संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दशरूपकम्| तृतीयः परिच्छेदः दशरूपकम् प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः दशरूपकम् - तृतीयः परिच्छेदः 'दशरूपकम्' नाट्यशास्त्रातील दशरूप लक्षण आणि त्यातील विशेषतांचे प्रतिपादन करणारा ग्रंथ आहे. Tags : dasharupakamdramaदशरूपकम्नाट्य तृतीयः परिच्छेदः Translation - भाषांतर प्रकृतित्वादथान्येषां भूयोरसपरिग्रहात् ।सम्पूर्णलक्षणत्वाच् च पूर्वं नाटकमुच्यते ॥१॥पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते ।प्रविश्य तद्वदपरः काव्यमास्थापयेन् नटः ॥२॥दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।सूचयेद् वस्तु बीजं वा मुखं पात्रमथापि वा ॥३॥रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥४॥भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ।भेदैः प्ररोचनायुक्तैर्वीर्थीप्रहसनामुखैः ॥५॥उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना ।वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते ।वीथ्यङ्गाव्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत् पुनः ॥६॥सूत्रधारो नटीं ब्रूते मार्षं वाथ विदूषकम् ।स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ॥७॥प्रस्तावना वा तत्र स्युः कथाद्घातः प्रवृत्तकम् ।प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ॥८॥स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ।गृहीत्वा प्रविशेत् पात्रं कथोद्घातो द्विधैव सः ॥९॥कालसाम्यसमाक्षिप्तप्रवेशः स्यात् प्रवृत्तकम् ।एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ।पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥१०॥उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् ।वाक्केल्यधिवले गण्डमवस्यन्दितनालिके ।असत्प्रलापव्याहारमृदवानि त्रयोदश ॥११॥गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा ।यत्रान्योन्यं समालापो द्वेधोद्घात्यं तदुच्यते ॥१२॥यत्रैकत्र समावेशात् कार्यमन्यत् प्रसाध्यते ।प्रस्तुतेऽन्यत्र वान्यत् स्यात् त(?) चावलगितं द्विधा ॥१३॥असद्भूतमिथःस्तोत्रं प्रपञ्चो हास्यकृन् मतः ।श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह ।नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥१४॥प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलना छलम् ।विनिवृत्त्यास्य वाक्केली द्विस्त्रिः प्रत्युक्तितोऽपि वा ॥१५॥अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं भवेत् ।गण्डः प्रस्तुतसम्बन्धिभिन्नार्थं सहसोदितम् ॥१६॥रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दित हि तत् ।सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥१७॥असम्बद्धकथाप्रायोऽसत्प्रलापो यथोत्तरः ।अन्यार्थमेव व्याहारो हास्यलास्यकरं वचः ।दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥१८॥एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत् ।प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रपञ्चयेत् ॥१९॥अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् ।कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिः ॥२०॥प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः ।तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ॥२१॥यत् तत्रानुचितं किञ्चिन् नायकस्य रसस्य वा ।विरुद्धं तत् परित्याज्यमन्यथा वा प्रकल्पयेत् ॥२२॥आद्यन्तमेवं निश्चित्य पञ्चधा तद् विभज्य च ।खण्डशः सन्धिसञ्ज्ञांश्च विभागानपि खण्डयेत् ॥२३॥चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा ।पताकावृत्तमप्यूनमेकाद्यैरनुसन्धिभिः ।अङ्गान्यत्र यथालाभमसन्धिं प्रकरीं न्यसेत् ॥२४॥आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः ।अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ।यदा सन्दर्शयेत् शेषं कुर्याद् विष्कम्भकं तदा ॥२५॥यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ॥२६॥प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ।अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥२७॥अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः ।गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणं ॥२८॥न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।रसं वा न तिरोदध्याद् वस्त्वलङ्कारलक्षणैः ॥२९॥एको रसोऽङ्गीकर्तव्यो वीरः शृङ्गार एव वा ।अङ्गमन्ये रसाः सर्वे कुर्यान् निर्वहणेऽद्भुतम् ॥३०॥दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ।संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥३१॥अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च ॥३२॥एकाहाचरितैकार्थमित्थमासन्ननायकम् ।पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ॥३३॥पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् ।एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः ।पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥३४॥अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।अमात्यविप्रवणिजामेकं कुर्याच् च नायकम् ॥३५॥धीरप्रशान्तं सापायं धर्मकामार्थतत्परम् ।शेपं नाटकवत् सन्धिप्रवेशकरसादिकम् ॥३६॥नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा ।क्वचिदेकैव कुलजा क्वापि द्वयं क्वचित् ॥३७॥कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः ।आभिः प्रकरणं त्रेधा सङ्कीर्णं धूर्तसङ्कुलम् ॥३८॥लक्ष्यते नाटिकाप्यत्र सङ्कीर्णान्यनिवृत्तये ।तत्र वस्तु प्रकरणान् नाटकान् नायको नृपः ।प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः ॥३९॥स्त्रीप्रायचतुरङ्कादिभेदकं यदि चेष्यते ।एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता ॥४०॥देवी तत्र भवेज् ज्येष्ठा प्रगल्भा नृपवंशजा ।गम्भीरा मानिनी कृच्छात् तद्वशान् नेतृसङ्गमः ॥४१॥नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ।अन्तःपुरादिसम्बन्धादासन्ना श्रुतिदर्शनैः ॥४२॥अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ।नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः ।कैशिक्यङ्गैश्चतुर्भिश्च यक्ताङ्कैरिव नाटिका ॥४३॥भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा ।यत्रोपवर्णयेदेको निपुणः पण्डितो विटः ॥४४॥सम्बोधनोक्तिप्रत्युक्ती कुर्यादाकाशभापितैः ।सूचयेद् वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैः ॥४५॥भूयसा भारती वृत्तिरेकाङ्कं वस्तु कल्पितम् ।मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥४६॥गेयं पदं स्थितं पाद्यमासीनं पुष्पगण्डिका ।प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ॥४७॥उत्तमोत्तमकं चैव उक्तप्रत्युक्तमेव च ।लास्ये दशविधं ह्येतदङ्गनिर्देशकल्पनम् ॥४८॥तद्वत् प्रहसनं त्रेधा शुद्धवैकृतसङ्करैः ।पाखण्डिविप्रप्रभृतिचेटचेटीविटाकुलम् ।चेष्टितं वेपभाषाभिः शुद्धं हास्यवचोन्वितम् ॥४९॥कामुकादिवचिवेषैः षण्ढकञ्चुकितापसैः ।विकृतं सङ्कराद् वीथ्या सङ्कीर्णं धूर्तसङ्कुलम् ।रसस्तु भूयसा कार्यः षड्विधो हास्य एव तु ॥५०॥डिमे वस्तु प्रसिद्धं स्याद् वृत्तयः कैशिकीं विना ।नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ।भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥५१॥रसैरहास्यशृङ्गारैः षड्भिर्दीप्तैः समन्वितः ।मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥५२॥चन्द्रसूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि ।चतुरङ्कश्चतुःसन्धिर्निर्विमर्शो डिमः स्मृतः ॥५३॥ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः ।हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद् रसाः ॥५४॥अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजये यथा ।एकाहाचरितैकाङ्को व्यायोगो बहुभिर्नरैः ॥५५॥कार्यं समवकारेऽपि आमुखं नाटकादिवत् ।ख्यातं देवासुरं वस्तु निर्विमर्शास्तु सन्धयः ॥५६॥वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः ।द्वादशोदात्तविख्याताः फलं तेषां पृथक् पृथक् ॥५७॥बहुवीररसाः सर्वे यद्वदम्भोधिमन्थने ।अङ्कैःस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ॥५८॥द्विसन्धिरङ्कः प्रथमः कार्यो द्वादशनालिकः ।चतुर्द्विनालिकावन्त्यौ नालिका घटिकाद्वयम् ॥५९॥वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ।नगरोपरोधयुद्धे वाताग्न्यादिकविद्रवाः ॥६०॥धर्मार्थकामैः शृङ्गारो नात्र विन्दुप्रवेशकौ ।वीथ्यङ्गानि यथालाभं कुर्यात् प्रहसने यथा ॥६१॥वीथी तु कैशिकीवृत्तौ सन्ध्यङ्गाङ्कैस्तु भाणवत् ।रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ॥६२॥युक्ता प्रस्तावनाख्यातैरङ्गैरुद्घात्यकादिभिः ।एवं वीथी विधातव्या द्व्येकपात्रप्रयोजिता ॥६३॥उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत् ।रसस्तु करुणः स्थायी नेतारः प्राकृता नराः ॥६४॥भाणवत् सन्धिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः ।वाचा युद्धं विधातव्यं तथा जयपराजयौ ॥६५॥मिश्रमोहामृगे वृत्तं चतुरङ्कं त्रिसन्धिमत् ।नरदिव्यावनियमान् नायकप्रतिनायकौ ॥६६॥ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत् ।दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ॥६७॥शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ।संरम्भं परमानीय युद्धं व्याजान् निवारयेत् ।वधप्राप्तस्य कुर्वीत वधं नैव महात्मनः ॥६८॥इत्थं विचिन्त्य दशरूपकलक्ष्ममार्गम्आलोक्य वस्तु परिभाव्य कविप्रबन्धान् ।कुर्यादयत्नवदलङ्कृतिभिः प्रबन्धंवाक्यैरुदारमधुरैः स्फुटमन्दवृत्तैः ॥६९॥ N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP