्भसम्भव ।रहस्यनाम-साहस्रपाठे यत्फलमीरितम् ॥३०॥तत्फलं कोटिगुणितमेक-नामजपाद्भवेत् ।कामेश्वरी-कामेशाभ्यां कृतं नामशतत्रयम् ॥३१॥नान्येन तुलयेदेतत् स्तोत्रेणान्य-कृतेन च ।श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥३२॥तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् ।अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥३३॥या स्वयं शिवयोर्वक्त्र-पद्माभ्यां परिनिःसृता ।नित्यं षोडश-सङ्ख्याकान्विप्रानादौ तु भोजयेत् ॥३४॥अभ्यक्तांस्तिल-तैलेन स्नातानुष्णेन वारिणा ।अभ्यर्च गन्धपुष्पाद्यैः कामेश्वर्यादि-नामभिः ॥३५॥सूपापूपैः शर्कराद्यैः पायसैः फलसंयुतैः ।विद्याविदो विशेषेण भोजयेत् षोडश द्विजान् ॥३६॥एवं नित्यार्चनं कुर्यादादौ ब्राह्मण-भोजनम् ।त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥३७॥तैलाभ्यङ्गादिकं दत्वा विभवे सति भक्तितः ।शुक्ल-प्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥३८॥दिवसे दिवसे विप्रा भोज्या विंशति-सङ्ख्यया ।दशभिः पञ्चभिर्वापि त्रीभिरेकेन वा दिनैः ॥३९॥त्रिंशत्षष्टिः शतं विप्राः सम्भोज्यास्त्रिशतं क्रमात् ।एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥४०॥तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा ।रहस्यनाम-साहस्त्र-भोजनेऽप्येवमेव हि ॥४१॥आदौ नित्यबलिं कुर्यात्-पश्चाद्-ब्राह्मणभोजनम् ।रहस्यनाम-साहस्र-महिमा यो मयोदितः ॥४२॥स शीकराणुरत्रैक-नाम्नो महिम-वारिधेः ।वाग्देवी-रचिते नामसाहस्ने यद्यदीरितम् ॥४३॥तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् ।एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥४४॥तत्फलं कोटिगुणितं भवेन्नाम-शतत्रयात् ।वाग्देवी-रचिते स्तोत्रे तादृशो महिमा यदि ॥४५॥साक्षात्कामेश-कामेशी-कृतेऽस्मिन् गृह्यतामिति ।सकृत् सङ्कीर्तनादेव नाम्नाम्नस्मिन् शतत्रये ॥४६॥भवेच्चित्तस्य पर्याप्तिर्न्यूनमन्यानपेक्षिणी ।न ज्ञातव्यमितोऽप्यन्यन्-न जप्तव्यं च कुम्भज ॥४७॥यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् ।तत्तत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥४८॥ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् ।तत्सर्वं सिद्ध्यति क्षिप्रं नामत्रिशत-कीर्तनात् ॥४९॥आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ।विद्याप्रदं कीर्तिकरं सुकवित्व-प्रदायकम् ॥५०॥सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् ।सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥५१॥एतज्जपपरो भूयान्नान्यदिच्छेत् कदाचन ।एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ॥५२॥भक्तस्य यद्यदिष्टं स्यात्तत्तत् पूरयते ध्रुवम् ।तस्मात् कुम्भोद्भव मुने कीर्तय त्वमिदं सदा ॥५३॥नापरं किञ्चिदपि ते बोद्धव्यमवशिष्यते ।इति ते कथितं स्तोत्र ललिता-प्रीतिदायकम् ॥५४॥नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।न शठाय न दुष्टाय नाविश्वासाय कहिर्चित् ॥५६॥यो ब्रूयात् त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् ।इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥५७॥ललिता-प्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् ।रहस्यनाम-साहस्रादपि गोप्यमिदं मुने ॥५८॥सूत उवाच -एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् ।स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम्॥आनन्दलहरी-मग्नमानसः समवर्तत ॥५९॥॥ इति श्री ब्रह्माण्डपुराणे उत्तराखण्डे श्री हयग्रीवागस्त्य-संवादेश्रीललितात्रिशती-स्तोत्रकथनं सम्पूर्णम्॥ N/A References : N/A Last Updated : January 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP