ललिता त्रिशती - अगस्त्य उवाच -- हयग्रीव द...

त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो.


अगस्त्य उवाच --
हयग्रीव दयासिन्धो भगवन्शिष्यवत्सल ।
त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥१॥

रहस्य-नाम-साहस्रमपि त्वत्तः श्रुतं मया ।
इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥२॥

तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।
कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥३॥

किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः ।
अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्ता प्रणम्य तम् ॥४॥

सूत उवाच -
समाललम्बे तत्पाद युगळं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदं त्विति ॥५॥

मुञ्चमुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन् वक्तव्यं न मयेत्यसौ ॥६॥

तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।
प्रणम्य विप्रं स मुनिस्तत्पादावत्यजन्स्थितः ॥७॥

वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ ।
तछृंण्वन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः ॥८॥

तत्र श्रीललितादेवी कामेश्वरसमन्विता ।
प्रादुर्भूता हयग्रीवं रहस्येवमचोदयत् ॥९॥

श्रीदेवी उवाच -
अश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥१०॥

स्वमातृ-जारवत् गोप्या विद्यैषेत्यागमा जगुः ।
ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥११॥

मया कामेश्वरेणापि कृता साङ्गोपिता भृशम् ।
मदाज्ञया वचोदेव्यश्चत्ररर्नामसहस्रकम् ॥१२॥

आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः ।
सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥१३॥

सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया ।
तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥१४॥

पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयञ्च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥१५॥

अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः ।
एतज्ज्ञातुमतो भक्त्या हितमेव निदर्शनम् ॥१६॥

चित्तपर्याप्तिरेतस्य नान्यथा सम्भविष्यति ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥१७॥

सूत उवाच -
इत्युक्त्वाऽन्तरधादम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥१८॥

संस्थाप्य निकटेवाचमुवाच भृशविस्मितः ।
हयग्रीव उवाच --
कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥१९॥

त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्त्रये ।
येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥२०॥

सच्छिष्येण त्वया चाहं दृष्टवानस्मि तां शिवाम् ।
यतन्ते यद्दर्शनाय ब्रह्मविष्ण्वीश-पूर्वकाः ॥२१॥

अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् ।
यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद्धृदि ॥२२॥

रहस्यनाम-साह्स्रादपि गुह्यतमं मुने ।
आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥२३॥

तदहं सम्प्रवक्ष्यामि ललिताम्बानुशासनात् ।
श्रीमत्पञ्चदशाक्षर्याः कादिवर्णान्क्रमान् मुने ॥२४॥

पृथग्विंशति नामानि कथितानि घटोद्भव ।
आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारिणी ॥२५॥

रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः ।
तां श‍ृणुष्व महाभाग सावधानेन चेतसा ॥२६॥

केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज ।
मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥२७॥

तस्मादेकाग्र-मनसा श्रोतव्यं च त्वया सदा ।
सूत उवाच -
इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥२८॥

॥ इति श्रीललितात्रिशतीस्तोत्रस्य पूर्वपीठिका सम्पूर्णा ।
॥ न्यासः॥

अस्य श्रीललितात्रिशती-स्तोत्र-महामन्त्रस्य भगवान् हयग्रीव ऋषिः,
अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता,
ऐं बीजम्, सौः शक्तिः, क्लीं कीलकम्,
मम चतुर्विध-फलपुरुषार्थे जपे (वा) पारायणे विनियोगः॥

ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः॥

ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः॥

॥ ध्यानम्॥

अतिमधुर-चापहस्तामपरिमितामोद-बाण-सौभाग्याम् ।
अरुणामतिशयकरुणामभिनव-कुलसुन्दरीं वन्दे॥

॥ लं इत्यादि पञ्चपूजा॥

लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै श्रीललिताम्बिकायै धूपमाघ्रापयामि ।
रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि॥

॥ अथ श्रीललितात्रिशती स्तोत्रम्॥

ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥१॥

कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्ब-काननावासा कदम्ब- कुसुमप्रिया ॥२॥

कन्दर्पविद्या कन्दर्प-जनकापाङ्गवीक्षणा ।
कर्पूरवीटी-सौरभ्य-कल्लोलित-ककुप्तटा ॥३॥

कलिदोषहरा कञ्जलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥४॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥५॥

एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्त-निर्ध्याता चैषणा-रहितादृता ॥६॥

एलासुगन्धिचिकुरा चैनः कूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥७॥

एकातपत्र-साम्राज्यप्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥८॥

एकवीरादि-संसेव्या चैकप्राभव-शालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थ-प्रदायिनी ॥९॥

ईदृगित्यविनिर्देश्या चेश्वरत्व-विधायिनी ।
ईशानादि-ब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥१०॥

ईक्षित्रीक्षण-सृष्टाण्डकोटिरीश्वरवल्लभा ।
ईडिता चेश्वरार्धाङ्गशरीरेशाधिदेवता ॥११॥

ईश्वरप्रेरणकरी चेशताण्डव-साक्षिणी ।
ईश्वरोत्सङ्गनिलया चेतिबाधा-विनाशिनी ॥१२॥

ईहाविराहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥१३॥

लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललन्तिका-लसत्फाला ललाटनयनार्चिता ॥१४॥

लक्षणोज्ज्वल-दिव्याङ्गी लक्षकोट्यण्ड-नायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥१५॥

ललामराजदलिका लम्बिमुक्तालताञ्चिता ।
लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥१६॥

ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया ।
ह्रींकारबीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥१७॥

ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥१८॥

ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका ।
ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥१९॥

हकाररूपा हलधृत्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥२०॥

हयारूढा-सेविताङ्घ्रिर्हयमेध-समर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥२१॥

हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्ति-प्रियाङ्गना ॥२२॥

हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदालसा ॥२३॥ (हालामदोल्लसा)
सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥२४॥

सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥२५॥

सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥२६॥

ककारार्था कालहन्त्री कामेशी कामितार्थदा ।
कामसञ्जीविनी कल्या कठिनस्तनमण्डला ॥२७॥

करभोरुः कलानाथमुखी कचजिताम्बुदा ।
कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥२८॥

कारुण्यविग्रहा कान्ता कान्तिधूत-जपावलिः ।
कलालापा कम्बुकण्ठी करनिर्जित-पल्लवा ॥२९॥

कल्पवल्ली-समभुजा कस्तूरी-तिलकाञ्चिता ।
हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥३०॥

हारहारि-कुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पति-समाराध्या हठात्कार-हतासुरा ॥३१॥

हर्षप्रदा हविर्भोक्त्री हार्द-सन्तमसापहा ।
हल्लीसलास्यसन्तुष्टा हंसमन्त्रार्थ-रूपिणी ॥३२॥

हानोपादान-निर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहू-मुखस्तुत्या हानिवृद्धि-विवर्जिता ॥३३॥

हय्यङ्गवीन-हृदया हरिगोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥३४॥

लास्यदर्शन-सन्तुष्टा लाभालाभ-विवर्जिता ।
लङ्घ्येतराज्ञा लावण्य-शालिनी लघुसिद्धिदा ॥३५॥

लाक्षारस-सवर्णाभा लक्ष्मणाग्रज-पूजिता ।
लभ्येतरा लब्धभक्ति-सुलभा लाङ्गलायुधा ॥३६॥

लग्नचामर-हस्त-श्रीशारदा-परिवीजिता ।
लज्जापद-समाराध्या लम्पटा लकुलेश्वरी ॥३७॥

लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः ।
ह्रींकारिणी ह्रींकाराद्या ह्रींमध्या ह्रींशिखामणिः ॥३८॥

ह्रींकार-कुण्डाग्निशिखा ह्रींकार-शशिचन्द्रिका ।
ह्रींकार-भास्कररुचिर्ह्रींकाराम्भोद-चञ्चला ॥३९॥

ह्रींकारकन्दाङ्कुरिका ह्रींकारैक-परायणा ।
ह्रींकार-दीर्घिकाहंसी ह्रींकारोद्यान-केकिनी ॥४०॥

ह्रींकारारण्य-हरिणी ह्रींकारावाल-वल्लरी ।
ह्रींकार-पञ्जरशुकी ह्रींकाराङ्गण-दीपिका ॥४१॥

ह्रींकार-कन्दरासिंही ह्रींकाराम्भोज-भृङ्गिका ।
ह्रींकारसुमनो-माध्वी ह्रींकार-तरुमञ्जरी ॥४२॥

सकाराख्या समरसा सकलागम-संस्तुता ।
सर्ववेदान्त-तात्पर्यभूमिः सदसदाश्रया ॥४३॥

सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादि-मुनिध्येया सदाशिव-कुटुम्बिनी ॥४४॥

सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्च-निर्मात्री समानाधिक-वर्जिता ॥४५॥

सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा । (सकलेश्वरी)
ककारिणी काव्यलोला कामेश्वर-मनोहरा ॥४६॥

कामेश्वर-प्राणनाडी कामेशोत्सङ्ग-वासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वर-सुखप्रदा ॥४७॥

कामेश्वर-प्रणयिनी कामेश्वर-विलासिनी ।
कामेश्वर-तपःसिद्धिः कामेश्वर-मनःप्रिया ॥४८॥

कामेश्वर-प्राणनाथा कामेश्वर-विमोहिनी ।
कामेश्वर-ब्रह्मविद्या कामेश्वर-गृहेश्वरी ॥४९॥

कामेश्वराह्लादकरी कामेश्वर-महेश्वरी ।
कामेश्वरी कामकोटि-निलया काङ्क्षितार्थदा ॥५०॥

लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्छिता ।
लब्धपाप-मनोदूरा लब्धाहङ्कार-दुर्गमा ॥५१॥

लब्धशक्तिर्लब्धदेहा लब्धैश्वर्य-समुन्नतिः ।
लब्धवृद्धिर्लब्धलीला लब्धयौवन-शालिनी ॥५२॥ (लब्धबुधिः)
लब्धातिशय-सर्वाङ्ग-सौन्दर्या लब्ध-विभ्रमा ।
लब्धरागा लब्धपतिर्लब्धनानागम-स्थितिः ॥५३॥ (लब्धगति)
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । (पूजिता)
ह्रींकारमूर्तिर्ह्रींकार-सौधश‍ृङ्ग-कपोतिका ॥५४॥

ह्रींकार-दुग्धाब्धि-सुधा ह्रींकार-कमलेन्दिरा ।
ह्रींकार-मणिदीपार्चिर्ह्रींकार-तरुशारिका ॥५५॥

ह्रींकार-पेटकमणिर्ह्रींकारदर्श-बिम्बिता ।
ह्रींकार-कोशासिलता ह्रींकारास्थान-नर्तकी ॥५६॥

ह्रींकार-शुक्तिका-मुक्तामणिर्ह्रींकार-बोधिता ।
ह्रींकारमय-सौवर्ण-स्तम्भ-विद्रुम-पुत्रिका ॥५७॥

ह्रींकार-वेदोपनिषद् ह्रींकाराध्वर-दक्षिणा ।
ह्रींकार-नन्दनाराम-नवकल्पक-वल्लरी ॥५८॥

ह्रींकार-हिमवद्गङ्गा ह्रींकारार्णव-कौस्तुभा ।
ह्रींकार-मन्त्रसर्वस्वा ह्रींकारपर-सौख्यदा ॥५९॥

॥ इति श्रीललितात्रिशतीस्तोत्रं सम्पूर्णम्॥

॥ श्रीललिता त्रिशती उत्तरपीठिका॥

हयग्रीव उवाच -
इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥१॥

शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्तयक्षराणि नामानि कामेश-कथितानि च ॥२॥

उभयाक्षर-नामानि ह्युभाभ्यां कथितानि वै ।
तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥३॥

नानेन सदृशं स्तोत्रं श्रीदेवी-प्रीतिदायकम् ।
लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः ॥४॥

सूत उवाच -
इति हयमुखगीतं स्तोत्रराजं निशम्य
प्रगलित-कलुषोऽभूच्चित्त-पर्याप्तिमेत्य ।
निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं
पुनरधिक-रहस्यं ज्ञातुमेवं जगाद ॥५॥

अगस्त्य उवाच --
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥६॥

उभयोरपि वर्णानि कानि वा वद देशिक ।
इति पृष्टः कुम्भजेन हयग्रीवोऽवदत् पुनः ॥७॥

हयग्रीव उवाच -
तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् ।
इदं त्वतिरहस्यं ते वक्ष्यामि श‍ृणु कुम्भज ॥८॥

एतद्विज्ञान-मात्रेण श्रीविद्या सिद्धिदा भवेत् ।
कत्रयं हद्बयं चैव शैवो भागः प्रकीर्तितः ॥९॥

शक्त्यक्षराणि शेषाणि ह्रींकार उभयात्मकः ।
एवं विभागमज्ञात्वा ये विद्याजप-शालिनः ॥१०॥

न तेषां सिद्धिदा विद्या कल्पकोटि-शतैरपि ।
चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥११॥

नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः ।
त्रिकोणमष्टकोणं च दशकोणद्बयं तथा ॥१२॥

चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।
बिन्दुश्चाष्टदलं पद्मं पद्मं षोडश-पत्रकम् ॥१३॥

चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्ट-दलाम्बुजम् ॥१४॥

दशारयोः षोडशारं भूगृहं भुवनाश्रके ।
शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥१५॥

अविनाभाव-सम्बन्धं यो जानाति स चक्रवित् ।
त्रिकोणरूपिणी शक्तिर्बिन्दुरूपपरः शिवः ॥१६॥

अविनाभाव-सम्बन्धं तस्माद्बिन्दु-त्रिकोणयोः ।
एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥१७॥

न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।
ये च जानन्ति लोकेऽस्मिन् श्रीविद्या-चक्रवेदिनः ॥१८॥

सामान्य-वेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः ।
स्वयं विद्या-विशेषज्ञो विशेषज्ञं समर्चयेत् ॥१९॥

तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् ।
अन्धं तमः प्रविशन्ति येऽविद्यां समुपासते ॥२०॥

इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।
विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥२१॥

अश्रुता सश्रुतासश्च यज्चानो येऽप्ययज्वनः ।
स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निञ्च ये विदुः ॥२२॥

सिकता इव संयन्ति रश्मिभिः समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्याह चारण्यक-श्रुतिः ॥२३॥

यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥२४॥

इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।
मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥२५॥

न शिल्पादि-ज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते ।
मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥२६॥

तस्माद्विद्या-विदेवात्र विद्वान्विद्वानितीर्यते ।
स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥२७॥

स्वयंविद्या-रहस्यज्ञो विद्या-माहात्म्य-वेद्यपि
विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥२८॥

प्रसङ्गादिदमुक्तं ते प्रकृतं श‍ृणु कुम्भज ।
यः कीर्तयेत्सकृत्भक्त्या दिव्य-नामशत-त्रयम् ॥२९॥

तस्य पुण्यमहं वक्ष्ये श‍ृणु त्वं कुम्भसम्भव ।
रहस्यनाम-साहस्रपाठे यत्फलमीरितम् ॥३०॥

तत्फलं कोटिगुणितमेक-नामजपाद्भवेत् ।
कामेश्वरी-कामेशाभ्यां कृतं नामशतत्रयम् ॥३१॥

नान्येन तुलयेदेतत् स्तोत्रेणान्य-कृतेन च ।
श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥३२॥

तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् ।
अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥३३॥

या स्वयं शिवयोर्वक्त्र-पद्माभ्यां परिनिःसृता ।
नित्यं षोडश-सङ्ख्याकान्विप्रानादौ तु भोजयेत् ॥३४॥

अभ्यक्तांस्तिल-तैलेन स्नातानुष्णेन वारिणा ।
अभ्यर्च गन्धपुष्पाद्यैः कामेश्वर्यादि-नामभिः ॥३५॥

सूपापूपैः शर्कराद्यैः पायसैः फलसंयुतैः ।
विद्याविदो विशेषेण भोजयेत् षोडश द्विजान् ॥३६॥

एवं नित्यार्चनं कुर्यादादौ ब्राह्मण-भोजनम् ।
त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥३७॥

तैलाभ्यङ्गादिकं दत्वा विभवे सति भक्तितः ।
शुक्ल-प्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥३८॥

दिवसे दिवसे विप्रा भोज्या विंशति-सङ्ख्यया ।
दशभिः पञ्चभिर्वापि त्रीभिरेकेन वा दिनैः ॥३९॥

त्रिंशत्षष्टिः शतं विप्राः सम्भोज्यास्त्रिशतं क्रमात् ।
एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥४०॥

तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा ।
रहस्यनाम-साहस्त्र-भोजनेऽप्येवमेव हि ॥४१॥

आदौ नित्यबलिं कुर्यात्-पश्चाद्-ब्राह्मणभोजनम् ।
रहस्यनाम-साहस्र-महिमा यो मयोदितः ॥४२॥

स शीकराणुरत्रैक-नाम्नो महिम-वारिधेः ।
वाग्देवी-रचिते नामसाहस्ने यद्यदीरितम् ॥४३॥

तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् ।
एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥४४॥

तत्फलं कोटिगुणितं भवेन्नाम-शतत्रयात् ।
वाग्देवी-रचिते स्तोत्रे तादृशो महिमा यदि ॥४५॥

साक्षात्कामेश-कामेशी-कृतेऽस्मिन् गृह्यतामिति ।
सकृत् सङ्कीर्तनादेव नाम्नाम्नस्मिन् शतत्रये ॥४६॥

भवेच्चित्तस्य पर्याप्तिर्न्यूनमन्यानपेक्षिणी ।
न ज्ञातव्यमितोऽप्यन्यन्-न जप्तव्यं च कुम्भज ॥४७॥

यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् ।
तत्तत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥४८॥

ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् ।
तत्सर्वं सिद्ध्यति क्षिप्रं नामत्रिशत-कीर्तनात् ॥४९॥

आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ।
विद्याप्रदं कीर्तिकरं सुकवित्व-प्रदायकम् ॥५०॥

सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् ।
सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥५१॥

एतज्जपपरो भूयान्नान्यदिच्छेत् कदाचन ।
एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ॥५२॥

भक्तस्य यद्यदिष्टं स्यात्तत्तत् पूरयते ध्रुवम् ।
तस्मात् कुम्भोद्भव मुने कीर्तय त्वमिदं सदा ॥५३॥

नापरं किञ्चिदपि ते बोद्धव्यमवशिष्यते ।
इति ते कथितं स्तोत्र ललिता-प्रीतिदायकम् ॥५४॥

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कहिर्चित् ॥५६॥

यो ब्रूयात् त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् ।
इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥५७॥

ललिता-प्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् ।
रहस्यनाम-साहस्रादपि गोप्यमिदं मुने ॥५८॥

सूत उवाच -
एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् ।
स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम्॥

आनन्दलहरी-मग्नमानसः समवर्तत ॥५९॥

॥ इति श्री ब्रह्माण्डपुराणे उत्तराखण्डे श्री हयग्रीवागस्त्य-संवादे
श्रीललितात्रिशती-स्तोत्रकथनं सम्पूर्णम्॥

N/A

References : N/A
Last Updated : January 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP