संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|मार्गशीर्षमासमाहात्म्यम्| अध्याय ११ मार्गशीर्षमासमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ विषयानुक्रमणिका मार्गशीर्षमासमाहात्म्यम् - अध्याय ११ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ११ Translation - भाषांतर ॥ ब्रह्मोवाच ॥एकादश्याश्च माहात्म्यं मूर्तीनां च विधानकम् ॥सर्वं ब्रूहि मम स्वामिन्कृपया भूतभावन ॥१॥॥ श्रीभगवानुवाच ॥शृणुष्व द्विजशार्दूल कथां पापप्रणाशिनीम् ॥यां श्रुत्वा याति विलयं पापं ब्रह्मवधादिकम् ॥२॥कांपिल्ये नगरे राजा वीरबाहुरिति स्मृतः ॥सत्यवादी जितक्रोधो ब्रह्मज्ञो मम तत्परः ॥३॥भाववान्स दयाशीलोरूपवान्बलवान्नरः ॥भक्तो भागवतानां च सदा मम कथारुचिः ॥४॥सदा मम कथाऽऽसक्तः सदा जागरणप्रियः ॥दाता विद्वान्क्षमाशीलो विक्रमी विजितेंद्रियः ॥५॥विजयी रणशीलश्च ऋद्ध्या च धनदोपमः॥पुत्रवान्पशुमांश्चैव स्वदारनिरतस्तथा ॥६॥तस्य भार्या कांतिमती रूपेणाऽप्रतिमा भुवि ॥पतिव्रता महासाध्वी मम भक्तिरता सदा ॥७॥तया सह विशालाक्षो बुभुजे मेदिनीं युवा ॥मुक्त्वैकं मां महाबाहो नान्यज्जानाति दैवतम् ॥८॥एकस्मिन्दिवसे पुत्र भारद्वाजो महामुनिः ॥समागतो गृहे तस्य वीरबाहोर्महात्मनः ॥९॥दृष्ट्वा समागतं दूराद्भारद्वाजं महामुनिम् ॥स्वागतं कारयामास दत्त्वार्घ्यं विधिवत्तदा ॥१०॥आसनं कल्पयामास स्वयमेव महीपतिः ॥प्रणम्य परया भक्त्या तस्थौ मुनिवराग्रतः ॥११॥॥ राजोवाच ॥अद्य मे सफलं जन्म अद्य मे सफलं दिनम् ॥अद्य मे सफलं राज्यमद्य मे सफलं गृहम् ॥१२॥प्रसन्नो मम विप्रर्षे परमात्मा जनार्दनः ॥यत्त्वं समागतो ह्यद्य गृहे योगिवरस्तथा ॥१३॥मुक्तोऽहं पापकोट्याद्य यत्त्वयाऽहं निरीक्षितः ॥राज्यं लक्ष्मीर्गजाऽश्वाश्च मया तुभ्यं निवेदिताः ॥१४॥वैष्णवोऽसि मुनिश्रेष्ठ नास्त्यदेयं मया तव ॥मेरुतुल्यं भवेत्सर्वं वैष्णवस्य वराटिका ॥१५॥नाऽऽयाति हि गृहे यस्य वैष्णवो वै द्विजोत्तमः ॥तद्दिनं विफलं तस्य कथितं ब्राह्मणैर्मम ॥१६॥विष्णुभक्ताश्च ये केचित्सर्वे वर्णा द्विजातयः ॥कथितं मम गार्ग्येण गौतमेन सुमंतुना ॥१७॥ये त्वभक्ता हृषीकेशे पिशाचास्ते हि मानवाः ॥महापातकलिप्तास्ते ये भुंजंति हरेर्दिने ॥१८॥शिवव्रतसहस्रैस्तु सौरैर्ब्राह्मैश्च कोटिभिः ॥यत्फलं कविभिः प्रोक्तं वासरैकेन तद्धरेः ॥१९॥गर्वमुद्वहते तावत्तिथिर्ब्राह्मी च शांकरी ॥यावन्नायाति विप्रेंद्र द्वादशी च मम प्रिया ॥२०॥तावत्प्रभावस्ताराणां यावन्नोदयते शशी ॥तिथिस्तथा च विप्रेंद्र यावन्नायाति द्वादशी ॥२१॥नारदेन पुरा प्रोक्तं वसिष्ठेन ममाग्रतः ॥त्वं वेत्ता सर्वधर्माणां वैष्णवानां महामुने ॥२२॥॥ भारद्वाज उवाच ॥साधु पृष्टं महाभाग यत्त्वं भक्तोऽसि वैष्णवः ॥सा सुप्रजा मही धन्या यत्त्वं रक्षसि भूमिप ॥२३॥तस्मिन्राष्ट्रे न वस्तव्यं यत्र राजा न वैष्णवः ॥वरं वासो वने तीर्थे न तु राष्ट्रे त्ववैष्णवे ॥२४॥यत्र भागवतो राजा संप्रशास्ति च मेदिनीम् ॥वैकुण्ठमिति मंतव्यं तद्राष्ट्रं पापवर्जितम् ॥२५॥चक्षुर्हीनं यथा देहं पतिहीना यथा स्त्रियः ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२६॥यथा पुत्रो महीपाल मातापित्रोरपोषकः ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२७॥दानहीनो यथा राजा ब्राह्मणो रसविक्रयी ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२८॥दंतहीनो यथा हस्ती पक्षहीनो यथा खगः ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२९॥प्रतिग्रहार्थं वेदादि द्रव्यार्थं सुकृतं यथा ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३०॥दर्भहीना यथा संध्या यथा श्राद्धमदक्षिणम् ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३१॥सशिखश्च यथा शूद्रा कपिलाक्षीरपायकः ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३२॥शूद्रश्च ब्राह्मणीगामी हेमघ्नो धर्मदूषकः ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३३॥हरिसूर्यादिवृक्षाणां यथा छेदो नरोत्तम ॥द्वादशी दशमी युक्ता तथा राष्ट्रमवैष्णवम् ॥३४॥यथाऽऽहुतिर्मंत्रहीना मृतवत्सापयो यथा ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३५॥सकेशा विधवा यद्वद्व्रतं स्नानविवर्जितम् ॥द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३६॥स राजा प्रोच्यते सद्भिर्यो भक्तो मधुसूदने ॥तद्राष्ट्रं वर्धते नित्यं सुखी भवति सप्रजः ॥३७॥दृष्टिर्मे सफला राजन्यन्मया त्वं निरीक्षितः ॥अद्य मे सफला वाणी जल्पते या त्वया सह ॥३८॥दूरमेव हि गंतव्यं श्रूयते यत्र वैष्णवः ॥दर्शनात्तु भवेत्पुण्यं तीर्थस्नानसमुद्भवम् ॥३९॥स त्वं राजन्मया दृष्टो विष्णुभक्तिरतः शुचिः ॥स्वस्ति तेऽस्तु गमिष्यामि सुखी भव नराधिप ॥४०॥एतस्मिन्नंतरे राज्ञ्या कांतिमत्या नमस्कृतः ॥भारद्वाजो मुनिश्रेष्ठः प्रवरः सर्वयोगिनाम् ॥४१॥अवैधव्यं वरारोहे भक्ता भव स्वभर्त्तरि ॥निश्चला केशवे भक्तिः सदा भवतु ते शुभे ॥४२॥एतस्मिन्नंतरे राजा भारद्वाजं महामुनिम् ॥उवाच प्रीणयन्वाचा मेघनादगभीरया ॥४३॥॥ राजोवाच ॥विपुला मे कथं लक्ष्मीः किं कृतं पूर्वजन्मनि ॥सर्वं ब्रूहि मुनिश्रेष्ठ कृपा यदि ममोपरि ॥४४॥एतन्मया कथं प्राप्तं राज्यं निहतकण्टकम् ॥पुत्रो वै गुणवाञ्च्छ्रेष्ठः प्रिया च सुमनोहरा ॥४५॥मच्चित्ता मद्गतप्राणा चिंतयन्ती जनार्दनम् ॥कोऽहं मुने कथं चैषा कश्च धर्मो मया कृतः ॥४६॥किं चाऽनयाऽपि चार्वंग्या मम पत्न्या कृतं मुने ॥केन पुण्येन मे लक्ष्मीर्मृत्युलोके सुदुर्लभा ॥४७॥अशेषा भूमिपाला वै वर्तंते यस्य मे वशे ॥विक्रमं चाऽप्रतिहतं शरीरारोग्यता तथा ॥४८॥ममाऽपि विपुलं तेजो न कश्चित्सहते मुने ॥इच्छाम्यद्य प्रतिज्ञातुं यथा चेयमनिंदिता ॥४९॥मयाऽपि सुकृतं विप्र किं कृतं पूर्वजन्मनि ॥इति पृष्टो नरेंद्रेण पूर्वजन्मविचेष्टितम् ॥५०॥स्वपत्न्याश्चेष्टितं चैव संपदां चैव कारणम् ॥योगोत्थं सुचिरं कालं तथाविंदत मानसे ॥५१॥विज्ञातमेतन्नृपते पूर्वजन्मविचेष्टितम् ॥तव पत्न्याश्च राजर्षे शृणुष्व कथयाम्यहम् ॥५२॥॥भारद्वाज उवाच ॥शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ॥त्वमासीः शूद्रजातीयो जीवहिंसापरायणः ॥५३॥नास्तिको दुष्टचारित्रः परदारप्रधर्षकः ॥कृतघ्नो दुर्विनीतश्च सुष्ठ्वाचारविवर्जितः ॥५४॥इयं या भवतो भार्या पूर्वमप्यायतेक्षणा ॥कर्मणा मनसा वाचा नान्यदस्यास्त्वया विना ॥५५॥पतिव्रता महाभागा भजमाना निरन्तरम् ॥भावं न कुरुते दुष्टं तवोपरि तथा सति ॥५६॥सखिभिस्त्वं परित्यक्तो बन्धुभिः पापकर्मकृत् ॥क्षयं जगाम चाऽर्थो यः सञ्चितस्तव पूर्वजैः ॥५७॥नष्टे द्रव्ये फलाऽऽकांक्षी त्वमासीर्जगतीपते ॥पूर्वकर्मविपाकेन कृषिश्च विफला गता ॥५८॥ततो वित्ते परिक्षीणे परित्यक्तश्च बांधवैः ॥क्षीयमाणाऽपि साध्वीयमत्यजत्त्वां न भामिनी ॥५९॥त्वं भग्नः सर्वकामेभ्यो गतवान्निर्जने वने ॥हत्वा जीवाननेकांश्च चकारात्मविपोषणम् ॥६०॥एवं प्रवृत्तस्य तव सह पत्न्या तदा नृप ॥गतानि बहुवर्षाणि पापवृत्त्या महीतले॥६१॥अन्यस्मिन्वासरे राजन्मार्गभ्रष्टो महामुनिः ॥न दिशं विदिशं वेत्ति देवशर्मा द्विजोत्तमः ॥६२॥क्षुत्तृषापीडितोऽत्यर्थं मध्याह्नगदिवाकरे ॥पतितो वनमध्ये तु मार्गभ्रष्टो महीपते ॥६३॥दया जाता च ते भूप दृष्ट्वा दुःखेन पीडितम् ॥ब्राह्मणं वृद्धमज्ञातं गृहीत्वा तु करेण वै ॥६४॥उत्थाप्य पतितं भूमौ त्वयोक्तं हि तदा नृप ॥प्रसादं कुरु विप्रर्ष आगच्छ त्वं ममाऽऽश्रमम् ॥६५॥जलपूर्णं तडागं च पद्मिनीखण्डमण्डितम् ॥वृक्षैर्मनोहरैर्युक्तं फलैः पुष्पैर्मनोरमैः ॥६६॥स्नात्वा सुशीतले तोये कृत्वा कर्म च नैत्यकम् ॥कुरु विप्र फलाहारं पिब वारि सुशीतलम् ॥६७॥सुखेन कुरु विश्रामं मया संरक्षितः स्वयम् ॥विप्रेन्द्र तृप्तिपर्यंतं वस त्वं च ममाश्रमे ॥६८॥उत्तिष्ठ त्वं द्विजश्रेष्ठ प्रसादं कर्तुमर्हसि ॥लब्धसंज्ञस्तदा विप्रः श्रुत्वा शूद्रस्य भाषितम् ॥६९॥करे जग्राह तं शूद्रं गतो यत्र जलाशयः ॥उपविष्टो महाबाहो छायामाश्रित्य तत्तटे ॥७०॥स्नानं चकार विधिवत्पूजयामास केशवम् ॥तर्पयित्वा पितॄन्देवान्पपौ नीरं सुशीतलम् ॥७१॥विश्रांतो वृक्षूमूलेऽभूद्देवशर्मा द्विजोत्तमः ॥साष्टांगं मुनये कृत्वा नमस्कारं सह स्त्रिया ॥७२॥शूद्रस्तु परया भक्त्या प्रोवाच मुनिसन्निधौ ॥आवयोस्तरणार्थाय अतिथिस्त्वं समागतः ॥७३॥दर्शनात्तव विप्रर्षे जातः पापस्य संक्षयः ॥प्रिये फलानि स्वादूनि प्रयच्छास्मै द्विजातये ॥मृदूनि रसयुक्तानि सुपक्वानि प्रियाणि च ॥७४॥॥ब्राह्मण उवाच ॥त्वामहं नैव जानामि स्वज्ञातिं कथयस्व मे ॥नाज्ञातस्य हि भोक्तव्यं ब्राह्मणस्याऽपि पुत्रक ॥७५॥॥ शूद्र उवाच ॥शूद्रोऽहं द्विजशार्दूल न कार्यः संशयस्त्वया ॥आत्मजैर्दुर्जनैर्विप्र परित्यक्तः स्वबन्धुभिः ॥७६॥तयोः संवदतोरेवं शूद्रपत्न्या फलानि च ॥दत्तानि तस्मै विप्राय तेन भुक्तानि तानि वै ॥७७॥अभूत्प्रीतमना विप्रः पीत्वा नीरं सुशीतलम् ॥सुखं संप्राप्य स मुनिर्विश्रांतस्तरुमूलके ॥७८॥स च शूद्रः सपत्नीको भुक्त्वा च पुनरागतः ॥स्वागतं ते मुनिश्रेष्ठ कुतस्त्वमिह चाऽऽगतः ॥७९॥शून्याटवीं द्विजश्रेष्ठ दुष्टसत्त्वभयाकुलाम् ॥निर्मनुष्यां दुःखयुक्तां दिवारात्रं भयानकाम् ॥८०॥॥ ब्राह्मण उवाच ॥ब्राह्मणोऽहं महाभाग प्रयागगमनं प्रति ॥अहमज्ञातमार्गेण प्रविष्टो दारुणे वने ॥८१॥मम पुण्यप्रभावेण जातोसि वरबांधवः ॥जीवितं मे त्वया दत्तं ब्रूहि किं करवाणि ते ॥६२॥भवानपि कुतः प्राप्तो निर्मनुष्ये वने खलु ॥को भवान्कारणं किंस्वित्कथयस्व ममाऽग्रतः ॥८३॥॥ शूद्र उवाच ॥विदर्भनगरी राज्ञा भीमसेनेन रक्षिता ॥वासो मम महाराष्ट्रे शूद्रोऽहं पापलंपटः ॥८४॥स्वकर्मविहितो धर्मो मया त्यक्तो द्विजोत्तम ॥त्यक्तोऽहं बन्धुवर्गेण ततोऽहं वनमागतः ॥८५॥कृत्वा जीववधं नित्यं जीवेऽहं भार्यया सह ॥सांप्रतं पातकात्सम्यङ् निर्विण्णोस्मि महामुने ॥८६॥कुरुष्वाऽनुग्रहं किञ्चित्पापयुक्तस्य मे प्रभो ॥मम पुण्यप्रभावेण आगतस्त्वं द्विजोत्तम ॥८७॥न पश्यामि यथा सौरिं पत्न्या सह महामुने ॥उपदेशप्रभावेण प्रसादं कर्तुमर्हसि ॥८८॥नान्यदिच्छाम्यहं किञ्चिन्मुक्त्वा देवं जनार्दनम् ॥कुरुष्वाऽनुग्रहं मेऽद्य प्रसादमृषिसत्तम ॥८९॥॥ भारद्वाज उवाच ॥इति तेन समापृष्टो देवशर्मा द्विजाग्रणीः ॥शूद्रेण परया भक्त्या प्रहसन्वाक्यमब्रवीत् ॥९०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्य एकादश्याख्यानंनामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : November 10, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP