संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ योगपादः| कालचक्रविधिपटलः अथ योगपादः नाडी चक्रविधिपटलः कालचक्रविधिपटलः आधाराधेयविधिपटलः अथ योगपादः - कालचक्रविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः कालचक्रविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि कालचक्रस्यलक्षणम् ।कालञ्च कुरुते यस्मात् कालमेवमुदाहृतम् ॥१॥प्राणीनाञ्चैव देवानां विनाशोत्पत्तिकारणम् ।अमूर्तिं कालमाख्याता दृष्वादष्टन्तु लक्षणम् ॥२॥त्रिविधं कालमाख्यातं शिवेन परिभाषितम् ।सृष्टिकालं स्थितिकालं संहारञ्चेति कीर्तितम् ॥३॥शिवाद्यवनि पर्यन्तं सृष्टिरेवमुदाहृतम् ।या स्थितिः सर्वभूतानां शिवाद्यानन्तक स्थितम् ॥४॥पृथिव्यादि शिवान्ताये लयङ्गच्छेत् परापरम् ।तदा संहारमेवोक्तं त्रिविधं कालनिर्णयम् ॥५॥त्रिषुकालेषु वर्तन्तेतीतानां गमं ततः ।वर्तमानाख्यकं कालमुच्यते वै पृथक् पृथक् ॥६॥यदा शेषं समाप्तन्तु तदा तीतमिति स्मृतम् ।सापेक्षकञ्च यत्काले तदा नागतमुच्यते ॥७॥असमाप्तं यदारब्धं वर्तमानमुदाहृतम् ।तत्कालमव बोद्धव्यं देवादीनामुदाहृतम् ॥८॥युगपत् सृष्टि संहारौ स्थितिकाले निवर्तते ।केचित् कालात् सृजन्त्येव केचित् कालात् भ्रमन्ति च ॥९॥मनुष्य पितृदेवानां कालसंख्यान्ततः शृणु ।कालञ्च द्विविधं प्रोक्तं स्थूलं सूक्ष्मन्तथैव च ॥१०॥मौक्तिकं स्थूलमाख्यातं योगिनां सूक्ष्ममेव च ।स्थूलञ्च द्विविधंवत्स चंद्रादित्यस्य चारणम् ॥११॥चंद्रस्य वर्तनाकालोमनुष्याणां प्रकीर्तितम् ।सूर्यस्य वर्तनाकालो देवानान्तु प्रकीर्तितम् ॥१२॥कालचक्रे तु वर्तन्ते भास्करादि ग्रहास्थथा ।द्वादशारयुते चक्रे मेषाद्याराशयोरवेः ॥१३॥पट्टिकायाञ्च नाभौ च मध्ये वायुः प्रकीर्तिताः ।मेरुमूर्ध्निगतञ्चक्रं ब्रह्माण्डे संव्यवस्थितम् ॥१४॥कुलालचक्रवन्नित्यं भ्रामस्तत्रैव देवताः ।मेरुं प्रदक्षिणं कृत्वा नक्षत्राणि ग्रहाणि च ॥१५॥सूर्योदयास्तमायान्तमहरेवविदुर्बुधाः ।अस्तमयादुदयान्तं निशा चैवमुदाहृतम् ॥१६॥अहर्निशिद्वयोपेतमहोरात्रमिति स्मृतम् ।दिवाप्रातरहञ्चैव प्रोक्तः पर्यायवाचकाः ॥१७॥शर्वरीरजनीसायं निशिनक्तन्तु रात्रिकम् ।हायादि देवतानान्तु पितृणां प्रातरादिकम् ॥१८॥मनुष्याणामहोरात्रमितिशास्त्रेसु निश्चितम् ।मनुष्याणां हितार्थाय सर्वसंपत्कराय च ॥१९॥पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धयामके ।तस्मात् सर्वप्रयत्नेन चतुःसन्धिषु पूजयेत् ॥२०॥यामं प्रतिविशेषेण पूजयेदष्टसन्धिषु ।यामार्धं सन्धिरित्युक्तमहोरात्रन्तु पूजयेत् ॥२१॥मनुष्याणां दिनं प्रोक्तं पञ्चपञ्चदशाहकः ।पक्षद्वयिशुक्लपक्षः कृष्णपक्षस्तथैव च ॥२२॥एकराशिगतौ यत्र चन्द्रादित्यौ सहैव तु ।तत्रामावास्याचेत्युक्तं तत्पक्षं शुक्लमुच्यते ॥२३॥सप्तराशिगतञ्चंद्रं तत्र पूर्णकलामतः ।पौर्णमासी ततः प्रोक्तः कृष्णः पञ्चदशाहकः ॥२४॥पक्षद्वयं तथा मासोमासाद्वादशवत्सरम् ।वर्षञ्चैवाब्द पर्याय वाचकाः परिकीर्तिताः ॥२५॥शताब्दन्तु मनुष्याणामायुष्यं समुदीरितम् ।मृगाणां सर्वजातीनां शताब्दायुः प्रकीर्तितम् ॥२६॥नराणाञ्चैव चायुष्यं शतञ्चैव प्रकीर्तितम् ।एवमुक्तं मनुष्याणां पितृकालं ततः शृणु ॥२७॥मनुष्याणामहोरात्रं पितृणां घटिका भवेत् ।त्रिंशत्घटिमहोरात्रं शुक्लपक्षन्तु वासरम् ॥२८॥निशिकृष्णं विजानीयात् पितृणां तदहर्न्निशम् ।पूर्वसन्धिरमावास्या मध्याह्नञ्चाष्टमी भवेत् ॥२९॥पौर्णमास्यपराह्णन्तु अष्टमीचार्धयामकम् ।दिवसैर्द्वादशैर्मासं मासैर्द्वादशवत्सरम् ॥३०॥अमावास्यान्तु या पूजा पितॄणान्तु प्रसादद ।पितृकालमिदं प्रोक्तं मनुष्याणां हिताय वै ॥३१॥देवानां वक्ष्यते कालस्तुट्यादि प्रलयान्तकम् ।तुटिलवनिमेषाश्च काष्ठा चैव कला तथा ॥३२॥क्षणं मुहूर्तं घटिका सन्धिर्यामस्त्वहर्निशि ।दिवसः पक्षमासौ च ऋतुस्त्वयनवत्सराः ॥३३॥युगमन्वन्तरौ कल्पं महाकल्पप्रलयस्तथा ।तुट्यादिप्रलयान्तञ्च लक्षणं शृणु सांप्रतम् ॥३४॥स्वस्थान राक्षिकोन्मील उन्मीलन्तु निमेषकम् ।निमेषस्य चतुर्भागन्तुटीरेवमुदाहृतम् ॥३५॥तुटिद्वयलवं विद्धि लवद्वयनिमेषकम् ।निमिषोदश पञ्चैव काष्ठाः सा त्रिंशतिः कला ॥३६॥कलार्धस्तु क्षणं प्रोक्तं क्षणद्वयं मुहूर्तकम् ।तदर्द्धं घटिका प्रोक्ता सर्वकार्यन्तया कृतम् ॥३७॥सत्रिपादत्रिघटिका सन्धिरित्युच्यते बुधैः ।सन्धिद्वयन्तथायाम चतुर्यामन्दिवा स्मृतम् ॥३८॥तदहर्मात्र विज्ञेय महोरात्रं दिनं स्मृतम् ।दिनपञ्चदशः पक्षो मासः पक्षद्वयं तथा ॥३९॥पूर्वपक्षोपरञ्चैव तौपक्षद्वयमुच्यते ।मासद्वयं ऋतुः प्रोक्तमयनं वै ऋतुस्त्रयम् ॥४०॥अयनद्वयमब्दं हि अहोरात्रन्तु दैविकम् ।देवानान्तु दिवाप्रोक्तं मकरादि ऋतुस्त्रयम् ॥४१॥ऋतुस्त्रयं कुलीरादि निशि चैवमुदाहृतम् ।संक्रान्ति विषुवे चैव अयने च प्रकीर्तिताः ॥४२॥अन्यराशि गते भानौ राशिमध्ये तु संक्रमः ।तुलामेषगते सूर्ये विषुवे तत्प्रकीर्तितौ ॥४३॥कुलीरेमकरे प्राप्ते दक्षिणञ्चोत्तरायणम् ।उत्तरायण संक्रान्तिः पूर्वाह्नमिति कीर्तितम् ॥४४॥चैत्रे विषु च मध्याह्ने अपराह्ने तु दक्षिणे ।अश्वयुक् विषुवं प्रोक्तं देवानामर्धरात्रिकम् ॥४५॥चतुः सन्धिषु तस्माद्वे देवेशेषं प्रपूजयेत् ।नित्यसन्धिर्मनुष्याणां पितॄणामाससन्धिकम् ॥४६॥अब्दसन्धिषु देवाश्च पूजयेत् तु यथा विधि ।इत्थं भूतमहोरात्रं देवानां तु प्रकीर्तितम् ॥४७॥प्रोक्तमब्द क्रमं ह्येवं युगमानन्तु वक्ष्यते ।अण्डजाति युगाद्यैव केचित् शास्त्रे प्रकीर्तिताः ॥४८॥चतुर्युगन्तु शास्त्रे तु शिवेन परिभाषितम् ।तृतयुगन्तु त्रेता च द्वापरन्तु कलिस्तथा ॥४९॥कृतश्चतुः सहस्राब्दं सन्धिरष्टशतं भवेत् ।सन्ध्याशतं तथा ज्ञेयस्त्रेतार्ध पादहीनका ॥५०॥चतुःशतः सहस्रो वा द्वापरश्चेति कीर्तिताः ।कलियुगञ्च ऊर्धस्थो वर्धते तु पुनः पुनः ॥५१॥एतैर्द्वादशसाहस्रैरब्दैरैव चतुर्युगाः ।सप्तत्येक समावर्त्यामन्वन्तरमिहोच्यते ॥५२॥अशीति सहस्रैर्वर्षैः पञ्चाशद्विसहस्रकैः ।दिव्यसंवत्सरेणैव ज्ञेयमन्वन्तरं तथा ॥५३॥स्वायंभुवमनुः पूर्वं स्वारोचिषमतः परम् ।उत्तमंरैव तञ्चैव तापसञ्चक्षुषं तथा ॥५४॥वै वस्वतञ्च सा वर्णमेरु सा वर्णमेव च ।दक्ष सा वर्णमेवं हि ब्रह्म सा वर्णमेव च ॥५५॥रुद्र सा वर्णमित्युक्तं रौल्यंभौत्यञ्चतुर्दश ।इत्येवन्तवसं क्षेपात् मनवः परिकीर्तिताः ॥५६॥नाभिकल्पन्तु तत्कालं ब्रह्मणोयदि भावयेत् ।पञ्चैव कालमेवञ्च कल्पं ब्रह्मादि वा भवेत् ॥५७॥कल्पमेवं समाख्यातं महाकल्पं ततः शृणु ।त्रयस्त्रिंशच्च देवाद्यास्त्रिशतं त्रिसहस्रकम् ॥५८॥देवानां लयमित्युक्तं तद्रात्रौ तु प्रकल्पयेत् ।ब्रह्मणस्तदहोरात्रं तदा चेन्द्रालयं भवेत् ॥५९॥शतत्रयं षष्टिदिनं ब्रह्मवर्षमुदाहृतम् ।षष्टित्रिंशच्च चक्राणां लयं तत्र पुनः पुनः ॥६०॥तेन वत्सरमानेन शताब्दं ब्रह्मणोलयम् ।यावत्ब्रह्मलयं तावद् विष्णोस्तु तदहर्न्निशि ॥६१॥ब्रह्मणात्रिशतं षष्टि लयंतत्र पुनः पुनः ।तेनमानेन बोद्धव्या शताब्दमीश्वरस्य तु ॥६२॥ईश्वरस्तु लयं यत्तु निमेषं हि सदाशिवे ।ततो वृद्ध्याशतं वर्षात् सदाशिवलयं स्मृतम् ॥६३॥बिन्दोर्नादस्य तद्वंशात् लयं तत्रैव चोच्यते ।नादमूर्तिलयं यावच्छक्ताच्छक्तेर्दिनं तथा ॥६४॥दिनवृद्ध्याशतं कान्त तावच्छक्ति स्थितः सदा ।यदा शक्तेर्लयं विद्धि यावत् परदिनं तु यत् ॥६५॥तत्सङ्ख्यानिशताब्दन्तु परस्यैवलयं भवेत् ।प्रथमं शक्तिकं शान्तं शिवः पर्यायवाचकः ॥६६॥परापरस्य तं ज्ञातं विनाशोत्पत्तिकारणम् ।देवानां कालमित्युक्तं तत्वानां कालमुच्यते ॥६७॥पृथिव्यादि शिवान्तञ्च सत्वकालं प्रकीर्तितम् ।ईश्वरस्य लयं यावदात्मनस्तुलयं भवेत् ॥६८॥सदाशिवलयं यावत् नादान्तं लयमेव च ।ततः शक्तेर्लयं यावल्लयङ्गच्छेच्छिवान्तकम् ॥६९॥तत्वानां लयमेवोक्तं सूक्ष्मकालं ततः शृणु ।श्वासैस्तु त्रुटिभिः प्राणो घटिका प्राणषट्कके ॥७०॥अहोरात्रं ततः षष्टि घटिकादिर्विशेषतः ।पूर्ववद्दिनवृद्ध्या तु पक्षादीनि विवर्धयेत् ॥७१॥सूक्ष्मकालेन योगेन देव ब्रह्मादिकालयः ।ज्ञानिनां योगिनाञ्चैव सूक्ष्मकालं प्रकीर्तितम् ॥७२॥कालचक्रमिदं प्रोक्तमाधाराधेयकं शृणु ।इति कालचक्रविधिपटललो द्वितीयः ॥२॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP