संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|पूर्वखण्डः|प्रथमः भागः| प्रकरणम् २ प्रथमः भागः प्रकरणम् १ प्रकरणम् २ प्रकरणम् ३ प्रकरणम् ४ प्रकरणम् ५ प्रकरणम् ६ प्रथमः भागः - प्रकरणम् २ भावप्रकाशसंहिता Tags : aayurvedbhavprakash samhitasamhitaआयुर्वेदभावप्रकाश संहितासंहिता सृष्टिप्रकरणं Translation - भाषांतर अथ सृष्टिप्रकरणं ग्रन्थारम्भश्च आयुर्वेदाब्धिमध्यादतिमतिमुनयो योगरत्नानि यत्नाल्लब्ध्वा स्वे स्वे निबन्धे दधुरखिलजनव्याधिविध्वंसनाय ।तत्तद्ग्रन्थाद् गृहीतैः सुवचनमणिभिर्भावमिश्रैश्चिकित्साशास्त्रे जाड्यान्धकारं प्रशमयितुमिमं संविधत्ते प्रकाशम् ॥१॥श्रीपतिपदप्रसादादाशीर्भिर्भूमिदेवानाम्भावप्रकाशनाम्ना ग्रन्थोऽयं पठ्यतां सर्वैः ॥२॥आत्मा ज्योतिश्चिदानन्दरूपो नित्यश्च निःस्पृहःनिर्गुणः प्रकृतेर्योगात्सगुणः कुरुते जगत् ॥३॥सत्त्वं रजस्तमश्चेति गुणास्ते प्रकृतेः समाःसा जडापि जगत्कर्त्री परमात्मचिदव्ययात् ॥४॥प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथाएतानि तस्या नामानि पुरुषं या समाश्रिता ॥५॥सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाःतैश्च युक्तस्य चित्तस्य कथयाम्यखिलान् गुणान् ॥६॥आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यं वचोमेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानं च निर्दम्भताकर्मानिन्दितमस्पृहं च विनयो धर्मः सदैवादरादेते सत्त्वगुणान्वितस्य मनसो गीता गुणा ज्ञानिभिः ॥७॥क्रोधस्ताडनशीलता च बहुलं दुःखं सुखेच्छाऽधिकादम्भः कामुकताप्यलीकवचनं चाधीरताहङ्कृतिःऐश्वर्यादभिमानितातिशयितानन्दोऽधिकश्चाटनंप्रख्याता हि रजोगुणेन सहितस्यैते गुणाश्चेतसः ॥८॥नास्तिक्यं सुविषण्णतातिशयितालस्यं च दुष्टा मतिःप्रीतिर्निन्दितकर्मशर्मणि सदा निद्रा लुताहर्निशम्अज्ञानं किल सर्वतोऽपि सततं क्रोधान्धता मूढताप्रख्याता हि तमोगुणेन सहितस्यैते गुणाश्चेतसः ॥९॥तत्र प्रभूतसत्त्वस्तु सात्त्विकः पुरुषः स्मृतःराजसस्तामसश्चैव त्रिविधस्तेन मानवः ॥१०॥ततोऽभवन्महत्तत्त्वं बुद्धितत्त्वापराभिधम्त्रिगुणं सत्त्वबहुलं निर्मलं स्फटिकोपमम्चिच्छायाप्राप्तचैतन्यं तदिच्छामयमीरितम् ॥११॥महतस्त्रिगुणाज्जातोऽहङ्कारस्त्रिगुणान्वितःसात्त्विको राजसश्चापि तामसश्चेति स त्रिधा ॥१२॥जातानि सात्त्विकात्तस्मादिन्द्रि याणि सराजसात्तानि श्रोत्रं त्वचो नेत्रं रसना नासिका तथा ॥१३॥वाग्घस्तचरणोपस्थगुदान्येकादशं मनःपञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि च ॥१४॥कर्मेन्द्रि याणि पञ्चैव कथयन्ति विपश्चितः ॥१५॥मनो बुद्धीन्द्रि यं विज्ञैः कर्मेन्द्रि यमपि स्मृतम्मनोऽधिष्ठितमेवेदमिन्द्रि यं यत्प्रवर्त्तते ॥१६॥शब्दः स्पर्शश्च रूपश्च रसो गन्धो ह्यनुक्रमात्बुद्धीन्द्रि याणां विषयाः समाख्याता महर्षिभिः ॥१७॥वाच्यं ग्राह्यञ्च गन्तव्यमानन्दं त्याज्यमेव चकर्मेन्द्रि याणां विषया ज्ञातव्य विषयो हृदः ॥१८॥तामसादप्यहङ्कारस्तन्मात्राणि सराजसात्पञ्चाल्पसत्त्वसम्बन्धात्तल्लिङ्गानि भवन्ति हि ॥१९॥शब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम्रसतन्मात्रकं गन्धतन्मात्रमिति तानि तु ॥२०॥तन्मात्रेभ्यो वियद्वायुर्वह्निर्वारि वसुन्धराएतानि पञ्च जायन्ते महाभूतानि तत्क्रमात् ॥२१॥शब्दः श्रोत्रेन्द्रि यं वापि च्छिद्रा णि च विविक्ततावियतः कथिता एते गुणागुणविचारिभिः ॥२२॥स्पर्शस्त्वगिन्द्रि यञ्चापि लघुता स्पन्दनं तनोःचेष्टा सर्वशरीरस्य वायोरेते गुणाः स्मृताः ॥२३॥रूपं नेत्रेन्द्रि यं पाकः सन्तापस्तीक्ष्णता तथावर्णो भ्राजिष्णुताऽमर्षः शौर्यं वह्नेर्गुणा अमी ॥२४॥रसो रसेन्द्रि यं शैत्यं स्नेहश्च गुरुता तथासर्वद्र वसमूहश्च शुक्रं वारिगुणाः स्मृताः ॥२५॥गन्धो घ्राणेन्द्रि यं चापि काठिन्यं गौरवं तथावसुन्धरागुणा एते गदिता गुणवेदिभिः ॥२६॥शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तत्क्रमात्तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः ॥२७॥प्रकृतेः कारणायोगान्मता प्रकृतिरेव सामहत्तत्त्वादयः सप्त शक्तेर्विकृतयः स्मृताः ॥२८॥इन्द्रि याणां च भूतानां कारणत्वान्महर्षिभिःमहत्तत्त्वादयः सप्त प्रोक्ताः प्रकृतयोऽपि च ॥२९॥दशेन्द्रि याणि चित्तञ्च महाभूतानि पञ्च चएतानि सृष्टिं जानद्भिर्विकाराः षोडश स्मृताः ॥२९॥एवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहेजीवात्मनियतेर्निघ्नो वसति स्वान्तदूतवान् ॥३१॥स देही कथ्यते पापपुण्यदुःखसुखादिभिःव्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः ॥३२॥इच्छाद्वेषसुखासुखानि विषयज्ञानं प्रयत्नो मनःसङ्कल्पश्च विचारणा स्मृतिरथो बुद्धिः कलाविज्ञताप्राणस्योपरियापनं गुदवशाद्वायोरधः प्रेरणंनेत्रोन्मेषनिमेषकृत्यकरणोत्साहाश्च जीवे गुणाः ॥३३॥इति श्री मिश्रलटकनतनय श्रीमन्मिश्रभावविरचिते भावप्रकाशेसृष्टिप्रकरणं समाप्तम् ॥२॥ N/A References : N/A Last Updated : May 16, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP