संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|बदरिकाश्रममाहात्म्यम्| अध्याय १ बदरिकाश्रममाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ विषयानुक्रमणिका बदरिकाश्रममाहात्म्यम् - अध्याय १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १ Translation - भाषांतर ॥ श्रीबदरीनाथाय नमः ॥॥ शौनक उवाच ॥सूतसूत महाभाग सर्वधर्मविदां वर ॥सर्वशास्त्रार्थतत्त्वज्ञ पुराणे परिनिष्ठित ॥१॥व्यासः सत्यवतीपुत्रो भगवान्विष्णुरव्ययः ॥तस्य यत्प्रियशिष्यस्त्वं त्वत्तो वेत्ता न कश्चन ॥२॥प्राप्ते कलियुगे घोरे सर्वधर्मबहिष्कृते ॥जना वै दुष्टकर्माणः सर्वधर्मविवर्जिताः ॥३॥क्षुद्रायुषः क्षुद्रप्राणबलवीर्यतपःक्रियाः ॥अधर्मनिरताः सर्वे वेदशास्त्रविवर्जिताः ॥४॥तीर्थाटनतपोदानहरिभक्तिविवर्जिताः ॥कथमेषामल्पकानामुद्धारोऽल्पप्रयत्नतः ॥५॥तीर्थानामुत्तमं तीर्थं क्षेत्राणामुत्तमं तथा ॥मुमुक्षूणां कुतः सिद्धिः कुत्र वा ऋषिसंचयः ॥६॥कुत्र वाल्पप्रयत्नेन तपो मन्त्राश्च सिद्धिदाः ॥कुत्र वा वसति श्रीमाञ्जगतामीश्वरेश्वरः॥भक्तानामनुरक्तानामनुग्रहकृपालयः॥ ७॥एतदन्यच्च सर्वं मे परार्थैकप्रयोजनम् ॥ब्रूहि भद्राय लोकानामनुग्रहविचक्षण ॥८॥॥ सूत उवाच ॥साधु साधु महाभाग भवान्परहिते रतः ॥हरिभक्तिकृतासक्तिप्रक्षालितमनोमलः ॥९॥अथ मे देवकीपुत्रो हृत्पद्ममधिरोहति ॥प्रसंगात्तव विप्रर्षे दुर्ल्लभः साधुसंगमः ॥१०॥हरति दुष्कृतसंचयमुत्तमां गतिमलं तनुते तनुमानिनाम् ॥अधिकपुण्यवशादवशात्मनां जगति दुर्लभः साधुसमागमः ॥११॥हरति हृदयबन्धं कर्मपाशार्दितानां वितरति पदमुच्चैरल्पजल्पैकभाजाम ॥जननमरणकर्मश्रांतविश्रांतिहेतुस्त्रिजगति मनुजानां दुर्ल्लभः सत्प्रसंगः ॥१२॥॥ सूत उवाच ॥अयं प्रश्नः पुरा साधो स्कन्देनाकारि सर्वतः ॥कैलासशिखरे रम्य ऋषीणां परिशृण्वताम् ॥पुरतो गिरिजाभर्तुः कर्तुं निःश्रेयसं सताम्॥१३॥॥ स्कंद उवाच॥भगवन्सर्वलोकानां कर्त्ता हर्त्ता पिता गुरुः ॥क्षेमाय सर्वजंतूनां तपसे कृतनिश्चयः ॥१४॥कलिकाले ह्यनुप्राप्ते वेदशास्त्रविवर्जिते ॥कुत्र वा वसति श्रीमान्भगवान्सात्वतां पतिः ॥१५॥क्षेत्राणि कानि पुण्यानि तीर्थानि सरितस्तथा ॥केन वा प्राप्यते साक्षाद्भगवान्मधुसूदनः ॥श्रद्दधानाय भगवन्कृपया वद मे पितः ॥१६॥॥ श्रीमहादेव उवाच ॥बहूनि संति तीर्थानि क्षेत्राणि च षडानन ॥हरिवासनिवासैकपराणि परमार्थिनाम् ॥१७॥काम्यानि कानिचित्संति कानिचिन्मुक्तिदान्यपि ॥इहामुत्रार्थदान्येव बहुपुण्यप्रदानि वै ॥१६॥गंगा गोदावरी रेवा तपती यमुना सरित् ॥क्षिप्रा सरस्वती पुण्या गौतमी कौशिकी तथा ॥१९॥कावेरी ताम्रपर्णी च चंद्रभागा महेंद्रजा ॥चित्रोत्पला वेत्रवती सरयूः पुण्यवाहिनी ॥२०॥चर्मण्वती शतद्रूश्च पयस्विन्यत्रिसंभवा ॥गंडिका बाहुदा सर्वाः पुण्याः सिंधुः सरस्वती ॥२१॥भुक्तिमुक्तिप्रदाश्चैताः सेव्यमाना मुहुर्मुहुः ॥अयोध्या द्वारका काशी मधुरावंतिका तथा ॥२२॥कुरुक्षेत्रं रामतीर्थं कांची च पुरुषोत्तमम् ॥पुष्करं दर्दुरं क्षेत्रं वाराहं विधिनिर्मितम् ॥बदर्य्याख्यं महापुण्यं क्षेत्रं सर्वार्थसाधनम् ॥२३॥अयोध्यां विधिवद्दृष्ट्वा पुरीं मुक्त्येकसाधनीम् ॥सर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम् ॥२४॥विविधविष्णुनिषेवणपूर्वकाचरितपूजननर्तनकीर्तनाः ॥गृहमपास्य हरेरनुचिंतनाज्जितगृहार्जितमृत्युपराक्रमाः ॥२५॥स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा रामालयं शुचिः ॥न तस्य कृत्यं पश्यामि कृतकृत्यो भवेद्यतः ॥२६॥द्वारिकायां हरिः साक्षात्स्वालयं नैव मुंचति ॥अद्यापि भवनं कैश्चित्पुण्यवद्भिः प्रदृश्यते ॥२७॥गोमत्यां तु नरः स्नात्वा दृष्ट्वा कृष्णमुखांबुजम् ॥मुक्तिः प्रजायते शेषो विना सांख्यं षडानन ॥२८॥असीवरुणयोर्मध्ये पंचक्रोश्यां महाफलम् ॥अमरा मृत्युमिच्छंति का कथा इतरे जनाः ॥२९॥मणिकर्ण्यां ज्ञानवाप्यां विष्णुपादोदके तथा ॥ह्रदे पंचनदे स्नात्वा न मातुः स्तनपो भवेत् ॥३०॥प्रसंगेनापि विश्वेशं दृष्ट्वा काश्यां षडानन ॥मुक्तिः प्रजायते पुंसां जन्ममृत्युविवर्जिता ॥३१॥बहुना किमिहोक्तेन नैतत्क्षेत्रसमं क्वचित् ॥तपोपवासनिरतो मथुरायां षडानन ॥जन्मस्थानं समासाद्य सर्वपापैः प्रमुच्यते ॥३२॥विश्रांतितीर्थे विधिवत्स्नात्वा कृत्वा तिलोदकम् ॥पितॄनुद्धृत्य नरकाद्विष्णुलोकं प्रगच्छति ॥३३॥यदि कुर्यात्प्रमादेन पातकं तत्र मानवः ॥विश्रांते स्नानमासाद्य भस्मीभवति तत्क्षणात् ॥३४॥अवंत्यां विधिवत्स्नात्वा शिप्रायां माधवे नराः ॥पिशाचत्वं न पश्यंति जन्मांतरशतैरपि ॥३५॥कोटितीर्थे नरः स्नात्वा भोजयित्वा द्विजोत्तमान्॥महाकालं हरं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥३६॥मुक्तिक्षेत्रमिदं साक्षान्मम लोकैकसाधनम् ॥दानाद्दरिद्रताहानिरिह लोके परत्र च ॥३७॥कुरुक्षेत्रे रामतीर्थे स्वर्णं दत्त्वा स्वशक्तितः ॥सूर्योपरागे विधिवत्स नरो मुक्तिभाग्भवेत् ॥३८॥ये तत्र प्रतिगृह्णंति नरा लोभवशंगताः ॥पुरुषत्वं न तेषां वै कल्पकोटिशतैरपि ॥३९॥हरिक्षेत्रे हरिं दृष्ट्वा स्नात्वा पादोदके जनः ॥सर्वपापविनिर्मुक्तो हरिणा सह मोदते ॥४०॥खगगणा विविधा निवसंत्यहो ऋषिगणाः फलमूलदलाशनाः ॥पवनसंयमनक्रमनिर्जितेंद्रियपराक्रमणा मुनयस्त्विह ॥४१॥विष्णुकांच्यां हरिः साक्षाच्छिवकांच्यां शिवः स्वयम् ॥अभेदादुभयोर्भक्त्या मुक्तिः करतले स्थिता ॥विभेदजननात्पुंसां जायते कुत्सिता गतिः ॥४२॥सकृद्दृष्ट्वा जगन्नाथं मार्कंडेयह्रदे प्लुतः ॥विना ज्ञानेन योगेन न मातुः स्तनपो भवेत् ॥४३॥रोहिण्यामुदधौ स्नात्वा इंद्रद्युम्नह्रदे तथा ॥भुक्त्वा निेवेदितं विष्णोर्वैकुंठे वसतिं लभेत् ॥४४॥दशयोजनविस्तीर्णं क्षेत्रं शंखोपरि स्थितम्॥चतु्र्भुजत्वमायांति कीटा अपि न संशयः ॥४५॥कार्त्तिक्यां पुष्करे स्नात्वा श्राद्धं कृत्वा सदक्षिणम्॥भोजयित्वा द्विजान्भक्त्या ब्रह्मलोके महीयते॥४६॥सकृत्स्नात्वा ह्रदे तस्मिन्यूपं दृष्ट्वा समाहितः ॥सर्वपापविनिर्मुक्तो जायते द्विजसत्तमः ॥४७॥षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥सौकरे विधिवत्स्नात्वा पूजयित्वा हरिं शुचिः ॥४८॥सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥तीर्थराजं महापुण्यं सर्वतीर्थनिषेवितम् ॥४९॥कामिनां सर्वजंतूनामीप्सितं कर्मभिर्भवेत् ॥वेण्यां स्नात्वा शुचिर्भूत्वा कृत्वा माधवदर्शनम् ॥भुक्त्वा पुण्यवतां भोगानन्ते माधवतां व्रजेत् ॥५०॥माघे मासि नरः स्नात्वा त्रिवेण्यां भक्तिभावितः ॥बदरीकीर्तनात्पुण्यं तत्समाप्नोति मानवः ॥५१॥दशाश्वमेधिकं तीर्थं दशयज्ञफलप्रदम् ॥संक्षेपात्कथितं पुत्र किं भूयः श्रोतुमिच्छसि ॥५२॥॥ स्कंद उवाच ॥बदर्य्याख्यं हरेः क्षेत्रं त्रिषु लोकेषु दुर्लभम् ॥क्षेत्रस्य स्मरणादेव महापातकिनो नराः ॥विमुक्तकिल्विषाः सद्यो मरणान्मुक्तिभागिनः ॥५३॥अन्यतीर्थे कृतं येन तपः परमदारुणम् ॥तत्समा बदरीयात्रा मनसापि प्रजायते ॥५४॥बहूनि संति तीर्थानि दिवि भूमौ रसातले ॥बदरीसदृशं तीर्थं न भूतं न भविष्यति ॥५५॥अश्वमेध सहस्राणि वायुभोज्ये च यत्फलम् ॥क्षेत्रांतरे विशालायां तत्फलं क्षणमात्रतः ॥५६॥कृते मुक्तिप्रदा प्रोक्ता त्रेतायां योगसिद्धिदा ॥विशाला द्वापरे प्रोक्ता कलौ बदरिकाश्रमः ॥५७॥स्थूलसूक्ष्मशरीरं तु जीवस्य वसतिस्थलम् ॥तद्विनाशयति ज्ञानाद्विशाला तेन कथ्यते ॥५८॥अमृतं स्रवते या हि बदरीतरुयोगतः ॥बदरी कथ्यते प्राज्ञैर्ऋषीणां यत्र संचयः ॥५९॥त्यजेत्सर्वाणि तीर्थानि कालेकाले युगेयुगे ॥बदरीं भगवान्विष्णुर्न मुञ्चति कदाचन ॥६०॥सर्वतीर्थावगाहेन तपोयोगसमाधितः ॥तत्फलं प्राप्यते सम्यग्बदरीदर्शनाद्गुह ॥६१॥षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥वाराणस्यां दिनैकेन तत्फलं बदरीं गतौ ॥६२॥तीर्थानां वसतिर्यत्र देवानां वसतिस्तथा ॥ऋषीणां वसतिर्यत्र विशाला तेनकथ्यते ॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमस्य सर्वतीर्थाधिकत्ववर्णनंनाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : October 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP