संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ योगपादः| आधाराधेयविधिपटलः अथ योगपादः नाडी चक्रविधिपटलः कालचक्रविधिपटलः आधाराधेयविधिपटलः अथ यो्गपादः - आधाराधेयविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः आधाराधेयविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि आधाराधेयलक्षणम् ।आधारं स्थानमित्युक्तमाधेयमधि दैवतम् ॥१॥आधाराधेय संबन्धाद्योगमित्यभिधीयते ।योगं बहुविधं वत्स आधाराणां बहुत्वतः ॥२॥योगिनां योगमित्युक्तं ज्ञानिनां ज्ञानमेव च ।वक्ष्येहमधुनायोगं संक्षेपान्नतु विस्तरात् ॥३॥योगिनां साधकं पूर्वं मच्छृणुष्व हि साधके ।प्रथमञ्चासनञ्चैव द्वितीयं योगपट्टिका ॥४॥तृतीयमक्षमाला च वेणुदण्डञ्चतुर्थकम् ।कमण्डलु विजानीयात् पञ्चमन्तु विशेषतः ॥५॥तेषान्तु लक्षणं वक्ष्ये चासनं कूर्मवत् कृतम् ।खादिरोदेवदारू च मधुको बिल्व एव च ॥६॥अथवा याज्ञिकै वृक्षैः कृत्वा कूर्मासनं तथा ।पादोनं वा तदर्द्धं वा त्रिविधं त्वासनं तथा ॥७॥दर्पणोदरसङ्काशमधस्तादवदं तथा ।आसनं त्वेवमाख्यातं योगाभ्यासे विनायक ॥८॥व्याघ्राजीनं तु प्रधमा कृष्णाजिनं द्वितीयकाः ।अथवा तन्तुना कार्या त्रिविधायोगपट्टिका ॥९॥विस्तारन्त्र्यङ्गुलं प्रोक्तं नमानमुपवीतवत् ।जपमालाशिरोमाला हृंमाला बाहुमालका ॥१०॥कर्णपृष्ठात् तु नाभ्यन्ता उरोमाला इति स्मृताः ।शिरोमाला तु तन्नाहा भुजमालाभुजासमा ॥११॥जपमालां समानेन संख्यामात्रं शृणुष्व हि ।पञ्चविंशति रुद्राक्षैर्माक्षार्त्थिनाञ्जपं स्मृतम् ॥१२॥षड्विंशति शिवार्थञ्च ज्ञानार्थं शत्रुनाशनम् ।सप्तविंशति इत्यर्थं पुष्ट्यर्थमष्टविंशतिः ॥१३॥त्रिंशज्जयार्थिनां कार्यं दशपञ्चाभिचारकः ।जपमालासमाख्याता जपमालाविधिं शृणु ॥१४॥प्रणवं सर्वमन्त्रेषु सर्वमुच्चार्यते यतः ।प्रणवं संप्रवक्ष्यामि संक्षेपान्न तु विस्तरात् ॥१५॥अकारञ्च उकारञ्च मकारं बिन्दुरूपकम् ।अकारं ब्रह्मदैवत्यमुकारं विष्णु दैवतम् ॥१६॥मकारं रुद्र दैवत्यं बिन्दोरीश्वर एव हि ।नादं सदाशिवं प्रोक्तमित्येते अधिदेवताः ॥१७॥अकारं तु हृदिस्थानं उकारं कर्णदेशकम् ।तालुमध्यं मकारं स्यात् बिन्दोश्चैव ललाटकम् ॥१८॥तस्योपरि च नादस्य स्थानं ह्येवं प्रकीर्तितम् ।अकारादि त्रयोवर्णास्त्वनुस्वार विसर्गकौ ॥१९॥पञ्चवर्णाः प्रशस्यन्ते अकाराक्षर संभवाः ॥२०॥कादिभामक्षिकारेता यकारान्यस्तु बिन्दुके ।जाताना देशकारान्यास्त्वेते पञ्चाशति स्मृताः ॥२१॥प्रणवं सर्ववर्णाख्यं सर्वदेवमयं विदुः ।ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकः ॥२२॥गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वकः ।ओमित्येकाक्षरं ------- वा हिनाम् ॥२३॥प्रणवन्तु समास्योक्ता स्मृतपञ्चाक्षरं शृणु ।नमःशिवाय पञ्चार्णमेतत् पञ्चाक्षरं स्मृतम् ॥२४॥वाचिकायस्तु विज्ञेयस्तद्वाच्यस्य शिवः स्मृतः ।जपं शक्तिप्रदंशस्तं मल्लयोमुक्तिरिष्यते ॥२५॥ऋषिच्छन्दोवर्णतत्वा देवतास्तु शृणु क्रमात् ।काश्यपः कौशिकश्चैव भारद्वाजस्तु गौतमः ॥२६॥आत्रेयस्तु न कारादि मुनयः क्रमशस्तथा ।अनुष्टुप् त्रिष्टुप् ब्रहति जगत्यति जगत्यपि ॥२७॥च्छन्दांसिहि समाख्याता वर्णाद्यैश्चक्रमाच्छृणु ।रक्तं कृष्णन्तथा श्यामं पीतं स्फटिकसन्निभम् ॥२८॥पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।सद्यादि पञ्चवक्त्राणि तेषां देवाः प्रकीर्तिताः ॥२९॥प्रणवेन समायुक्तं जपकाले तथोच्यते ।तदा षडक्षरं प्रोक्तं स्त्रीशूद्रादैस्तु वर्जितम् ॥३०॥जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।मानसञ्चैव कण्ठेष्यमुपांशु व्यक्तमेव च ॥३१॥व्यक्तंदशगुणोपांशु स्तस्मात् कण्ठेष्यकं शतम् ।सहस्रं मानसं तस्मादङ्गुल्यादि जपं शृणु ॥३२॥अङ्गुल्या जपसंख्यातु तुल्या एकफलं तथा ।पर्वणाष्टगुणं प्रोक्तं दीपेशतगुणाधिकम् ॥३३॥शतसङ्ख्याकुशग्रन्धी प्रवालैस्तु सहस्रकम् ।मणिभिर्दशसाहस्रं मौक्तिकैर्ल्लक्षमुच्यते ॥३४॥पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।रुद्राक्षैस्तु ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना ॥३५॥दिव्यवर्षसहस्रन्तु चक्षुरुन्मीलितं मया ।मुञ्चन्ति मम नेत्राणि श्रितरुद्राक्षमुच्यते ॥३६॥एकवक्त्रं शिवः साक्षादनन्तन्धारणे फलम् ।सन्धार्यमृयते यस्तु सयाति परमाङ्गतिम् ॥३७॥द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमेव च ।चतुर्वक्त्रन्तु बिन्दु स्यात् पञ्चवक्त्रं सदाशिवम् ॥३८॥षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृतम् ।अष्टवक्त्रं स्मृतो विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥३९॥नववक्त्रैकवक्त्रान्तं फलं शतगुणोत्तरम् ।हस्ते कर्णेशिखेकण्ठे सन्धार्यं सहभस्मना ॥४०॥सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।दर्शनं पापनाशन्तु स्पर्शनं सर्वसिद्धिदम् ॥४१॥सर्वाङ्गधारणात् पुण्यं रुद्राक्षं धारयेत् सदा ।प्रयाणकाले रुद्राक्षं भक्षयित्वा मृयन्ति ये ॥४२॥ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ।तस्मात् सर्वप्रयत्नेन जप्यं रुद्राक्षकैः सदा ॥४३॥जपकालञ्च देशञ्च वक्ष्यते तु समासतः ।पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धरात्रिके ॥४४॥चतुष्कालं त्रिकालं वा तद्देशन्तु ततः शृणु ।नदीतटाकतीरे वा गोष्ठे देवालयेपि वा ॥४५॥वने वाथ गिरौ देशे पुण्यस्थाने ग्रहे जपेत् ।देशमेवं समाख्यातं जपसंख्यां ततः शृणु ॥४६॥सहस्रं वा तदर्धं वा तदर्धं वा शताष्टकम् ।जपेन् नित्यं सदायोगी सर्वपापविनाशकृत् ॥४७॥सयाति जपमात्रेण शिवलोकमथाक्षयम् ।जपसंख्या विधिप्रोक्तो वेणुदण्डविधिं शृणु ॥४८॥विप्राणान्तु शिरोत्सेधं क्षत्रियाणां ललाटके ।वैश्यानां नासिकोत्सेधं शूद्रादीनान्तु वर्जयेत् ॥४९॥वेणुदण्डमृजुं स्निग्धं वक्रकोटरवर्जितम् ।दण्डस्यैव विधिः प्रोक्ता कमण्डलुविधिं शृणु ॥५०॥पूरितञ्चाढकैः शृएष्ठं मध्यं त्रिप्रस्थपूरितम् ।द्विप्रस्थपूर्णमधमं मानमेवं कमण्डलोः ॥५१॥सौवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा ।यदुक्तं शिल्पशास्त्रेषु तत्तदुक्ता तु कारयेत् ॥५२॥शैवाना साधनं प्रोक्तं पञ्चधा समुदाहृतम् ।योगाष्टकांगौ वक्ष्यामि शृणुष्वेकाग्र मानसः ॥५३॥यमनियमासनञ्च प्राणायामं ततः परम् ।प्रत्याहारञ्च ध्यानञ्च धारणा च समाधिकम् ॥५४॥अष्टाङ्गमिति विज्ञेयं योगिनां योगसाधनम् ।अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहम् ॥५५॥यमन्तु पञ्चधा प्रोक्तं नियञ्च ततः शृणु ।शौच सन्तोषकात्तच्च तपःस्वध्यायमेव च ॥५६॥ईश्वर प्रणिधानञ्च नियमं पञ्चधा स्मृतम् ।गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्धचन्द्रकम् ॥५७॥वीरयोगासनञ्चैव षड्विधश्चासनं स्मृतम् ।वामजानूपनिन्यस्य दक्षिणञ्जानुमण्डलम् ॥५८॥द्वयोः पादतले चैव न्यसेत् द्वौपृष्ठ पार्श्वयोः ।एवं कृत्वा तु सुस्निग्धं गोमुखीलक्षणान्वितम् ॥५९॥ऊरूपार्श्वे तलौ न्यस्त्वा जंघामघ्नन्तु स्वस्तिकम् ।ऊरूपरितले न्यस्त्वा पद्मासनमिहोच्यते ॥६०॥गुल्फत्रयं समं कृत्वा तलेगुह्ये च विन्यसेत् ।अर्द्धचन्द्रं समाख्यातं वीरासनं ततः शृणु ॥६१॥द्विभुजं पतितं वामपादं दक्षिणतोपरि ।स्थिरं वीरासनं प्रोक्तं योगासनं ततः शृणु ॥६२॥शरीरञ्जानु संबन्धं योगपट्टिकया वृतम् ।कूर्परौ चैव विन्यस्तं योगासनमिहोच्यते ॥६३॥कृत्वा चैवैकमेतेषां ततो योगं समाचरेत् ।योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥६४॥रेचकं पूरकञ्चैव कुंभकं योगमभ्यसेत् ।योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥६५॥रेचकं पूरकञ्चैव कुंभकञ्च द्वितीयकम् ।रेचकं रविबिंबं स्यात् पूरकं चन्द्रमण्डलम् ॥६६॥आग्नेयं कुंभकं ज्ञेयं सकायोद्ध्यान पूजयेत् ।रेचनाद्रेचकं प्रोक्तं पूरणात्पूरकं ततः ॥६७॥कुंभकन्तु निरोधेन प्रणवेनाभ्यसेत्त्रयम् ।रेचकात् द्वादशं मात्रं तन्मात्रं पूरकं स्मृतम् ॥६८॥कुंभकं द्वादशं मात्रमिहशास्त्रे तु निश्चितम् ।रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम् ॥६९॥कुंभकं रुद्रदैवद्यमधि देवास्त्रयं स्मृतम् ।रेचकं पूरकञ्चैव योगिनान्तु अहर्निशि ॥७०॥सूतकं प्रोतकं मुक्त्वा कुंभकेन तु पूरयेत् ।प्राणायामक्रमं प्रोक्तं प्रत्याहारं ततः शृणु ॥७१॥इन्द्रियाणीन्द्रियार्थेषु प्रतिस्थाने व्यवस्थितः ।यावत् तावत् स्थितीभूतः प्रत्याहारः स उच्यते ॥७२॥आधारेषु च संकल्प्य यथासनं स्वरूपकम् ।ध्यानमेवं विजानीयात् सर्वदुःखनिवारणम् ॥७३॥आधारलक्षणं वक्ष्ये संक्षेपान्नतु विस्तरात् ।नाभेस्तु चतुरंगुल्य मधस्तादग्निमण्डलम् ॥७४॥कदंबपुष्पवज्जुष्टं पत्रं जुष्टं त्रिकोणकम् ।मूलाधारमधः प्रोक्तं द्वितीयं नाभिमूलके ॥७५॥भुजङ्गवलयाकारमष्टवर्तुलमेव च ।कुण्डलाख्या महानाडी भानुमण्डलमुच्यते ॥७६॥नाभेरूर्ध्वन्तु यत्पद्मं चंद्रमण्डलमुच्यते ।हृदये कर्णमूले तु तालुमूले ललाटके ॥७७॥मूर्ध्निस्थाने तु संकल्प्य ध्यायेत् पद्मकपुष्पवत् ।हृत् पद्मलक्षणं वक्ष्ये यथा वदनुपूर्वशः ॥७८॥नाभौ तन्नालमूलन्तु ऊर्ध्वनालमधोमुखम् ।कदलीपुष्पवत् पद्ममष्टपत्रं सकर्णिकम् ॥७९॥इहशास्त्रेन वा धारं हृत्पद्मेन समायुतम् ।आधारलक्षणं प्रोक्तमाधेयञ्च ततः शृणु ॥८०॥आधेयं यत्प्रयुक्तञ्च समाधीत्येवमिश्रितम् ।इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः ॥८१॥सुषुम्ना मध्यगा तत्र मध्ये तु सुषिरं तथा ।जीवप्राणसमायुक्तास्तेषु मध्येषु सञ्चरेत् ॥८२॥सञ्चरन्निह तत्काले आधारेषु व्यवस्थितम् ।संयुक्ते योगमाख्यातं योगी खगं समाश्रयेत् ॥८३॥मूलाधारे ततस्त्वग्नि संयुक्ते योगमभ्यसेत् ।योगाभ्यासेन तद्योगी अग्निलोकन्तु संस्पृशेत् ॥८४॥तदूर्ध्वे भास्करन्ध्यात्वा रविलोकमवाप्नुयात् ।एवं ध्यात्वा तदूर्ध्वे तु चंद्रलोकं स गच्छति ॥८५॥ब्रह्माणं हृदये स्मृत्वा ब्रह्मलोकमवाप्नुयात् ।विष्णुं ध्यात्वा तदूर्ध्वे तु कण्ठमूले व्यवस्थितम् ॥८६॥पुरुषं व्यापयेद्योगी योगाभ्यासेन तत्गुणैः ।तालुमूले स्मरेद्रुद्रं रुद्रलोकपदेच्छया ॥८७॥पुरुषोपरिवेशान्तं व्यापकं स्वेन तेजसा ।ललाटे ईश्वरं ध्यात्वा तल्लोकं तदवाप्नुयात् ॥८८॥सदाशिवन्तु शिरसि ध्यात्वा तत्रैव भूज्यते ।हृत्पद्ममध्यं गत्वा तु बिन्दुनादञ्च शक्ति च ॥८९॥चतुरङ्गुलमात्रेण दीपाकारं विचिन्तयेत् ।चतुस्थानेषु संपूज्य तत्तत्स्थान स्वरूपकैः ॥९०॥शिरोपरिन्यसेत् ब्रह्ममव्ययं निष्कलान्वितम् ।तस्माद्योग समायुक्तो योगीयोगफलं लभेत् ॥९१॥अणुमात्रं लभेद्यस्मादणिमेत्यभिधीयते ।सहस्रैर्वा यथा गत्वा मूलवर्णप्रदेशकम् ॥९२॥स्वेच्छया लभते यस्मात् तस्मात् सा लघिमा स्मृता ।भूमौ मनो जपं कृत्वा पूज्यते शास्त्रवादिभिः ॥९३॥सर्वत्र पूजितो यस्मात् तस्मात् सा महिमा भवेत् ।सर्वद्रव्याणि संप्राप्तिः प्राप्तिरेषामुदाहृता ॥९४॥प्रकाम्येषु शरीरेषु प्रकाशन्तु प्रवेशिता ।सूर्यादिष्वनवाप्तत्वादीशत्वं समुदाहृतम् ॥९५॥यदीशत्वन्तु तत्रैव तदीशित्वं विधीयते ।शिवसायुज्य सामर्थ्यात्तच्छिवत्वमिति स्मृतम् ॥९६॥अणिमाद्यष्ट सिद्धिञ्च लभेद्योगी विशेषतः ।सालोक्यादि चतुर्थश्च प्राप्यते योगी लक्षणम् ॥९७॥सालोक्यञ्चैव सामीप्यं सा रूप्यं सा युज्यकं तथा ।ध्यानलोकन्तु संप्राप्य सा लोक्यन्तद्विधीयते ॥९८॥तद्देवस्यं समीपत्वात् सामीप्यमिति चोच्यते ।तत्तद्रूपन्तु लब्ध्वा तत् सारूप्यमिति च स्मृतम् ॥९९॥शिवे संयोजितं रूपं सा युज्यमिति कत्थ्यते ।योगं समासात् संप्रोक्तं ज्ञानपादं ततः शृणु ॥१००॥तद्योगपादं क्रमशः प्रमाणैर्यत्प्रोक्तमत्रैव समासतस्तत् । नाडी तु चक्रन्त्वथ कालचक्रमाधारयुक्तं पटलत्रयेण ॥१०१॥इति आधाराधेय विधिपटलस्तृतीयः ॥३॥इति सुप्रभेदेयोगपादः समाप्तः N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP