संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|सप्तदशचर्मोनाम चतुर्दशकाण्ड:| ६ ते ९ सप्तदशचर्मोनाम चतुर्दशकाण्ड: १ ते ५ ६ ते ९ चतुर्दशकाण्ड: - ६ ते ९ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते ९ Translation - भाषांतर ६दिवं प्रेहि शतौदने सहस्रस्यायनं भव॥अयुतं प्रयुतं भवाक्षितिर्भवतात्त्वं स्वर्गं लोकमा रुहः ॥१॥शतौदनां शतधा भक्षयन्ति शतं रोहान् रोहति यो ददाति ।वामदेव्यं नौधसमस्या: पक्षौ तृतीये नाके अधि विष्टपि श्रिता ॥२॥शतौदनां शतधा कल्पमाना शतं रूपाणि कृणुते स्वर्यती ।सा नो देवी सुहवा शर्म यच्छत्वथो मृडातीदृशे ॥३॥शतौदना द्वादशाहेन संमिता शतं पृष्ठानि ससृजे स्वर्यती ।सर्वान् यज्ञान् परियती परस्तात् सा दातारं रायस्पोषे दधातु ॥४॥अभि प्रेहि शतौदन ईजानान् सोमसत्वनः ।यज्ञांस्त्वं सर्वानाप्त्वा कामप्रस्यायनं भव ॥५॥अभि प्रेहि शतौदने यज्ञेनायज्वनस्तर ।आा देवयूनरूरुहो यत्रादस्त्रिदिवं दिवः ॥६॥इरापदी प्रथमा शतौदना सत्यं ह मध्यममृतं शिरस्तव ।उभे देवी रोदसी आ पृणासि ॥७॥ऋतं ह श्रोणी उत सक्थौ तवौजो ह बाहू उत तद्बलाय कम्।अनुष्ठु जठरमादु पार्श्वे सर्वाल्लोकां छतौदना समाप ॥८॥चक्षुष्मती प्रथमा शतौदना सूर्यो ह चक्षुरुत चन्द्रमास्तव ।विश्वैर्देवैर्ऋतुभि: संविदाना सा दातारं तृप्त्या तर्पयासि ॥९॥शतं पयांसि शतमस्या वत्साः शतधा पक्वां वि भजन्त्येनाम् ।सप्त लोका दिव्यार्पिता ये तां जिगेथ प्रथमा शतौदने ॥१०॥७सहस्त्रेण शतमाना यदेषि लोकां जिगेथ प्रथमा शतौदने॥सर्ववेदसमुत वाजपेयं सर्वाल्लोकां छतोदना समाप ॥१॥इन्द्रः पपात प्रथम: शतौदनां सप्तऋषिभ्यः सुमनस्यमान: ।तयासुराणां बलमोज आ ददे तया रुरोह विष्टपो देवलोकान् ॥२॥सप्तर्षि विश्वामित्रोऽयं जमदग्निरत्रिर्भरद्वाजो गोतमोऽयं वसिष्ठः॥इदं पक्वं कश्यपसप्तमा: प्राश्नन्तु प्रथमाः शतौदनाम् ॥३॥ज्योतिष्मती प्रथमा शतौदना त्रीणि ज्योतींषि कृणुते स्वर्यती ।तां दातार उपजीवन्ति यत्र तत्र देवैः सधमादं मदन्ति ॥४॥छन्द:पक्षा बृहती शतौदना त्रीणि छन्दांसि ससृजे स्वर्यती ।ऋतूनामधिराजं संवत्सरं पतिमस्या विन्दन् ॥५॥अतिक्रम्याग्निष्टोममतिरात्रं शतौदने ।यज्ञांस्त्वं सर्वानाप्त्वा चित्यमग्निं व्यश्नुहि ॥६॥अश्वमेध्यमतिक्रम्य द्वादशाहं शतौदने॥त्रिरात्रं साह्वमाप्त्वा वाजपेयेन कल्पते ॥७॥ये सहस्रैरीजाना अग्निहोत्रहुतश्च ये ।यजैर्ये सर्वेरीजानास्तान आप्नोति शतौदना ॥८॥शं ते परूंषि सुभगे दधामि शं ते मांसान्यत्तथा भवन्ति ।अस्थि यत्ते शमिता शशार तत्ते त्वष्टाविहृतं निष्कृणोतु ॥९॥ये यज्ञेन जिता लोका या नु च्छन्दांसि भेजिरे ।सर्वांस्तांल्लोकानाप्नोति यो ददाति शतौदनाम् ॥१०॥८इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।अश्वक्षता सुहवा संभूतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥अव विश्वान्यरुहद् गभीरोद्वर्षिष्ठमरुहदश्रमिष्ठा ।उशती रात्र्यनुसानु भद्राद्वि तिष्ठते मित्र इव स्वधाभिः ॥२॥नर्ये वन्द्ये सुभगे सुजात आ त्वागन् रात्रि सुमना इह स्याम् ।अस्मांस्त्रायस्व नर्याणि जाताश्व्या यानि गव्यानि पुष्टा ॥३॥सिंहस्य रात्र्युशती पिशस्य व्याघ्रस्य द्वीपिनो वर्च आददे ।अश्वस्य ब्रध्नं पुरुषस्य मायं पुरु रूपाणि कृणुषे विभाती ॥४॥शिवां रात्रिमह्नि सूर्यं च हिमस्य माता सुहवा नो अस्तु ।अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥स्तोमस्य नो विभावरि रात्रि राजेव जोषसै ।असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषस: ॥६॥शम्या हि नाम दधिषे मम दिप्सन्ति ये धना ।तात्रीहि तानसदपाथ स्तेनो न विद्यतेऽथ रिपुर्न विद्यते ॥७॥भद्रासि रात्रि चमसो न पिष्टो विश्वं गोरूपं युवतिर्बिभर्षि ।चक्षुष्मती मे मृषती वपूंषि प्रदित्यां दिव्यां रुक्मा ङ अमुक्थाः ॥८॥यो अद्य स्तेन आयत्यघायुर्मृत्यो रिपुः ।रात्री तस्य प्रतीत्य प्र ग्रीवा प्र शिरो हनत् ॥९॥प्र पादौ न यथायति प्र हस्तौ न यथाशिषत् ।यो मलिम्लरुपायति स संपिष्टो अपायति ।आपायति स्वपायति शुष्के स्थाणावपायत ॥१o॥९अन्धं रात्रि तिष्ठधूममशीर्षाणामहिं कृणु ।अक्षी वृकस्य निर्जह्या स्तेनं द्रुपदे जहि ॥१॥ये ते रत्र्यनड्वाहस्तीक्ष्णशृङ्गः: स्वाशवः ।तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।गम्भीरमप्लवा इव न तरेयुररातय: ॥३॥यथा शाम्याकः प्रपतन् प्रेदिवान्नानुविद्यते ।एवा रात्रि प्र पातय यो अस्मा ङ अभ्यघायति ॥४॥अप स्तेनं वासोमथं गोअजमुत तस्करम् ।अथो यो अर्वत: शिरोऽभिधाय निनीषति ॥५॥यदद्य रात्रि सुभगे विभजन्त्ययो वसु।यदेह्यस्मान् भ्राजयाथेदन्यानुपायसि ॥६॥उषसे नः परि धेहि सर्वान् रात्र्यनागसः ।उषा नो अह्न आ भजादहस्तुभ्यं विभावरि ॥७॥(इति सप्तदशर्चोनामचतुर्दशकाण्डे तृतीयोऽनुवाक:)इत्यथर्ववेद पैप्पलादशाखा संहितायां सप्तदशर्चोनाम चतुर्दशकाण्डः समाप्तः N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP