अथ मध्यखण्डम्
ज्वराधिकारः

तत्राष्टमं चिकित्साप्रकरणम् ॥८॥
यतः समस्तरोगाणां ज्वरो राजेति विश्रुतः
अतो ज्वराधिकारोऽत्र प्रथमं लिख्यते मया ॥१॥
दक्षापमानसंक्रुद्धरुद्र निः श्वाससम्भवः
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः ॥२॥
मिथ्याऽहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः
बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः ॥३॥
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ॥४॥
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ॥५॥
सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात्
पित्तान्नयनयोर्दाहः कफन्नान्नाभिनन्दनम् ॥६॥
रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः ॥७॥
सर्वलिङ्गसमावायः सर्वदोषप्रकोपजे ॥८॥
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा
युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते ॥९॥
रुणद्धि चाप्यपां धातून् यस्मात्तस्माज्ज्वरातुरः
भवत्यत्युष्णगात्रश्च स्विद्यते न च सर्वशः ॥१०॥
अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात्
साधारणीं क्रियां तत्र विदध्यात्तु चिकित्सकः
सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत्
निर्वातमायुषो वृद्धिमारोग्यं कुरुते यतः ॥११॥
व्यजनस्यानिलस्तृष्णास्वेदमूर्च्छाश्रमापहः
तालवृन्तभवो वातस्त्रिदोषशमनो मतः ॥१२॥
वंशव्यजनजः सोष्णो रक्तपित्तप्रकोपणः
चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा
एते दोषजितो वाताः स्निग्धा हृद्याः सुपूजिताः ॥१३॥
नवज्वरी भवेद् यत्नाद् गुरूष्णवसनावृतः
यथर्त्तुपक्वपानीयं पिवेत्किञ्चिंन्निवारयन् ॥१४॥
विनाऽपि भेषजैर्व्याधिः पथ्यादेव निवर्तते
न तु पथ्यविहीनस्य भेषजानां शतैरपि ॥१५॥
परिषेकान्प्रदेहांश्च स्नेहान्संशोधनानि च
दिवास्वप्नं व्यवायञ्च व्यायामं शिशिरं जलम् ॥१६॥
क्रोधप्रवातभोज्यांश्च वर्जयेत्तरुणज्वरी ॥१७॥
शोषं छर्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम्
प्राप्नोत्युपद्र वानेतान्परिषेकादिसेवनात् ॥१८॥
व्यायामाज्ज्वरसंबृद्धिर्व्यवायात्स्तम्भमूर्च्छनम्
मृतिश्च स्नेहपानाद्यैर्मूर्च्छा च्छर्दिर्मदोऽरुचिः ॥१९॥
गुर्वन्नभोजनात्स्वप्नाद्विष्टम्भो दोषकोपनम्
अग्निसादः खरत्वञ्च स्रोतसां च प्रवर्त्तनम् ॥२०॥
सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च
असात्म्यान्नानि पानानि विरुद्धाध्यशनानि च ॥२१॥
व्यायाममतिचेष्टां वाऽभ्यङ्गं स्नानञ्च वर्जयेत्
तेन ज्वरः शमं याति शान्तश्च न पुनर्भवेत् ॥२२॥
आमाशयस्थो हत्वाऽग्नि सामो मार्गान् पिधापयन्
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥२३॥
ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्
ज्वरान्ते भेषजंदद्याज्ज्वरमुक्ते विरेचनम् ॥२४॥
त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्
दोषेऽल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम्
प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान् ॥२५॥
तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत्
आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि ॥२६॥
वातः पचति सप्ताहात्पित्तं तु दशभिर्दिनैः
श्लेष्मा द्वादशभिर्घस्रैः पच्यते वदतां वर ॥२७॥
लङ्घनं लङ्घनीयस्तु कुर्याद्दोषानुरूपतः
त्रिरात्रमेकरात्रं वाऽहोरात्रमथवा ज्वरे ॥२८॥
निर्वातसेवनात्स्वेदाल्लङ्घनादुष्णवारिणः
पानादामज्वरे क्षीणे पश्चादौषधमाचरेत् ॥२९॥
ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्
ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् ॥३०॥
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च
लङ्घितश्चाप्यदोषश्चेद्यवागूपानमाचरेत् ॥३१॥
शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत्
पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने ॥३२॥
अत्यर्थं लङ्घितं दृष्ट्वा तस्य संतर्पणं हितम्
द्रा क्षादाडिमखर्जूरप्रियालैः सपरूषकैः ॥३३॥
तर्पणार्हस्य कर्त्तव्यं तर्पणं ज्वरशान्तये ॥३४॥
लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते ॥३५॥
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम्
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥३६॥
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ॥३७॥
स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥३८॥
कफोत्क्लेशः सहृल्लासः ष्ठीवनं च मुहुर्मुहुः
कण्ठास्यहृदयाशुद्धिस्तन्द्रा स्याद्धीनलङ्घने ॥३९॥
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ॥४०॥
मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥४१॥
बलाविरोधिना चैनं लङ्घनेनोपपादयेत्
बलाधिष्ठानमारोग्यं यदर्थोऽय क्रियाक्रमः ॥४२॥
तद्धि मारुततृष्णाक्षुन्मुखशोषभ्रमान्वितः
न कार्यं गुर्विणीबालवृद्धदुर्बलभीरुभिः
न क्षयाध्वश्रमक्रोधकामशोषचिरज्वरी ॥४३॥
अवश्यमेव कुर्वीत ज्वरी सामे समीरणे
लङ्घनं ह्यामपाकार्थं न तदूर्ध्वं यथा कफे ॥४४॥
आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात्
आमसंज्ञाञ्च लभते बहुव्याधिसमाश्रयः ॥४५॥
आममन्नरसं केचित् केचित्तु मलसञ्चयम्
प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते ॥४६॥
अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम्
सादनं सर्वगात्राणामाम इत्यभिशब्दितः ॥४७॥
तेनामेन समायुक्ता दोषा दूष्याश्च तादृशाः
तदुद्भवा आमयाश्च सामा इति बुधैः स्मृताः ॥४८॥
वायुः सामो विबन्धाग्नि सादतन्द्रा ऽन्त्रकूजनः
वेदनाशोथनिस्तोदैः क्रमतोऽङ्गानि पीडयेत् ॥४९॥
विचरेद् युगपच्चापि गृह्णाति कुपितो भृशम्
स्नेहाद्यैर्वृद्धिमायाति मेघे सूर्य्योदये निशि ॥५०॥
निरामो विशदो रूक्षो निर्गन्धोऽत्यल्पवेदनः
विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः ॥५१॥
पित्तं सामं भवेदम्लं दुर्गन्धं हरितं गुरु
अम्लिकाकण्ठहृद्दाह करं श्यावं तथा स्थिरम् ॥५२॥
निरामं पित्तमाताम्रमत्युष्णं कटुकं सरम्
दुर्गन्धि रुचिकृद् वह्निबलवर्धनमीरितम् ॥५३॥
आविलस्तन्तुलः स्त्यानः कण्ठदेशे च तिष्ठति
सामो बलासो दुर्गन्धस्तृट्क्षुधोरुपघातकृत् ॥५४॥
श्लेष्मा निरामो निर्गन्धः फेनवांश्छेदवानपि
भवेत् स पिण्डितः पाण्डु रास्यवैरस्यनाशकृत् ॥५५॥
आलस्यतन्द्रा हृदयाविशुद्धि दोषप्रवृत्त्याविलमूत्रताभिः
गुरूदरत्वारुचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति ॥५६॥
आमं जयेल्लङ्घनकोष्णपेया लघ्वन्नसूपौदनतिक्तयूषैः
विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथैव ॥५७॥
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति
अतः सर्वास्ववस्थासु न क्वचिद् वारि वर्जयेत् ॥५८॥
तृष्णा गरीयसी घोरा सद्यः प्राणविनाशिनी
तस्माद्देयं तृषाऽत्ताय पानीयम्प्राणधारणम् ॥५९॥
नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे
सद्यः शुद्धौ तथाऽध्माने व्याधौ वातकफोद्भवे ॥६०॥
अरुचिग्रहणीगुल्म श्वासकासेषु विद्र धौ
हिक्कायां स्नेहपाने च शीतं वारि विवर्जयेत् ॥६१॥
सेव्यमानेन शीतेन ज्वरस्तोयेन वर्द्धते ॥६२॥
क्वाथ्यमानं तु निर्वेगं निष्फेनं निर्मलं तथा
अर्द्धावशिष्टं यत् तोयं तदुष्णोदकमुच्यते ॥६३॥
ज्वरकासकफश्वास पित्तवाताममेदसाम्
नाशनं पाचनञ्चैव पथ्यमुष्णोदकं सदा ॥६४॥
त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते
हिमेऽद्धशेषं शिशिरे तथा वर्षावसन्तयोः ॥६५॥
निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम्
शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम् ॥६६॥
अष्टमांशावशेषन्तु वारि वर्षासु शस्यते
इति केचिद् बुधाः प्राहुर्जेज्जटागमदर्शनात् ॥६७॥
पक्षयोस्त्रिषु वेदेषु बाणेष्वङ्गेषु सप्तसु
एषु भागावशेषं स्यादम्बु वर्षाऽदिषु क्रमात् ॥६८॥
तत्पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत्
त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु ॥६९॥
पादशेषं तु यत्तोयमारोग्याम्बु तदुच्यते
आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् ॥७०॥
सद्योज्वरहरं ग्राहि दीपनं पाचनं लघु
आनाहपाण्डुशूलार्शो गुल्मशोथोदरापहम् ॥७१॥
हेमन्ते शिशिरे चाम्बु सारसं वा तडागजम्
वसन्तग्रीष्मयोः कौप्यं वाप्यं वा नैर्झरं हितम् ॥७२॥
नादेयं वारि नादेयं वसन्तग्रीष्मयोर्बुधः
विषवत्पत्रपुष्पादि दुष्टनिर्झरयोगतः ॥७३॥
आद्भिदं चान्तरिक्षं वा कौप्यं वा प्रावृषि स्मृतम्
शस्तं शरदि नादेयं नीरमंशूदकं परम् ॥७५॥
दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ॥७५॥
अनभिष्यन्दि निर्दोषञ्चान्तरिक्षजलोपमम्
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम् ॥७६॥
शरद्यगस्तेरुदयादखिलं सलिलं हितम् ॥७७॥
कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते ॥७८॥
दाहातिसारपित्तास्त्र मूर्च्छामद्यविषार्त्तिषु
मूत्र कृच्छ्रे पाण्डुरोगे तृष्णाच्छर्दिश्रमेषु च
मद्यपानसभुद्भूते रोगे पित्तोत्थिते तथा
सन्निपातसमुत्थेषु शृतशीतं प्रशस्यते ॥७९॥
शृताम्बु तत्त्रिदोषघ्नं तदन्तर्बाष्पशीतलम्
अरूक्षमनभिष्यन्दि कृमितृड्ज्वरहृल्लघु
धारापातेन विष्टम्भि दुर्जरं पवनाहतम् ॥८०॥
भिनत्ति श्लेष्मसङ्घातं मारुतं चापकर्षति
अजीर्णं जरयत्याशु पीतमुष्णोदकं निशि ॥८१॥
दिवा शृतंपयो रात्रौ गुरुतामधिगच्छति
रात्रौ शृतं दिवा पीतं गुरुत्वमधिगच्छति ॥८२॥
तत्तु पर्य्युषितं वह्निगुणोत्सृष्टं त्रिदोषकृत्
गुर्वम्लपाकं विष्टम्भि सर्वरोगेषु निन्दितम् ॥८३॥
शृतशीतं पुनस्तप्तं तोयं विषसमं भवेत्
निर्य्यूहोऽपि तथा शीतः पुनस्तप्तो विषोपमः ॥८४॥
अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा
अथ वा क्वथनेनैवसिद्धमुष्णोदकं वदेत् ॥८५॥
श्लेष्मानिलाममेदोघ्नं दीपनं बस्तिशोधनम्
श्वासकासज्वरहरं पीतमुष्णोदकं निशि ॥८६॥
रात्रावुष्णोदकञ्च तप्तमेव पिबेदित्याह
उष्णं तदग्निजननं लघ्वच्छं बस्तिशोधनम् ॥८७॥
पार्श्वरुक्पीनसाध्मानहिक्काऽनिलकफापहम्
शस्तं तृट्श्वासशूलेषु सद्यःशुद्धौ नवज्वरे ॥८८॥
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये
भ्रमश्रमपरीतेषु तमके श्वयथौ तथा ॥८९॥
धूमोद्गारे विदग्धेऽन्ने शोषे च मुखकण्ठयोः
ऊर्ध्वगे रक्तपित्ते च शीतलाम्बु प्रशस्यते ॥९०॥
आमं जलं पाकमुपैति यामं पक्वं पुनः शीतलमर्द्धयामम्
पक्वं कदुष्णञ्च ततोऽद्धकालात् त्रयः सुपीतस्य जलस्य पाके ॥९१॥
पित्तमद्यविषार्त्तेषु तिक्तकैः शृतशीतलम् ॥९२॥
मुस्तपर्पटकोदीच्यच्छत्राऽख्योशीरचन्दनैः
शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये ॥९३॥
दिवास्वापं न कुर्वीत यतोऽसौ स्यात्कफावहः
ग्रींष्मवर्ज्येषु कालेषु दिवास्वापो निषिध्यते ॥९४॥
उचितो हि दिवास्वापो नित्यं येषां शरीरिणाम्
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा ॥९५॥
व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
शूलश्वासवमीतृषापरिगतान् हिक्कामरुत्पीडितान्
क्षीणान्क्षीणकफाञ्छिशून्मदहतान्वृद्धांस्तथाऽजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् ॥९६॥
वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः
श्लैष्मिको द्वादशाहेन ज्वरः पाकमुपैति हि ॥९७॥
आ सप्तरात्रात्तरुणं ज्वरमाहुर्मनीषिणः
द्वादशाहमभिव्याप्य मध्यं जीर्णं ततः परम् ॥९८॥
वातिके सप्तरात्रेण दशरात्रेण पैत्तिके
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् ॥९९॥
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् ॥१००॥
तत्राऽनुक्ते प्रभातं स्यात्कषायेषु विशेषतः
मुख्यभैषज्यसम्बन्धो निषिद्धस्तरुणज्वरे ॥१०१॥
तोयपेयाऽदिसंस्कारेर्निर्दोषं तत्र भेषजम् ॥१०२॥
दोषा वृद्धाः कषायेण स्तम्भितास्तरुणज्वरे
स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् ॥१०३॥
न च्यवन्ते न पच्यन्ते कषायैः स्तम्भिता मलाः
तिर्यग्विमार्गगा वाते घोरं कुर्युर्नवज्वरम् ॥१०४॥
अनवस्थितदोषाणां वमनं तरुणज्वरे
हृद्रो गं श्वासमानाहं मोहं च कुरुते भृशम् ॥१०५॥
सद्योभुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः ॥१०६॥
पाययेदातुरं सामं पाचनं सप्तमे दिने
शमनेनाथ वा दृष्ट्वा निरामं तमुपाचरेत् ॥१०७॥
कृशं चैवाल्पदोषञ्च शमनीयैरुपाचरेत् ॥१०८॥
नागरं देवकाष्ठञ्च ध्यामकं बृहतीद्वयम्
दद्यात्पाचनकं पूर्वं ज्वरितेभ्यो ज्वरापहम् ॥१०९॥
अथ संशमनीयानि कषायाणि निबोध मे
सर्वज्वरेषु देयानि यानि वैद्येन जानता ॥११०॥
बृश्चीरो विश्ववर्षाभूः पयः सोदकमेव च
पचेत्क्षीरावशेषं तत्पेयं सर्वज्वरापहम् ॥१११॥
उदकाद् द्विगुणं क्षीरं शिंशपोशीरमेव च
तत्क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम् ॥११२॥
गुडूचीधान्यकारिष्टं पद्मकं रक्तचन्दनम्
एषां क्वाथः सुप्रसिद्धः सर्वज्वरहरः स्मृतः
दीपनो दाहहृल्लासतृष्णाच्छर्द्यरुचीर्हरेत् ॥११३॥
छर्दिमूर्च्छामदश्वासभ्रमतृड्विषमज्वरान्
संशोधनस्य पानेन प्राप्नोति तरुणज्वरी ॥११४॥
रोगे शोधनसाध्ये तु यं विद्याद् दोषदुर्बलम्
तं समीक्ष्य भिषक्कुर्याद् दोषप्रच्यावनं मृदु ॥११५॥
सद्योज्वरे विषेऽजीर्णे मन्देऽग्नावुदरे तथा
स्तन्यरोगे च हृद्रो गे कासश्वासेषुवामयेत् ॥११६॥
जीर्णज्वरगरच्छर्दिगुल्मप्लीहोदरेषु च
शूले शोथे मूत्रघाते कृमिरोगे विरेचयेत् ॥११७॥
चले दोषे मृदौ कोष्ठे नेक्षेत्तत्र बलं नृणाम्
अव्यापद् दुर्बलस्यापि शोधनं हि तदा भवेत् ॥११८॥
पक्वोऽप्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम्
विषमं वा ज्वरं कुर्याद् बलव्यापदमेव वा ॥११९॥
आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च ॥१२०॥
इत्यारग्वधादिः क्वाथः
पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम्
पाचनसारकमुक्तं मुनिभिर्जीर्णज्वरे सामे
इत्यारोग्यपञ्चकद्वयम् ॥१२१॥
अनन्ता बालकं मुस्तं नागरं कटुरोहिणी
पिष्ट्वा सुखाम्बुना कल्कं पाययेदक्षसम्मितम् ॥१२२॥
कल्कः स्वल्पेन कालेन हन्यात्सर्वज्वरामयान्
विदध्यात्कोष्ठसंशुद्धिं दीपयेच्च हुताशनम् ॥१२३॥
पीताम्बुर्लङ्घनक्षीणो जीर्णो भुक्तः पिपासितः
न पिबेदौषधं जन्तुः संशोधनमथेतरत् ॥१२४॥
त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी
त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः ॥१२५॥
कटुका पर्पटो मुस्तं त्रायमाणा च बालकम्
निम्बः पुष्करमूलञ्च मधुयष्टी च वत्सकः ॥१२६॥
यवानीन्द्र्यवो भार्गी शिग्रुबीजं सुराष्ट्रजा
वचात्वक्पद्मकोशीरचन्दनातिविषाबलाः ॥१२७॥
शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा
चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम् ॥१२८॥
जीवकर्षभकौ चैव लवङ्गं वंशलोचनम्
पुण्डरीकञ्च काकोली पत्रकं जातिपत्रकम् ॥१२९॥
तालीसपत्रमेतानि समभागानि चूर्णयेत्
अर्द्धांशं सर्वचूर्णस्य किरातं प्रक्षिपेत्सुधीः ॥१३०॥
एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम्
ज्वरांश्च निखिलान् हन्ति नात्र कार्या विचारणा ॥१३१॥
दोषजागन्तुकांश्चापि धातुस्थान्विषमज्वरान्
सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् ॥१३२॥
शीतादीनपि दाहादीन्मेहं तन्द्रां भ्रमं तृषाम्
कासं श्वासञ्च पाण्डुञ्च हृद्रो गं कामलामपि ॥१३३॥
त्रिकपृष्ठकटीजानुपार्श्वशूलं निवारयेत्
शीताम्बुना पिबेदेतत्सर्वज्वरनिवृत्तये ॥१३४॥
सुदर्शनं यथा चक्रं दानवानां विनाशनम्
तथा ज्वराणां सर्वेषां चूर्णमेतत्प्रणाशनम् ॥१३५॥
निम्बपत्रवराव्योषयवानी लवणत्रयम्
क्षारो दिग्वह्निरामेषुत्रिनेत्रान् क्रमतॐऽशकान् ॥१३६॥
सर्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः
एकाहिकं द्व्याहिकञ्च तथा त्रिदिवसज्वरम् ॥१३७॥
चातुर्थिकं महाघोरं सततं सन्ततं दिवा
धातुस्थं च त्रिदोषोत्थं ज्वरं हन्ति नसंशयम् ॥१३८॥
इति निम्बादिचूर्णम्
शटी निशाद्वयं शुण्ठी दारु पुष्करमूलकम्
एला गुडूची कटुका पर्पटश्च यवासकः
शृङ्गी किराततिक्तञ्च दशमूली तथैव च ॥१३९॥
क्वाथमेषां पिबेत्कोष्णं सिन्धुचूर्णयुतं नरः
ज्वरान्सर्वान्द्रुतं हन्ति नात्र कार्या विचारणा ॥१४०॥
हरीतकीत्रिवृद्वृद्धदारकाणां पृथग्भवेत्
पलद्वयं कणा शुण्ठी गुडूची गोक्षुरो वरी ॥१४१॥
सहदेवी विडङ्गञ्च प्रत्येकं पलसम्मितम्
मधुना वटिकां कृत्वा खादञ्ज्वरमपोहति ॥१४२॥
कासं श्वासं मलस्तम्भं वह्निमान्द्यं नियच्छति ॥१४३॥
लाक्षा दशाक्षा त्वरुणा षडक्षा सचन्दनं लोहितचन्दनञ्च
त्वक्पत्रकं वारि मुरा समुस्ता प्रत्येकमेतानि पलोन्मितानि ॥१४४॥
किराततिक्तात्रिवृतासतिक्ताऽमृताकणापर्पटकण्टकार्यः
विडङ्गविश्वाऽमलकानि वासारसानिशावीरणसिन्दुवाराः ॥१४५॥
एतानि देयानि पृथक्पलार्द्धमानानिसर्वाणि च भेषजानि
कल्कानमीषां विदधीत गव्यदुग्धेन वै सार्द्धतुलामितेन ॥१४५॥
तैलं तिलानां तु तुलाऽनुमानं तेनैव कल्केन शनैः पचेच्च
हन्याज्ज्वरांस्तैलमिदं समस्तान् कुर्याद् बलं वीर्यमतीव पुष्टिम् ॥१४७॥
विमर्दनादाशु परिश्रमं भ्रमं शमं नयेत्सञ्जनयेद् द्युतिं तनोः
तथा व्यथामस्थिसमुद्भवामपि प्रहृत्य निद्रां समुपार्जयेत्सुखम् ॥१४८॥
लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम्
अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैःव ॥१४९॥
समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः
सिद्धं लाक्षाऽदिकं नाम तैलमभ्यञ्जनादिना ॥१५०॥
सर्वज्वरक्षयोन्मादश्वासापस्मारवातनुत्
यक्षराक्षसभूतध्नं गर्भिणीनां च शस्यते ॥१५१॥
लाक्षा हरिद्रा मञ्जिष्ठा फेनिलं मधुकं वला
लामज्जकं चन्दनं च चम्पकं नीलमुत्पलम् ॥१५२॥
प्रत्येकमेषां षण्मुष्टीः पक्त्वा तोये चतुर्गुणे
चतुर्भागावशेषे तु गर्भे चैतत्समावपेत् ॥१५३॥
रेणुका पद्मकञ्चैव वाजिगन्धा तथैव च
वेतसं चोरकं कुष्ठं देवदारु नखं त्वचम् ॥१५४॥
शतपुष्पा पुण्डरीकं मांसी मधुकमेव च
एभिरक्षमितैः कल्कैः कषायेणैव पेषितैः ॥१५५॥
मस्तुशुक्तारनालानामाढकांशं समावपेत्
क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत् ॥१५६॥
अभ्यङ्गात्तैलमेतद्धि शीघ्रं दाहमपोहति
व्यपोहति तथा वातपित्तश्लेष्मभवज्वरम् ॥१५७॥
सप्रलापं सतृष्णञ्च तालुशोषभ्रमान्वितम्
ग्रहोपसृष्टा ये बाला रक्षसा दूषिताश्च ये
तेषां कष्टं प्रशमयेत्तैलं लाक्षाऽदिकं महत् ॥१५८॥
सूतो गन्धष्टङ्कणः शोषणश्च सर्वैस्तुल्या शर्करा मत्स्यपित्तैः
भूयो भूयो मर्दयेत्तत् त्रिरात्रं वल्लो देयः शृङ्गवेरद्र वेण ॥१५९॥
तापे शीतं व्यञ्जनैस्तक्रभक्तं वृन्ताकाढ्यं पथ्यमेतत्प्रदिष्टम्
अह्नायोग्रं हन्ति सद्यो ज्वरन्तु पित्ताधिक्ये मूर्ध्नि तोयं च दद्यात् ॥१६०॥
भवेत् समं सूतसमुद्र फेनहिङ्गूलगन्धं परिमर्द्य यामम्
नवज्वरे वह्रयुगं त्रिघस्रमार्द्राम्भसाऽय ज्वरधूमकेतुः ॥१६१॥
शुद्धसूतो विषं गन्धः प्रत्येकं शाणसम्मितः
धूर्त्तबीजं त्रिशाणं स्यात्सर्वेभ्यो द्विगुणा भवेत् ॥१६२॥
हेमाह्व कारयेदेषां सूक्ष्मं चूर्णं प्रयत्नतः
देयं जम्बीरमज्जाभिश्चूर्णं गुञ्जाद्वयोन्मितम् ॥१६३॥
आर्द्र कस्य रसेनापि ज्वरं हन्ति त्रिदोषजम्
एकाहिकं द्वयाहिकं च त्र्याहिकं च चतुर्थकम् ॥१६४॥
विषमञ्च ज्वरं हन्यान्नवं जीर्णञ्च सर्वथा
महाज्वराङ्कुशो नाम्ना रसोऽय सर्वसम्मतः ॥१६५॥
एको भागो रसाच्छुद्धाच्छैलेयःपिप्पली शिवा
आकारकरभो गन्धः कटुतैलेन शोधितः ॥१६६॥
फलानि चेन्द्र वारुण्याश्चतुर्भागमिता अमी
एकत्र मर्दयेच्चूर्णमिन्द्र वारुणिकारसैः ॥१६७॥
माषोन्मितां वटीं कृत्वा दद्यात्सद्योज्वरे बुधः
छिन्नारसानुपानेन ज्वरघ्नी वटिका मता ॥१६८॥
रसं गन्धञ्च दरदं जैपालंक्रमवर्द्धितम्
दन्तीरसेन संपिष्य वटी गुञ्जामिता भवेत् ॥१६९॥
प्रभाते सितया सार्द्धमशिता शीतवारिणा
एकेन दिवसेनैषा नवज्वरहरी भवेत् ॥१७०॥
रसो गन्धो विषं शुण्ठीपिप्पलीमरिचानि च
पथ्या बिभीतकं धात्री दन्तीबीजं च शोधितम् ॥१७१॥
चूर्णमेषां समांशानां द्रो णपुष्पीरसैः पुटेत्
वटीं माषनिभांकुर्याद्भक्षयेन्नूतने ज्वरे ॥१७२॥
एकभागो रसो भागद्वयं शुद्धञ्च गन्धकम्
गरलस्य त्रयो भागाश्चतुर्भागा हिमावती ॥१७३॥
जैपालकः पञ्चभागो निम्बूद्र वविमर्दितः
कृमिघ्नप्रमिता वट्यः कार्याः सर्वज्वरच्छिदः ॥१७४॥
शृङ्गवेरेण दातव्या वटिकैका दिने दिने
जीर्णज्वरे तथाऽजीर्णे सामे वा विषमे तथा ॥१७५॥
ज्वरं सर्व निहन्त्यसौ दावो वनमिवानलः ॥१७६॥
शुद्धं सूतं विषं गन्धं धूर्त्तबीजं त्रिभिः समम्
चतुर्णां द्विगुणं व्योषं चूर्णं गुञ्जाद्वयोन्मितम् ॥१७७॥
आर्द्र कस्य रसैः किं वा जम्बीरस्य रसैर्युतम्
महाज्वराङ्कुशो नाम्ना सर्वज्वरविनाशनः ॥१७८॥
एकाहिकं द्व्याहिकञ्च त्र्याहिकञ्च चतुर्थकम्
विषमं वा त्रिदोषं वा ज्वरं हन्ति न संशयः ॥१७९॥
सूतं गन्धं विषं चैव टङ्कणं च मनःशिला
एतानि टङ्कमात्राणि मरिचं त्वष्टटङ्ककम् ॥१८०॥
कटुत्रयं टङ्कषट्कं खल्ले क्षिप्त्वा विचूर्णयेत्
रसः श्वासकुठारोऽय सर्वज्वरहरः परः ॥१८१॥
दारुमुखां शिखिग्रीवां रसकञ्च पृथक् पृथक्
टङ्कत्रयानुमानेन गृहीत्वा कनकद्र वैः ॥१८२॥
मर्दयेत् त्रिदिनं कार्या वटी चणकमात्रया
मरिचैरेकविंशत्या सप्तभिस्तुलसीदलैः ॥१८३॥
खादेद्वटीद्वयं पथ्यं दुग्धभक्तं सशर्करम्
तरुणं विषमं जीर्णं हन्यात्सर्वज्वरं ध्रुवम् ॥१८४॥
नागरं कर्षमात्रञ्च टङ्कणं कर्षकद्वयम्
मरिचं सार्द्धकर्षं स्यात्तावद्दग्धवराटकम् ॥१८५॥
विषं कर्षचतुर्थांशं सर्वमेकत्र चूर्णयेत्
रसो हुताशनो नाम्ना खाद्यो गुञ्जामितो ज्वरे ॥१८६॥
शुद्धजैपालटङ्कं तु कट्वीं टङ्कद्वयोन्मिताम्
गैरिकं टङ्कमेकञ्च कन्यानीरेण मर्दयेत् ॥१८७॥
कलायसदृशी कार्या वटिका ताञ्च भक्षयेत्
शीतलेन जलेनैव वटी जीर्णज्वरापहा ॥१८८॥
द्विभागतालेन हतं च ताम्रं रसं च गन्धं च समीनमायुम्
विषं समं च द्विगुणञ्च ताम्रं त्रिःसप्तवारेण दिवाकरांशौ ॥१८९॥
विमर्द्य चारिष्टरसेनचूर्णं गुञ्जैकदत्तं सितया समेतम्
ज्वराङ्कुशोऽय रविसुन्दराख्यो ज्वरान्निहन्त्यष्टविधान्समस्तान् ॥१९०॥
शुद्धं सूतं तथा गन्धं खल्ले तावद्विमर्दयेत्
सूतं न दृश्यते यावत्किन्तु तत्कज्जलं भवेत् ॥१९१॥
एषा कज्जलिका ख्याता वृंहणी वीर्यवर्द्धिनी
नानाऽनुपानयोगेन सर्वव्याधिविनाशिनी ॥१९२॥
जपापत्ररसेनाथ वर्द्धमानरसेन च
भृङ्गराजरसेनापि काकमाच्या रसेन च ॥१९३॥
रसं संशोधयेत्तेन तत्समं शोधयेद्वलिम्
भृङ्गराजरसैः पिष्ट्वा शोषयेदर्करश्मिभिः ॥१९४॥
सप्तधा वा त्रिधा वाऽपि पश्चाच्चूर्णन्तु कारयेत्
चूर्णयित्वा समं तेन रसेन सह मर्दयेत् ॥१९५॥
नष्टसूतं यदा चूर्णं भवेत्कज्जलसन्निभम्
निर्धूमबदराङ्गारे द्र वीकुर्यात्प्रयत्नतः ॥१९६॥
तत्र तं महिषीविष्ठास्थापिते कदलीदले
निक्षिपेत्तदुपर्य्यन्यत् पत्रं दत्वा प्रपीडयेत् ॥१९७॥
शीतलञ्च ततः पत्रात् समुद्धृत्य विचूर्णयेत्
एवं सिद्धा भवेद्व्याधिघातिनी रसपर्पटी ॥१९८॥
ज्वरादिव्याधिभिर्व्याप्तं विश्वं दृष्ट्वा पुरा हरः
चकार कृपया युक्तः सुधावद्र सपर्पटीम् ॥१९९॥
रक्तिकासम्मितां तावद् भृष्टजीरकसंयुताम्
गुञ्जाऽद्धभृष्टहिङ्ग्वाढ्यां भक्षयेद्र सपर्पटीम् ॥२००॥
रोगानुरूपभैषज्यैरपि तां भक्षयेद्बुधः
पिबेत्तदनु पानीयं शीतलंचुलुकत्रयम् ॥२०१॥
प्रत्यहं वर्धयेत्तस्याएकैकां रक्तिकां भिषक्
नाधिकां दशगुञ्जातो भक्षयेत्तां कदाचन ॥२०२॥
एकादशदिनारम्भात्तां ततो वाऽपकर्षयेत्
एवमेतां समश्नीयान्नरो विंशतिवासरान् ॥२०३॥
शिवं गुरूंस्तथा विप्रान्पूजयित्वा प्रणम्य च
श्रद्धया भक्षयेदेतां क्षीरमांसरसाशनः ॥२०४॥
ज्वरञ्च ग्रहणीं वाऽपि तथाऽतीसारमेव च
कामला पाण्डुरोगञ्च शूलं प्लीहं जलोदरम् ॥२०५॥
एवमादीन् गदान् हत्वा हृष्टः पुष्टश्च वीर्यवान्
जीवेद्वर्षशतं साग्रं वलीपलितवर्जितः ॥२०६॥
अथ ज्वरिणोऽन्नदानसमयस्तत्र चरकः
क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
काले वा यदि वाऽकालेसोऽन्नकाल उदाहृतः ॥२०७॥
आमे पाकं गते नॄणां यदा भोजनलालसा
भवेत्काले ह्यकाले वा सोऽन्नकाल उदाहृतः ॥२०८॥
सर्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत्
वेगापायेऽन्यथा तद्धिज्वरवेगाभिवर्द्धनम् ॥२०९॥
आहारनिर्हारविहारयोगाःसदैव सद्भिर्विजने विधेयाः ॥२१०॥
ज्वरे प्रमेहो भवति स्वल्पैरपि विचेष्टितैः
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ॥२११॥
यथादोषोचितैर्द्र्रव्यैः कर्त्तव्यः कवल ग्रहः
अरोचकास्यवैरस्यमलपूतिप्रसेकहृत् ॥२१२॥
भृष्टजीरकचूर्णेन सिन्धुजन्मयुतेन च
जिह्वादन्तान्मुखस्यान्तर्घृष्ट्वा कवलमाचरेत् ॥२१३॥
मुखे मलं विगन्धत्वं विरसत्वंच नश्यति
मनःप्रसन्नं भवति भोजनेऽतिरुचिर्भवेत् ॥२१४॥
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि च ॥२१५॥
रक्तशाल्यादयः शस्ताःपुराणाः षष्टिकैः सह
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः ॥२१६॥
मुद्गान् मसूरांश्चणकान् कुलत्थान्समकुष्ठकान्
यूषार्थे यूषसात्म्यानं ज्वरितानां प्रदापयेत् ॥२१७॥
पटोलपत्रं वार्त्ताकुं कुलकं कारवेल्लकम्
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् ॥२१८॥
पत्रं गुडूच्याःशाकार्थे ज्वरितानां ज्वरापहम्
लावान् कपिञ्जलानेणान् हरिणान्पृषताञ्छशान् ॥२१९॥
कुरङ्गान्कालपुच्छांश्च तथैव मृगमातृकान्
मांसार्थं मांससात्म्यानां ज्वरितानां प्रदापयेत् ॥२२०॥
सारसक्रौञ्चशिखिनस्तथा तित्तिरकुक्कुटान्
गुरूष्णत्वान्न शंसन्ति केचिदेवं व्यवस्थिताः ॥२२१॥
ज्वरितानां प्रकोपं तु यदा याति समीरणः
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः ॥२२२॥
निम्बुकं दाडिमं धात्रीफलमम्लं प्रकाङ्क्षते
प्रदद्यादम्लसात्म्याय काञ्जिकं वा पुरातनम् ॥२२३॥
तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले
रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते ॥२२४॥
शुण्ठीसैन्धवसंयुक्तो दीपनः पाचनश्च सः
अन्नस्य सम्यक्सिद्धत्वं ज्ञेया मण्डस्य सिद्धता ॥२२५॥
पेयायूषयवागूनां विलेपीभक्तयोरपि
मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्यकृत्
ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः ॥२२६॥
चतुर्दशगुणे नीरे रक्तशाल्यादिभिः कृता
द्र वाधिका स्वल्पसिक्था पेया प्रोक्ता भिषग्वरैः ॥२२७॥
साऽतिलघ्वी ग्राहिणी च धातुपुष्टिविधायिनी
तृड्ज्वरानिलदौर्बल्यकुक्षिरोगविनाशिनी ॥२२८॥
स्वेदाग्निजननी ज्ञेया वातवर्चोऽनुलोमनी
शुण्ठीसैन्धवसंयुक्ता दीपनी पाचनी च सा ॥२२९॥
आमशूलहरी रुच्या स्याद्विबन्धविनाशिनी ॥२३०॥
प्रमथ्या प्रोच्यते द्र्रव्यपलात्कल्कीकृताच्छ्रतात्
तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम्
गुणैः प्रमथ्या पेयावत्ततो लघ्वी विशेषतः ॥२३१॥
अष्टादशगुणे नीरे शिम्बीधान्यशृतो रसः
विरलान्नो घनः किञ्चित्पेयातो यूष उच्यते
उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः ॥२३२॥
कल्कद्र्रव्यपलं शुण्ठी पिप्पली चार्द्धकार्षिकी
वारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते ॥२३३॥
यूषो बल्यो लघुःपाके रुच्यः कण्ड्यः कफापहः ॥२३४॥
मुद्गानां द्विपलं तोये शृतमर्द्धाढकोन्मिते
पादस्थं मर्दितं पूतं दाडिमस्य पलेन तत् ॥२३५॥
युक्तं सैन्धवविश्वाह्वधान्यकैः पादिकांशिकैः
कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम्
संस्कृतो मुद्गयूषोऽय पित्तश्लेष्महरो मतः ॥२३६॥
मुद्गानामुत्तमो यूषः दीपनः शीतलो लघुः
व्रणोर्द्ध्वजत्रुरुग्दाहकफपित्तज्वरास्रजित् ॥२३७॥
मुद्गामलकयूषस्तु भेदी पित्तानिलापहः
तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः ॥२३८॥
मसूरयूषः संग्राही बृंही स्वादुः प्रमेहनुत् ॥२३९॥
यवागू षडगुणे तोये संसिद्धा घनसिक्थका
पृथग्द्र वैस्तु विरलैः संयुक्ता ज्वरिणे हिता ॥२४०॥
यवागूर्दीपनी लघ्वी तृष्णघ्नी वस्तिशोधिनी
श्रमग्लानिहरी पथ्या ज्वरे चैवातिसारके ॥२४१॥
चतुर्गुणाम्बुसंसिद्धा विलेपी घनसिक्थका
पृथग्द्र वेण रहिता ख्याता शिथिलभक्तिका ॥२४२॥
विलेपी दीपनी बल्या हृद्या संग्राहिणी लघुः
व्रणाक्षिरोगिणां पथ्या तर्पणी तृड्ज्वरापहा ॥२४३॥
जले चतुर्दशगुणे तण्डुलानां चतुष्पलम्
विपचेत्स्रावयेन्मण्डं तद्भक्तं मधुरं लघु ॥२४४॥
अन्नं पञ्चगुणे तोये यवागूं षडगुणे पचेत्
भक्तं वह्निकरं पथ्यं तर्पणं मूत्रलं लघु ॥२४५॥
सुधौतं प्रस्रुतं चोष्णं विशदं गुणवत्तरम्
अधौतमस्रतं शीतं वृष्यं गुरु कफप्रदम् ॥२४६॥
अत्युष्णं बलहृद्भक्तं शीतं शुष्कञ्च दुर्जरम्
अतिक्लिन्नं ग्लानिकरं दुर्जरं तण्डुलान्वितम् ॥२४७॥
भृष्टतण्डुलजं रुच्यं सुगन्धिं कफहृल्लघु
वातास्थापितमन्दाग्निविरिक्तानां प्रशस्यते ॥२४८॥
मांसलं सक्थिजं मांसं तथाऽनस्थि च तैत्तिरम्
चतुष्पलोन्मितं सूक्ष्मं कल्पितं क्षालितं जले ॥२४९॥
पिप्पलीपिप्पली मूल शुण्ठीजीरकधान्यकैः
द्विशाणैः संयुते तोये क्वाथ्यमर्द्धाढकोन्मिते
पादस्थितं जलं तत्र दाडिमात् कुट्टिताद्धरेत्
तं रसं मर्दितं हिङ्गुभृष्टसैन्धवजीरकैः ॥२५०॥
युक्तं प्रधूपितं पथ्यं शुद्धानां शुद्धिकाङ्क्षिणाम् ॥२५१॥
रसौदनो गुरुर्वृष्यो बल्यो वातज्वरापहः ॥२५२॥
साध्यं चतुष्पलं द्र्रव्यं चतुःषष्टिपलेऽम्बुनि
तत्क्वाथेनार्द्धशिष्टेन मण्डपेयाऽदि साधयेत् ॥२५३॥
वृद्धवैद्याः पलं द्र व्यं ग्राहयन्त्याढकेऽम्भसि
भेषजस्यातिबाहुल्यात् कदाचिदरुचिर्भवेत् ॥२५४॥
यैरन्नैरौषधैर्यैश्च कृता मण्डादयो बुधैः
विचार्य तद्गुणानेतांस्तद्गुणानेव निर्दिशेत् ॥२५५॥
अन्नकाले हिता पेया यथास्वं पाचनैः कृता
दीपनी पाचनी लघ्वी ज्वरार्त्तानांज्वरापहा ॥२५६॥
पञ्चमूल्याः कषायन्तु पाचनं वातिके ज्वरे
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्र्रयवैः कृतम् ॥२५७॥
पिप्पल्यादिकषायं तु पाचनं कफजे ज्वरे
लघुना पञ्चमूलेन पिप्पल्या सह धान्यया ॥२५८॥
महत्या पञ्चमूल्याऽथ व्याघ्रीदुःस्पर्शगोक्षुरैः
सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम्
वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे ॥२५९॥
पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत् ॥२६०॥
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्
सर्पिष्मतीं पिबेत्पेयां ज्वरी दोषानुलोमिनीम् ॥२६१॥
कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत् ॥२६२॥
पेया भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनी
वातमूत्रपुरीषाणां दोषाणां चानुलोमिका ॥२६३॥
स्वेदनाय च सोष्णत्वाद् द्र्रवत्वात्तृट्क्षयाय च
आहारभावात्प्राणाय सरत्वाल्लाघवाय च
ज्वरध्नी हेतुसाम्यत्वात्तस्मात्तां पूर्वमाचरेत् ॥२६४॥
यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः
एकैकमुष्टिमादाय पचेदष्टगुणे जले ॥२६५॥
पञ्चमुष्टिक इत्येष वातपित्तकफापहः
शूले प्रशस्यते गुल्मे कासे श्वासे क्षये ज्वरे ॥२६६॥
रुद्धमूत्रपुरीषस्य गुदे वर्त्तिं निधापयेत् ॥२६७॥
पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम्
पाययेत्तु यवागूं वा मारुताद्यनुलोमिनीम् ॥२६८॥
मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफोत्थिते
ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे ॥२६९॥
दाहच्छर्द्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम्
घर्मार्त्तं मद्यपं चापि तोयालोडितसक्तुकम् ॥२७०॥
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम्
ज्वरापहैः फलरसैर्युक्तमन्नं हितं क्वचित् ॥२७१॥
द्रा क्षादाडिमखर्जूरमृदिताम्बु सशर्करम्
लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम् ॥२७२॥
लाजानां सक्तवः क्षौद्र सितायुक्ता विशेषतः
छर्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः ॥२७३॥
तत्र तर्पणमेवादौ प्रदेयं लाजसक्तुभिः
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् ॥२७४॥
द्रा क्षादाडिमखर्जूरप्रियालैः सपरूषकैः
तर्पणार्हस्य दातव्यं तर्पणं ज्वरनाशनम् ॥२७५॥
श्रमोपवासानिलजे हितो नित्यं रसौदनः ॥२७६॥
मुद्गयूषौदनश्चैव हितः कफसमुत्थिते
स एव सितयायुक्तः शीतः पित्तज्वरे हितः ॥२७७॥
कृशोऽल्पदोषो यः क्षीणकफो जीर्णज्वरान्वितः
विवद्धासृष्टदोषश्च रूक्षपित्तानिलज्वरी
पिपासाऽत्त सदाहश्च पयसा स सुखी भवेत् ॥२७८॥
अजादुग्धं गुडोपेतं पातव्यं ज्वरशान्तये
तदेव तु पयः पीतं तरुणे हन्ति मानवम् ॥२७९॥
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्
तदेव तरुणे पीतं विषवद्धन्ति मानवम् ॥२८०॥
न द्विरद्यान्न पूर्वाह्णे नाभिष्यन्दि कदा चन
न तीक्ष्णं न गुरुप्रायं भुञ्जीत तरुणज्वरी ॥२८१॥
न जातु तर्पयेत्प्राज्ञः सहसा ज्वरकर्शितम्
तेन संशमितोऽप्यस्यपुनरेव भवेज्ज्वरः ॥२८२॥
दाहः स्वेदो भ्रमस्तृष्णा कम्पो विड्भिदसंज्ञता
कूजनं चातिवैगन्ध्यमाकृतिर्ज्वरमोक्षणे ॥२८३॥
त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे
लक्षणं मोक्षकाले स्यादन्यस्मिन्स्वेददर्शनम् ॥२८४॥
देहो लघुर्व्यपगतक्लममोहतापः
पाको मुखे करणसौष्ठवमव्यथत्वम्
स्वेदः क्षवः प्रकृतियो गिमनोऽन्नलिप्सा
कण्डूश्च मूर्ध्निविगतज्वरलक्षणानि ॥२८५॥
स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् ॥२८६॥
व्यायामञ्च व्यवायञ्च स्नानं चङ्क्रमणानि च
ज्वरमुक्तो न सेवेत यावन्न बलवान्भवेत् ॥२८७॥
व्ययामञ्च व्यवायञ्च प्रवातं शिशिरं जलम्
ज्वर मुक्तो नसेवेत यावन्न बलवान्भवेत् ॥२८८॥
जन्तोर्ज्वरविमुक्तस्य स्नानं कुर्यात्पुनर्ज्वरम्
तस्माज्ज्वरविमुक्तोऽपि स्नानं विषमिव त्यजेत् ॥२८९॥
बलवर्णाग्निवपुषां यावन्न प्रकृतिर्भवेत्
तावज्ज्वरेण मुक्तोऽपि वर्जनीयानि वर्जयेत् ॥२९०॥
वातलाहारचेष्टाभ्यां वायुरामाशयाश्रयः
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद् रसानुगः ॥२९१॥
वेपथुर्विषमो वेगः कण्ठौष्ठमुखशोषणम्
निद्रा नाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ॥२९२॥
शिरोहृद्गात्ररुग्वक्त्रवैरस्यां बद्धविट्कता
शूलाध्माने जृम्भणञ्च भवन्त्यनिलजे ज्वरे ॥२९३॥
भवन्ति विविधा वातवेदनाः स्यादसुप्तता
पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता
गात्रसादो हनुस्तम्भो विश्लेषः सन्धिजानुनोः ॥२९४॥
शुष्ककासो वमिर्लोमदन्तहर्षः श्रमभ्रमौ
अरुणं मूत्रनेत्रादि तृट्प्रलापोष्णगात्रताः ॥२९५॥
ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम्
पाचनं शमनीयञ्च कषायं पाययेद्भिषक् ॥२९६॥
वातिके सप्तरात्रेण दशरात्रेण पैत्तिके
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् ॥२९७॥
दोषाणामेव सा शक्तिर्लङ्घने या सहिष्णुता
न हि दोषक्षये कश्चित्सहते लङ्घनं महत् ॥२९८॥
कफपित्ते द्र्रवे धातू सहेते लङ्घनं बहु
आमक्षयादूर्ध्वमपि वायुर्न सहते क्षणम् ॥२९९॥
तत्र भेषजम्
श्रीफलः सर्वतोभद्रा कामदूती च शोणकः
तर्कारी गोक्षुरः क्षुद्रा बृहती कलशी स्थिरा ॥२९०॥
रास्ना कणा कणामूलं कुष्ठं शुण्ठी किरातकः
मुस्ता बलाऽमृता बालं द्रा क्षायासशताह्विकाः ॥२९१॥
एषां क्वाथो निहन्त्येव प्रभञ्जनकृतं ज्वरम्
सोपद्र वञ्च योगोऽय सर्वयोगवरः स्मृतः ॥२९२॥
त्रिशतीतर्कारी श्रीफलटुण्टुकपाटलामूलैः
पाचनमुचितं मारुतजनितज्वरहारि वारिणा क्वथितैः ॥२९३॥
किराताब्दामृतोदीच्य बृहतीद्वयगोक्षुरैः
त्रिपर्णीकलशीबिल्वैः क्वाथो वातज्वरापहः ॥२९४॥
गुडूचीपिप्पलीमूलनागरैःपाचनं शृतम्
वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि ॥२९५॥
विश्वाऽमृताग्रन्थिकसिद्धतोयं मरुज्ज्वरः स्यात्पिबतः कुतोऽयम्
क्वाथोऽथ कुस्तुम्बुरुदेवदारुक्षुद्रौ षधैः पाचनमत्र चारु ॥२९६॥
पञ्चमूलीवलारास्नाकुलत्थैः सह पौष्करैः
क्वाथो हन्याच्छिरःकम्पं पर्वभेदं मरुज्ज्वरम् ॥२९७॥
कणारसोनामृतवल्लिविश्वानिदिग्धिकासिन्धुकभूमिनिम्बैः
समुस्तकैराचरितः कषायो हिताशिनां हन्ति गदानिमांस्तु ॥२९८॥
ज्वरं मरुद्दुष्टिसमुद्भवं तथा बलासजं चानलमन्दताञ्च
कण्ठावरोधं हृदयावरोधं स्वेदञ्च रोमाञ्चहिमत्वमोहान् ॥२९९॥
अथ कल्पतरुरसः
शुद्धं शंकरशुक्रमक्षतुलितं मारारिनारी रजस्तद्वत्तावदुमापतिस्फुट गलालङ्कारवस्तु स्मृतम् तावत्येव मनःशिला च विमला तावत्तथा टङ्कणंशुण्ठी द्व्यक्षमिता कणाच मरिचं दिक्पालसंख्याक्षकम् ॥३१०॥
विषादिवस्तूनि शिलोपरिष्टाद् विचूर्णयेद्बाससि शोधयेच्च
ततस्तु खल्वे रसगन्धकौ च चूर्णञ्च तद्यामयुगंविमर्द्यम् ॥३११॥
कल्पतरुनामधेयो यथार्थनामा रसः श्रेष्ठ
समीरणश्लेष्मगदान्हरते मात्राऽस्य स्मृता गुञ्जैका ॥३१२॥
आर्द्र्रकेण सममेष भक्षितो हन्ति वातकफसम्भवं ज्वरम्
श्वासकासमुखसेकशीतता वह्निमान्द्यविसुचीश्च नाशयेत् ॥३१३॥
नस्येनाश्वेव हरति शिरोर्तिं कफवातजाम्
मोहं महान्तमपि च प्रलापं क्षवथुग्रहम् ॥३१४॥
सामन्यज्वरचिकित्सोक्तो महाज्वराङ्कुशः प्रदेयोऽत्र
अथ त्रिपुरभैरवरसः
विषमहौषधमागधिकोषणद्युमणिरक्तकमार्द्र्रकमर्दितम्
क्रमविवर्द्धितमुद्दलितज्वरस्त्रिपुरभैरव एष रसो वरः ॥३१५॥
वातश्लेष्मज्वरे स्वेदं जङ्घापार्श्वास्थिशूलिनि
पीनसश्वासबाधिर्ये कारयेत्तद्विधानवित् ॥३१६॥
स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ॥३१७॥
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः
शमयति वातकफामयशूलाङ्गभङ्गकम्पादीन् ॥३१८॥
कम्पे शिरोहृदयगात्रव्यथायां जृम्भायां पादसुप्ततायाम्
पिण्डिकोद्वेष्टनेऽङ्गसादे हनुस्तम्भे च लोमहर्षे ॥३१९॥
मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
हन्ति वातकफरोगमास्यगं शोषमाशु जडतामरोचकम् ॥३२०॥
शर्करादाडिमाभ्याञ्च द्रा क्षादाडिमयोस्तथा
कल्कं विधारयेदास्ये शोषवैरस्यनाशनम् ॥३२१॥
द्रा क्षाऽमलकयोः कल्कं सघृतं वदने क्षिपेत्
तेन घृष्ट्वा मुखस्यान्तः कुर्वीत प्रतिसारणम् ॥३२२॥
तेन तालुगलान्तःस्थः संशोषश्चैव शाम्यति
सुरसं जायते वक्त्रं रुचिर्भवति भोजने ॥३२३॥
नावनं लङ्घनं चिन्ता व्यायामः शोकभीरुषः
एभिरेव भवेन्निद्रा नाशः श्लेष्मातिसंक्षयात् ॥३२४॥
भृष्टन्तु विजयाचूर्णं मधुना निशि भक्षयेत्
निद्रा नाशेऽतिसारे च ग्रहण्यां पावकक्षये ॥३२५॥
गुडं पिप्पलिमूलस्य चूर्णेनालोडितं लिहेत्
चिरादपि च संनष्टां निद्रा माप्नोति मानवः ॥३२६॥
वायसजङ्घामूलं बद्धं वा शिरसि काकमाच्याश्च
विधृतं निद्रा जनकं त्वङ्मूलं वा शृतं सगुडम् ॥३२७॥
मूलन्तु काकमाच्या बद्धं सूत्रेण मस्तके नियतम्
विदधाति नष्टनिद्रो निद्रा माश्वेव सिद्धमिदम् ॥३२८॥
शीलयेन्मन्दनिद्र स्तु क्षीरमद्यरसान्दधि
अभ्यङ्गोद्वर्त्तनस्नानमूर्द्धकर्णाक्षितर्पणम् ॥३२९॥
कान्ताबाहुलताऽश्लेषो निर्वृतिः कृतकृत्यता
मनोऽनुकूला विषयाः कामं निद्रा सुखप्रदाः ॥३३०॥
रसे शाके च सूपे च सर्पिर्यूषपयःसु च
निद्रां सञ्जनयत्याशु पलाण्डुरुपयोजितः ॥३३१॥
एक्षवं पोतकी माषः सुरा मांसरसः पयः
गोधूमतिलमत्स्याश्च निद्रां कुर्वन्ति देहिनाम् ॥३३२॥
दारुहैमवती कुष्ठशताह्वाहिङ्गुसैन्धवैः
लिम्पेत्कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ॥३३३॥
कटुतैलं कणाहिङ्गुवचालशुनसाधितम्
उष्णं विनिहितं हन्ति कर्णयोर्निःस्वनं व्यथाम् ॥३३४॥
कणा सुगन्धिवचया यवान्या च समन्विता
ताम्बूलसहिता हन्ति शुष्ककासं मुखे धृता ॥३३५॥
श्रमोपवासानिलजे हितो नित्यं रसौदनः
मुद्गामलकयूषस्तु बद्धविट्काय दीयते ॥३३६॥
पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
श्वदंष्ट्रकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत्
कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत् ॥३३७॥
पित्तलाहारचेष्टायां पित्तमामाशयाश्रयम्
बहिर्निरस्य कोष्ठाग्निंज्वरकृत्स्याद्र्रसानुगम् ॥३३८॥
वेगस्तीक्ष्णोऽतिसारश्च निद्रा ऽल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ॥३३९॥
प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्र नेत्रत्वं पैत्तिके भ्रम एव च ॥३४०॥
पैत्तिके दशरात्रेण ज्वरे युञ्जीत भेषजम् ॥३४१॥
अथ तिक्ताऽदिक्वाथः
तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सहोदकम्
पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ॥३४२॥
अथ पर्पटादिक्वाथ
पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः
प्रियङ्गुश्च कृतः क्वाथ एषां शर्करया युतः
पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ॥३४३॥
अथ द्रा क्षाऽदिक्वाथः
द्रा क्षा हरीतकी मुस्ता कटुका कृतमालकः
पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः ॥३४४॥
मुखशोषप्रलापार्त्तिदाह मूर्च्छाभ्रमप्रणुत्
पिपासारक्तपित्तानां शमनो भेदनो मतः ॥३४५॥
अथ पटोलादिक्वाथः
पटोलयवधान्याकमधुकं मधुसंयुतम्
हन्ति पित्तज्वरं दाहं तृष्णाञ्चातिप्रमाथिनीम् ॥३४६॥
अथ गुडूच्यादिक्वाथः
गुडूच्यामलकैर्युक्तः केवलो वाऽपि पर्पटः
पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ॥३४७॥
एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः
किं पुनर्यदि युज्येत चन्दनोशीरबालकैः ॥३४८॥
अथ ह्रीवेरादिक्वाथः
ह्रीवेरचन्दनोशीरघनपर्पटसाधितम्
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ॥३४९॥
अथ भूनिम्बादिक्वाथः
भूनिम्बातिविषालोध्रमुस्तकेन्द्र यवामृताः ॥३५०॥
बालकं धान्यकं बिल्वं कषायो माक्षिकान्वितः
विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ॥३५१॥
अथ महाद्रा क्षाऽदिक्वाथः
द्रा क्षाचन्दनपद्मानि मुस्तातिक्ताऽमृताऽपि च
धात्री बालमुशीरं च लोध्रेन्द्र यवपर्पटाः ॥३५२॥
परूषकं प्रियङ्गुश्च यवासो वासकस्तथा
मधुकं कुलकञ्चापि किरातो धान्यकं तथा ॥३५३॥
एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम्
तृष्णां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम् ॥३५४॥
मृर्च्छां छर्दिं तथा शूलं मुखशोषमरोचकम्
कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः ॥३५५॥
अथ धान्याकक्वाथः
ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम् ॥३५६॥
अथामृताहिमवासाहिमौ
अमृतायाता हिमः प्रातः ससितः पैत्तिकं ज्वरम्
वासायाश्च तथा कासरक्तपित्तज्वराञ्जयेत् ॥३५७॥
अथद्वितीयो गुडूच्यादिक्वाथः
गुडूची भूमिनिम्बश्च बालं वीरणमूलकम्
लघुमुस्तं त्रिवृद्धात्री द्रा क्षा वासा च पर्पटः ॥३५८॥
एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम्
सोपद्र्रवमपि प्रातर्निपीतो मधुना सह ॥३५९॥
पलाशस्य बदर्या वा निम्बस्य मृदुपल्लवैः
अम्लपिष्टैः प्रलेपोऽय हन्याद्दाहयुतं ज्वरम् ॥३६०॥
उत्तानसुप्तस्य गभीरताम्रकांस्यादिपात्रे निहिते च नाभौ
शीताम्बुधारा बहुला पतन्ती निहन्ति दाहं त्वरितं ज्वरं च ॥३६१॥
अथ पथ्याऽवलेहः
पथ्यां तैलघृतक्षौद्र्रैर्लिहन्दाहज्वरापहाम्
कासासृक्पित्तवीसर्पश्वासान्हन्ति वमीमपि ॥३६२॥
काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम्
अथ गोतक्रसंस्विन्नशीतलीकृतवाससा ॥३६३॥
द्रा क्षाऽमलककल्केन कवलोऽत्र हितो मतः
पक्वदाडिमबीजैर्वा धानाकल्केन च क्वचित् ॥३६४॥
दाहकम्पार्दितं क्षामं निरन्नं तृष्णयान्वितम्
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥३६५॥
मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे
हर्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले
मलयोद्भवसंसिक्ते सुप्यात्पित्तज्वरी नरः ॥३६६॥
हारावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम्
नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम् ॥३६७॥
आह्लादश्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
हितञ्च भोजयेदन्नं न प्रीतिसुरतंमहत् ॥३६८॥
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥३६९॥
इति पित्तज्वराधिकार
अथ कफज्वराधिकारः
श्लेष्मलाहारचेष्टाभ्यां कफो ह्यामाशयाश्रयः
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद्र सानुगः ॥३७०॥
स्तैमित्यं स्तिमितोवेग आलस्यं मधुरास्यता
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि वा ॥३७१॥
गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रि ता
प्रतिश्यायोऽरूचिः कासः कफजेऽक्ष्णोश्च शुक्लता ॥३७२॥
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम्
पिप्पल्यादिकषायन्तु कफजे परिपाचनम् ॥३७३॥
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः ॥३७४॥
सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् ॥३७५॥
पिप्पल्यादिगणो ह्येषः कफमारुतनाशनः
गुल्मशूलज्वरहरो दीपनस्त्वामपाचनः ॥३७६॥
क्षौद्रो पकुल्यासंयोगः श्वासकासज्वरापहः
प्लीहानं हन्ति हिक्काञ्च बालानामपि शस्यते ॥३७७॥
पिप्पलद्यं त्रिफलां चापि समभागां ज्वरी लिहन्
मधुना सर्पिषा चापि कासी श्वासी सुखी भवेत् ॥३७८॥
कट्फलं पौष्करं शृङ्गी कृष्णाच मधुना सह
श्वासकासज्वरहरो लेहोऽय कफनाशनः ॥३७९॥
कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा
कटुत्रयञ्चसर्वाणि समभागानि चूर्णयेत् ॥३८०॥
आर्द्र कस्वरसैर्लिह्यान्मधुना वा कफज्वरी
कासश्वासारुचिच्छर्दिहिक्काश्लेष्मानिलापहः ॥३८१॥
सिन्दुवारदलक्वाथं कणाऽढ्य कफजे ज्वरे
जङ्घयोश्च बले क्षीणे कर्णे च पिहिते पिबेत् ॥३८२॥
यवानी पिप्पली वासा तथा खाखसवल्कलम्
एषां क्वाथं पिबेत्कासे श्वासे च कफजे ज्वरे ॥३८॥३॥
वासाक्षुद्रा ऽमृताक्वाथः क्षौद्रे ण ज्वरकासहृत् ॥३८४॥
मरिचं पिप्पलीमूलं नागरं कारवी कणा
चित्रकं कट्फलं कुष्ठं ससुगन्धि वचा शिवा ॥३८५॥
कण्टकारीजटा शृङ्गी यवानी पिचुमन्दकः
एषां क्वाथो हरत्येव ज्वरं सोपद्र वं कफात् ॥३८६॥
कफवातव्याधिहरत्वाद्वाता धिकारोक्तकल्पतरुरसोयोज्यः
सिन्धुत्रिकटुराजीभिरार्द्र केण कफे हितः ॥३८७॥
मुद्गयूषौदनो देयो ज्वरे कफसमुत्थिते ॥३८८॥
इति श्लेष्म ज्वराधिकारः
अथ वातपित्तज्वराधिकारः
वातपित्तकरैर्वातपित्ते ह्यामाशयाश्रये
बहिर्निरस्य कोष्ठाग्निं रसगे ज्वरकारिणी ॥३८९॥
प्राग्रूपे वातपित्तस्य भवतो वातपैत्तिके ॥३९०॥
तृष्णा मूर्च्छा भ्रमो दाहो निद्रा नाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः ॥३९१॥
वातपित्तज्वरे देयमौषधं पञ्चमेऽहनि ॥३९२॥
किराततिक्तममृतां द्रा क्षामामलकं शटीम्
निष्क्वाथ्य सगुडं क्वाथं वातपित्तज्वरे पिबेत् ॥३९३॥
गुडूची पर्पटो मुस्तं किरातो विश्वभेषजम्
वातपित्तज्वरे देयं पञ्चभद्र मिदं शुभम् ॥३९४॥
त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः
श्रृतमम्बु हरत्याशु वातपित्तभवं ज्वरम् ॥३९५॥
मधुकं सारिवा द्रा क्षा मधूकं चन्दनोत्पलम्
काश्मरीफलकं लोध्रं त्रिफला पद्मकेशरम्
परूषकं मृणालञ्च क्षिपेत्संचूर्ण्य वारिणि
निशोषितं सिताक्षौद्र लाजयुक्तन्तु तत्पिबेत्
वातपित्तज्वरं दाहं तृष्णां मूर्च्छाऽरुचिभ्रमान्
शमयेद्र क्तपित्तञ्चजीमूतमिव मारुतः ॥३९६॥
मुद्गामलकयूषस्तु वातपित्तज्वरे हितः
महादाहे प्रदातव्यो यूषश्चणकसम्भवः ॥३९७॥
दाडिमामलकमुद्गसम्भवो यूष उक्त इति वातपैत्तिके इति
कफपित्तहरा मुद्गाः कारवेल्ल्यादयस्तथा
प्रायेण न च ते देया वातपित्तोत्तरे ज्वरे
दत्तास्तु ज्वरविष्टम्भशूलोदावर्त्तकारिणः ॥३९८॥
इति वातपित्तज्वराधिकारः समाप्तः
अथ वातश्लेष्मज्वराधिकारः
वातश्लेष्मकरैर्वातकफावामाशयाश्रयौ
बहिर्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ ॥३९९॥
प्राग्रूपे वातकफयोः स्यातां वातकफज्वरे ॥४००॥
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ॥४०१॥
वातश्लेष्मज्वरे देयमौषधं नवमेऽहनि ॥४०२॥
अथ पञ्चकोलम्
पिप्पलीपिप्पली मूलचव्यचित्रकनागरैः
दीपनीयः स्मृतो वर्गो वातश्लेष्मज्वरापहः ॥४०३॥
कोलमात्रोपयोगित्वात्पञ्चकोलमिदं स्मृतम्
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफदाहनुत्
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ॥४०४॥
अथ द्वितीयः किरातादिक्वाथः
किरातविश्वाऽमृतवल्लिसिंहिकाव्याघ्रीकणामूलरसोनसिन्दुकैः
कृतः कषायो विनिहन्ति सत्वरं ज्वरं समीरात्सकफात्समुत्त्थितम् ॥४०५॥
अथ पिप्पल्यादिक्वाथः
पिप्पल्यादिगणक्वाथं पिबेद्वातकफज्वरी
नातः परं किञ्चिदस्ति ज्वरे भेषजमुत्तमम् ॥४०६॥
अथ बृहत्पिप्पल्यादिक्वाथः
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम्
वचा सातिविषाऽजाजी पाठावत्सकरेणुकाः ॥४०७॥
किराततिक्तको मूर्वा सर्षपा मरिचानि च
कट्फलं पुष्करं भार्गो विडङ्गंकर्कटाह्वयम् ॥४०८॥
अर्कमूलं वृहत्सिंही श्रेयसी सदुरालभा
दीप्यकश्चाजमोदा च शुकनासा सहिङ्गुका ॥४०९॥
एतानि समभागानि गण एकोऽष्टविंशतिः
एषां क्वाथो निपीतः स्याद्वातश्लेष्मज्वरापहः ॥४१०॥
हन्ति वातं तथा शीतं प्रस्वेदमतिवेपथुम्
प्रलापञ्चातिनिद्रा ञ्च रोमहर्षारुची तथा ॥४११॥
महावातेऽपतन्त्रे च शून्यत्वे सर्वगात्रजे
पिप्पल्यादिमहाक्वाथो ज्वरे सर्वत्र पूजितः ॥४१२॥
अथ दशमूलीक्वाथः
दशमूलीरसः पीतः कणाऽढ्य कफवातजे
ज्वरेऽविपाके निद्रा यां पार्श्वरुक्छ्वासकासके ॥४१३॥
अथ पिप्पलीक्वाथः
पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम्
वातश्लेष्मज्वरं हन्ति सेवितं प्लीहनाशनम् ॥४१४॥
अथ सूर्यशेखररसः
सूतकं टङ्कणं भृष्टं गन्धं शुद्धं समं समम्
द्विगुणं सूतकाद्देयं जैपालं तुषवर्जितम् ॥४१५॥
सैन्धवं मरिचं चिञ्चात्वक्क्षारः शर्कराऽपि च
प्रत्येकं सूततुल्यं स्याज्जम्बीरैर्मर्दयेद्दिनम् ॥४१६॥
सूर्यशेखरनामाऽय रसो गुञ्जाद्वयोन्मितः
भक्षितस्तप्ततोयेन वातश्लेष्मज्वरापहः ॥४१७॥
स्वेदोद्गमे भृष्टकुलत्थचूर्णनिपातनं शस्तमिति ब्रुवन्ति
जीर्णं शकृद्गोर्लवणस्य भाजनं संचूर्णितं स्वेदहरं सुधूलनात् ॥४१८॥
अथ मरिचाद्युद्धूलनम्
मरिचं पिप्पली शुण्ठी पथ्या लोध्रञ्च पौष्करम्
भूनिम्बः कटुकाकुष्ठं कचूरोलिङ्गिका शटी ॥४१९॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
एतदुद्धूलनं श्रेष्ठं स्रोतोवत्स्वेदनिर्गमे ॥४२०॥
अथ भूनिम्बाद्युद्धूलनम्
भूनिम्बः कारवी तिक्ता वचा कट्फलजं रजः
एषामुद्धूलनं श्रेष्ठं सततं स्वेदसंस्रवे ॥४२१॥
अथ वालुका स्वेदः
पूर्वोक्तो वालुकास्वेदोऽप्यत्र समुचितः
यदुक्तम्
पीनसश्वासबाधिर्यजङ्घापार्श्वास्थिशूलिनि
वातश्लेष्मज्वरे देयमौषधं तद्विधानवित् ॥४२२॥
मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
हन्तिवातकफरोगमास्यगं शोषमाशु जडतामरोचकम् ॥४२३॥
महत्या पञ्चमूल्याऽन्न सम्यक्सिद्धं चिकित्सकः
सप्तमे दिवसे दद्याज्ज्वरे वातवलासजे ॥४२४॥
इति वात कफज्वराधिकारः समाप्तः
अथ पित्तकफज्वराधिकारः
पित्तश्लेष्मकरैः पित्तकफावामाशयाश्रयौ
बहिर्निरस्य कोष्ठाग्निं रसगौज्वरकारिणौ ॥४२५॥
प्राग्रूपे पित्तकफयोः स्यातां पित्तकफज्वरे ॥४२६॥
लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं पित्तश्लेष्मज्वराकृतिः ॥४२७॥
पित्तश्लेष्मज्वरे देयमौषधं दशमेऽहनि ॥४२८॥
गुडूची निम्बधान्याकं चन्दनं कटुरोहिणी
गुडूच्यादिरयं क्वाथः पाचनो दीपनः स्मृतः
तृष्णादाहारुचिच्छर्दिपित्तश्लेष्मज्वरापहः ॥४२९॥
अमृताकटुकाऽरिष्टपटोलघनचन्दनम्
नागरेन्द्र यवं चैतदमृताष्टकमीरितम् ॥४३०॥
क्वथितं सकणाचूर्णं पित्तश्लेष्मज्वरापहम्
हृल्लासारोचकच्छर्दितृष्णादाहनिवारणम् ॥४३१॥
अथ कण्टकार्यादिक्वाथः
कण्टकार्यमृताभार्गी विश्वेन्द्र्रयववासकम्
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणीम् ॥४३२॥
विपाच्य पाययेत्क्वाथं पित्तश्लेष्मज्वरापहम्
दाहतृष्णाऽरुचिच्छर्दिकासशूलनिवारणम् ॥४३३॥
नागरोशीरबिल्वाब्द धान्यमोचरसाम्बुभिः
कृतः क्वाथो भवेद् ग्राही पित्तश्लेष्मज्वरापहः ॥४३४॥
शर्करामक्षमात्राञ्च कटुकीं चोष्णवारिणा
पीत्वा ज्वरं जयेज्जन्तुः पित्तश्लेष्मसमुद्भवम् ॥४३५॥
सपत्रपुष्पवासाया रसः क्षौद्र सितायुतः
पित्तष्लेमज्वरं हन्ति साम्लपित्तं सकामलम् ॥४३६॥
कषायः परिपीतस्तु शृङ्गबेरपटोलयोः
पित्तश्लेष्मज्वरवमीदाहकण्डूहरो भवेत् ॥४३७॥
पटोलधान्ययोर्यूषः पित्तश्लेष्मज्वरापहः ॥४३८॥
इति पित्तकफज्वराधिकारः समाप्तः
अथ सन्निपातज्वराधिकारः
त्रिदोषजनकैर्वातः पित्तां श्लेष्माऽमगेहगाः
बहिर्निरस्य कोष्ठाग्निं रसगा ज्वरकारिणः ॥४३९॥
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ॥४४०॥
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः ॥४४१॥
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परा
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च
शिरसो लोठनं तृष्णा निद्रा नाशो हृदि व्यथा
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः ॥४४२॥
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्
कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् ॥४४३॥
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च
चिरात्पाकश्च दोषाणांसन्निपातज्वराकृतिः ॥४४४॥
एकोल्वणास्त्रयस्तेषु द्व्युल्वणाश्च तथेति षट्
त्र्युल्वणश्च भवेदेको विज्ञेयः स तु सप्तमः ॥४४५॥
प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट्
सन्निपातज्वरस्यैवं स्युर्विशेषास्त्रयोदश ॥४४६॥
विस्फारकश्चाशुकारी कम्पनो बभ्रसंज्ञकः
शीघ्रकारी तथा भल्लुः सप्तमः कूटपाकलः ॥४४७॥
सम्मोहकः पाकलश्च याम्यः क्रकच इत्यपि
ततः कर्कटकः प्रोक्तस्ततो वैदारिकाभिधः ॥४४८॥
तत्र वातोल्वणविस्फारकलक्षणम्
श्वासः कासो भ्रमो मूर्च्छा प्रलापो मोहवेपथू
पार्श्वस्य वेदना जृम्भा कषायत्वं मुखस्य च ॥४४९॥
वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
एष विस्फारको नाम्ना सन्निपातः सुदारुणः ॥४५०॥
अतिसारो भ्रमो मूर्च्छा मुखपाकस्तथैव च
गात्रे च बिन्दवो रक्ता दाहोऽतीव प्रजायते ॥४५१॥
पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
भिषग्भिः सन्निपातोऽयमाशुकारी प्रकीर्त्तितः ॥४५२॥
जडता गद्गदा वाणी रात्रौ निद्रा भवत्यपि
प्रस्तब्धे नयने चैव मुखमाधुर्यमेव च ॥४५३॥
कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
मुनिभिः सन्निपातोऽयमुक्तःकम्पनसंज्ञकः ॥४५४॥
वातपित्ताधिको यस्तु सन्निपातः प्रकुप्यति
तस्य ज्वरो मदस्तृष्णा मुखशोषः प्रमीलकः ॥४५५॥
आध्मानारुचितन्द्रा श्च कासश्वासभ्रमश्रमाः
मुनिभिर्बभ्रनामाऽय सन्निपात उदाहृतः ॥४५६॥
वातश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
तस्य शीतज्वरो मूर्च्छा क्षुत्तृष्णा पार्श्वनिग्रहः ॥४५७॥
शूलमस्विद्यमानस्य तन्द्रा श्वासश्च जायते
असाध्यः सन्निपातोऽय शीघ्रकारीति कथ्यते
न हि जीवत्यहोरात्रमनेनाविष्टविग्रहः ॥४५८॥
पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
अन्तर्दाहो बहिः शीतं तस्य तृष्णा प्रवर्द्धते ॥४५९॥
तुद्यते दक्षिणे पार्श्वे उरःशीर्षगलग्रहः
ष्ठीवति श्लेष्मपित्तञ्च कृच्छ्रात्कोठश्च जायते ॥४६०॥
विड्भेदश्वासहिक्काश्च वर्द्धन्ते सप्रमीलकाः
ऋषिभिर्भल्लुनामाऽय सन्निपात उदाहृतः ॥४६१॥
सर्वदोषोल्वणो यस्य सन्निपातः प्रकुप्यति
त्रयाणामपि दोषाणां तस्य रूपाणि लक्षयेत् ॥४६२॥
व्याधिभ्यो दारूणश्चैव वज्रशस्त्राग्निसन्निभः
केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः ॥४६३॥
त्रिरात्रात्परमेतस्य जन्तोर्हरति जीवितम्
तदवस्थन्तु तं दृष्ट्वा मूढो व्याहरते जनः ॥४६४॥
धर्षितो राक्षसैर्नूनमवेलायां चरन्ति ये
अम्बया ब्रुवते केचिद्यक्षिण्या ब्रह्मराक्षसैः ॥४६५॥
पिशाचैर्गुह्यकैश्चैव तथाऽन्यैर्मस्तके हतम्
कुलदेवार्च्चनाहीनं धर्षितं कुलदैवतैः ॥४६६॥
नक्षत्रपीडामपरे गरकर्मेति चापरे
सन्निपातमिमं प्राहुर्भिषजः कूटपाकलम् ॥४६७॥
प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ॥४६८॥
प्रलापायाससम्मोहकम्पमूर्च्छाऽरतिभ्रमाः
एकपक्षाभिघातश्च तत्राप्येते विशेषतः ॥४६९॥
एष सम्मोहको नाम्ना सन्निपातः सुदारुणः ॥४७०॥
मध्यप्रवृद्धहीनैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषवलाश्रयाः ॥४७१॥
मोहप्रलापमूर्च्छाः स्युर्मन्यास्तम्भः शिरोग्रहः
कासः श्वासो भ्रमस्तन्द्रा संज्ञानाशो हृदि व्यथा
खेभ्यो रक्तं विसृजति सरक्तस्तब्धनेत्रता ॥४७२॥
तत्राप्येते विशेषाः स्युर्मृत्युरर्वाक् त्रिवासरात्
भिषग्भिः सन्निपातोऽय कथितःपाकलाभिधः ॥४७३॥
हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ॥४७४॥
हृदयं दह्यते चास्य यकृत्प्लीहान्त्रफुफ्फुसाः
पच्यन्तेऽत्यर्थमूर्द्ध्वाधः पूयशोणितनिर्गमः ॥४७५॥
शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्विशेषतः
भिषग्भिः सन्निपातोऽय याम्यो नाम्ना प्रकीर्त्तितः ॥४७।६॥
प्रवृद्धहीनमध्यस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलश्रयाः ॥४७७॥
प्रलापायाससम्मोहाः कम्पमूर्च्छाऽरतिभ्रमाः
मन्यास्तम्भेन मृत्युःस्यात्तत्राप्येतद्विशेषतः ॥४७८॥
भिषग्भिः सन्न्पितोऽय क्रकचः सम्प्रकीर्त्तितः ॥४७९॥
मध्यहीनप्रबृद्धैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ॥४८०॥
अन्तर्दाहो विशेषोऽत्र नच वक्तुं स शक्यते
रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम् ॥४८१॥
पित्तेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते
इषुणेवाहतं पार्श्वं तुद्यते खन्यते हृदि ॥४८२॥
प्रमीलकश्वासहिक्का वर्द्धन्ते तु दिने दिने
जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः ॥४८३॥
विसर्गं नाभिजानाति कूजेच्चापि कपोतवत्
अतीव श्लेष्मणा पूर्णः शुष्कवक्त्रौष्ठतालुकः ॥४८४॥
तन्द्रा निद्रा ऽतियोगार्त्तो हतवाङ् निहतद्युतिः
न रतिं लभते नित्यं विपरीतानि चेच्छति ॥४८५॥
आयम्यते च बहुशो रक्तं ष्ठीवति चाल्पशः
एष कर्कटको नाम्ना सन्निपातःसुदारुणः ॥४८६॥
हीनमध्यप्रवृद्धैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ॥४८७॥
अल्पशूलं कटीतोदो मध्ये दाहो रुजा भ्रमः
भृशं क्लमः शिरोवस्तिमन्याहृदयवाग्रुजः ॥४८८॥
प्रमीलकः श्वासकासहिक्काजाड्यविसंज्ञताः
प्रथमोत्पन्नमेनन्तु साधयन्ति कदाचन ॥४८९॥
एतस्मिन्सन्निवृत्ते तु कर्णमूले सुदारुणा
पिडिका जायते जन्तोर्यया कृच्छ्रेण जीवति ॥४९०॥
स वैदारिकसंज्ञोऽय सन्निपातःसुदारुणः
त्रिरात्रात्परमेतस्य व्यर्थमौषधकल्पनम् ॥४९१॥
शीता ङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततो
रक्तष्ठीवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा
साभिन्यासकजिह्वकश्च कथितः प्राक्सन्धिगोऽथान्तको
रुग्दाहः सहचित्तविभ्रम इह द्वौ कर्णकण्ठग्रहौ ॥४९२॥
हिमशिशिरशरीरः सन्निपातज्वरी यः श्वसनकसनहिक्कामोहकम्पप्रलापः
क्लमबहुकफवातादाहवभ्यङ्गपीडास्वरविकृतिभिरार्त्तः शीतगात्रः स उक्तः ॥४९३॥
तन्द्रा ऽतीव ततस्तृषाऽतिसरणं श्वासोऽधिकः कासरुक्
सन्तप्तार्तितनुर्गले श्वयथुना सार्द्धञ्च कण्डूः कफः
सुश्यामा रसना क्लमः श्रवणयोर्मान्द्यञ्च दाहस्तथा
यत्र स्यात्स हि तन्द्रि को निगदितो दोषत्रयोत्थो ज्वरः ॥४९४॥
यत्र ज्वरे निखिलदोषनितान्तरोष जाते प्रलापबहुलाः सहसोत्थिताश्च
कम्पव्यथापतनदाहविसंज्ञताः स्युर्नाम्ना प्रलापक इति प्रथितः पृथिव्याम् ॥४९५॥
निष्ठीवो रुधिरस्य रक्तसदृशं कृष्णं तनौ मण्डलं
लौहित्यं नयने तृषाऽरुचिवमिश्वासातिसारभ्रमाः
आध्मानञ्च विसंज्ञता च पतनं हिक्काऽङ्गपीडा भृशं
रक्तष्ठीविनि सन्निपातजनिते लिङ्गं ज्वरे जायते ॥४९६॥
भृशं नयनवक्रता श्वसनकासतन्द्रा भृशं प्रलापमदवेपथुश्रवणहानिमोहास्तथा
पुरो निखिलदोषजे भवति यत्र लिङ्गं ज्वरे पुरातनचिकित्सकैः स इह भुग्ननेत्रो मतः ॥४९७॥
दोषास्तीव्रतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरे
मोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकता
दाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्य क्षयः
सोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञैर्भिषग्भिः पुरा ॥४९८॥
त्रिदोषजनिते ज्वरे भवति यत्र जिह्वा भृशं
वृता कठिनकण्टकैस्तदनु निर्भरंमूकता
श्रुतिक्षतिबलक्षति श्वसनकाससन्तप्तताः
पुरातनभिषग्वरास्तमिह जिह्वकं चक्षते ॥४९९॥
व्यथाऽतिशयिता भवेच्छ्वयथुसंयुता सन्धिषु
प्रभूतकफता मुखे विगतनिद्र ता कासरुक्
समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरे
त्रिदोषजनिते बुधैः स हि निगद्यते सन्धिगः ॥५००॥
यस्मिँ ल्लक्षणमेतदस्ति सकलैर्दोषैरुदीते ज्वरे
ऽजस्रं मूर्द्धविधूननं सकसनं सर्वाङ्गपीडाऽधिका
हिक्काश्वाससदाहमोहसहिता देहेऽतिसन्तप्तता वैकल्यञ्च वृथावचांसि मुनिभिः संकीर्त्तितः सोऽन्तकः ॥५०१॥
दाहोऽधिको भवति यत्र तृषा च तीव्रा श्वासप्रलापविरुचिभ्रममोहपीडाः
मन्याहनुव्यथनकण्ठरूजः श्रमश्च रूग्दाहसंज्ञ उदितस्त्रिभवो ज्वरोऽयम् ॥५०२॥
गायति नृत्यति हसति प्रलपति विकृतं निरीक्षते मुह्येत्
दाहव्यथाभयार्त्तो नरस्तु चित्तभ्रमे ज्वरे भवति ॥५०३॥
दोषत्रयेण जनितः किल कर्णमूले तीव्रा ज्वरे भवति तु श्वयथुव्यथा च
कण्ठग्रहो बधिरता श्वसनं प्रलापः प्रस्वेदमोहदहनानि च कर्णिकाख्ये ॥५०४॥
कण्ठःशूकशतावरुद्धवदतिश्वासः प्रलापोऽरुचि
र्दाहोदेहरुजा तृषाऽपि च हनुस्तम्भः शिरोऽतिस्तथा
मोहो वेपथुना सहेति सकलं लिङ्गं त्रिदोषज्वरे
यत्रस्यात्स हि कण्ठकुब्ज उदितः प्राच्यैश्चिकित्साबुधैः ॥५०५॥
सन्धिगस्तेषुसाध्यः स्यात्तन्द्रि कश्चित्तविभ्रमः
कर्णिको जिह्वकः कण्ठकुब्जः पञ्चापि कष्टकाः ॥५०६॥
रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः
रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः
अभिन्यासोऽन्तकश्चैते षडसाध्याः प्रकीर्त्तिताः ॥५०७॥
कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तैर्दाहो दण्डपातोऽन्तकश्च
एणीदाहश्चाथ हारिद्र संज्ञो भेदा एते सन्निपातज्वरस्य ॥५०८॥
अजघोषभूतहासौ यन्त्रापीडश्च संन्यासः
संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदशान्यत्र ॥५०९॥
घोणाविवरझरद्वहु शोणासितलोहितं सान्द्र म्
विलुठन्मस्तकमभितः कुम्भीपाकेन पीडितं विद्यात् ॥५१०॥
उत्क्षिप्य यः स्वमङ्गं क्षिपत्यधस्तान्नितान्तमुच्छ्वसिति
तं प्रोर्णुनावजुष्टं विचित्रकष्टं विजानीयात् ॥५११॥
स्वेदभ्रमाङ्गभेदाः कम्पोदवथुर्वमिर्व्यथा कण्ठे
गात्रश्च गुर्वतीव प्रलापिजुष्टस्य जायते लिङ्गम् ॥५१२॥
अन्तर्दाहः शैत्यं बहिः श्वयथुररतिरति तथा श्वासः
अङ्गमपि दग्धकल्पं सोऽन्तर्दाहार्दितः कथितः ॥५१३॥
नक्तन्दिवा न निद्रा मुपगृह्णाति मूढधीर्नभसः
उत्थाय दण्डपाती भ्रमातुरः सर्वतो भ्रमति ॥५१४॥
सम्पूर्यते शरीरं ग्रन्थिभिरभितस्तथोदरं मरुता
श्वासातुरस्य सततं विचेतनस्यान्तकार्त्तस्य ॥५१५॥
परिधावतीव गात्रे रुक्पात्रे भुजगपतगहरिणगणः
वेपथुमतः सदाहस्यैणीदाहज्वरार्त्तस्य ॥५१६॥
यस्यातिपीतमङ्गं नयने सुतरां मलस्ततोऽप्यधिकम्
दाहेऽतिशीतता बहिरस्य स हारिद्र को ज्ञेयः ॥५१७॥
छगलकसमानगन्धः स्कन्धरुजावान्निरूद्धगलरन्ध्रः
अजघोषसन्निपातादाताम्राक्षः पुमान् भवति ॥५१८॥
शब्दादीनधिगच्छति न स्वान् विषयान् यदिन्द्रि यग्रामैः
हसति प्रलपति परुषं स ज्ञेयो भूतहासार्त्तः ॥५१९॥
येन मुहुर्ज्वरवेगाद् यन्त्रेणेवावपीड्यते गात्रम्
रक्तं पित्तञ्च वमेद् यन्त्रापीडः स विज्ञेयः ॥५२०॥
अतिसरति वमति कूजति गात्राण्यभितश्चिरं नरः क्षिपति
संन्याससन्निपाते प्रलपत्युग्राक्षिमण्डलो भवति ॥५२१॥
मेचकवपुरतिमेचक लोचनयुगलो मलोत्सर्गात्
संशोषिणि सितपिडिका मण्डलयुक्तो ज्वरे नरो भवति ॥५२२॥
नारायण एव भिषग् भेषजमेतेषु जाह्नवीनीरम्
नैरुज्यहेतुरेको नित्यं मृत्युञ्जयो ध्येयः ॥५२३॥
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते ॥५२४॥
सन्निपातज्वरान्कष्टानसाध्यानपरे जगुः ॥५२५॥
दोषे प्रवृद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः
सन्निपातज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा ॥५२६॥
सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम्
कस्तेन न कृतो धर्मः काञ्च पूजां न सोऽहति ॥५२७॥
मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता
यश्च तत्र भवेज्जेता सजेताऽमयसंकुले ॥५२८॥
श्लेष्मनिग्रहमेवादौ कुर्याद्व्याधौ त्रिदोषजे
संसर्गे यो गरीयान्स्या दुपक्रम्यस वै भवेत् ॥५२९॥
अंशाशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात्
क्रियां साधारणीं तत्र विदधीत चिकित्सकः ॥५३०॥
लङ्घनं बालुकास्वेदो नस्यं निष्ठीवनं तथा
अवलेहोऽञ्जनं चैव प्राक्प्रयोज्यं त्रिदोषजे ॥५३१॥
क्रियाभिस्तुल्यरूपाभिः क्रियासांकर्यमिष्यते
भिन्नरूपतया तास्तु न हि कुर्वन्ति दूषणम् ॥५३२॥
त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा
लङ्घनं सन्निपातेषु कुर्यादारोग्यदर्शनात् ॥५३३॥
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा ॥५३४॥
पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात्
हन्ति विमुञ्चत्यथ वा त्रिदोषजो धातुमलपाकात् ॥५३५॥
निद्रा नाशो हृदिस्तम्भो विष्टम्भो गौरवारुची
अरतिर्बलहानिश्च धातूनां पाकलक्षणम् ॥५३६॥
सम्बाध्यमानोहृदि नाभिदेशे गात्रेषु वा पाकरुजाऽन्वितेषु
पीडां ज्वरार्त्तोऽङगुलिभिश्च गच्छेत् स धातुपाकी कथितो भिषग्भिः ॥५३७॥
नाभेरूर्ध्वं हृदोऽधस्तात् पीडिते चेद्ब्यथा भवेत्
धातोः पाकंविजानीयादन्यथा तु मलस्य च ॥५३८॥
दोषप्रकृतिवैकृत्यं लघुताज्वरदेहयोः
इन्द्रि याणाञ्च वैमल्यं मलानां पाकलक्षणम् ॥५३९॥
शश्वत्त्विन्द्रि यपञ्चकस्य पटुता वह्नेश्च यत्र क्रमा
त्तृष्णाऽदिप्रशमो ज्वरस्य मृदुता तं दोषपाकं वदेत्
हृन्नाभ्योरतिवेदनाऽतिसरणं तीव्रो ज्वरस्तृण्मदः
श्वासाधिक्यमरोचकोऽरतिरिति स्याद्धातुपाकाकृतिः ॥५४०॥
सप्तमी द्विगुणा यावन्नवम्येकादशी तथा
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥५४१॥
सन्निपातज्वरी पूर्वं सम्यग् लङ्घनमाचरेत्
शृतं शीतं पिबेदम्भः समये भेषजं भजेत् ॥५४२॥
सन्निपातेन तृष्यन्तं पार्श्वरुक्तालुशोषिणम्
यःपाययेज्जलं शीतं स मृत्युर्नरविग्रहः ॥५४३॥
वातश्लेष्मकृते स्वेदान्कारयेद्रू क्षनिर्मितान्
स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजात् ॥५४४॥
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तवालुकास्वेदः
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् ॥५४५॥
स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्
हृत्वावातकफस्तम्भं स्वेदो ज्वरमपोहति ॥५४६॥
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम् ॥५४७॥
मधूकसारसिन्धूत्थवचोषणकणाः समाः
श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं दद्यात्संज्ञाप्रबोधनम् ॥५४८॥
मातुलुङ्गार्द्र्रकरसं कोष्णं त्रिलवणान्वितम्
अन्यद्वा सिद्धिविहितं नस्यं तीक्ष्णं प्रयोजयेत् ॥५४९॥
तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते
शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति ॥५५०॥
मोहामयेन मुग्धं बोधयितुं यादृशः शक्तः
कल्पतरुनामधेयो रसो न तादृक् परं किञ्चित् ॥५५१॥
जिह्वातालुगलक्लोम मरुत्पित्तेन दूषितम्
तदा सञ्चारयेच्छोषं जिह्वाविरसतां तथा ॥५५२॥
स्फुटनञ्च तदा जिह्वां लेपयेन्मधुपिष्टया
द्रा क्षया साज्यया तेन जिह्वा स्यात्सरसा मृदुः ॥५५३॥
आर्द्र्रकस्वरसोपेतं सैन्धवं कटुकत्रयम्
आकण्ठाद्धारयेदास्ये निष्ठीवेच्च पुनः पुनः ॥५५४॥
तेनास्यतालुकोष्ठांसमन्यापार्श्वशिरोगलात्
लीनोऽप्याकृष्यते श्लेष्मा लाघवं चास्य जायते ॥५५५॥
पर्वभेदो ज्वरो मूर्च्छानिद्रा श्वासगलामयाः
मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति ॥५५६॥
सकृद्द्विस्त्रिश्चतुष्कुर्याद् दृष्ट्वा दोषबलाबलम्
एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम् ॥५५७॥
इति कवल ग्रहः
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
श्लक्ष्णं चूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥५५८॥
एषाऽवलेहिका हन्ति सन्निपातं सुदारूणम्
हिक्कां श्वासं च कासञ्च कण्ठरोगञ्च नाशयेत्
एतद्योज्यं कफोद्रे के चूर्णमार्द्र कजै रसैः ॥५५९॥
अष्टाङ्गं मधुना लिह्यादार्द्र कस्य रसेन वा
सम्मोहं दारुणं हन्यात्तन्द्रा काससमन्वितम् ॥५६०॥
सर्वेषु सन्निपातेषु न क्षौद्र्रमवचारयेत्
शीतोपचारि क्षौद्रं स्याच्छीतं चात्र विरुद्ध्य्ते ॥५६१॥
स्विन्नमामलकं पिष्ट्वा द्रा क्षया सह मेलयेत्
विश्वभेषजसुंयुक्तं मधुना सह लेहयेत्
तेनास्य शाम्यति श्वासः कासो मूर्च्छाऽरुचिस्तथा ॥५६२॥
शिरीषबीजं गोम्रूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधायसरसोनशिलावचैः ॥५६३॥
अयोरजः श्वेतलोध्रं मरिचं चाञ्जनं तथा
गोमूत्रेण समायुक्तं तन्द्रा नाशनमुत्तमम् ॥५६४॥
अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
प्रमोहद्र्रोहि भवति भाषितं दण्डपाणिना ॥५६५॥
इत्यञ्जनम्
सूतं विषञ्च मरिचंतुत्थकं नवसादरम्
चूर्णितं स्वरसैर्मर्द्यं धूर्त्तपत्ररसोनयोः ॥५६६॥
सन्निपातकृते मोहे मूर्ध्नि लिम्पेत्पदोपरि
अस्थिव्यथास्वनेनैव लेपं कुर्यात्पदोपरि ॥५६७॥
बिल्वः श्योनाकगाम्भारीपाटलागणिकारिकाः
पित्तघ्नंवातकफहृत्पञ्चमूलमिदं महत् ॥५६८॥
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका
गोक्षुरुर्वातपित्तघ्नं कनीयः पञ्चमूलकम् ॥५६९॥
उभयं दशमूलं तत्पिप्पलीचूर्णसंयुतम्
सन्निपातज्वरं हन्ति हृत्कण्ठग्रहनाशनम् ॥५७०॥
तन्द्रा वातकफातङ्कश्वासपार्श्वार्त्तिकासनुत् ॥५७१॥
महान्ति यानि मूलानि काष्ठगर्भाणि यानि च
तेषान्तु वल्कलं ग्राह्यं ह्रस्वमूलानि कृत्स्नशः ॥५७२॥
दशमूलीकषायस्तु पिप्पलीपौष्करान्वितः
सन्निपातज्वरे देयः श्वासकाससमन्विते ॥५७३॥
चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः
किराततिक्तादिगणः प्रयोज्यः शुद्ध्य्र्थिने वा त्रिवृताविमिश्रः ॥५७४॥
किराततिक्तको मुस्तं गुडूची विश्वभेषजम्
किरातादिर्गणो ह्येष चातुर्भद्र कमित्यपि ॥५७५॥
दशमूली शटी शृङ्गी पौष्करं सदुरालभम्
भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी ॥५७६॥
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः
कासहृद्ग्रहपार्श्वार्त्तिश्वासहिक्कावमीहरः ॥५७७॥
भूनिम्बदारुदशमूलमहौषधाब्द तिक्तेन्द्र्रबीजधनिकेभकणाकषायः
तन्द्रा प्रलापकसनारुचिदाहमोह श्वासत्रिदोषजनितज्वरनाशनः स्यात् ॥५७८॥
सन्निपातज्वरे रसप्रदीपे
विषं त्रिकटुकं गन्धं टङ्कणं मृतशुल्वकम्
धत्तूरस्य च बीजानि हिङ्गुलं नवमं स्मृतम् ॥५७९॥
एतानि समभागानि दिनैकं विजयाद्र वैः
मर्दयेच्चणकाकारा कर्त्तव्या वटिकाऽथ सा ॥५८०॥
भक्षणीयोऽनुपातव्यो रविमूलकषायकः
मृतसञ्जीवनी नाम्नासन्निपातज्वरान्तकृत् ॥५८१॥
शुद्धसूतं समं गन्धं सूतांशं मृतताम्रकम्
त्रिभिस्तुल्यैर्गवां क्षीरैर्मर्दयेदातपे खरे ॥५८२॥
मर्दयेद्दिनमेकन्तु निर्गुण्डीशिग्रुजद्र वैः
विधाय गोलं तं गोलमन्धमूषागतं पचेत् ॥५८३॥
त्रियामं बालुकायन्त्रे ततः खल्वे विचूर्णयेत्
अष्टमांशं विषं तत्र क्षिपेत्तेनापि मर्दयेत् ॥५८४॥
त्रिनेत्राख्यो रसो ह्येष देयो गुञ्जाद्वयोन्मितः
पञ्चकोलकषायेण छागीदुग्धेन वा सह ॥५८५॥
रसेनानेनभुक्तेन सन्निपातज्वरो महान्
संक्षयं व्रजति क्षिप्रं कर्त्तव्यो नात्र संशयः ॥५८६॥
भस्म षोडशनिष्कं स्यादरण्योपलसम्भवम्
मरिचं निष्कमात्रञ्च विषं निष्कं विचूर्णयेत् ॥५८७॥
रसो भस्मेश्वरो नाम सन्निपातज्वरान्तकृत्
एकगुञ्जामितो भक्ष्य आर्द्र कस्य द्र्रवेण हि ॥५८८॥
द्वौ कर्षौ सूतकाद् ग्राह्यौ गन्धकाद् द्वौ तथैव च
यत्नतस्तूभयं मर्द्यं दिनं हंसपदीद्र्रवैः ॥५८९॥
कल्कस्य वटिकां कृत्वा निक्षिपेत्काचभाजने
कर्षैकममृतं तत्र क्षिप्त्वा वक्त्रं निरोधयेत् ॥५९०॥
कूपिकायाः परौ भागौ बालुकाभिश्च पूरयेत्
सार्द्धं यावदहोरात्रं तावत्तत्र पचेद्र सम् ॥५९१॥
याममात्रोऽनलो देयः स्वाङ्गशीतं समुद्धरेत्
तोलार्द्धममृतं तत्र क्षिपेत्तावत्तथोषणम् ॥५९२॥
भक्षितो रक्तिकामात्रो रसस्त्वग्निकुमारकः
सन्निपातज्वरं हन्याद्वातं मन्दाग्नितामपि ॥५९३॥
शूलञ्च ग्रहणीं गुल्मं क्षयं जत्रुगदं तथा
श्वासकासादिकान्सर्वान् गदानेष विनाशयेत् ॥५९४॥
गन्धेशटङ्कमरिचं विषं धत्तूरजैर्द्र वैः
दिनं सम्मर्दितं शुष्कं पञ्चवक्त्रो रसो भवेत् ॥५९५॥
आर्द्र्रकस्य द्र्रवेणैष दातव्यो रक्तिकामितः
सन्निपातज्वरे देयो घोरे तद्दोषनाशनः ॥५९६॥
अमृतवराटकमरिचै र्द्विपञ्चनवभागयोजितै रचिता
वटिका मुद्गसमाना कफत्रिदोषाग्निमान्द्यहरी ॥५९७॥
सूतकं गन्धकञ्चैव हरितालं मनःशिला
एकनिष्कं द्विनिष्कञ्च चतुर्निष्कं तथैव च ॥५९८॥
पञ्चनिष्कं रसैः कारवेल्ल्याः सम्यक्प्रकल्पयेत्
ताम्रपत्राणि तुल्यानि तेन कल्केन लेपयेत् ॥५९९॥
शरावसम्पुटे तानि कृत्वा तेषामुपर्यपि
दद्यात्तां पिष्टिकां पश्चात्पुटपाकेन पाचयेत् ॥६१०॥
ततः सञ्चूर्णयेदेवं रसः क्षौद्रे ण भक्षितः
यवैकमात्रया हन्ति घोरं शीतज्वरं ध्रुवम् ॥६११॥
पारदं गन्धकञ्चैव तुत्थञ्च दरदं विषम्
विषादष्टगुणं योज्यं मरिचं विश्वभेषजम् ॥६१२॥
अश्वगन्धाऽथ विजया कासमर्दः कठिल्लकः
चतुर्णाञ्च रसैरेतैश्चूणान्येतानि मर्दयेत् ॥६१३॥
तुलस्यास्तु दलैः सार्द्धं भक्षितो रक्तिकामितः
हन्ति शीतज्वरं घोरं नाम्नाऽय शीतकेसरी ॥६१४॥
तालकं शुक्तिकाचूर्णं तुल्यं तत्रोभयोरपि
नवमांशञ्च तुल्यं स्यान्मर्दयेत्कन्यकाद्र वैः ॥६१५॥
तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत्
शीतं तच्चूर्णयेदर्द्धगुञ्जामात्रं सितायुतम् ॥६१६॥
प्रभाते भक्षयेत्तेन याति शीतज्वरःक्षयम्
वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि ॥६१७॥
तालकं तुत्थकं ताम्रंसूतगन्धकटङ्कणम्
सर्वमेतत्समं चूर्णं कारवेल्लीरसद्र वैः ॥६१८॥
दिनैकं मर्दयेत्तेन रसकर्दमकेन तु
ताम्रस्यभाजनस्यान्तर्लिम्पेदर्द्धाङ्गुलोन्मितम् ॥६१९॥
तत्पचेद्वालुकायन्त्रे यवा यावत्स्फुटन्तिहि
शीतलं तद्धि गृह्णीयात्ताम्रपात्रोदराद्भिषक् ॥६२०॥
शीतभञ्जी रसो माषमात्रो मरिचसंयुतः
भक्षितःपर्णखण्डेन नाशयेद्विषमज्वरान् ॥६२१॥
तालको दरदोद्भूतः पारदो गन्धकःशिला
क्रमाद्भागार्द्धरहितं कारवेल्ल्यम्बुमर्दितम् ॥६२२॥
अनेनास्यप्रमाणेन ताम्रपात्रं प्रलेपयेत्
अधोमुखं दृढे भाण्डे तन्निरुध्याथ पूरयेत् ॥६२३॥
चुल्ल्यां बालुकया घस्रमग्निं प्रज्वालयेदधः
शीतं सञ्चूर्ण्य माषोऽस्य नागवल्लीदले स्थितः ॥६२४॥
भक्षितो मरिचैः सार्द्धं समस्तविषमज्वरान्
शीतदाहादिकान्हन्ति पथ्यं शाल्योदनं पयः ॥६२५॥
कट्फलं त्रिफला दारु चन्दनं सपरूषकम्
कटुका पद्मकोशीरं विपचेत्कर्षकं जले ॥६२६॥
त्रिदोषदाहतृष्णाघ्नं पानमात्रे प्रपूजितम्
दीर्घकालज्वरार्त्तानामेतत्स्यादमृतोपमम् ॥६२७॥
सन्निपाते तु दाहार्त्तं यः सिञ्चेच्छीतवारिणा
आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत् ॥६२८॥
दुःस्पर्शगोक्षुर क्षुद्रा सिद्धमाहारमर्पयेत्
दोषशान्तिबलाग्न्यर्थं त्रिदोषज्वरिणे भिषक् ॥६२९॥
लाजसक्तून्समश्नीयात्सैन्धवेन समन्वितान्
ते च जीर्यन्त्यविघ्नेन ज्वरी जीवेत्तदा ध्रुवम् ॥६२०॥
रक्तपित्तहितत्वेन तृषादाहज्वरेषु च
लाजानां सक्तवः शीता नैव तेऽत्र हिता मताः ॥६२१॥
पाचनो दीपनः स्वेद्यो लाजमण्डो यतः स्मृतः
दशमूलादिसंसिद्धः संनिपातज्वरे हितः ॥६२२॥
सन्निपातज्वरी यस्तु कम्पते प्रलपत्यपि
किञ्चिदेव न जानाति चिकित्सा तस्य कथ्यते ॥६२३॥
अभ्यञ्जयेत्पुराणेन सर्पिषा पूर्वमेव तम्
बलारास्नागुडूच्याद्यैस्तैलैश्च परिषेचयेत् ॥६२४॥
वर्त्तको वर्त्तिका लावो वार्त्तिकस्तित्तिरिः शशः
कुलिङ्गश्च रसेनैषां तर्पयेत यथाऽनलम् ॥६२५॥
सन्निपाते क्षुधाऽत्त यो भोजयेत्पिशितौदनम्
स कथं भिषगाख्यान्तु लभते मनुजाधमः ॥६२६॥
अथ वातोल्वणसन्निपातज्वरस्य चिकित्सा
पञ्चमूलीकषायन्तु दशाद्वातोल्बणे ज्वरे
भृशोष्णं वा सुखोष्णं वा दृष्ट्वा दोषबलाबलम् ॥६२७॥
अथ पित्तोल्वणसन्निपातज्वरस्य चिकित्सा
परूषकञ्च त्रिफला देवदारु च कट्फलम्
चन्दनं पद्मकञ्चैव तथा कटुकरोहिणी ॥६२८॥
पृश्निपर्णी शृतं त्वेभिरुषितं शीतलं जलम्
पित्तोत्तरे नृणामेतत्सन्निपातचिकित्सितम् ॥६२९॥
किराततिक्तकं मुस्तं गुडूची विश्वभेषजम्
पाठोदीच्यं मृणालञ्च शृतं पित्ताधिके पिबेत् ॥६३०॥
अथ कफोल्वणसन्निपातज्वरस्य चिकित्सा
बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा
वत्सकस्य तु बीजानि पटोलं कटुरोहिणी ॥६३१॥
बृहत्यादिगणः शस्तः सन्निपाते कफोत्तरे
श्वासादिषु च सर्वेषु हितः सोपद्र वेष्वपि ॥६३२॥
अथ वातपित्तोल्वणसन्निपातज्वरस्य चिकित्सा
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम्
तत्क्वाथो मधुना हन्ति वातपित्तोल्वणं ज्वरम् ॥६३३॥
किराततिक्तकं मुस्तं गुडूची विश्वभेषजम्
चातुर्भद्र कमित्याहुर्वातपित्तोल्बणे ज्वरे ॥६३४॥
अथ पित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा
पर्पटः कट्फलं कुष्ठमुशीरं चन्दनं जलम्
नागरं मुस्तकं शृङ्गी पिप्पल्येषां शृतं हितम्
तृष्णादाहाग्निमान्द्येषु पित्तश्लेष्मोल्वणो ज्वरे ॥६३५॥
अथ वातपित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा
नागरं धान्यकं भार्गी पद्मकं रक्तचन्दनम्
पटोलः पिचुमन्दश्च त्रिफला मधुकं बला ॥६३६॥
शर्करा कटुका मुस्तं गजाह्वा व्याधिघातकः
किराततिक्तममृता दशमूली निदिग्धिका ॥६३७॥
योगराजो निहन्त्येष सन्निपातं त्रिकोल्वणम्
सन्निपातसमुत्थानं मृत्युमप्यागतं जयेत् ॥६३८॥
अथ प्रवृद्धमध्यहीनवातादिसन्निपातज्वराणां चिकित्सा
प्रवृद्धं कर्शयेद्दोषं क्षीणं संवर्द्धयेद्भिषक्
चिकित्सेयं विधातव्या दोषयोर्वृद्धहीनयोः ॥६३९॥
प्रवृद्धे शमिते दोषे मध्यमः स्वयमेव हि
शान्तिं याति शमं नीतेऽनुबन्ध्ये त्वनुबन्धवत् ॥६४०॥
भास्वन्मूलं जीरकव्योषभार्गी व्याघ्रीशुण्ठीपुष्करं गोजलेन
सिद्धं सद्यः शीतगात्रार्तिमोहश्वासश्लेष्मोद्रे ककासान्निहन्ति ॥६४१॥
कर्कोटिकाकन्दरजः कुलत्थ कृष्णावचाकट्फलकृष्णजीरैः
किराततिक्तानलकट्फलाम्बु पथ्याभिरुद्वर्त्तनमत्र शस्तम् ॥६४२॥
रसविषमरिचमहेश प्रियफलभस्मैकभूचतुर्वसुभिः
भागैर्मितमुद् धूलनमिदमधिकस्वेदशैत्यहरम् ॥६४३॥
क्षुद्रा ऽमृतापौष्करनागराणि शृतानि पीतानि शिवायुतानि
शुण्ठीकणाऽगस्तिरसोषणानि नस्येन तन्द्रा विजयोल्वणानि ॥६४४॥
मरिचकचपचम्पचावचारुक् कृमिहरनागरशर्वरीगवाक्ष्यः
छगलकजलकल्किता नितान्तं नसि निहिता ननु तन्द्रि कं जयन्ति ॥६४५॥
तुरङ्गलालालवणोत्तमेन्दु मनःशिलामागधिकामधूनि
नियोजितान्यक्षिणि निश्चितं च तन्द्रा ञ्च निद्रा ञ्च निवारयन्ति ॥६४६॥
सतगरवरतिक्तारेवताम्भोदतिक्ता नलदतुरगगन्धाभारतीहारहूराः
मलयजदशमूलीशङ्खपुष्पीसुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात् ॥६४७॥
सान्त्वनरञ्जनैस्तीक्ष्णै र्नस्यैस्तिमिरसेवनैः
सर्वतो विकृतं चित्त मस्य प्रकृतिमानयेत् ॥६४८॥
रोहिषधन्वयवासकवासा पर्पटगन्धलताकटुकाभिः
शर्करया सममेष कषायः क्षतजष्ठीविन उद्यदुपायः ॥६४९॥
पद्मकचन्दनपर्पटमुस्तं जातिकजीवकचन्दनवारि
क्लींतकनिम्बयुतं परिपक्वं वारि भवेदिह शोणितहारि ॥६५०॥
मधुकमधूकपरूषकपाथ श्चन्दनपल्लवदारुसनाथः
श्रीपर्णीफलशीतकषायः ससित इहस्यादस्रजयाय ॥६५१॥
तुरङ्गगन्धालवणोग्रगन्धा मधूकसारोषणमागधीभिः
बस्ताम्बुशुण्ठीलशुनान्विताभिर्नस्यं कृशं भुग्नदृशं करोति ॥६५२॥
शृङ्गीभार्ग्यभयाऽजाजी कणाभूनिम्बपर्पटः
देवदारुवचाकुष्ठ यासकट्फलनागरैः ॥६५३॥
मुस्तधान्याकतिक्तेन्द्रः यवपाठाहरेणुभिः
हस्तिपिप्पल्यपामार्गः पिप्पलीमूलचित्रकैः ॥६५४॥
विशालाऽरग्वधारिष्ट शटीवाकुचिकाफलैः
विडङ्गरजनीदार्वी यवानीद्वयसंयुतैः ॥६५५॥
समांशैर्विहितः क्वाथो हिङ्ग्वार्द्र करसान्वितः
अभिन्यासज्वरं घोरं हन्ति तन्द्रा ञ्च तत्क्षणात् ॥६५६॥
प्रमेहं कर्णशूलञ्च सन्निपातांस्त्रयोदश
हिक्कां श्वासञ्च कासञ्च तथा सर्वानुपद्र वान् ॥६५७॥
किराततिक्ताकुलकृत्कुलिङ्गी कर्पूरकृष्णाकटुतैलयुक्तः
अम्लद्र वः संशमयेद्र सज्ञा दोषान्स्तुतो दाशरथिर्यथाऽत्र ॥६५८॥
शालूरपर्णी मालूर मूलामयमधुप्लुता
शङ्खकपुष्पीसहिता सेव्या वाचां विशुद्धये ॥६५९॥
क्षुद्र्रानागरपुष्करामृतलता ब्राह्मीवचासुव्रता भार्गीवासकयासतोयसुरसाक्वाथोजयेज्जिह्वकम् विश्वावर्मविभावरी युगवरावत्सादनीवारिद व्याघ्रीनिम्बपटोलपुष्करजटारुग्दारुभिर्वा कृतः ॥६६०॥
शटीसुरतरूत्तमास्थविरदारुरास्नाः समाः
सनागरसुधाऽन्विताः पिब शतावरीसंयुताः
मृदुज्वलनपाचिताः सह पुरेण संधिग्रह
व्यथाऽपहृतये वृथा शिशिरसेवनं मा कृथाः ॥६६१॥
वचाकवचकच्छुरासहचरामृताभङ्गुरासुराह्वघननागरातरुणदारुरास्नापुराः वृषातरुणभीरुभिः सह भवन्ति संधिग्रह व्यथोरुजडिमक्लमभ्रमणपक्षघातद्रुहः ॥६६२॥
सुरदारुशटीसुधालता सुवहाशुण्ठ्यमृताः शृता जले
सपुराः शमयन्ति सेविताः सततं सन्धिगतं सदागतिम् ॥६६३॥
मुस्तैरण्डप्राणदाबाणादारू च्छिन्नारास्नाभीरूकर्चूरतिक्ताः
वासाविश्वापञ्चमूलाश्वगन्धा हन्युर्मन्यास्तम्भसन्धिग्रहार्त्तीः ॥६६४॥
इहापहाय व्रतमुष्णवारि ज्वरारियूषादि गदापहारि
ज्वरच्छिदं जीवितदञ्च नित्यं मृत्युञ्जयं चेतसि चिन्तयस्व ॥६६५॥
कर्पूरप्रकरावदातवपुषं संयोगमुद्रा जुषं शश्वद्भक्तजनेषु भावुकजुषं भालस्फुरच्चक्षुषम् सम्पूर्णामृतकुम्भसम्भृतकरं शुभ्राक्षमालाधरं पिङ्गात्तुङ्गजटाकलापरुचिरं चन्द्रा र्द्धमौलि स्तुहि ॥६६६॥
भिषग्भिरिति निर्णीतं सन्निपातेऽन्तकाभिधे
भेषजं जाह्ववीनीरं वैद्यो गोविन्द एव हि ॥६६७॥
उशीरचन्दनोदीच्य द्रा क्षाऽमलकपर्पटैः
शृतं शीतं जलं दद्याद् दाहतृड्ज्वरशान्तये ॥६६८॥
ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम् ॥६६९॥
पथ्यां तैलघृतक्षौद्रै र्लिह्याद्दाहविनाशिनीम् ॥६७०॥
प्रशमयति दाहमचिराद् दधियुक्कर्कन्धुपल्लवैर्लेपः
लेपो हिमकरमलयज निम्बदलैस्तक्रपिष्टैर्वा ॥६७१॥
उत्तानसुप्तस्य गभीरताम्र कांस्यादिपात्रे निहिते च नाभौ
शीताम्बुधारा बहुलापतन्ती निहन्ति दाहं त्वरितं ज्वरञ्च ॥६७२॥
शीताम्भसा तु शतशश्च विलोडितेन गव्येन चन्दनयुतेन घृतेन दिग्ध्वा
दाहज्वरी सकमलोत्पलमाल्यधारी क्षिप्रं विशेत्सलिलकोष्ठमनल्पकालम् ॥६७३॥
काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम्
अथ गोतक्रसंस्विन्न शीतलीकृतवाससा ॥६७४॥
दाहवम्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम्
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥६७५
वाप्यःकमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥६७॥॥
मुक्तावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम्
नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम् ॥६७७॥
प्रह्लादञ्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
हितञ्च भोजयेदन्नं येनाप्नोति सुखं महत् ॥६७८॥
कणोषणोग्रालवणोत्तमानि करञ्जबीजं प्रमदामलानि
पथ्याऽक्षसिद्धार्थकहिङ्गुशुण्ठी युतानि बस्ताम्बुविमिश्रितानि ॥६७९॥
पिष्ट्वा गुटीयं नयने विधेया प्रचेतनेऽतिप्रथिताऽन्वितार्था
चित्तभ्रमापस्मृतिभूतदोष शिरोऽक्षिरोगभ्रमनाशहेतुः ॥६८०॥
कुम्भोद्भवतरोरम्भो गुडं विश्वकणाऽन्वितम्
निहितं नसि नूनं स्याच्चित्तभ्रमविनाशनम् ॥६८१॥
मुरामूर्द्धजमेघाह्व मधूकमलयोद्भवैः
मरुत्तरुमधून्मिश्रैः पुरपाणिजपांशुभिः ॥६८२॥
लोहलामज्जकैला भिर्धूपश्चित्तभ्रमापहः
ग्रहदोषहरः श्रीदः सौभाग्यकर उत्तमः ॥६८३॥
मृद्वीकाऽमरदारुमत्स्यशकलामुस्तामलक्योऽमृता
पथ्याऽरेवतरामसेनकरजोराजीफलैः संयुताः
हन्युश्चित्तरुजोऽथ दर्दुरदलापाठापटोलीपयः
पथ्यापर्पटराजवृक्षकटुकाशम्बूकपुष्प्यः शृताः ॥६८४॥
प्रलेपस्तमस्तं नयत्यल्पमेकः समुद्रि क्तशोथञ्च रक्तावशेषः
पक्वे च शस्त्रक्रिया पूयजित्सा व्रणत्वं गते चोचिता तच्चिकित्सा ॥६८५॥
निशाविशालाऽमयमाणिमन्थ दार्वीङ्गुदीमूलकृतः प्रलेपः
प्रभाकरक्षीरयुतः प्रभावाद् व्यस्तः समस्तोऽप्यथ कर्णिकघ्नः ॥६८६॥
कुलत्थः कट्फलं शुण्ठी कारवी च समांशकैः
सुखोष्णैर्लेपनं कार्यं कर्णमूले मुहुर्मुहुः ॥६८७॥
गैरिकं कठिनी शुण्ठी कट्फलारग्वधैः समैः
उष्णैः काञ्जिकसम्पिष्टैर्लेपः कर्णकमूलनुत् ॥६८८॥
शिग्रुराजिकयोः कल्कं कर्णमूले प्रलेपयेत्
कर्णमूलभवः शोथस्तेन लेपेन शाम्यति ॥६८९॥
अशिशिरजलपरिमृदितं मरिचकणाजीरसिन्धुजं त्वरितम्
नस्यविधिसेवितं ननु कर्णकरूङ्नाशकृद् गदितम् ॥६९०॥
भार्गीजयापौष्करकण्टकारी कटुत्रिकोग्राघनकुण्डलीभिः
कुलीरशृङ्गीकटुकारसाभिः कृतः कषायः किल कर्णिकघ्नः ॥६९१॥
दशमूलमत्स्यशकला चपलात्रिफलामहौषधकिरातैः
मरिचं चाशु क्वथितं बलादपहन्ति कर्णरुजः सकलाः ॥६९२॥
फलत्रिकत्र्यूषणमुस्तकट्वी कलिङ्गसिंहाननशर्वरीभिः
क्वाथः कृतः कृन्तति कण्ठकुब्जं कण्ठीरवः कुञ्जरमाशु तद्वत् ॥६९३॥
किरातकटुकाकणाकुटजकण्टकारीशटी कलिद्रुकिलिमाभयाकटुककट्फलाम्भोधरः विषाऽमलकपुष्करानलकुलीरशृङ्गीवृषैर्महौषधसखैरयं जयति कण्ठकुब्जं गणः ॥६९४॥
अभिघाताभिषङ्गाभ्याम भिचाराभिशापतः
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ॥६९५॥
ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः
रागद्वेषभयाद्यैश्च ते स्युरागन्तवो गदाः ॥६९६॥
कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः
भूताभिषङ्गात्कुप्यन्ति भूतसामान्यलक्षणाः ॥६९७॥
श्यावास्यता विषकृते तथाऽतीसार एव च
भक्तारूचिः पिपासा च तोदश्च सह मूर्च्छया ॥६९८॥
ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमभोजनम्
हृदये वेदना चास्य गात्रञ्च परिशुष्यति ॥६९९॥
मूर्च्छाङ्गमर्दस्तृण्नेत्रचापल्यं कुचवक्त्रयोः
स्वेदः स्याद्धृदि दाहश्च स्त्रीणां कामज्वरे भवेत् ॥७००॥
बालकं शतपत्राणि गन्धसारमुशीरकम्
चोचधान्येयकं मांसी क्वाथः कामज्वरापहः ॥७०१॥
सन्ध्यायां संस्तरः कार्यः सुगन्धैः कुसुमैर्भृशम्
क्रीडनीयं स्वकान्तेन सह रात्रौ तथा स्त्रिया ॥७०२॥
भयात्प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः ॥७०३॥
भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम्
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥७०४॥
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ॥७०५॥
आगन्तुजे ज्वरे नैव नरः कुर्वीत लङ्घनम् ॥७०६॥
लङ्घनं न हितं कामशोकचिन्ताप्रहारजे
भयभूतश्रमक्रोधलङ्घनैश्च कृते ज्वरे ॥७०७॥
किन्त्वग्नौ दीपिते तत्र दद्यान्मांसरसौदनम्
अभिघातज्वरे युञ्ज्यात् क्रियामुष्णविवर्जिताम्
कषाय मधुरं स्निग्धं यथादोषमथापि च
अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः
रक्तावसेकैर्मेध्यैश्च तथा मांसरसौदनैः ॥७०८॥
व्यधबन्धश्रमात्यध्वभङ्गभ्रंशसमुद्भवान्
ज्वरानुपाचरेत्पूर्वं क्षीरमांसरसौदनैः ॥७०९॥
अध्वश्रान्तेषु वाऽभ्यङ्गं दिवा निद्रा ञ्च कारयेत् ॥७१०॥
ओषधीगन्धविषजौ विषपित्तप्रबाधनैः
जयेत्कषायैर्मतिमान् सर्वगन्धकृतैर्भिषक् ॥७११॥
चातुर्जातककर्पूरकङ्को लागुरुकुङ्कुमम्
लवङ्गसहितञ्चैव सर्वगन्धं विनिर्दिशेत् ॥७१२॥
क्रोधजे पित्तजित्कार्यं धार्यं सद्वाक्यमेव च
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च
हर्षणैश्च शमं यान्ति कामक्रोधभयज्वराः ॥७१३॥
कामैरथ मनोघ्नैश्च पित्तघ्नैश्चाप्युपक्रमैः
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः ॥७१४॥
कामात्क्रोधज्वरो नश्येत् क्रोधात्कामज्वरस्तथा
घातिताभ्यामुभाभ्याञ्च कामक्रोधज्वरक्षयः ॥७१५॥
भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः
जयेद् भूताभिषङ्गोत्थं मनः शान्त्या च मानसम् ॥७१६॥
सहदेवाया मूलं विधिना कण्ठे निबद्धमपहरति
एकद्वित्रिचतुर्भिर्दिवसैर्भूतज्वरं पुंसाम् ॥७१७॥
अभिचाराभिशापोत्थौ ज्वरौ होमादिभिर्जयेत्
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहदुष्टिजौ ॥७१८॥
इत्यागन्तुज्वराधिकारः
दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः
धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥७१९॥
सन्ततं रस रक्तस्थः सततं रक्तधातुगः
दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः ॥७२०॥
मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः
कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम् ॥७२१॥
यः स्यादनियतात्कालाच्छीतोष्णाभ्यां तथैव च
वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ॥७२२॥
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ॥७२३॥
सप्ताहं वा दशाहं द्वादशाहमथापि वा
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ॥७२४॥
अहोरात्रे सततको द्वौ कालावनुर्त्तते ॥७२५॥
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ॥७२६॥
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ॥७२७॥
कफस्थानविभागेन यथासंख्यं करोति हि
सततान्येद्युस्तृतीय चतुर्थकप्रलेपकान्
अहोरात्रादहोरात्रात् स्थानात्स्थानं प्रपद्यते
दोष आमाशयं प्राप्य करोति विषमज्वरम् ॥७२८॥
निवृत्तः पुनरायाति विषमो नियते दिने
स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ॥७२९॥
अधिशेते यथा भूमिं बीजं काले प्ररोहति
अधिशेते तथा धातून् दोषः काले प्रकुप्यति ॥७३०॥
स चापि विषमो देहं न कदाचित्प्रमुञ्चति
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ॥७३१॥
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते
धात्वन्तरेषु लीनत्वात् सौक्ष्म्यान्नैवोपलभ्यते ॥७३२॥
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ॥७३३॥
चतुर्थको दर्शयति स्वभावं द्बिविधं ज्वरः
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः ॥७३४॥
मध्यकायन्तु गृह्णाति पूर्वं यस्तु स पित्तजः
विषमज्वर एवान्यश्चतुर्थकविपर्ययः ॥७३५॥
अस्थिमज्जगतो दोषश्चतुर्थकविपर्ययः
जायते भिषजा ज्ञेयो विषमज्वर एव सः ॥७३६॥
स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमुञ्चति ॥७३७॥
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरम्
तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति च ॥७३८॥
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
तस्मिन्प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ॥७३९॥
द्वावेतौ दाहशीतादौ ज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः ॥७४०॥
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
तेनार्द्धं शीतलं देहमर्द्धमुष्णं प्रजायते ॥७४१॥
काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितम्
तेनोष्णत्वं शरीरस्य शीतत्वं हस्त पादयोः ॥७४२॥
काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम्
शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः ॥७४३॥
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च
मन्दज्वरविलेपी च स शीतः स्यात्प्रलेपकः ॥७४४॥
ज्वराश्च विषमाः सर्वे सन्निपातसमुद्भवाः
यथोल्वणस्य दोषस्य तेषु कार्यं चिकित्सितम् ॥७४५॥
विषमेष्वपि कर्त्तव्यमूर्ध्वञ्चाधश्च शोधनम्
स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम् ॥७४६॥
कालिङ्गकः पटोलस्य पत्रं कटुकरोहिणी
पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ॥७४७॥
निम्बः पटोलं त्रिफला मृद्बीका मुस्तवत्सकौ
किराततिक्तममृता चन्दनं विश्वभेषजम् ॥७४८॥
गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः
कषायाः शमयन्त्याशु पञ्च पञ्चविधं ज्वरम् ॥७४९॥
महाबलामूलमहौषधाभ्यां क्वाथो निहन्याद्बिषमज्वरं हि
शीतं सकम्पं परिदाहयुक्तं विनाशयेद् द्वित्रिदिनप्रयोगात् ॥७५०॥
मुस्ताऽमलकगुडूची विश्वौषधकण्टकारिकाक्वाथः
पीतः सकणाचूर्णः समधुर्विषमं ज्वरं हन्ति ॥७५१॥
तिलतैललवणयुक्तः कल्को लशुनस्य सेवितः प्रातः
विषज्वरमपहरते वातव्याधीनशेषांश्च ॥७५२॥
कालजाजी तु सगुडा विषमज्वरनाशिनी
मधुना चाभया लीढा हन्त्याशु विषमज्वरान् ॥७५३॥
पीतो मरिचचूर्णेन तुलसीपत्रजो रसः
द्रो णपुष्पीरसो वाऽपि निहन्ति विषमज्वरान् ॥७५४॥
समगुडमसितं जीरकमीषन्मरिचेन भक्षितं सद्यः
एकाहिकंप्रशमयेत् समरेष्विव दानवानिन्द्रः ॥७५५॥
शुण्ठ्यजाजी गुडं पिष्टं पीतमुष्णेन वारिणा
जीर्णमद्येन तक्रेण तीव्रं शीतज्वरं जयेत् ॥७५६॥
अथ सन्ततादिज्वराणां सामान्यचिकित्सा
अमृतायाः शतं चूर्णं वाससा परिशोधितम्
पृथक षोडश भागाः स्युर्गुडमाक्षिकसर्पिषाम् ॥७५७॥
यथाऽग्नि भक्षयेदेतन्नरो हितमिताशनः
नास्य कश्चिद्भवेद्व्याधिर्न जरा पलितं न च ॥७५८॥
न ज्वरा विषमा नैव मोहो नानिलरक्तकम्
न च नेत्रगता रोगाः परमेतद्र्रसायनम् ॥७५९॥
मेधाकरं त्रिदोषघ्नं प्रयोगादस्य बुद्धिमान्
जीवेद्वर्षशतं साग्रं यथैवादितिजस्तथा ॥७६०॥
तक्रमांसं पयोमांसं दधिमांसमथापि वा
माषमांसञ्च भुञ्जानो मुच्यते विषमज्वरात् ॥७६१॥
अग्निवेशेनोक्तम्
सुरा समण्डा पानार्थे भोजने चरणायुधाः
तित्तिरा विष्किराः पथ्याः कुक्कुटा विषमज्वरे ॥७६२॥
त्रायन्तीकटुकाऽनन्तासारिवाभिः शृतं जलम्
पटोलाब्दवृषातिक्तासारिवाभिः शृतं जलम्
सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ॥७६३॥
पटोलेन्द्र यवानन्तापथ्याऽरिष्टामृताजलम्
क्वथितं तज्जलं पीतं ज्वरं सततकं जयेत् ॥७६४॥
द्रा क्षापटोलनिम्बाब्दशक्राह्वत्रिफलाशृतम्
जलं जन्तुः पिबेच्छीघ्रमन्येद्युर्ज्वरशान्तये ॥७६५॥
कर्म साधारणं जह्यात् तृतीयकचतुर्थकौ
भिषजा प्रतिकर्त्तव्यौ विशेषोक्तचिकित्सितैः ॥७६६॥
उशीरं चन्दनं मुस्तं गुडूची धान्यनागरम्
अम्भसा क्वथितं पेयं शर्करामधुयोजितम् ॥७६७॥
ज्वरे तृतीयके पुंसां तृष्णादाहसमन्विते ॥७६८॥
अपामार्गजटां कट्यां लोहितैः सप्ततन्तुभिः
बद्ध्वा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ॥७६९॥
स्थिरातामलकीदारु शिवावृषमहौषधैः
सितामधुयुतः क्वाथश्चतुर्थकहरः परः ॥७७०॥
अगस्तिपत्रस्य रसेन नस्यं निहन्ति चातुर्थकमुग्रवीर्यम्
शिरीषपुष्पस्य निशाद्वयस्य कल्केन वा तद् घृतसंयुतेन ॥७७१॥
ज्वरस्य वेगकालञ्च चिन्तयञ्ज्वर्यते तु यः
तस्येष्टैरद्भुतैर्वाऽपि विषमैर्नाशयेत्स्मृतम् ॥७७२॥
सन्ततं विषमं चापि सततं सुचिरोत्थितम्
ज्वरं सुभोजनैः पथ्यैरिष्टैश्च समुपाचरेत् ॥७७३॥
शीताभिभूते पुरुषे कुर्य्याच्छीतहरीं क्रियाम्
दाहाभिभूते तु विधिं विदध्याद्दाहनाशनम् ॥७७४॥
आच्छादनैर्बहुतरैर्गुरुभिः कम्बलादिभिः
तूलवत्या महाशीतं शीतादिज्वरिणो हरेत् ॥७७५॥
तं स्तनाभ्यां सुपीनाभ्यां पीवरोरुर्नितम्बिनी
युवतिर्गाढमालिङ्गेत् तेन शीतं प्रशाम्यति ॥७७६॥
कान्ताऽङ्गसङ्गसञ्जाते तद्वच्छीते निवारिते
प्रह्लादं चास्य विज्ञाय पृथक् तां कारयेत्स्त्रियम् ॥७७७॥
ततो दाहे तु सञ्जाते पत्रैरेरण्डसम्भवैः
शीतलैर्धारितैरङ्गे दाहं तस्यापनोदयेत् ॥७७८॥
तालकं शुक्तिकाचूर्णे दत्तं तत्रोभयोरपि
नवमांशञ्च तुत्थं स्यान्मर्दयेत्कन्यकाद्र वैः ॥७७९॥
तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत्
शीतं तच्चूर्णयेच्चूर्णं गुञ्जामात्रं सितायुतम् ॥७८०॥
प्रभाते भक्षयेत्तेन याति शीतज्वरः क्षयम्
वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि ॥७८१॥
एकेन दिवसेनैव शीतज्वरहरं परम्
मध्याह्नसमये पथ्यं शिखरिण्योदनं तथा ॥७८२॥
कायस्थानाकुलीतिक्तावयः स्थापुरचोरकैः
सहदेवावचाकुष्ठैः शीतघ्नैर्धूपलेपनैः ॥७८३॥
साम्लैर्विपाचितं तैलमभ्यङ्गाच्छीतनाशनम् ॥७८४॥
एरण्डस्य तु पत्राणि लिप्तभूमौ निधापयेत्
दाहादिज्वरिणो देहे तानि पत्राणि धारयेत् ॥७८५॥
तेन नश्यति दाहोऽस्य ज्वरश्चैवोपशाम्यति
दाहे शान्ते यदा शैत्यं तच्च युक्त्यानिवारयेत् ॥७८६॥
जघनचक्रचलन्मणिमेखला सरसचन्दनचन्द्र विलेपना
वनलतेव तनुं परिवेष्टयेत् प्रबलदाहनिपीडितमङ्गना ॥७८७॥
तदङ्गसङ्गसञ्जाते शैत्ये दाहे निवारिते
प्रह्लादञ्चास्य विज्ञाय तां स्त्रीमपनयेत्पुनः ॥७८८॥
सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः
सिद्धं हरेत्षड्गुणतक्रपक्वं तैलं ज्वरं दाहसमन्वितं च ॥७८९॥
रास्नानागरकुष्ठचन्दननिशायष्ट्याह्वकृष्णाबला
लाक्षासैन्धवसारिवामधुरसादेवाह्वरोहीतकैः
सोशीराम्बुधिफेनरोहिषजलैस्तैलंपचेत्षड्गुणे
तक्रे तच्च जयेज्ज्वरं दृढतरं दाहादिशीतादिकम् ॥७९०॥
पद्मकोत्पलकह्लार मृणालबिसपौष्करैः
कुमुदोशीरमञ्जिष्ठा पद्मगैरिककट्फलैः ॥७९१॥
सारिवाद्वयलोध्रा ह्वक्षीरीखर्जूरमस्तकैः
धात्रीशतावरीयुक्तैः क्वाथे कल्के प्रयोजितैः ॥७९२॥
लाक्षारसपयःशुक्त मस्तुभिः सह काञ्जिकैः
पक्वं तैलमिदं त्वच्यं दाहज्वरहरं परम् ॥७९३॥
प्रलेपके प्रयुञ्जीत श्लेष्मज्वरहरीं क्रियाम् ॥७९४॥
रूद्र जटा गोशृङ्गं विडालविष्ठोरगस्य निर्मोकः
मदनफलभूतकेश्यौ वंशत्वग्रुद्र निर्माल्यम् ॥७९५॥
घृतयवमयूरपुच्छच्छगलकलोमानि सर्षपाःसवचाः
हिङ्गुगवास्थिमरीचाः समभागाश्छागमूत्रसंपिष्टाः ॥७९६॥
धूपनविधिना शमयन्त्येते सर्वाञ्ज्वरान्नियतम्
ग्रहडाकिनीपिशाचप्रेतविकारानयं धूपः ॥७९७॥
सोमं सानुचरं देवं समातृगणमीश्वरम्
पूजयन्प्रयतः शीघ्रं मुच्यते विषमज्वरात् ॥७९८॥
विष्णुं सहस्त्रमूर्द्धानं चराचरपतिं विभुम्
स्तुवन्नामसहस्त्रेण ज्वरान्सर्वान्व्यपोहति ॥७९९॥
तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः
श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः ॥८००॥
इति विषमज्वराधिकारः समाप्तः
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ॥८०१॥
रसस्थे तु ज्वरे तस्मिन् कुर्याद्वमनलङ्घने ॥८०२॥
रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ
प्रलापः पिडिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ॥८०३॥
सेकः संशमनो लेपो रक्तमोक्षमसृग्गते ॥८०४॥
पिण्डकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ॥८०५॥
तीक्ष्णं विरेकञ्च तथा कुर्यान्मांसगते ज्वरे ॥८०६॥
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ॥८०७॥
मेदःस्थे मेदसो नाशं विदधीत चिकित्सकः ॥८०८॥
भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दिरेव च
विक्षेपणञ्च गात्राणां विद्यादस्थिगते ज्वरे ॥८०९॥
अस्थिस्थे तु ज्वरे कुर्याद् वातनाशनकं विधिम्
वस्तिकर्म प्रयोक्तव्यमभ्यङ्गोन्मर्दनं तथा ॥८१०॥
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ॥८११॥
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ॥८१२॥
इति सप्तधातुगतज्वराधिकार समाप्तः
अथ जीर्णज्वराधिकारः
यो द्वादशेभ्यो दिवसेभ्य ऊर्द्ध्वं दोषत्रयेभ्यो द्विगुणेभ्य ऊर्द्ध्वम्
नृणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णः ॥८१३॥
नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेणसिद्ध्य्ति
स्तब्धाङ्गःश्लेष्मभूयिष्ठो नरो वातबलासकी ॥८१४॥
जीर्णज्वरी नरः कुर्यान्नोपवासं कदाचन
लङ्घनात्स भवेत्क्षीणो ज्वरस्तु स्याद्बली यतः
पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा
लङ्घयेत्तत्र तत्पश्चात् पूर्वामेवाचरेत्क्रियाम् ॥८१५॥
निदिग्धकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम्
जीर्णज्वरारोचककासशूल श्वासाग्निमान्द्यार्दितपीनसेषु ॥८१६॥
हन्त्यूर्द्ध्वजामयं प्रायः सायन्तेनोपयुज्यते ॥८१७॥
पिप्पलीमधुसंयुक्तः क्वाथश्छिन्नोद्भवोद्भवः
जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथ वा
अमृतायाः कषायन्तु शीतलीकृतमीरितम्
मधुपादयुतं पीतं जीर्णज्वरहरं परम्
पिप्पलीमधुसम्मिश्रं गुडूचीस्वरसं पिबेत्
जीर्णज्वरकफप्लीह कासारोचकनाशनम् ॥८१८॥
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली
कासाजीर्णारुचिश्वासहृत्पाण्डु कृमिरोगनुत्
द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ॥८१९॥
पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी
श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा ॥८२०॥
आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा ॥८२१॥
चूर्णितोऽय गणो ज्ञेयः सर्वज्वरहरः परः
भेदी रुचिकरः श्लेष्महन्ता दीपनपाचनः ॥८२२॥
द्रा क्षाऽमृता शटी शृङ्गी मुस्तकं रक्तचन्दनम्
नागरं कटुका पाठा भूनिम्बः सदुरालभः ॥८२३॥
उशीरं धान्यकं पद्मं बालकं कण्टकारिका
पुष्करं पिचुमन्दश्च दशाष्टाङ्गमिदं स्मृतम्
जीर्णज्वरारुचिश्वास कासश्वयथुनाशनम् ॥८२४॥
त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याऽथवाऽपि वा
गव्यक्षीरेण सम्पिष्टाः पिबेद्दशदिनानि हि ॥८२५॥
तथैवापनयेदेता एवं विंशतिवासरान्
पिबतां ज्वरशान्तिः स्यात् पाण्डुरोगश्च शाम्यति ॥८२६॥
कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति ॥८२७॥
वातश्लेष्मज्वरोक्ता स्यात् क्रियावातबलासके
जीर्णज्वरे कफे क्षीणे दाहे तृष्णासमन्विते ॥८२८॥
पयः पीयूषसदृशं तन्नवे तु विषोपमम्
चन्दनाद्यं हितं तैलं शोषाधिकारकीर्त्तितम्
तथा नारायणं तैलं जीर्णज्वरहरं परम् ॥८२९॥
इति जीर्णज्वराधिकारः समाप्तः
हरीतकी निम्बपत्रं नागरं सैन्धवोऽनलः
एषां चूर्णं सदा खादेद् दुर्जलज्वरशान्तये ॥८३०॥
अरुचिमनलमान्द्यं पीनसश्वासकासानुदरमुदकदोषानाशु हन्यादशेषान्
जनयति तनुकान्तिं चित्तनेत्रप्रसादं पलपरिमितशुण्ठीक्षौद्र सिद्धः कषायः ॥८३१॥
विषं भागद्वयं दग्धं कपर्दं पञ्चभागकम्
मरिचं नागरञ्चैव चूर्णं वस्त्रेण शोधयेत् ॥८३२॥
आर्द्र कस्य रसेनास्य कुर्यान्मुद्गनिभां वटीम्
वारिणा वटिकायुग्मं प्रातः सायञ्च भक्षयेत् ॥८३३॥
अयं रसो ज्वरे योज्यः सामे दुर्जलजेऽपि च
अजीर्णाध्मानविष्टम्भ शूलेषु श्वासकासयोः ॥८३४॥
पटोलमुस्ताऽमृतवल्लिवासकं सनागरं धान्यकिराततिक्तकम्
कषायमेषां मधुना पिबेन्नरो निवारयेद् दुर्जलदोषमुल्बणम् ॥८३५॥
किराततिक्तात्रिबृदम्बुपिप्पली विडङ्गविश्वाकटुरोहिणीरजः
निहन्ति लीढं मधुनाऽतिसत्वरं सुदुस्तरं दुर्जलदोषजं ज्वरम् ॥८३६॥
भोजनाग्रे नरैर्भुक्तं शुण्ठ्यजाज्यभयोत्थितम्
कल्कन्तु सेवितं नित्यं नानादेशोद्भवं जलम् ॥८३७॥
सहार्द्र कयवक्षारौ पीत्वा कोष्णेन वारिणा
नानादेशसमुद्भूतं वारिदोषमपोहति ॥८३८॥
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः ॥८३९॥
श्वासो मूर्च्छाऽरुचिश्छर्दिस्तृष्णाऽतीसारविड्ग्रहाः
हिक्काकासाङ्गदाहाश्च ज्वरस्योपद्र वा दश ॥८४०॥
सञ्जातोपद्र वो व्याधिस्त्याज्यो न स्याच्चिकित्सकैः
व्याधौ शान्ते प्रणश्यन्ति सद्यःसर्वेऽप्युपद्र वाः ॥८४१॥
अतो व्याधिं जयेद्यत्नात् पूर्वं पश्चादुपद्र वान्
भिषग् यःकुशलः सोऽत्र जयेत्पूर्वमुपद्र वम् ॥८४२॥
तेष्वपि प्रचुरेषु प्राङ् नाशयेदाशुकारिणाम्
मूलव्याधिं जयेत्पूर्वं यत्र यो वा भवेद्बली
अविरोधेन कार्या तदुभयोरपि च क्रिया ॥८४३॥
सिंही व्याघ्री ताम्रमूली पटोली शृङ्गी पद्मा पुष्करं रोहिणी च
शाकं शठ्याः शैलमल्ल्याश्च बीजं श्वासं हन्यात्सन्निपातं दशाङ्गः ॥८४४॥
भार्गीनिम्बघनाभयाऽमृतलताभूनिम्बवासाविषात्रातयन्ती कटुकावचात्रिकटुकश्योनाकशक्रद्रुमैः ॥८४५॥
रास्नायासपटोलपाटलशटीदार्वीविशालत्रिवृद्ब्राह्मीपुष्करसिंहिकाद्वयनिशाधात्र्यक्षदेवद्रुमैः क्वाथोऽय खलु सन्निपातनिवहान्द्वात्रिंशतां पानतो दुर्द्धर्षान्निजतेजसा विजयते सर्पान्गरुत्मानिव किञ्च श्वासवलासकासगुदरुग्घृद्रो गहिक्कामरुन् मन्यास्तम्भगलामयार्दितमलावष्टम्भब्रध्नानपि ॥८४६॥
मधुना कृष्णाकट्फलकर्कटशृङ्गीभवं चूर्णम्
श्वासामये महोग्रे लीढ्वा लोकः सुखी भवति ॥८४७॥
वन्योपलाग्नितापितदात्रस्याग्रेण पञ्जरे दाहः
अपहरति श्वासामयमसंशयं भाषितं मुनिभिः ॥८४८॥
आर्द्र कस्य रसैर्नस्यं मूर्च्छायामाचरेन्नरः
अञ्जनञ्च प्रयुञ्जीत मधुसिन्धुशिलोषणैः ॥८४९॥
शीताम्भसाऽक्षिसेकः सुरभिर्धूपः सुगन्धि पुष्पञ्च
मृदुतालवृन्तवातः कोमलकदली दल स्पर्शः ॥८५०॥
अरुचौ तु शृङ्गबेरजरसकैः सोष्णैः ससिन्धुजैः कवलः
सिन्धूत्थमातुलुङ्गीफलकेसरधारणं वक्त्रे ॥८५१॥
क्वाथो गुडूच्याः समधुः सुशीतः पीतः प्रशान्तिं वमनस्य कुर्यात्
विण्मक्षिकाणां मधुनाऽवलीढा सचन्दना शर्करयाऽन्विता वा ॥८५२॥
दन्तशठबीजपूरकदाडिमबदरैः सचुक्रकैर्वदने
लेपो जयति पिपासामथ रजतगुटी मुखान्तःस्था ॥८५३॥
शीतं पयः क्षौद्र युतं निपीतमाकण्ठमाश्वेव तदुद्वमेच्च
तर्षं महान्तं शमयेद्धि वक्त्रे धृत्वाऽथवा क्षौद्र वटाग्रलाजान् ॥८५४॥
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
समुदीर्णदोषनिचयं शमयति तत्पाचयेदपि च ॥८५५॥
वत्सादनीवत्सकवारिवाह विश्वम्भरानिम्बविषाः सविश्वाः
ज्वरेऽतिसारं त्वरितं जयन्ति विश्वाऽमृतावत्सकवारिवाहाः ॥८५६॥
पाठाऽमृतापर्पटमुस्तविश्व किराततिक्तेन्द्र यवान्विपाच्य
पिबन्हरत्येव हठेन सर्वाञ्ज्वरातिसारानपि दुर्निवारान् ॥८५७॥
विड्ग्रहे वातजित्कर्म कुर्यादत्रानुलोमनम्
मलं प्रवर्त्तयेदाशु तीक्ष्णाभिः फलवर्त्तिभिः ॥८५८॥
पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम्
जीर्णज्वरे विबंधे दद्यादश्वेव विड्ग्रहः शाम्येत् ॥८५९॥
नीरेण सिन्धूत्थरजोऽतिसूक्ष्मं नस्येन नूनं विनिहन्ति हिक्काम्
शुण्ठी हठाद्वा सितया समेता धूपोऽथवा हिङ्गुसमुद्भवश्च ॥८६०॥
कासे कणा कणामूलं कलिङ्गद्रुफलं रजः
सविश्वभेषजं लिह्यान्मधुना वा वृषाद्र सम् ॥८६१॥
पुष्करमूलकटुत्रिकशृङ्गी कट्फलयासककारविकाभिः
मधुलुलिताभिरयं खलु लेहः कासरिपुः कफरोगहरश्च ॥८६२॥
दाहाधिकारे लिखितं दाहे कुर्याच्चिकित्सितम्
परं ज्वरे विरुद्धं यन्नोचितं तच्चिकित्सितम् ॥८६३॥
सन्तापोऽभ्यधिको बाह्यस्तृष्णाऽदीनां च मार्दवम्
बहिर्बेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥८६४॥
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्
प्राकृतः सुखसाध्यस्तु ज्वरः सुरभिसम्भवः ॥८६५॥
वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः ॥८६६॥
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्
कुर्यात्पित्तञ्चशरदि तस्य चानुबलः कफः ॥८६७॥
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्
कफो वसन्ते तमपि वातपित्तं भवेदनु ॥८६८॥
अन्तर्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः
अन्तर्वेगस्य लिङ्गानि कष्टसाध्यत्वमेव च ॥८६९॥
ज्वरः क्षीणस्य शूनस्य गम्भीरो दीर्घरात्रिकः
असाध्यो बलवान्यश्च केशसीमन्तकृज्ज्वरः ॥८७०॥
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया
आनद्धत्वेन चात्यर्थं कासश्वासोद्गमेन च ॥८७१॥
ज्वरस्य पूर्वं ज्वरमध्यतो वा ज्वरान्ततो वा श्रुतिमूलशोथः
क्रमादसाध्यः खलु कृच्छ्रसाध्यः सुखेन साध्यो मुनिभिः प्रदिष्टः ॥८७२॥
रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते ॥८७३॥
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रि यनाशनः ॥८७४॥
विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ॥८७५॥
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान्
वक्त्रेण चवोच्छ्वसिति तं ज्वरो हन्ति मानवम् ॥८७६॥
हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम्
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ॥८७७॥
हतप्रभेन्द्रि यं क्षाममरोचकनिपीडितम्
गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्जयेत् ॥८७८॥
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ॥८७९॥
आरम्भाद्विषमो यस्य यस्य वा दीर्घरात्रिकः
क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम् ॥८८०॥
इति प्रथमो ज्वराधिकारः समाप्तः

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP