अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् । (पा. विभ्युः)
सुगं तत्ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव ॥१॥
त्वं मित्रस्य वरुणस्य धास्यवयातां मरुतां हेड़ो अद्भुत: ।
मृडा सु नो भूत्वेषां मन: पुनरग्ने सख्ये मा रिषामा वयं तव ॥२॥
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
शर्मन्त् स्याम तव सप्रथस्तन ऽग्ने सख्ये मा रिषामा वयं तव ॥३॥
तत्ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृडयत्तम: ।
दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ॥४॥
यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वमदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि प्रजावन्तो राधसा ते स्याम ॥५॥
स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१६॥


किमिन्द्रस्य परिहितं किमग्ने: किं विष्णोस्त्वष्टुर्वरुणस्य वासः ।
बृहस्पतेरुत सोमस्य राज्ञः किं वसाना मरुतो वर्षयन्तु ॥१॥
धातूरुद्रस्य किं वायोर्वाजिनां वसनं महत् ।
किं पूषा ब्रह्मणस्पतिर्विश्वे देवाश्च बिभ्रति ॥२॥
क्व रात्री नि विशते क्वाहः कवेदमभ्रं भवति यत्समेति व्येति च ॥३॥
कतमेनापो दिवमुद्वहन्ति क: समेनोदयनेन नेता ।
वातस्य त्वा विद्युतां स्तनयित्नुरपां पृच्छाम्ययनान्यग्नेः ॥४॥
पृच्छामि त्वा पृषतीं रोहिणीं च वत्सं पृच्छामि सहमातरं त्वा ।
इन्द्रं त्वानु पृच्छामि साक्षात् सभानां च सभापतिम् ॥५॥
को वयसामदधान्नामानि क: पशूनां कः सर्पाणां देवजना य आसन् ।
को ऽस्य जन्तोरदधाद् ब्रूहि नस्तत् ॥६॥
कति रोहाः स्वरा रोहयन्ति येभी रोहितो दिवमारुरोह ।
राष्ट्रभृतः क्षत्रभृतो वसुभृतो वसुदानवो वसुयवः ॥७॥
कश्चतुर्धा वि क्रमते महित्वा कं रक्षन्ति कवयोऽप्रमादम् ।
पुरुषं त्वानु पृच्छामि साक्षान्मृत्योरङ्गानि कति तानि वेत्थ ॥८॥
यं सिषेव वृषभश्चर्षणीनामिन्द्रो वज्रमहिना स्पर्धमानः ।
येन वृत्रं मघवा संपिपेश तं नः प्र बूहि यदि तं प्रवेत्थ ॥९॥
क: पर्वतानामदधान्नामानि को वनस्पतीनामदधादोषधीनाम् ।
पृच्छामि त्वा भुवनस्य नाभिं गां त्वा पृच्छामि कतमानि साक्षात् ॥१०॥


देवतल्पा देवकशा: क्वेह तान्नः प्र बूहि यदि तान् प्रवेत्थ ।
पृच्छामि त्वा गरगिरः कियन्तो येभ्योऽग्निर्हव्यं वहति प्रजानन् हुतं मर्त्यैरमृतोमतर्त्येभ्यः ॥१॥
स्वप्ने य एकस्तमसा सहैत्यङ्गानि गृह्णन् पुरुषस्य चक्षुः ।
स प्रातरेति तमसा पुन: सहाज्योतिरेति क्व सददेति ॥२॥
व्रतपतिमधिपतिं मधुकृता मधुपतिम् ।
देवांस्त्वा सर्वान् पृच्छाम्यहुतादश्च ते कति ॥३॥
को ऽन्तरिक्षात् परि पश्यतीदं यस्मादग्र इन्द्रियं संबभूव ।
महत् स कस्मादभयं बिभाय कस्ययुक्तस्यास्यास्रक्वाल्लोहितं परापतत्तत् क्वेह ॥४॥
इत्थमेके प्र व्रजन्तीत्थमेके दक्षिणा: प्रत्यञ्च उदञ्चः प्राञ्चोऽभि व्रजन्त्येके ।
तेषां सर्वेषामिह सङ्गतिः साकं स एको भूतश्चरति प्रजानन् ॥५॥


मरीचिरासीत्सा मनसः समभवत् ।
सा प्रावीयत सा गर्भमधत्त ।
स गर्भो ऽवर्धत स वृद्धो ऽब्रवीज्जाया इति ।
तस्यै प्रजापतिरजुहोत्स्वधिष्ठाना चेति स्वधिचरणा चेति ।
प्रजापते स्वसुर्ज्यो कपाले वि जिहीथां मामासन्ताप्तं महान्तं लोकमभिपश्यमाने ।
सो ऽजायत तस्य जातस्य द्यावापृथिवी पार्श्व आस्तां समुद्रौ कुक्षी सूर्याचन्द्रमसावक्षी विराट् शिरः ।
तस्माज्जातात् सर्वे पाण्मानो विजन्ते सर्वे अस्मात् पाप्मानो विजन्ते य एवं वेद ॥१॥
(हृति षोडशर्चोनाम त्रयोदशाकाण्डे द्वितीयोऽनुवाक:)
इत्यथर्ववेद ऐंग्लाद संहितायां षोडशचनमत्रयोदशकाण्डः:समाप्तः

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP