अथ चतुर्थं बालप्रकरणम्

अथ बाले समुत्पन्ने विदधीत विधिं तथा
यथैव कुलवृद्धस्त्रीव्यवहारपरम्परा ॥१॥
प्रसूता हितमाहारं विहारं च समाचरेत्
व्यायामं मैथुनं क्रोधं शीतसेवां विवर्जयेत् ॥२॥
मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत् ॥३॥
सर्वतः परिशुद्धा स्यात्स्निग्धपथ्याऽल्पभोजना
स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता ॥४॥
प्रसूता सार्धमासान्ते दृष्टे वा पुनरार्त्तवे
सूतिकानामहीना स्यादिति धन्वन्तरेर्मतम् ॥५॥
व्युपद्र वां विशुद्धां च विज्ञाय वरवर्णिनीम्
ऊर्ध्वं चतुर्भ्यो मासेभ्यो नियमं परिहारयेत् ॥६॥
रसप्रसादो मधुरः पक्वाहारनिमित्तजः
कृत्स्नाद्देहात्स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ॥७॥
स्तन्यं त्रिरात्रात्स्त्रीणां वा चतूरात्रादनन्तरम्
प्रवर्त्तयन्ति विवृता धमन्यो हृदये स्थिताः ॥८॥
पयः पुत्रस्य संस्पर्शाद्दर्शनात्स्मरणादपि
ग्रहणादप्युरोजस्य शुक्रवत्सम्प्रवर्त्तते
स्नेहो निरन्तरस्तस्य प्रवाहे हेतुरुच्यते ॥९॥
अवात्सल्याद्भयाच्छोकात्क्रोधादत्यपतर्पणात्
स्त्रीणां स्तन्यं भवेत्स्वल्पं गर्भान्तरविधारणात् ॥१०॥
शालिषष्टिकगोधूमान्मांसक्षुद्र झषानपि
कालशाकमलाबूं च नारिकेलं कसेरुकम् ॥११॥
शृङ्गाटकं वरीं चापि विदारीकन्दमेव च
लशुनं दुग्धवृद्धयै स्त्री सेवेत सुमना भवेत् ॥१२॥
कलमस्य तण्डुलानां कल्कं या क्षीरपेषितं पिबति
सा भवति भृशं तरुणी क्षीरभरेणैव तुङ्गकुचयुगला ॥१३॥
कलमः कलिविख्यातो जायते स बृहद्ध्रदे
काश्मीरदेश एवोक्तो महातण्डुलसंज्ञकः ॥१४॥
विदारिकन्दस्य रसं पिबेत्स्तन्यस्य वृद्धये
तच्चूर्णं तस्य वृर्द्ध्य्थं पिबेद्वा क्षीरसंयुतम् ॥१५॥
धात्र्या गुरुभिराहारैर्विहारैर्दोषलैस्तथा
देहे दोषाः प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥१६॥
मिथ्याऽहारविहारिण्या दुष्टा वातादयः स्त्रियाः
दूषयन्ति पयस्तेन शरीरं व्याधयः शिशोः ॥१७॥
कषायं सलिलप्लावि स्तन्यं मारुतदूषितम्
पित्तादम्लं च कटुकं राज्योऽम्भसि तु पीतिकाः ॥१८॥
कफदुष्टं तु यत्तोये निमज्जति च पिच्छिलम्
द्वन्द्वजं तु द्विलिङ्गं स्यात्त्रिलिङ्गं सान्निपातिकम् ॥१९॥
धात्री क्षीरविशुर्द्ध्य्थं मुद्गयूषरसाशिनी
भार्ङ्गीदारुवचाः पिष्ट्वा पिबेत्साऽतिविषास्तथा ॥२०॥
पाठामूर्वाऽब्दभूनिम्बदारुशुण्ठीकलिङ्गकैः
सारिवामत्स्यपित्ताऽख्यै क्वाथः स्तन्यविशोधनः ॥२१॥
पटोलनिम्बासनदारुपाठा मूर्वां गुडूचीं कटुरोहिणीं च
सनागरां च क्वथितां च तोये धात्री पिबेत्स्तन्यविशुद्धिहेतोः ॥२२॥
नीरे स्यन्यं यदेकि स्वादविवर्णमतन्तुमत्
पाण्डुरं तनु शीतं च तद्दुग्धं शुंद्धमादिशेत् ॥२३॥
पीताय यदि बालस्य विदध्यादुपमातरम्
सुविचार्य गुणान्दोषान्कुर्याद्धात्रीं तदेदृशीम् ॥२४॥
सवर्णां मध्यवयसां सच्छीलां मुदितां सदा
शुद्धदुग्धां बहुक्षीरां सवत्सामतिवत्सलाम् ॥२५॥
स्वाधीनामल्पसन्तुष्टां कुलीनां सज्जनात्मजाम्
कैतवेन परित्यक्तां निजपुत्रशदृशं शिशौ ॥२६॥
शोकाकुलाक्षु धार्ता च श्रान्ता व्याधिमती सदा
अत्युच्चा नितरां नीचा स्थूलातीव भृशं कृशा ॥२७॥
गर्भिणी ज्वरिणी चापि लम्बोन्नतपयोधरा
अजीर्णभोजिनी चापि तथा पथ्यविवर्जिता ॥२८॥
आसक्ता क्षुद्र कार्येषु दुःखार्ता चञ्चलाऽपि च
एतासां स्तन्यपानेन शिशुर्भवति सामयः ॥२९॥
तत्र माता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी
उपविश्यासने सम्यग्दक्षिणं स्तनमम्बुना ॥२९॥
प्रक्षाल्येषत्परिस्राव्य मन्त्राभ्यामभिमन्त्रितम्
उदङ्मुखं शिशुं क्रोडे शनैः सन्धाय पाययेत् ॥३१॥
अस्रावितं स्तनं बालः पिबन्स्तन्येन भूयसा
पूर्णस्रोता वमीकासश्वासैर्भवति पीडितः ॥३२॥
क्षीरनीरनिधिस्तेऽस्तु स्तनयोः क्षीरपूरकः
सदैव सुभगो बालो भवत्वेष महाबलः ॥३३॥
पयोऽमृतसमं पीत्वा कुमारस्ते शुभानने
दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा ॥३४॥
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा
दद्यादास्तन्यपर्याप्तेर्बालेभ्यो वीक्ष्य मात्रया ॥३५॥
यथोक्तविधिना बालं मासि षष्ठेऽष्टमेऽपि च
अन्नं सम्प्राशयेत्किञ्चित्ततस्तद्वर्धयेत्क्रमात् ॥३६॥
बालमङ्के सुखं दध्यान्न चैनं तर्जयेत्क्वचित्
सहसा बोधये न्नैव नायोग्यमुपवेशयेत् ॥३७॥
नाकृष्य स्थापयेत्क्रोडे न क्षिप्रं शयने क्षिपेत्
रोदयेन्न क्वचित्कार्ये विधिमावश्यकं विना ॥३८॥
तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत्
वारतपतडिद्वृष्टिधूमानलजलादितः
निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः ॥३९॥
अभ्यङ्गोद्वर्त्तन स्नानं नेत्रयोरञ्जनं तथा
वसनं मृदु यत्तच्च तथा मृद्वनुलेपनम्
जन्मप्रभृति पथ्यानि बालस्यैतानि सर्वथा ॥४०॥
कवलः पञ्चमाद्वर्षादष्टमान्नस्यकर्म च
विरेकः षोडशाद्वर्षाद्विंशतेश्चैव मैथुनम् ॥४१॥
वयस्तु त्रिविधं बाल्यं मध्यमं वार्धकं तथा
ऊनषोडशवर्षस्तु नरो बालो निगद्यते ॥४२॥
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथाऽन्नभुक्
दुग्धाशी वर्षपर्यन्तं दुग्धान्नाशी शरद्द्वयम् ॥४३॥
तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः
मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः ॥४४॥
चतुर्धा मध्यमं वृद्धियुवपूर्णक्षयान्वितम्
भवेदाविंशतेर्वृद्धिर्युवा त्वान्त्रिंशतो मतः ॥४५॥
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्यादिपूरितः
ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ॥४५॥
ततस्तु सप्ततेरूर्ध्वं क्षीणधातुरसादिकः
क्षीयमाणेन्द्रि यबलः क्षीणरेता दिने दिने ॥४७॥
बलीपलितखालित्ययुक्तः कर्मसु चाक्षमः
कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ॥४८॥
बाल्ये विवर्धते श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम्
वार्धके वर्द्धते वायुर्विचार्यैतदुपक्रमेत् ॥४९॥
बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ
बुद्धिः कर्मेन्द्रि यं चेतो जीवितं दशतो ह्रसेत् ॥५०॥
सप्त प्रकृतयो नॄणां वातात्पित्तात्कफात्तथा
संसर्गात्सन्निपाताच्च भवन्ति भिषजां मते ॥५१॥
शुक्रशोणितसंयोगे यो दोषस्तूत्कटो भवेत्
प्रकृतिर्जायते तेन तस्या लक्षणमुच्यते ॥५२॥
शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयार्त्तिषु
यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता ॥५३॥
जागरूकोऽल्पकेशश्च स्फुटितांघ्रिकरः कृशः
शीघ्रगो बहुवाग्रूक्षः स्वप्ने वियति गच्छति
एवंविधः स विज्ञेयो वातप्रकृतिको नरः ॥५४॥
पित्तप्रकृतिको लोको यादृशोऽथ निगद्यते
अकालपलितो गौरः क्रोधी स्वेदी च बुद्धिमान् ॥५५॥
बहुभुक्ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति
एवंविधो भवेद्यस्तु पित्तप्रकृतिको नरः ॥५६॥
श्यामकेशः क्षमी स्थूलो बहुवीर्यो महाबलः
स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः ॥५७॥
दृश्यते प्रकृतौ यत्र रूपं दोषद्वयस्य तु
द्विसंसर्गेण जानीयात्सर्वलिङ्गैस्त्रिदोषजम् ॥५८॥
विभुत्वादाशुकारित्वाद्वलित्वादन्यकोपनात्
स्वातन्त्र्याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः ॥५९॥
प्रायोऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधूसरकेशगात्राः
शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टासौहार्ददृष्टिगतयोऽतिबहुप्रलापाः ॥६१॥
अल्पपित्तबलजीवितनिद्राः सन्नसक्तचलजर्जरवाचः
नास्तिका बहुभुजः सविलासा गीतहास्यमृगयाकलिलोलाः ॥६१॥
मधुराम्लपटूष्णसात्म्यकांक्षाः कृशदीर्घाकृतयः सशब्दयाताः
न दृढा न जितेन्द्रि या न चार्या न च कान्तादयिता बहुप्रजा वा ॥६२॥
नेत्राणि चैषां खरधूसराणि वृत्तान्यचारूणि मृतोपमानि
उन्मीलितानीव भवन्ति सुप्ते शैलद्रुमांस्ते गगनं च यान्ति ॥६३॥
अधन्या मत्सराध्माताः स्तेना प्रोद्बद्धपिण्डिकाः
श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः ॥६४॥
पित्तं वह्निर्वह्निजं वा यदस्मात्पित्तोद्रि क्तस्तीक्ष्णतृष्णाबुभुक्षः
गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्त्रः शूरो मानी पिङ्गकेशोऽल्परोमा ॥६५॥
दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः
विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि ॥६६॥
मेधावी प्रशिथिलसन्धिबन्धमांसो नारीणामनभिमतोऽल्पशुक्रकामः
आवासः पलिततरंगनीलिकानां भुक्तान्नं मधुरकषायतिक्तशीतम् ॥६७॥
धर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः
सुप्तं पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च ॥६८॥
तनूनि पिङ्गानि चलानि चैषां तन्वल्पपक्ष्माणि हिमप्रियाणि
क्रोधेन मद्येन रवेश्च भासा रागं व्रजन्त्याशु विलोचनानि ॥६९॥
मध्यायुषो मध्यबलाः पण्डिताः क्लेशभीरवः
व्याघ्रर्क्षकपिमार्जारवृकानूकाश्च पैत्तिकाः ॥७०॥
श्लेष्मा सोमं श्लेष्मलस्तेन सौम्यो गूढस्निग्धश्लिष्टसन्ध्यस्थिमांसः
क्षुत्तृड्दुःखक्लेशधर्मैरतप्तो बुद्ध्या युक्तः सात्त्विकः सत्यसन्धः ॥७१॥
प्रियंगुदूर्वाशरकाण्डदर्भगोरोचनापद्मसुवर्णवर्णः
प्रलम्बबाहुः पृथुपीनवक्षा महाललाटो घननीलकेशः ॥७२॥
मृद्वङ्गः समसुविभक्तचारुदेहो बह्वोजोरतिरसशुक्रपुत्रभृत्यः
धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम् ॥७३॥
समदद्विरदेन्द्र तुल्ययातो जलदाम्भोधिमृदङ्गसिंहघोषः
स्मृतिमानभियोगवान्विनीतो न च बाल्येऽप्यतिरोदनो न लोलः ॥७५॥
तिक्तं कषायं कटुकोष्णरूक्षमल्पं स भुंक्ते बलवांस्तथाऽपि
रक्तान्तसुस्निग्धविशालदीर्घसुव्यक्तशुक्लासितपक्ष्मलाक्षः ॥७५॥
अल्पव्याहारक्रोधपानाशनेर्ष्यः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः
श्राद्धो गम्भीरः स्थूललक्ष्यः क्षमावानार्योनिद्रा लुर्दीर्घसूत्रः कृतज्ञः ॥७६॥
ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां स्थिरसौहृदश्च
स्वप्ने सपद्मान्सविहङ्गमालांस्तोयाशयान्पश्यति तोयदांश्च ॥७७॥
ब्रह्मरुद्रे न्द्र वरुणतार्क्ष्यहंसगजाधिपैः
श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः ॥७८॥
विषजातो यथा कीटो न विषेण प्रबाध्यते
तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम् ॥७९॥
प्रकोपो वाऽन्यभावो वा शमो वा नोपजायते
प्रकृतीनां स्वभावेन जायते तु गतायुषः ॥८०॥

इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते
भावप्रकाशे बालप्रकरणं चतुर्थम् ॥४॥
==
अथ पञ्चमं दिनचर्यादिप्रकरणम्
भूमिदेशस्त्रिधाऽनूपो जांगलो मिश्रलक्षणः ॥१॥
नदीपल्वलशैलाढ्यः फुल्लोत्पलकुलैर्युतः
हंससारसकारंडचक्रवाकादिसेवितः ॥२॥
शशवाराहमहिषरुरुरोहिकुलाकुलः
प्रभूतद्रुमपुष्पाढ्यो नीलशस्यफलान्वितः ॥३॥
अनेकशालिकेदारकदलीक्षुविभूषितः
अनूपदेशो ज्ञातव्यो वातश्लेष्मामयार्त्तिमान् ॥४॥
आकाशसम उच्चश्च स्वल्पपानीयपादपः
शमीकरीरबिल्वार्कपीलुकर्कंधुसङ्कुलः ॥५॥
हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः
सुस्वादुफलवान्देशो वातलो जाङ्गलः स्मृतः ॥६॥
बहूदकनगोऽनूपः कफमारुतरोगवान्
जाङ्गलोऽल्पाम्बुशाखी च पित्तासृङ्मारुतोत्तरः ॥७॥
संसृष्टलक्षणो यस्तु देशः साधारणो मतः
समाः सधारणे यस्माच्छीतवर्षोष्णमारुताः
समता तेन दोषाणां तस्मात्साधारणो वरः ॥८॥
उचिते वर्तमानस्य नास्ति दुर्देशजं भयम्
आहारस्वप्नचेष्टाऽदौ तद्देशस्य कृते सति ॥९॥
यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम्
देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम् ॥१०॥
स्वे देशेनिचिता दोषा अन्यस्मिन्कोपमागताः
बलवन्तस्तथा न स्युर्जलजाः स्थलजास्तथा ॥११॥
मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा
तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् ॥१२॥
दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम्
आचरन्पुरुषः स्वस्थः सदा तिष्ठति नान्यथा ॥१३॥
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते ॥१४॥
ब्राह्मे मुहूर्ते बुध्येत स्वस्थो रक्षाऽथमायुषः
तत्र सर्वाघशान्त्यर्थं स्मरेद्धि मधुसूदनम् ॥१५॥
दध्याज्यादर्शसिद्धार्थं बिल्वगोरोचनस्रजाम्
दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम् ॥१६॥
स्वमाननं घृते पश्येद् यदीच्छेच्चिरजीवितम्
आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम्
तदन्त्रकूजनाध्मानोदरगौरववारणम् ॥१७॥
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ॥१८॥
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्येरोगाः स्युर्वातनिग्रहात् ॥१९॥
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्यालिङ्गं मूत्रनिग्रहे ॥२०॥
न वेगितोऽन्यकार्यः स्यान्न वेगानीरयेद्बलात्
कामशोकभयक्रोधान्मनोवेगान्विधारयेत् ॥२१॥
गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम्
पवित्रकरमाख्यातमलक्ष्मीकलिपापहृत् ॥२२॥
प्रक्षालनं मतं पाण्योः पादयोः शुद्धिकारणम्
मलश्रमहरं वृष्यं चक्षुष्यं राजसापहम् ॥२३॥
भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम्
कनिष्ठिकाऽग्रवत्स्थूलमृज्वग्रन्थिं तथाऽव्रणम् ॥२४॥
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् ॥२५॥
क्षौद्र त्रिकटुकाक्तेन तैलसिन्धुभवेन वा
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् ॥२६॥
मधुको मधुरे श्रेष्ठः करञ्जः कटुके तथा
निम्बः स्यात्तिक्तके श्रेष्ठः कषाये खदिरस्तथा ॥२७॥
समयं तु समालोक्य दोषं च प्रकृतिं तथा
यथोचितै रसैर्वीर्यैर्युक्तं द्र व्यं प्रयोजयेत् ॥२८॥
तेनास्य मुखवैरस्यदन्तजिह्वाऽस्यजा गदाः
रुचिवैशद्यलघुता न भवन्ति भवन्ति च ॥२९॥
अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत्
प्लक्षे चैवार्थसम्पत्तिर्वैदर्यां मधुरोध्वनिः ॥२९॥
खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम्
उदुम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च ॥३१॥
कदम्बे तु धृतिर्मेधा चम्पके च दृढा मतिः
शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च ॥३२॥
अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथाऽसने
दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा ॥३३॥
जातीतगरमन्दारैर्दुःस्वप्नं च विनश्यति ॥३४॥
गुर्वाकस्तालहिन्तालौ केतकश्च बृहत्तृणः
खर्जूरं नारिकेलं च सप्तैते तृणराजकाः ॥३५॥
तृणराजसमुत्पन्नं यः कुर्याद्दन्तधावनम्
नरश्चाण्डालयोनिः स्याद्यावद्गङ्गां न पश्यति ॥३६॥
न खादेद्गलताल्वोष्ठजिह्वादन्तगदेषु तत्
मुखस्य पाके शोथे च श्वासकासवमीषु च ॥३७॥
दुर्बलोऽजीर्णभुक्तश्च हिक्कामूर्च्छामदान्वितः
शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः ॥३८॥
अर्दितः कर्णशूली च नेत्ररोगी नवज्वरी
वर्जयेद्दन्तकाष्ठं तु हृदामययुतोऽपि च ॥३९॥
जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा
पाटितं मृदु तत्काष्ठं मृदुपत्रमयं तथा ॥४०॥
दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत्सुखम्
तज्जिह्वामलवैरस्यदुर्गन्धजडताहरम् ॥४१॥
गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः
कफतृष्णामलहरं मुखान्तःशुद्धिकारकम् ॥४२॥
सुखोष्णोदकगण्डूषः कफारुचिमलापहः
दन्तजाड्यहरश्चापि मुखलाघवकारकः ॥४३॥
विषमूर्च्छामदार्त्तानां शोषिणां रक्तपित्तिनाम्
कुपिताक्षिमलक्षीणरूक्षाणां स न शस्यते ॥४४॥
मुखप्रक्षालनं शीतपयसा रक्तपित्तजित्
मुखस्य पिडिकाशोषनीलिकाव्यङ्गनाशनम् ॥४५॥
कुर्याद्वाऽपि कदुष्णेन पयसाऽस्यविशोधनम्
कफवातहरं स्निग्धं मुखशोषविनाशनम् ॥४५॥
कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत्
प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं समीरणे ॥४७॥
सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रि याः
निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः ॥४८॥
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्
लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने ॥४९॥
स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम्
दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम् ॥५०॥
अक्ष्णो रूपावहं चैव सहते मारुतातपौ
नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत् ॥५१॥
रात्रौ जागरितः श्रान्तश्छर्दितो भुक्तवांस्तथा
ज्वरातुरः शिरः स्नातो नाक्ष्णोरञ्जनमाचरेत् ॥५२॥
पञ्चरात्रान्नखश्मश्रुकेशरोमाणि कर्त्तयेत्
केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम्
पौष्टिकं धन्यमायुष्यं शौचकान्तिकरं परम् ॥५३॥
उत्पाटयेत्तु लोमानि नासाया न कदाचन
तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत् ॥५४॥
केशपाशे प्रकुर्वीत प्रसाधन्या प्रसाधनम्
केशप्रसाधनं केश्यं रजोजन्तुमलापहम् ॥५५।॥
आदर्शालोकनं प्रोक्तं मङ्गल्यं कान्तिकारम्
पौष्टिकं बल्यमायुष्यं पापालक्ष्मीविनाशनम् ॥५६॥
लाघवं कर्मसमर्थ्यं विभक्तघनगात्रता
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥५७॥
व्यायामदृढगात्रस्य व्याधिर्नास्ति कदाचन
विरुद्धं वा विदग्धं वा भुक्तं शीघ्रं विपच्यते ॥५८॥
भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः
न चैवं सहसाऽक्रम्य जरा समधिरोहति ॥५९॥
न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षकम्
स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम् ॥६१॥
वसन्ते शीतसमये सुतरां स हितो मतः
अन्यदाऽपि च कर्त्तव्यो बलार्धेन यथा बलम् ॥६१॥
हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते
मुखं च शोषं लभते तद्बलार्धस्य लक्षणम् ॥६२॥
किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः
यदा सञ्जायते स्वेदो बलार्धं तु तदादिशेत् ॥६३॥
भुक्तवान्कृतसम्भोगः कासी श्वासी कृशः क्षयी
रक्तपित्ती क्षती शोषी न तं कुर्यात्कदाचन ॥६४॥
अतिव्यायामतः कासो ज्वरश्छर्दिं श्रमः क्लमः
तृष्णा क्षयः प्रतमको रक्तपित्तं च जायते ॥६५॥
अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम्
शिरः श्रवणपादेषु तं विशेषेण शीलयेत् ॥६६॥
सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम्
अन्यद्र व्ययुतं तैलं न दुष्यति कदाचन ॥६७॥
अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम्
निद्रा वर्णमृदुत्वायुष्कुरुते देहपुष्टिकृत् ॥६८॥
अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रि यतर्पकः
दृष्टितुष्टिकरो हन्ति शिरोभूमिगतान्गदान् ॥६९॥
केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा
कृष्णतां कुरुते कुर्याच्छिरसःपूर्णतामपि ॥७०॥
न कर्णरोगा न मलं न च मन्याहनुग्रहः
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात् ॥७१॥
रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ॥७२॥
पादाभ्यङ्गश्च तत्स्थैर्यनिद्रा दृष्टिप्रसादकृत्
पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत् ॥७३॥
व्यायामक्षुण्णवपुषं पद्भ्यां सम्मर्दितं तथा
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥७५॥
लोमकूपशिराजालधमनीभिः कलेवरे
तर्पयेद्बलमाधत्ते स्नेहयुक्तेऽवगाहने ॥७५॥
अद्भिः संसिक्तमूलानां तरूणां पल्लवादयः
वर्द्धन्ते हि तथा नॄणां स्नेहसंसिक्तधातवः ॥७६॥
नवज्वरी अजीर्णी च नाभ्यक्तव्यः कथञ्चन
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः ॥७७॥
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा
शेषाणां च त्विह प्रोक्ता वह्निसादादयो गदाः ॥७८॥
उद्वर्त्तनं कफहरं मेदोघ्नं शुक्रदं परम्
बल्यं शोणितकृच्चापि त्वक्प्रसादमृदुत्वकृत् ॥७९॥
मुखलेपादृढं चक्षुः पीनो गण्डस्तथाऽननम्
कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम् ॥८०॥
दीपनंवृष्यमायुष्यं स्नानमोजोबलप्रदम्
कण्डूमलश्रमस्वेदतन्द्रा तृड्दाहपाप्मनुत् ॥८१॥
बाह्यैश्च सेकैः शीताद्यैरूष्माऽन्तर्याति पीडितः
नरस्य स्नानमात्रस्य दीप्यते तेन पावकः ॥८२॥
शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत्
तदेवोष्णेन तोयेन बल्यं वातकफापहम् ॥८३॥
शिरः स्नानमचक्षुष्यमत्युष्णेनाग्बुना सदा
वातश्लेष्मप्रकोपे तु हितं तच्च प्रकीर्त्तितम् ॥८४॥
अशीतेनाम्भसा स्नानं पयःपानं नवाःस्त्रियः
एतद्वो मानवाः पथ्यं स्निग्धमल्पं च भोजनम् ॥८५॥
यः सदाऽमलकैः स्नानं करोति स विनिश्चितम्
बलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः ॥८६॥
स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्तिषु
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ॥८७॥
स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम्
कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम् ॥८८॥
कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च
वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ॥८९॥
मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते
तद्धारयेदुष्णकाले तत्रापि लघु शस्यते ॥९०॥
शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम्
न चोष्णं न च वा शीतं तत्तुवर्षासु धारयेत् ॥९१॥
यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्धनम्
त्वच्यं वशीकरं रुच्यं नवनिर्मलमम्बरम् ॥९२॥
कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम्
तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम् ॥९३॥
कुङ्कुमं चन्दनं चापि कृष्णागुरु च मिश्रितम्
उष्णं वातकफध्वंसि शीतकाले तदिष्यते ॥९४॥
चन्दनं घनसारेण बालकेन च मिश्रितम्
सुगन्धि परमं शीतमुष्णकाले प्रशस्यते ॥९५॥
चन्दनं घुसृणोपेतं मृगनाभिसमायुतम्
न चोष्णं न च वा शीतं वर्षाकाले तदिष्यते ॥९६॥
अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेददाहजित्
सौभाग्यतेजस्त्वग्वर्णप्रीत्यौजोबलवर्धनः
स स्नानानर्हलोकानाममुलेपोऽपि नो हितः ॥९७॥
सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम्
पापरक्षोग्रहहरं कामदं श्रीविवर्द्धनम् ॥९८॥
भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः
शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ॥९९॥
ग्रहदृष्टिहरं पुष्टिकरं दुःस्वप्ननाशनम्
पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥१००॥
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम्
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
र्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके ॥१०१॥
वासःशृङ्गाररत्नानां धारणं प्रीतिबर्धकम्
रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् ॥१०२॥
सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च
रोचनासर्षपादीनां मङ्गल्यानां च धारणम् ॥१०३॥
आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम्
हिंस्नादिभयविध्वंसि वशीकरणकारणम् ॥१०४॥
ततो भोजनवेलायां कुर्यान्मङ्गल्यदर्शनम्
तस्य प्रदर्शनं नित्यमायुर्धर्मविवर्धनम् ॥१०५॥
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः
पुष्पस्रक्सर्पिरादित्य आपो राजा तथाऽष्टमः ॥१०६॥
पादुकाधारणं कुर्यात्पूर्वं भोजनतः परम्
पादरोगहरं वृष्यं चक्षुष्यं चायुषो हितम् ॥१०७॥
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधः
बुभुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा ॥१०८॥
भोजनेच्छाविघातात्स्यादङ्गमर्दोऽरुचिः श्रमः
तन्द्रा लोचनदौर्बल्य धातुदाहो बलक्षयः ॥१०९॥
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत्
श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा ॥११०॥
निद्रा विघाततो जृम्भा शिरोलोचनगौरवम्
अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च ॥१११॥
बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात्
मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः ॥११२॥
आहारं पचति शिखी दोषानाहारवर्जितः
पचेद् दोषक्षये धातून्प्राणान्धातुक्षयेऽपि च ॥११३॥
आहारः प्रीणनः सद्यो बलकृद् देहधारणः
स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्धनः ॥११४॥
यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम्
विचार्य दोषकालादीन्कालयोरुभयोरपि ॥११५॥
सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम्
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥११६॥
याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत्
याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः ॥११७॥
क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः ॥११८॥
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ॥११९॥
आहारं तु रहः कुर्यान्निर्हारमपि सर्वदा
उभाभ्यां लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया ॥१२०॥
आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः ॥१२१॥
पितृमातृसुहृद्वैद्यपाककृद्धंसबर्हिणाम्
सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा ॥१२२॥
दीनहीनक्षुधाऽत्तानां पापपाषण्डरोगिणाम्
कुक्कुटादेः शुनो दृष्टिर्भोजने नैव शोभना ॥१२३॥
दोषहृद् दृष्टिदं पथ्यं हैमं भोजनभाजनम्
रौप्यं भवति चक्षुष्यं पित्तहृत्कफवातकृत् ॥१२४॥
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम्
पैत्तलं वातकृद्रू क्षमुष्णं कृमिकफप्रणुत् ॥१२५॥
आयसे काचपात्रे च भोजनं सिद्धिकारकम्
शोथपाण्डुहरं बल्यं कामलाऽपहमुत्तमम् ॥१२६॥
शैलेये मृण्मये पात्रे भोजनं श्रीनिवारणम्
दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत् ॥१२७॥
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम् ॥१२८॥
पवित्रं शीतलं पात्रं रचितं स्फटिकेन यत्
काचेन रचितं तद्वत्तथा वैदूर्यसम्भवम् ॥१२९॥
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥१२९॥
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः
इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न बाधते ॥१३०॥
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम्
दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम् ॥१३२॥
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् ॥१३३॥
फलान्यादौ समश्नीयाद्दाडिमादीनि बुद्धिमान्
विना मोचफलं तद्वद्वर्जनीया च कर्कटी ॥१३४॥
मृणालबिसशालूककन्देक्षुप्रभृतीनपि
पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन ॥१३५॥
गुरु पिष्टमयं द्र व्यं तण्डुलान्पृथुकानपि
न जातु भुक्तवान्खादेन्मात्रां खादेद्बुभुक्षितः ॥१३६॥
घृतपूर्वं समश्नीयात्कठिनं प्राक् ततो मृदु
अन्ते पुनर्द्र वाशी तु बलाद्रो गेण मुञ्चति ॥१३७॥
यद्यत्स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम्
भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम् ॥१३८॥
सौमनस्यं बलं पुष्टिमुत्साहं वृद्धिमायुषः
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ॥१३९॥
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम्
अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम् ॥१४०॥
अतिद्रुताशिताहारे गुणान्दोषान्न विन्दति
भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः ॥१४१॥
मन्दानलो नरो द्र व्यं मात्रागुरु विवर्जयेत्
स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु ॥१४२॥
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् ॥१४३॥
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च
भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम् ॥१४४॥
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
द्र वो द्र वोत्तरश्चापि न मात्रागुरुरिष्यते ॥१४५॥
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ॥१४५॥
शुष्कं निरुद्धं विष्टम्भि वह्निव्यापादकृद्भवेत् ॥१४७॥
न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून्
न जलान्तरितानद्भिः सक्तूनद्यान्न केवलान् ॥१४८॥
पुनर्दानं पृथक्पानं सामिषं पयसा निशि
सदन्तच्छेदमुष्णं च सप्त सक्तुषु वर्जयेत् ॥१४९॥
सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ॥१५०॥
यथाकालेऽतिमात्रं यत् तद्भवेद्विषमाशनम्
बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम् ॥१५१॥
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम्
हीनमात्रं तनोःकार्श्यं करोति च बलक्षयम् ॥१५२॥
अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः
तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति ॥१५३॥
कालेतीतेश्नतो जन्तोर्वायुनोपहतेऽनले
कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा ॥१५४॥
कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत्
वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत् ॥१५५॥
रसेनान्नस्य रसना प्रथमेनोपतर्पिता
न तथा स्वादमाप्नोति ततः शोध्याम्बुनान्तरा ॥१५६॥
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः
तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि ॥१५७॥
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत्
मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् ॥१५८॥
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः ॥१५९॥
तृषितस्तु न चाश्नीयात्क्षुधितो न पिबेज्जलम्
तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी ॥१६०॥
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् ॥१६१॥
दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्धनम्
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् ॥१६२॥
विदाहीन्यन्नपानानि यानि भुंङ्क्ते हि मानवः
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत् ॥१६३॥
कुर्यात्क्षीरान्तमाहारं न दध्यन्तं कदाचन
लवणाम्लकटूष्णानि विदाहीन्यत्ति यानि तु
तद्दोषं हर्तुमाहारं मधुरेण समापयेत् ॥१६४॥
बलवच्छत्रुविनाशनेन शत्रुहन्तुः क्षीणता च दृश्यते तथा च
नाशनात्प्रत्यनीकस्य स्वयं च क्षीयते यथा
वह्निसन्तप्तलोहस्य तप्ततां नाशयेज्जलम् ॥१६५॥
ननु भोजनावसानसमये प्रयुक्ताः कटुतिक्तकषायरसाः कफं
शमयिष्यन्ति वातस्य वृद्धिं विधास्यन्तीति चेतै तन्न
कट्वादीनां क्षीणशक्तित्वात् तथा च
यदेकं नाशयेद्दोषं तदन्यं वर्धयेत्कुतः
नाशने ह्येकदोषस्य यतस्तत्क्षीणशक्तिकम् ॥१६६॥
जग्धाः सर्वेऽपि गच्छन्ति बलिनो वश्यतां रसाः
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः ॥१६७॥
एवं भुक्त्वा समाचामेद्रू क्षग्रहणपूर्वकम्
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् ॥१६८॥
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ॥१६९॥
दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्तवत्
न तत्र बहुशः कुर्याद्यत्नं निर्हरणं प्रति ॥१७०॥
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत्
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥१७१॥
भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन्सुखावहान् ॥१७२॥
विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा
सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा ॥१७३॥
अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम्
सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम् ॥१७४॥
अङ्गारकमगस्तिं च पावकं सूर्यमश्विनौ
पञ्चैतान्संस्मरेन्नित्यं भुक्तं तस्याशु जीर्यति ॥१७५॥
इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम्
अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रि तः ॥१७६॥
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते
भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि ॥१७७॥
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगैः कर्पूरकस्तूरीलवंगसुमनः फलैः ॥१७८॥
फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥१७९॥
रतौ सुप्तोत्थिते स्नाते भुक्तेवान्ते च संगरे
सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम् ॥१८०॥
ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनं तुवरं सरम्
तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु ॥१८१॥
वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् ॥१८२॥
हनुदन्तमलध्वंसि जिह्वेन्द्रि यविशोधनम्
मुखप्रसेकशमनं गलामयविनाशनम् ॥१८३॥
नवं तदेव मधुरं कषायानुरसं गुरु
बलासजननंप्रायः पत्रशाकगुणं स्मृतम् ॥१८४॥
वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम्
पाचनं पित्तजनकमुष्णं कफहरं स्मृतम् ॥१८५॥
पर्णं पुराणमकटु क्षुल्लकं तनु पाण्डुरम्
विशेषाद्गुणवद्वेद्यमन्वद्धीनगुणं स्मृतम् ॥१८६॥
पूगं गुरु हिमं रूक्षं कषायं कफपित्तनुत्
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम् ॥१८७॥
पूगं स्यात् दृढमध्यं यत्स्विन्नं वाऽपि त्रिदोषनुत्
सरसङ्गुर्वभिष्यन्दि तद् भृशं वह्निनाशनम् ॥१८८॥
खदिरं कफपित्तघ्नश्चूर्णं वातबलासनुत्
संयोगतस्त्रिदोषघ्नं सौमनस्यं करोति च ॥१८९॥
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्
प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा
निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्सदा ॥१९०॥
आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता
तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत् ॥१९१॥
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः
पर्णमध्यं हरत्यायुः शिरा बुद्धि विनाशिनी ॥१९२॥
आद्यं विषोपमं पीतं द्वितीयं भेदि दुर्जरम्
तृतीयादनुपातव्यं सुधातुल्यं रसायनम् ॥१९३॥
ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः ॥१९४॥
देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः
शोषः पित्तानिलास्रं स्यादतिताम्बूलचर्वणात् ॥१९५॥
ताम्बूलं न हितं दन्तदुर्बलेक्षणरोगिणाम्
विषमूर्च्छामदार्त्तानां क्षयिणां रक्तपित्तिनाम् ॥१९६॥
भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते
अन्नसंघातशैथिल्यं ग्रीवाजानुकटीषु च ॥१९७॥
भुक्त्वोपविशतस्तन्द्रा शयानस्य तु पुष्टता
आयुश्च्रंकममाणस्य मृत्युर्धावति धावतः ॥१९८॥
श्वासानष्टौ समुत्तानस्तान् द्विःपार्श्वे तु दक्षिणे
ततस्तद्द्विगुणान्वामे पश्चात्स्वप्याद्यथासुखम् ॥१९९॥
वामदिशायामनलो नाभेरूर्ध्वेऽस्ति जन्तूनाम्
तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् ॥२००॥
त्रिदोषशमनी षट्वा तूली वातकफापहा
भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला ॥२०१॥
भूशय्या वातलाऽतीवरूक्षा पित्तास्रनाशिनी
सुशय्याशयनं हृद्यं पुष्टिनिद्रा धृतिप्रदम्
श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा ॥२०२॥
संवाहनं मांसरक्तत्वक्प्रसादकरं परम्
प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम् ॥२०३॥
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत्
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ॥२०४॥
सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा
निर्वातमायुषे सेव्यमारोग्याय च सर्वदा ॥२०५॥
पूर्वाऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्नदूषकः
विदाही वातलः श्रान्तिकफशोषवतां हितः ॥२०६॥
स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन्
सन्निपातं ज्वरं श्वासमामवातं च कोपयेत् ॥२०७॥
दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः
वीर्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः ॥२०८॥
पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः
मेदः पित्तकफध्वंसी प्रभञ्जनविवर्धनः ॥२०९॥
उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत्
क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः ॥२१०॥
आग्नेयो दाहकृद्रू क्षो नैरृतो न विदाहकृत्
वायव्यस्तु भवेत्तिक्त एशानः कटुकः स्मृतः ॥२११॥
विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत्
अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे ॥२१२॥
व्यजनस्यानिलो दाहस्वेदमूर्च्छाश्रमापहः
तालवृन्तभवो वातस्त्रिदोषशमको मतः ॥२१३॥
वंशब्यजनजस्तूष्णो रक्तपित्तप्रकोपणः
चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा ॥२१४॥
पूते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः ॥२१५॥
दिवा स्वापं न कुर्वीत यतोसौ स्यात्कफावहः
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते ॥२१६॥
उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम्
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा ॥२१७॥
व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान्
क्षीणान् क्षीणकफाञ्छिशून्मदहतान्वृद्धान् रसाजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् ॥२१८॥
दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः
न तेषां स्वपतां दोषो जाग्रतां चोपजायते ॥२१९॥
भोजनानन्तरं निद्रा वातं हरति पित्तहृत्
कफं करोति वपुषः पुष्टिं सौख्यं तनोति हि ॥२२०॥
शयनं पित्तनाशाय वातनाशाय मर्दनम्
वमनं कफनाशाय ज्वरनाशाय लङ्घनम् ॥२२१॥
आसीनं घूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम् ॥२२२॥
शब्दान् स्पर्शांश्च रूपाणि रसान्गन्धान्मनःप्रियान्
भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति ॥२२३॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः
भुक्तमप्रयतं चान्नमतिहास्यं च वामयेत् ॥२२४॥
शयनं चाशनं चाति न भजेन्न द्र वाधिकम्
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ॥२२५॥
व्यायामं च व्यवायं च धावनं यानमेव च
युंद्धं गीतं च पाठं च मुहूर्त्तं भुक्तवांस्त्यजेत् ॥२२६॥
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥२२७॥
ईर्ष्याभय क्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन
विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ॥२२८॥
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ॥२२९॥
प्राग्भुक्ते चानले मन्दे द्विरह्नि न समाहरेत् ॥२२९॥
पूर्व भुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् ॥२३०॥
सायमाशे त्वजीर्णे तु प्रातर्भुक्तं विषोपमम् ॥२३२॥
भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम्
विचूर्णितां शीतजलेन भुक्त्वा भुञ्जीत चान्नं मितमन्नकाले ॥२३३॥
आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम्
अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः ॥२३४॥
आस्या वर्णकफस्थौल्यसौकुमार्यसुखप्रदा
अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः ॥२३५॥
यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत्
तदायुर्बलमेधाऽग्निप्रदमिन्द्रि यबोधनम् ॥२३६॥
उष्णीषं कान्तिकृत्केश्यं रजोवातकफापहम्
लघु यच्छस्यते तस्माद् गुरु पित्ताक्षिरोगकृत् ॥२३७॥
उपानद्धारणं नेत्र्यमायुष्यं पादरोगहृत्
सुखप्रचारमोजस्यं वृष्यं च परिकीर्तितम् ॥२३८॥
पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्
अनारोग्यमनायुष्यमिन्द्रि यघ्नमदृष्टिदम् ॥२३९॥
छत्रस्य धारणं वर्षातपवातरजोऽपहम्
हिमघ्नं हितमक्ष्णोश्च मङ्गल्यमपि कीर्त्तितम् ॥२४०॥
सत्त्वोत्साहवलस्थैर्यधैर्यतेजोविवर्धनम्
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् ॥२४१॥
ऊर्ध्वाच्छादनसंयुक्ता शिबिका सर्ववल्लभा
तस्यामारोहणं नॄणां त्रिदोषशमकं मतम् ॥२४२॥
वातश्लेष्मगदार्त्तानामहिता भ्रमकृत्तरिः
पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्द्धनः ॥२४३॥
घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम्
मेदोवर्णकफघ्नं च हितं तद्वलिनां परम् ॥२४४॥
आतपः स्वेदमूर्च्छाऽस्रपित्ततृष्णाक्लमश्रमान्
दाहं विवर्णतां कुर्यादेतांश्छाया व्यपोहति ॥२४५॥
वृष्टिर्वृष्या हिमा बल्या निद्रा ऽलस्यविधायिनी
भयावहा मोहकरी कुहेलि कफवातला ॥२४५॥
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः ॥२४७॥
सद्यः श्लेष्मकरो धूमो नेत्रयोरहितो भृशम्
शिरोगौरवकृच्चापि वातपित्तं च कोपयेत् ॥२४८॥
मैत्री सद्भिः समं कुर्यात्स्नेहं सत्सु तु सर्वथा
संसर्गं साधुभिः कुर्यादसत्सङ्गं परित्यजेत् ॥२४९॥
सेवेत देवभूदेववृद्धवैद्यनृपातिथीन्
विमुखान्नार्थिनः कुर्यान्नावमन्येत कानपि ॥२५०॥
गुरूणां सन्निधौ तिष्ठेत्सदैव विनयान्वितः
पादप्रसारणादीनि तत्र नैव समाचरेत् ॥२५१॥
अपकारपरेऽपि स्यादुपकारपरः पुमान्
आत्मवत्सकलान्पश्येद्वैरिणो दूरतो वसेत् ॥२५२॥
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रि पुम्
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः ॥२५३॥
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम्
तथा नाज्ञातगाम्भीर्यं न हिंस्रप्राणिसेवितम् ॥२५४॥
काले हितं मितं सत्यं संवादि मधुरं वदेत्
भुञ्जीत मधुरप्रायं स्निग्धं काले हितं मितम् ॥२५५॥
न रात्रौ दधि भुञ्जीत न च निर्लवणं तथा
नामुद्गसूपं नाक्षौद्रं न चाप्यघृतशर्करम् ॥२५६॥
जनस्याशयमालक्ष्य यो यथा परितुष्यति
तं तथैवानुवर्तेत पराराधनपण्डितः ॥२५७॥
नैकः सुखी न सर्वत्र विश्वस्तो न च शङ्कितः
नोद्यमेविरमेत्क्वापि हेतावीर्ष्येत्फले न तु ॥२५८॥
वेगान्न धारयेज्जातु मनोवेगान्विधारयेत्
न पीडयेदिन्द्रि याणि न चैतान्यतिलालयेत् ॥२५९॥
वर्षाऽतपादिषु च्छत्री दण्डी रात्रौ भयेषु च
सोपानत्कस्तनुं रक्षेद्विचरेद्युगमात्रदृक् ॥२६०॥
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानकम् ॥२६१॥
नासंवृतमुखः कुर्यात्सभायां च विचक्षणः
कासं हासं तथोद्गारं जृम्भणं क्षवथुं तथा ॥२६२॥
नासिकां न विकुष्णीयान्नासीतोत्कटकः क्वचित्
नोर्ध्वजानुश्चिरं तिष्ठेन्न नखेन लिखेद्भुवम् ॥२६३॥
सम्मार्जनीरजो नैव देहे दद्यात्कदाचन
न नखेन तृणं छिन्द्यान्नोच्छिष्टो ब्राह्मणं स्पृशेत् ॥२६४॥
नोपरक्तं न चोद्यन्तं नास्तं यातं दिवाकरम्
सर्वथा न समीक्षेत न जले प्रतिबिम्बितम् ॥२६५॥
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च
पौरन्दरं धनुर्नैव दर्शयेत्कमपि क्वचित् ॥२६६॥
नेच्छेद्बलवता युद्धं न भारं शिरसा वहेत्
गात्रं न वादयेत्केशान्हस्तेन धुनुयान्न च ॥२६७॥
न गच्छेत्पूज्ययोर्मध्ये दम्पत्योरन्तरेण च
रिपोरन्नं न भुञ्जीत गणिकाऽन्नमपि क्वचित् ॥२६८॥
प्रतिभूर्न भवेत्क्वापि न च साक्षी वृथा भवेत् ॥२६९॥
स्थागं न धारयेज्जातु द्यूतं दूरात्परित्यजेत् ॥२७०॥
विश्वासं नाचरेत्स्त्रीणां ताः स्वतंत्रा न चारयेत्
रक्षणीयाः सदा यत्नाद्यौवने तु विशेषतः ॥२७१॥
न भिन्ने शयने स्वप्यान्नानेकविवरेऽपि च
नैको देवालये नैव रात्रौ तरुतलेऽपि च ॥२७२॥
एवं दिनानि गमयेत्सदाचारपरः सदा
ततो रात्रिप्रयुक्तानि कुर्यात्कर्माणि मानवः ॥२७३॥
इत्याचारं समासेन भाषितं यः समाचरेत्
स विंदत्यायुरारोग्यं प्रीतिं धर्मं धनं यशः ॥२७४॥
एतानि पञ्च कर्माणि सन्ध्यायां वर्जयेद् बुधः
आहारं मैथुनं निद्रां संपाठं गतिमध्वनि ॥२७५॥
भोजनाज्जायते व्याधिर्मैथुनाद्गर्भवैकृतिः
निद्र या निःस्वता पाठादायुर्हानिर्गतेर्भयम् ॥२७६॥
ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत्
ततो हीनगुणः कुर्यादवश्यायोऽनिलं कफम् ॥२७७॥
तमो भयावहं मोहदिङ्मोहजनकं भवेत्
पित्तहृत्कफहृत्कामवर्धनं क्लमकृच्च तत् ॥२७८॥
रात्रौ च भोजनं कुर्यात्प्रथमप्रहरान्तरे
किञ्चिदूनं समश्नीयाद् दुर्जरं तत्र वर्जयेत् ॥२७९॥
शरीरे जायते नित्यं देहिनः सुरतस्पृहा
अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः ॥२८०॥
बालेति गीयते नारी यावद्वर्षाणि षोडश
ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि ॥२८१॥
तदूर्ध्वमधिरुढा स्यात्पञ्चाशद्वत्सरावधि
वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता ॥२८२॥
निदाघशरदोर्वाला हिता विषयिणां मता
तरुणी शीतसमये प्रौढा वर्षावसन्तयोः ॥२८३॥
नित्यं बाला सेव्यमाना नित्यं वर्धयते वलम्
तरुणी ह्रासयेच्छक्तिं प्रौढोद्भावयते जराम् ॥२८४॥
सद्यो मांसं नवं चान्नं वाला स्त्री क्षीरभोजनम्
घृतमुष्णोदके स्नानं सद्यः प्राणकराणिषट् ॥२८५॥
पूतिमांसं स्त्रियो वृद्धा बालाऽकस्तरुणं दधि
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥२८६॥
वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात्
वयोधिकां स्त्रियं गत्वा तरुणः स्थविरायते ॥२८७॥
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः ॥२८८॥
सेवेत कामतः कामं बलाद्वाजीकृतो हिमे
प्रकामं तु निषेवेत मैथुनं शिशिरागमे ॥२८९॥
त्र्यहाद्वसन्तशरदोः पक्षाद् वृष्टिनिदाघयोः ॥२९०॥
त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः
सर्वेष्वृतुषु घर्मे तु पक्षात्पक्षाद् व्रजेद् बुधः ॥२९१॥
शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा निशि
वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः ॥२९२॥
उपेयात्पुरुषो नारीं संध्ययोर्न च पर्वसु
गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च ॥२९३॥
विहारं भार्यया कुर्याद् देशेऽतिशयसंवृते
रम्ये श्राव्याङ्गनागाने सुगन्धे सुखमारुते ॥२९४॥
देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे
श्रूयमाणे व्यथाहेतुवचने न रमेत ना ॥२९५॥
स्नातचन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः
भुक्तवृष्यः सुवसनः सुवेषः समलंकृतः ॥२९६॥
ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ॥२९७॥
अत्याशितोऽधृतिः क्षुद्वान्सव्यथाङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम् ॥२९८॥
भार्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम्
अतिकामोऽभिकामां तु हृष्टो हृष्टामलंकृताम्
सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः ॥२९९॥
रजस्वलामकामां च मलिनामप्रियां तथा ॥२९०॥
वर्णबृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् ॥२९१॥
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
नाधिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया ॥२९२॥
रजस्वलां गतवतो नरस्यासंयतात्मनः
दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् ॥२९३॥
लिगिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु
वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः ॥२९४॥
गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः ॥२९५॥
हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते
देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत् ॥२९६॥
क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
स्थितस्य हानिं शुक्रस्य वायोः कोपं च विन्दति ॥२९॥७॥
व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च जायते
प्रत्यूषे चार्धरात्रे च वातपित्ते प्रक्प्यतः ॥२९८॥
तिर्यग्योनावयोनौ वा दुष्टयोनौ तथैव च
उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः ॥२९९॥
उच्चारिते मूत्रिते च रेतसश्च विधारणे
उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः ॥३१०॥
सर्वमेतत्त्यजेत्तस्माद्यतो लोकद्वयाहितम्
शुक्रं तूपस्थितं मोहान्न सन्धार्यं कदा चन ॥३११॥
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम्
वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी ॥३१२॥
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ॥३१३॥
रोत्रौ जागरणं रूक्षं कफदोषविषार्तिजित्
निद्रा तु सेविताकाले धातुसाम्यमतन्द्रि ताम् ॥३१४॥
पुष्टिं वर्णं बलोत्साहं वह्निदीप्तिं करोति हि ॥३१५॥
यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम्
स तु लज्जाकरवातप्रसरनिरोधात्सुखं स्वपिति ॥३१॥६॥
सवितुः समुदयकाले प्रसृतीः सलिलस्य यः पिबेदष्टौ
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम् ॥३१७॥
अर्शःशोथग्रहण्यो ज्वरजठरजराकुष्ठमेदोविकाराः
मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो
स्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ॥३१८॥
विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः ॥३१९॥
पातव्यं नासया नीरं प्रसृतित्रयमात्रया ॥३२०॥
व्यङ्गवलीपलितघ्नंपीनसवैस्वर्यकासशोथहरम्
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिसञ्जननम् ॥३२१॥
स्नेहे पीते क्षते शुद्धावाध्माने स्तिमितोदरे
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत् ॥३२२॥
क्षयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि
ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात् ॥३२३॥
ग्रीष्मो मेषबृषौ प्रोक्तः प्रावृण्मिथुनकर्कटौ
सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् ॥३२४॥
धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः ॥३२५॥
शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमाः
माघादिमासयुग्मं स्युरृतवः षट् क्रमादमी ॥३२६॥
गङ्गाया दक्षिणे देशे वृष्टेर्बहुलभावतः
उभौ मुनिभिराख्यातौ प्रावृड्वर्षाभिधावृतू ॥३२७॥
तिस्याएवोत्तरेदेशे हिमप्रचुरभावतः
एतावुभौ समाख्यातौ हेमन्तशिशिरावृतू ॥३२८॥
उत्तरायणमाद्यैस्तैः परैः स्याद्दक्षिणायनम्
आद्यमुष्णं बलहरं ततोऽन्यद्बलदं हिमम् ॥३२९॥
हेमन्तं शीतलः स्निग्धः स्वादुर्जठरवह्निकृत्
शिशिरः शीतलोऽतीव रूक्षो वाताग्निवर्धनः ॥३३०॥
वसन्तो मधुरः स्निग्धः श्लेष्मवृद्धिकरश्च सः
ग्रीष्मो रूक्षोऽतिकटुकः पित्तकृत्कफनाशनः ॥३३१॥
वर्षाः शीता विदाहिन्यो वह्निमान्द्यानिलप्रदाः
शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा ॥३३२॥
चयप्रकोपोपशमा वायोर्ग्रीष्मादिषु त्रिषु
वर्षाऽदिषु च पित्तस्य श्लेष्मणः शिशिरादिषु ॥३३३॥
चीयते लघुरूक्षाभिरोषधीभिः समीरणः
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति ॥३३४॥
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः ॥३३५॥
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः
तुल्ये च काले देहे च स्कन्नत्वान्न प्रकुप्यति ॥३३६॥
हिमे याति शमं पित्तं वायुः श्लेष्मा च चीयते
स वायुः शिशिरे कोपं यात्येवोपचितः कफः ॥३३७॥
हेमन्ते सञ्चितः श्लेष्मा शिशिरे त्वतिचीयते
शीतस्निग्धगुरुद्र व्यैः शैत्यस्कन्नो न कुप्यति ॥३३८॥
इति कालस्वभावोऽयमाहारादिवशात्पुनः
चयादीन् यान्ति सद्योऽपि दोषाः काले विशेषतः ॥३३९॥
चयकोपमशमान्दोषा विहाराहारसेवनैः
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम् ॥३४०॥
स्वस्थानस्थस्य दोषस्य वृद्धिः स्यात्स्तब्धकोषता
पीतावभासता वह्निमन्दता चाङ्गगौरवम् ॥३४१॥
आलस्यं चयहेतौ तु द्वेषश्च चयलक्षणम्
सञ्चये ऽपहृता दोषा लभन्ते नोत्तरां गतिम् ॥३४२॥
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ॥३४३॥
वर्षासुप्रबलो वायुस्तस्मान्मिष्टादयस्त्रयः
रसाः सेव्या विशेषेण पवनस्योपशान्तये ॥३४४॥
भवेद्वर्षासु वपुषः क्लिन्नत्वं यद्विशेषतः
तत्क्लेदशान्तये सेव्या अपि कट्वादयस्त्रयः ॥३४५॥
स्वेदनं मर्दनं सेव्यं दध्युष्णंजाङ्गलामिषम्
शालयो यवगोधूमा जलं कौपं जलं च्युतम् ॥३४६॥
न भजेत्पूर्वपवनं वृष्टिं घर्मं हिमं श्रमम्
नदीतीरं दिवास्वप्नं रूक्षं नित्यं च मैथुनम् ॥३४७॥
सर्पिः स्वादुकषायतिक्तकरसा यच्छीतलं यल्लघु
क्षीरं स्वच्छसितैक्षवः पटुरसः स्वल्पं पलं जाङ्गलम्
गोधूमा यवमुद्गशालिसहिता नादेयमंशूदकं
चन्द्र श्चन्दनमिन्दुरादिरजनी माल्यं पटो निर्मलः ॥३४८॥
दिविसेऽककरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम्
विश्रामः सुहृदां गणेषु मधुरा वाचः सरः क्रीडनं
पित्तानां च विरेचनं बलवतो युक्तं शिरामोक्षणम्
एतांयत्र घनावसानसमयेपथ्यानि मुञ्चेद्दधिव्यायामाम्लकटूष्णतीक्ष्ण दिवसस्वप्नं हिमञ्चातपम् ॥३४९॥
इक्षवः शालयो मुद्गाः सरोऽम्भ क्वथितं पयः
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः ॥३५०॥
प्रातर्भोजनमम्लमिष्टलवणानभ्यङ्गघर्मश्रमान्
गोधूमैक्षवशालिमाषपिशितं पिष्टं नवान्नं तिलान्
कस्तूरीं वरकुङ्कुमागुरुयुतामुष्णाम्बुशौचं तथौ स्निग्धं स्त्रीषु सुखं गुरूष्णवसनं सेवेत हेमन्तके ॥३५१॥
शिशिरे शीतमधिकं रौक्ष्यं चादानकालजम्
विशेषतस्ततस्तत्र हेमन्तस्य मतो विधिः ॥३५२॥
वान्तिं नस्यमथाभयां च मधुना व्यायाममुद्वर्त्तनं
संसेवेत मधौ कफघ्नकवलं शूल्यं पलं जाङ्गलम्
गोधूमान्बहुशालिभेदसहितान्मुद्गान्यवान्षष्टिकां
ल्लेपञ्चन्दनकुङ्कुमागुरुकृतं रूक्षं कटूष्णं लघु ॥३५३॥
मिष्टमम्लं दधिस्निग्धं दिवास्वप्नं च दुर्जरम्
अवश्यायमपि प्राज्ञो वसन्ते परिवर्जयेत् ॥३५४॥
स्वादुस्निग्धहिमं लघु द्र वमयं द्र व्यं रसालां सितां
सक्तुंक्षीरमजाङ्गलानि सितया शालि रसं मांसजम्
शीतांशुं शयनं दिवा मलयजं शीतं पयः पानकं
सेवेतोष्णदिने त्यजेत्तु कटुकक्षाराम्लघर्मश्रमान् ॥३५५॥
ॠतुष्वेषु य एतैस्तु विधिभिर्वर्त्तते नरः
दोषानृतुकृतान्नैव लभते स कदाचन ॥३५६॥
इति श्रीलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे दिनचर्यादिप्रकरणम्



N/A

References : N/A
Last Updated : May 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP