संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|अरुणाचलमाहात्म्यपूर्वार्धम्| अध्यायः १० अरुणाचलमाहात्म्यपूर्वार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ विषयानुक्रमणिका अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः १० Translation - भाषांतर ॥ ब्रह्मोवाच ॥अथ देवा महीं हित्वा महिषासुरपीडिताः ॥नत्वा गौरीं तपस्यंतीं जग्मुः शरणमाकुलाः ॥१॥अथ तानभयं देहि देवीति भयविह्वलान् ॥अमरान्वीक्ष्य सा देवी किं कार्यमिति चाभ्यधात् ॥२॥ततो विज्ञापयामासुर्दैत्येंद्राद्भयमात्मनाम् ॥देव्यै बद्धांजलिपुटा देवा इंद्रपुरोगमाः ॥३॥ ॥ देवा ऊचुः ॥अप्सरोभिः परिवृतः सुखं क्रीडति नंदने ॥ऐरावतमुखान्सर्वान्दिङ्नागान्निजमंदिरे ॥४॥आवसयन्विनोदार्थमंगनाभिः सहागतान् ॥उच्चैःश्रवःपुरोगानामुपभोगं करोत्यसौ ॥५॥मंदुरास्वस्य रम्यासु दृश्यंते लक्षकोटयः ॥हुताशवाहनं मेषं पुत्रारोहार्थमीप्सति ॥६॥याम्यं महिषमानीय शकटे सोऽभ्यवाहयत् ॥सिद्धीराकृष्य सकला गृहकर्मणि चादिशत् ॥७॥अप्सरःसंघमखिलमात्मसेवार्थमानयत् ॥अन्यत्किमपि यद्वस्तु रत्नभूतं जगत्त्रये ॥८॥अनाहृतं पुनर्हर्तुं न विश्राम्यति कोपवान् ॥वयं च सेवका भूत्वा नित्यं भीतिसमन्विताः ॥९॥पूजयंतश्च तस्याज्ञां नान्यां वीक्षामहे गतिम् ॥शरणागतसंत्राणं तपःफलमुदाहृतम् ॥१०॥दुर्जयोऽयं वरो दैत्यः सर्वेषां बलिनामपि ॥सुराणामपि दैत्यानां शिवाल्लब्धवरोदयः ॥११॥अस्य शृंगाहतः सिंधुर्व्यावर्जितमिति ब्रुवन् ॥रत्नोपहारदानेन नित्यं तत्प्रीतिमिच्छति ॥१२॥पर्वतांश्च समुत्क्षिप्य शृंगाग्रेण महोद्धतः ॥क्रीडति क्षोदिताशेषधातुधूलिविलेपनैः ॥१३॥न शक्यमतुलं तस्य बलमन्यदुरासदम् ॥स्वयमेव विजानीहि हत्वा ते निजतेजसा ॥१४॥शंभुशक्तिः परा सेयं स्त्रीरूपेणात्र दृश्यते ॥त्वयैवायं निहंतव्यः शिवाल्लब्धवरो ह्ययम् ॥१५॥न जानीमो वयं देवि किंचिच्छंभुविचेष्टितम् ॥केवलं पालनीयाः स्म जगन्मात्रा सदा त्वया ॥१६॥इति तेषां भयार्तानामाकर्ण्य वचनं शुभम् ॥व्याजहार प्रसन्नात्मा देवी दत्त्वाभयं तदा ॥१७॥शरणागतसंत्राणं तपसि स्थितया मया ॥कर्त्तव्यममराः कालात्क्षीणः शत्रुर्भविष्यति ॥१८॥उपायेन समाकृष्य हनिष्यामि महासुरम् ॥निरागसस्तु हननमद्य मे न हि युज्यते ॥१९॥धर्मगे धर्मभेत्तारः शलभत्वं व्रजंति हि ॥देवास्तद्वचनं श्रुत्वा प्रणम्य गिरिकन्यकाम् ॥२०॥जग्मुर्यथागतं सर्वे निर्भया हृष्टचेतसः ॥२१॥गतेषु तेषु देवेषु गौरी कमललोचना ॥बभूव मोहिनी शक्तिः कांतियुक्ता ततोदरी ॥२२॥सा देवी दिक्षु शैलेषु चतुर्ष्वरुणभूभृतः ॥रक्षार्थं स्थापितवती चतुरो बटुकान्वरान् ॥२३॥यदा कैलासशिखरादागता शैलकन्यका ॥अन्वगच्छन्सेवमानाश्चतस्रो मातरस्तदा ॥२४॥दुन्दुभिः सत्यवत्याख्या तथा चानवमी परा ॥सुन्दरीति चतस्रस्तामन्वयुः परिचारिकाः ॥२५॥विमुञ्चतातिथिं श्रांतं क्षुत्पिपासा समन्वितम् ॥अरुणाद्रिमिमं द्रष्टुं नान्यमित्यब्रवीच्च तान् ॥२६॥सीमाशलस्थितान्वीरांस्तानादिश्य बलाधिकान् ॥तपश्चचाराद्रिकन्या गौतमाश्रमसन्निधौ ॥२७॥तस्यां तपत्यां तन्वंग्यां न तापः कश्चिदप्यभूत् ॥ववर्ष काले जलदः सफलाश्चाभवन्द्रुमाः ॥२८॥विरोधीनि च सत्त्वानि मुमुचुः पूर्वमत्सरम् ॥आश्रमः सर्वजन्तूनां शरण्योऽभूद्भयापहः ॥२९॥योजनद्वयपर्यंतं सीमाशैलेषु संस्थितैः ॥चतुभिर्वटकैः शूरै रक्षितश्चारुणाचलः ॥३०॥नोदभूत्कश्चन त्रासो न च दृष्टो भयोदयः ॥न व्याधिपीडनं चासीत्तत्र नारिविजृंभणम् ॥३१॥कृतार्था मुनयः सर्वे प्रशंसंतो नगात्मजाम् ॥शिवलोकपदं केचित्प्रत्यशंसंस्तथाश्रमम् ॥३२॥सा च गौरी तपो घोरं कुर्वती च दिवानिशम् ॥न तृप्तिमाययौ बाला शिवसंतोषकारकम् ॥३३॥महिषश्च महावीर्यो मृगयां कर्तुमुद्यतः ॥चचार काननं सर्वं विदूरे शोणभूभृतः ॥३४॥दैत्यसैन्यसमायुक्तो मृगयूथान्यनेकशः ॥वनेषु निघ्नस्तरसा विचचाराशु भक्षयन् ॥३५॥धन्विभिर्बलिभिर्वीरैर्मृगाः केचिदनुद्रुताः ॥भयार्त्ताः परिधावंतः प्राविशंस्तं तथाश्रमम् ॥३६॥अनुव्रजन्तो दितिजा मृगांस्तान्हंतुमुद्यताः ॥वारिता बटुकैर्वीरैर्मा यातात्रेति सत्वरैः ॥३७॥किमत्रेति तदा पृष्टा बटुका दुष्टदानवैः ॥तपस्यति वरारोहा कन्यात्रेत्याहुरंजसा ॥३८॥न केनचित्प्रवेष्टव्यं बलिना मुनिसेवितम् ॥तपःस्थानमिदं देव्याः शरणागतरक्षकम् ॥३९॥इति तेषां वचः श्रुत्वा बलिनो दुष्टदानवाः ॥तथेति विनिवृत्त्याशु कर्त्तव्यं समचिंतयन् ॥४०॥मायया पक्षिरूपास्ते प्रविश्याश्रममादरात् ॥आरामवृक्षशाखासु निषेदुः खादिहेक्षितुम् ॥४१॥सा पुनर्ल्लसितारण्ये सर्वर्तुकुसुमान्विते ॥तपस्यन्ती तदा दृष्टा माया दैत्यस्य सैनिकैः ॥४२॥रूपलावण्यते तस्या निश्चयं तपसि स्थितम् ॥वीक्ष्य ते विस्मयोपेता गत्वा तस्मै न्यवेदयन् ॥४३॥स स्मरार्तो वृद्धरूपः प्रविवेशाश्रमं तदा ॥पूजितोऽस्याः सखीभिश्च गतश्रांतिरिव स्थितः ॥४४॥वृद्धोऽपृच्छत्किमर्थं तु तपोऽस्या इति तास्तथा ॥बाला कांतप्रसादार्थं चिरमत्र तपस्यति ॥४५॥परं स बलवान्कांतो न कदापि प्रसीदति ॥कार्यं विवाहसमये मनोरथं यथोचितम् ॥४६॥अपूर्वप्रभुणा तेन नवोपकरणं महत् ॥सद्योजातकुलालेन सद्यः सृष्टैर्विपाचितैः ॥४७॥भाजनरपि साद्यस्कैर्न्यस्तः पक्वैश्च शालिभिः ॥तादृशैः साधनैः सर्वैस्तादृशैर्द्रव्यसंचयैः ॥४८॥अपूर्वदृष्टविभवैः कार्यं स्यादुपकारणम् ॥सिद्धे तथोपकरणेऽस्याः सद्योऽस्तु स्वयंवरः ॥४९॥इति तासां वचः श्रुत्वा विहसन्महिषोऽभ्यधात् ॥तपःफलमहं प्राप्तः सत्यमस्या इति स्थितम् ॥मदीया सकलां भूतिं शृणु बाले तपस्विनि ॥५०॥महिषोऽहं महावीरो दैत्येन्द्रः सुरवंदितः ॥जगत्त्रयमिदं सर्वं मयैव परिगृह्यते ॥५१॥अनन्यवीरसद्भावो मय्येव भुजशुष्मणा ॥कामरूपोस्म्यहं बाले सर्वभोगप्रदायकः ॥५२॥भज मां तव भर्त्तारं प्राणिनां तपसः फलम् ॥सर्वं संपादयिष्यामि कल्पवृक्षैः समाहृतैः ॥५३॥सृजामि तपसा चाहं विश्वकर्माणमादितः ॥कामधेनुसहस्राणि सृजामि तपसा क्षणात् ॥५४॥नवभिर्निधिभिः प्राप्तैः पार्श्वस्थैर्नित्यदा मम ॥अपेक्षितार्थसंसिद्धिः सहसैवोपपाद्यते ॥५५॥इति तस्य वचः श्रुत्वा स्मृतदेवाभवत्क्रमात् ॥विसृज्य मौनं शनकैर्विहसंती तमब्रवीत् ॥५६॥अहं बलवतो भार्या भविष्यामि तपश्चिरम् ॥करोमि यद्यसि बली बलं दर्शय मे निजम् ॥५७॥विरच स्त्रीस्वभावं स्वं श्रुत्वा तद्वाक्यमुत्थितम् ॥हते कोयमिति क्रोधान्ननर्द महिषासुरः ॥५८॥जिघृक्षतं समायांतं वीक्ष्य तं महिषासुरम् ॥अभूद्दुरासदा दुर्गा कन्या सा ज्वलनाकृतिः ॥५९॥महामायां समालोक्य ज्वलंती पुरतः स्थिताम् ॥स्वयं स महिषाकारो ववृधे मेरुसन्निभः ॥६०॥कुलभूधरशृंगाणि शृंगाभ्यां मुहुराक्षिपन् ॥आजुहाव निजां सेनामापूरितदिगंतराम् ॥६१॥अथ ब्रह्ममुखा देवाः प्रणम्य विविधायुधैः ॥पूजयामासुरात्मीयैर्दुर्गां कालाग्निरूपिणीम् ॥६२॥पंचहेतीर्हरिः प्रादाद्दश चापि सदाशिवः ॥ब्रह्मा चतस्रश्च तदा तस्यै मायातिरोहिताः ॥६३॥दिक्पालाश्च सुराश्चान्ये पर्वताश्च पयोधयः ॥स्वीयैराभरणैः शस्त्रैरधृष्यास्तामपूजयन् ॥६४॥माया सा बहुभिर्हस्तैर्ज्वलदायुधसंचयैः ॥आबद्धकवचा तूर्णं दुर्गाभूत्सिंहवाहना ॥६५॥आपूरितदिशाभोगा तेजस्तत्सोढुमक्षमः ॥दुर्गाया घोरमालोक्य महिषस्तु पलायितः ॥६६॥अथ तेजो निजं घोरं प्रज्वलत्सोढुमक्षमम् ॥पलायमानमालोक्य महिषं सा व्यचिंतयत् ॥६७॥उपायेन निहंतव्यो दुष्टोऽयं महिषासुरः ॥मदपूर्वं निवृत्यंते मृगा मृगयुभिर्वने ॥६८॥दूतोक्तिभिः समाकृष्य मृद्वीभिर्मर्मवृत्तिभिः ॥कोपमस्य समुद्भाव्य करिष्येभिमुखं क्षणात् ॥६९॥अधर्मवृत्तियुक्तानां धर्मवाक्यपरिश्रवात् ॥कोपः समुद्भवेत्सद्यः स्वजीवक्षयकारणम् ॥७०॥अथवा धर्मबुद्धिस्सन्यदि शांतो भविष्यति ॥तदा हितोपदेशेन धर्मलोपो न संभवेत् ॥७१॥तपस्यद्भिः सदा कार्यः कोपत्यागः फलान्वितः ॥धर्महानिर्न सोढव्या तत्कोपो हि तपः परम् ॥७२॥इति संचिंत्य सा गौरी नाम्ना सुरगुरुं मुनिम् ॥संकल्प्य वानरमुखं प्राहिणोदसुरं प्रति ॥७३॥गच्छ त्वं मायया युक्तो महर्षे वानरानन ॥महिषं बोधयित्वा च वचनं शीघ्रमाव्रज ॥७४॥मैव त्वमरुणाद्रीशमुपपीडय दुर्मते ॥अत्र दुर्मनसां वीर्यमदृश्यं भवति क्षणात् ॥७५॥न कलेरुपतापोऽत्र नासुरैरपि पीडनम् ॥न साहसं च शुभदं शिवभक्तिमतामपि ॥७६॥पूर्वजन्मकृतैः पुण्यैर्लब्धवीर्यमहोदयः ॥मा त्वं शोणाचलेशाग्नौ शलभत्वं भजासुर ॥७७॥शिवेन दत्ता विभवास्तव पूर्वतपोबलात् ॥दह्येरन्यत्र तरसा दाववह्नौ यथा द्रुमाः ॥७८॥अत्र धर्मात्मनां वासः शिवभक्तिमतां सदा ॥परपीडाप्रसक्तानां भवेद्रोगशतावृतः ॥७९॥ऐश्वर्य्यमतुलं प्राप्तो बलमन्यद्दुरासदम् ॥किमर्थं स्वल्पबुद्धिः सन्स्वदोषैर्नाशमेष्यसि ॥८०॥मया कन्या पुनर्दृष्टा विशेषादबला मता ॥अंतर्गतोरुणाद्रीश एतस्मात्सा विशिष्यते ॥८१॥अथवा युक्तिभेदैस्त्वं शास्त्रैर्वा शिवसंमतैः ॥अनिग्राह्यमनोवृत्तिरात्मसैन्यं समानय ॥८२॥येन लोकान्समस्तांस्त्वं बाधसे बलगर्वितः ॥तत्सैन्यं तव वृद्धं च क्षणाद्धक्ष्यामि तेजसा ॥८३॥आनीय सकलं सैन्यमग्रे स्थापय सायुधम् ॥सद्यस्त्वात्मबलैः सृष्टेः संहरिष्यामि तत्क्षणात् ॥८४॥मच्छस्त्र परिकृत्तस्य ससैन्यस्य तवायुषः ॥मुक्तिरत्रैव भविता को जानाति शिवेहितम् ॥८५॥वार्यमाणोऽपि पूर्वेण कर्मणा प्रेरितो जनः ॥अवशः कर्म कुरुते भुंक्ते च सदृशं फलम् ॥८६॥त्वयापि करुणावाक्यं वक्तव्यं किल भूरिभिः ॥अकार्यविनिवृत्त्यर्थं नित्यधर्मानुपालने ॥८७॥इति गौर्या समादिष्टा वाचं कपिमुखो मुनिः ॥दूतः सन्सर्वमाचष्ट महिषस्याग्रतः स्थितः ॥८८॥सोऽपि सर्वं समाकर्ण्य क्रोधवेगसमाकुलः ॥तं भक्षयितुमारेभे सोपि मायाबलाद्ययौ ॥८९॥अथ सैन्यं निजं सर्वं समाहूय दुराशयः ॥सन्नद्धं सायुधं योद्धुमादिशल्लोकभीषणम् ॥९०॥युगांतसमयोद्वेलचतुरर्णवसंनिभम् ॥सैन्यानां सैन्यमतुलं शोणाद्रिं पर्यवेष्टयत् ॥९१॥अथ गौरी समालोक्य दैत्यानां सैन्यमद्भुतम् ॥ससर्ज तैजसाञ्शूरान्घोरान्भूतगणान्बहून् ॥९२॥एकपादाक्षिचरणा लंबकर्णपयोधराः ॥पाणिपादशिरःकुक्षिवक्त्राः केचिद्विनिर्गताः ॥९३॥अहं ग्रसामि सकलमपर्याप्तमिदं मम ॥अहमेव हनिष्यामि दैत्यसैन्यमशेषतः ॥९४॥किं त्वयात्र पुनः कार्यं वीक्ष्य त्वं तिष्ठ केवलम् ॥अहमेवात्र योत्स्यामीत्यभाषंत परस्परम् ९५॥तेषां कथयतां शंखं गणानां योगिनीगणैः ॥अधमत्सा भगवती हंतुं तद्दैत्यमंडलम् ॥९६॥आलोक्य तां तथारूपामापतंस्तस्य सैनिकाः ॥दर्शयंतः स्ववीर्याणि स्वामिनोग्रे धृतायुधाः ॥९७॥ववृषुः शस्त्रवर्षाणि दैत्याः प्रतिदिगन्तरम् ॥बाणैः कार्मुकनिर्मुक्तैस्तानि सा तु न्यवारयत् ॥९८॥रथानां वारणेंद्राणां हयानां लक्षकोटिभिः ॥युयुधुर्भूतवेताला देव्या सृष्टास्तु दुर्जयाः ॥९९॥मातरो विविधाकारा डाकिन्यो योगिनीगणाः ॥सृष्टाश्च तेजसा भूयः पिशाचाः प्रेतराक्षसाः ॥१००॥देव्या सृष्टेन सैन्येन दुर्जयेन महासुराः ॥भक्षिताश्चूर्णिता भिन्ना दारिता निहताः क्षणात् ॥१०१॥देवी च सायुधा दृष्टा ज्वलंती निहतासुरैः ॥नृत्यद्भूतगणैर्भुक्तै रक्तैर्मांसैश्च तोषितैः ॥१०२॥यदा कैलासशिखरात्प्राप्ता कर्त्तुं तपो भुवम् ॥तदा समागताः काश्चिन्मातृका देहगुप्तये ॥१०३॥दुंदुभिः सत्यवत्याख्या तथा चान्तवती परा ॥सुंदरीति चतस्रस्ता अन्वयुः परिचारिकाः ॥१०४॥देव्या सृष्टा च चामुंडा दंष्ट्रावलयभीपणा ॥दैत्यकृत्तिवसा मांसरक्ततृप्ता चचार सा ॥१०५॥असुरं कंचिदाक्रम्य नटनं सा चकार ह ॥१०६॥अथ तां समवेक्ष्य दुर्मदो हि ज्वलयामास च कोपवह्निना सः ॥अतितीव्रविवृत्तभीष्मनेत्रश्रुतिशृंगाग्रविभिन्नमेघजालः ॥१०७॥ज्वलदग्निशिखाभदीर्घजिह्वापरिलीढोन्नतशैलशृंगभागः ॥अवनिं दलयन्खुराभिघातैरसकृत्पांसुभिरास्वनन्दिगंतान् ॥१०८॥अतिघर्घर दीर्घघोरनादस्फुटदंडभ्रममोहितामरो यः ॥धृतवालधिदंडताड्यमानप्रतिशीर्णामितशस्त्रवर्षसंघः ॥१०९॥मृतये व्यगमद्बलित्रयाढ्यां मृगराजस्थितिभासुरां भवानीम् ॥११०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्यास्तपश्चर्यायां महिषासुरेण सह युद्धवर्णनंनाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP