भागवतमाहात्म्यम् - विषयानुक्रमणिका

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अथ वैष्णवखण्डे षष्ठं भागवतमाहात्म्यम् ॥

१ सूतशौनकसंवादप्रसङ्गेन माथुरहस्तिनापुरयो राज्यसिंहासनयोर्वज्रपरीक्षितावभिषिच्य श्रीकृष्णपांडवानां स्वधामगमनवर्णनम्, वज्रनाभपरीक्षित्संवादोत्तरं शांडिल्यर्षेरागमनम्, शांडिल्येन व्रजशब्दार्थविवेचनपूर्वकं कृष्णकृतव्रजलीलावर्णनम्, गोवर्ध नमाथुरादिराज्यकरणेनोद्धवदर्शनलाभकथनम् ॥

२ इत्थमुक्त्वा शांडिल्यस्य स्वाश्रमगमनम्, परीक्षिद्राज्ञस्तत्र माथुरमण्डलं प्रत्यागमनम्, वज्रपरीक्षिद्राजभ्यां गोविन्दगोपीललितस्थानस्थापनम्, माथुरस्यासमन्ततो बहूनां ग्रामाणामवस्थापनम्, माथुरे कुण्डकूपादिपूर्तकर्मपूर्वकशिवलिङ्गस्थापनम्, श्रीकृष्णविरहेण कृष्णपत्नीकृतशोकवर्णनम्, कालिंदीवर्णितभगवद्गुणानुवादवर्णनम्, गोवर्धनपर्वतसमीपे परीक्षिदादीनामुद्धवदर्शनवर्णनम् ॥

३ उद्धवपरीक्षित्संवाद उद्धवेन भगवन्माहात्म्यकथनम्, कृष्णकृतबालक्रीडादिवर्णनम्, भागवतग्रन्थपठनेन सर्वमनोरथफलप्राप्तिकथनम्, यद्गृहे भागवतं तदेव श्रीकृष्णावासस्थानमित्यादिवर्णनम्, भागवतश्रवणेन मोक्षप्राप्तिवर्णनम्, श्रीमद्भागवतसप्ताहश्रवणफलम्, भगवत्कृतं सत्त्वरजस्तमोमयविष्णुब्रह्मदेवशंकरकार्यस्थित्युत्पत्तिलयाद्युपदेशवर्णनम्, श्रीमद्भागवतग्रहणेन शिवस्य तमोगुणनिरासः, भागवतश्रवणोत्सुकेन परीक्षितोद्धवस्य प्रार्थनाकरणम्, शुकमुखात्तव भागवतश्रवणं स्यादित्युद्धववचनं श्रुत्वोद्धवाज्ञया कलिनिग्रहार्थं दिग्विजयाय च
परीक्षितो गमनम्, वज्रस्य प्रतिबाहुं पुत्रं राज्ये संस्थाप्य वृन्दावनं गत्वोद्धवसंकीर्तितश्रीमद्भागवतश्रवणेन मुक्तिप्राप्तिवर्णनम् ॥

४ सूतशौनकसंवादप्रसगेन श्रीमद्भागवतभगवतोरेकस्वरूपत्वकथनम्, श्रीमद्भागवतश्रवणविधिकथनम्, श्रीमद्भागवतश्रवणेन सद्यः सर्वसिद्धिप्राप्तिवर्णनम् ॥

इति वैष्णवखण्डे षष्ठं भागवतमाहात्म्यम् ॥

N/A

References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP