अथ तृतीयो ज्वरातिसाराधिकारः ॥३॥
ज्वरातिसारयोरुक्तं निदानं यत्पृथक्पृथक्
तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः ॥१॥
ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक्
न तन्मिलितयोः कार्यमन्योऽन्य वर्धयेद्यतः ॥२॥
अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः ॥३॥
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः
समुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत् ॥४॥
लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम् ॥५॥
पृश्निपर्णीबला बिल्वधनिकानागरोत्पलैः
ज्वरातिसारयोर्वाऽपि पिबेत्साम्लं शृतं नरः ॥६॥
कणाकरिकणालाजक्वाथो मधुसितायुतः
पीतो ज्वरातिसारस्य तृष्णामाशु विनाशयेत् ॥७॥
नागरातिविषामुस्ताऽमृताभूनिम्बवत्सकैः
क्वाथः सर्वज्वरान्हन्ति चातिसारं सुदारुणम् ॥८॥
गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दबालकैः
पाठाभूनिम्बकुटजचन्दनोशीरपर्पटैः ॥९॥
पिबेत्कषायं सक्षौद्रं ज्वरातीसारनाशनम्
हृल्लासारुचितृड्दाहवमीनाञ्च निवृत्तये ॥१०॥
उत्पलं दाडिमत्वक्च पद्मकेशरमेव च
पीतं तण्डुलतोयेन ज्वरातीसारनाशनम् ॥११॥
बिल्वबालकभूनिम्बगुडूचीमुस्तवत्सकैः
कषायःपाचनःशोथज्वरातीसारनाशनः ॥१२॥
नागरातिविषाबिल्वगुडूचीमुस्तवत्सकैः
कषायः पाचनः शोथज्वरातीसारनाशनः ॥१३॥
दशमूलीकषायेण विश्वमक्षसमां पिबेत्
ज्वरे चैवातिसारे च सशोथे ग्रहणी गदे ॥१४॥
इति तृतीयाज्वरातिसारः समाप्तः ॥३॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP