संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|कार्तिकमासमाहात्म्यम्| अध्याय १८ कार्तिकमासमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ विषयानुक्रमणिका कार्तिकमासमाहात्म्यम् - अध्याय १८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १८ Translation - भाषांतर ॥ नारद उवाच ॥जलंधरस्तु तच्छुत्वा कोपाकुलितविग्रहः ॥निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः ॥१॥गच्छतोऽस्याऽग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत् ॥मुकुटश्चाऽपतद्भूमौ वेगात्प्रस्खलितस्तदा ॥२॥दैत्यसैन्याऽऽवृतैस्तस्य विमानानां शतैस्तदा ॥व्यराजत नभःपूर्णं प्रावृषीव यथा घनैः ॥३॥तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः ॥अलक्षितास्तदा जग्मुः शूलिनं तं व्यजिज्ञपुः ॥४॥॥ देवा ऊचुः ॥न जानासि कथं स्वामिन्देवापत्तिमिमां विभो ॥तदस्मद्रक्षणार्थाय जहि सागरनंदनम् ॥५॥॥ नारद उवाच ॥इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः॥महाविष्णुं समाहूय वचनं चेदमब्रवीत्॥ ६॥॥ ईश्वर उवाच ॥जलंधरः कथं विष्णो न हतः संगरे त्वया ॥तद्गृहं चाऽपि यातोऽसि त्यक्त्वा वैकुंठमात्मनः ॥७॥॥ विष्णुरुवाच ॥तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ॥न मया निहतः संख्ये त्वमेनं जहि दानवम् ॥८॥॥ ईश्वर उवाच ॥नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया ॥देवैः सह स्वतेजोंशं शस्त्रार्थं दीयतां मम ॥९॥॥ नारद उवाच ॥अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा ॥तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः ॥१०॥तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम् ॥चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ॥११॥ततः शेषेण च तदा वज्रं च कृतवान्हरिः ॥तावज्जलंधरो दृष्टः कैलासतलभूमिषु ॥१२॥हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः ॥तं दृष्ट्वा लक्षिता जग्मुर्देवाः सर्वे यथागताः ॥१३॥गणाश्च समसज्जंत युद्धायाऽतित्वरान्विताः ॥नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया ॥१४॥अवतेरुर्गणा वेगात्कैलासाद्युद्धदुर्मदाः ॥ततः समभवद्युद्धं कैलासोपत्यकाभुवि ॥१५॥प्रमथाधिपदैत्यानां घोरशस्त्रास्त्रसंकुलम् ॥भेरीमृदंगशंखौघ निःस्वनैर्वीरहर्षणैः ॥१६॥गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ॥शक्तितोमरबाणौघमुसलप्रासपट्टिशैः ॥१७॥व्यराजत नभः पूर्णमुल्काभिरिव संवृतम् ॥निहतैरथनागाश्वपत्तिभिर्भूर्व्यराजत ॥१८॥वज्राहताचलशिरःशकलैरिव संवृता ॥प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ॥१९॥वसासृङ्मांसपंकाढ्या भूरगम्याऽभवत्तदा ॥प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् ॥२०॥युद्धे पुनः पुनस्तत्र मृतसंजीविनीबलात् ॥तं दृष्ट्वा व्याकुलीभूता गणाः सर्वे भयान्विताः ॥शशंसुर्देवदेवाय तत्सर्वं शुक्रचेष्टितम् ॥२१॥अथ रुद्रमुखात्कृत्या बभूवाऽतीवभीषणा ॥तालजंघा दरीवक्त्रा स्तनापीडितभूरुहा ॥२२॥सा युद्धभूमिमासाद्य भक्षयंती महासुरान् ॥भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः ॥२३॥विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा ॥अम्लानवदना हर्षान्निजघ्नुर्युद्धदुर्मदाः ॥२४॥अथाभज्यत दैत्यानां सेना गणभयार्दिता ॥वायुवेगेनाहतेव प्रकीर्णा तृणसंततिः ॥भग्नां गणभयात्सेनां दृष्ट्वामर्षयुता ययुः ॥निशुंभशुंभौ सेनान्यौ कालनेमिश्च वीर्यवान् ॥२६॥त्रयस्ते वारयामासुर्गणसेनां महाबलाः ॥मुञ्चतः शरवर्षाणि प्रावृषीव बलाहकाः ॥२७॥ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥रुरुधुः खं दिशः सर्वा गणसेनामकंपयन् ॥२८॥गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः ॥वसंते किंशुकाभासा न प्राज्ञायत किंचन ॥२९॥पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः ॥त्यक्त्वा संग्रामभूमिं ते सर्वेपि विमुखाऽभवन् ॥३०॥ततः प्रभग्नं स्वबलं विलोक्य शैलादिलंबोदरकार्तिकेयाः ॥त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षिणस्ते ॥३१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने रुद्रसेनापराभवोनामाऽष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : November 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP