एन्द्रो बाहुभ्यामभरच्चिकित्वानपो देवीर्वरुणाय प्रजानन् ।
तमादित्या अभ्यसिञ्चन्ति सर्वे राजानमुग्रं बृहते रणाय ता न आपो राजसूया अवन्तु ॥१॥
हिरण्यवर्णा: शुचय: पावका यासु जातः कश्यपो यास्विन्द्र:॥
या आग्निं गर्भ दधिरे सुवर्णास्ता न आपो राजसूया अवन्तु ॥२॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यज्जनानाम्।
या आग्निं गर्भ दधिरे सुवर्णास्ता न आपो राजसूया अवन्तु ॥३॥
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति।
या आग्निं गर्भं दधिरे सुवर्णास्ता न आपो राजसूया अवन्तु ॥४॥
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुत: शुचयो याः पावकास्ता न आपो राजसूया अवन्तु ॥५॥
अपो देवीर्मधुमतीरगृह्णतोर्जस्वती राजसूया मयोभुवः ।
याभिर्मित्रावरुणावभ्यषिञ्चन् ता न आपो राजसूया अवन्तु ॥६॥
वरुणेन प्रेषिता यन्ति शुभ्रा उत्सं देवीर्दधते या हिरण्ययम् ।
या ब्रह्मणा पुनते संविदानास्ता न आपो राजसूया अवन्तु ॥७॥
अप: समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि याः सृजन्ति ।
याभिरीशाना मरुतश्चरन्ति ता न आपो राजसूया अवन्तु ॥८॥
या अमृतं बिभ्रति या मधु प्रियं या अगृभ्णन् ऋषयो देवसख्ये ।
याभिरिन्द्रमत्यनयन्नरातीस्ता न आपो राजसूया अवन्तु ॥९॥
या जीवधन्या धनमुत्पृणन्ति देवायते दाशुषे मर्त्याय ।
यासां पयो अक्षितमक्षितानां ता न आपो राजसूया अवन्तु ॥१०॥


हिरण्यौपशा ध्वजनीः पुनाना याः समुद्रमभ्यर्चन्ति धेनव:॥
या: पर्जन्यो वहत्यन्तरिक्षे ता न आपो राजसूया अवन्तु ॥१॥
रथन्तरे बृहति गीयमाने क्षत्रं जिन्वन्ति प्र तिरन्त्यायुः ।
याभिस्त्रयान् वाजिनो वाजयन्ति ता न आपो राजसूया अवन्तु ॥२॥
याभिः सह वृत्रहा सोममिन्द्रो वसोरीशानो अपिबत् सुतस्य ।
याः सप्त ऋषय: कवयः पुनन्ति ता न आपो राजसूया अवन्तु ॥३॥
सप्त ऋषयो भरतमभ्यषिञ्चन्नास्मिन् राष्ट्रमदधुर्दक्षिणावत् ।
प्रजायै मनुमसुमवन्त देवास्ता न आपो राजसूया अवन्तु ॥४॥
याभिर्यज्ञं प्राञ्चमुक्षयन्ति धीरा याभिः सोमं मधुपृचं पुनन्ति ।
याभिरिदं जीवति विश्वमेजत्ता न आपो राजसूया अवन्तु ॥५॥
यासां स्तोका मधुमया बभूवुर्घृतं संज्ञानं मधु पिन्वते या:।
याः सोम आपः प्रणयन्ति ब्रह्मणा ता न आपो राजसूया अवन्तु ॥६॥
यासां पदोराज्यं वाजिनं तु सोमस्य प्रसवमनु याः पवन्ते ।
अन्तर्वतीस्तरुणवत्सा घृताचीस्ता न आपो राजसूया अवन्तु ॥७॥
अजीजनन्त मतयः स्वर्विद आ ब्रह्मणा सूक्तधेयान्यगुः।
असूषुत राजसूया: पयसि प्रासावीद्देव: सविता भुवनानि विश्वा ॥८॥
सोमो राजा भवो राजा पशुपति: पशूनां वरुणो धृतव्रत: ।
ये राजसूये असूयन्त देवास्ते ते क्षत्रे दधत्वायुरोज: ॥९॥
आस्थादुदस्थादजनिष्ट विप्रो मृधो व्यास्थदशसीत बाहू ।
आरे अवाधिष्ट निर्ऋतिं पराचैः समपृक्त रश्मिभिः सूर्यश्च ॥१०॥


अपश्यं त्वावरोहन्तं दिवितः पृथिवीमव॥
अपश्यमस्यन्तं रुद्रं नीलग्रीवं शिखण्डिनम् ॥१॥
दिव उग्रो ऽवारुक्षत् प्रत्यष्ठाद् भूम्यामधि ।
जनास: पश्यतेमं नीलग्रीवं विलोहितम् ॥२॥
एष ऐत्यवीरहा रुद्रो जलाषभेषजी ।
वि ते क्षेपमनीनशद्वतीकारो व्येतु ते ॥३॥
नमस्ते भव भामाय नमस्ते भव मन्यवे ।
नमस्ते अस्तु बाहुभ्यामुतो त इषवे नमः ॥४॥
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरिशः तां कृणु मा हिंसीः पुरुषान् मम ॥५॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मं सुमनो असत् ॥६॥
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो मृड़ जीवसे ॥७॥
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकश ॥८॥
असौ यस्ताम्रो अरुण उत बभ्रुर्विलोहित ।
ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो अवैषां हेड ईमहे ॥९॥
अदृशन् त्वावरोहन्तं नीलग्रीवं विलोहितम्।
उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ।
उतो त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः ॥१०॥


नमो ऽस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ।
अथो ये अस्य सत्वानस्तेभ्यो ऽहमकरं नम: ॥१॥
नमांसि त आयुधायानातताय धृष्णवे ।
उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने ॥२॥
प्र मुञ्च धन्वनस्पर्युभयोरार्त्न्योर्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥३॥
अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः शम्भुरा भव ॥४॥
विज्यं धनुः शिखण्डिनो विशल्यो वणवाङ उत ।(पा. बाणवां)
अनेशन्नस्येषवः शिवो अस्य निषङ्गतिः ॥५॥
परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥६॥
या ते हेतिर्मिढुष्टम हस्ते बभूव ते धनुः । (पा. हेतिर्मीढुष्टम)
तया त्वं विश्वतो अस्मनयक्ष्मया परि भुज ॥७॥


सुपार्श्वा कामदुघा न आगञ्छतौदना पयसा पिन्वमाना
ऊर्ज दुहाना अनपस्फुरन्ती यजमानस्य प्रतिरन्त्यायुः ॥१॥
गृभ्णामि मेध्यामुशतीं स्वस्तय ऊर्जस्वतीमनमीवां स्वाध्याम् ।
विश्व लोको मम देवेष्वस्तु शतौदनां श्रद्दधानः पचामि ॥२॥
बधान देवीमभि धेहि भुञ्जती शतौदनां कामदुघा ह्येषा ।
मैनां हिंसीरश्मना जहृषाणोऽप्येतु देवाङ अति गच्छति द्विषः ॥३॥
आ रभस्व ब्रह्मणा वैश्वदेवीं शतौदनां शतपाप्मानो अस्याः ।
समर्पयन्नश्मना पर्वतेन स्वर्गं लोकमधि रोहयैनम् ॥४॥
धृष्णुर्ह्येनां विकृता विकृन्तनपघ्नंश्चर्मेरया सं सृजैनाम् ।
विराज दुहितेरया समक्ता कामंकामं यजमानाय दुहाम् ॥५॥
यथापरु विशसन्नाति मंस्थाः कृणुष्वामेनावधेयान् पृथक ।
अगन् देवान् मानुषी या पुराभूच्छतौदना पुरुरूपा सुवर्णा ॥६॥
द्विपाद् द्विहस्तः पुरुषो महदमो वनस्पर्ति बिभर्ति सायकाग्रम् ।
तेन परूंषि प्रविद्वानघ्न्यायाः शतौदनां देवीं शतधा व्यस्य ॥७॥
एतं ब्रध्नं चर्मणः कृन्त साधु तमु प्रमाय शतधा व्यस्य ।
समुत्सृजन्नवधानानि सर्वा रायस्पोषं यजमानाय धेहि ॥८॥
ऋचा कुम्भीमध्यग्नौ श्रयामि भूम्यां त्वा भूमिमधि धारयामि।
अपो मासं बिभ्रती मा व्यथिष्ठा मा त्वा वधिषुर्मेनिभिः पिशाचाः ॥९॥
ऊर्ध्वः प्रेहि मा सं विक्था व्यस्य रजो अन्तरम् ।
रक्षांसि सर्वा तीर्त्वाथा रोह दिवं त्वम् ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP