संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|षोडशर्चोनाम त्रयोदशकाण्ड:| १ ते ५ षोडशर्चोनाम त्रयोदशकाण्ड: १ ते ५ ६ ते ९ त्रयोदशकाण्ड: - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता पैप्पलादसंहिता Translation - भाषांतर १अन्तहिंत मे बृहदन्तरिक्षमन्तर्हिता: पर्वता अग्नयो मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥तप:श्रमावन्तरौ मत् परीतं ब्रह्मयज्ञमन्तरं मद् दधामि ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥२॥अग्नीषोमावन्तरौ मद् भवाथो दिवं वर्म पृथिवीं च कृण्मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥अन्तर्हितं मे साम प्रस्तुतमन्तर्हित: परमेष्ठी प्रजापतिः ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥अन्तर्हिता सर्पराज्ञी विराण् मे ऽन्तर्हितः पुरुषो मेध्यो मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥अन्तर्हिता मे षडुर्वी: सध्रीचीरन्तर्हिता: साध्या आप्त्या मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥अन्तर्हिता महर्षय: प्रचेतसो ऽन्तर्हितः सूर्यो मातरिश्वा ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ! ॥७॥अन्तर्हिता मे नद्य: स्यन्दमाना अन्तर्हिता ओषधी: पुष्पिणीर्मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥अन्तर्हिता: पशव: कक्ष्या मे ऽन्तर्हितं वयो यत् पतत्रि ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥९॥अन्तर्हिता म इषवो ब्राह्मणानामन्तर्हिता वनस्पतयः समूला: ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥१०॥२अन्तर्हिता देवतल्पा: पुरो मे ऽन्तर्हिता जगती छन्दसां मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥अन्तर्हिता मे समुद्रा द्वादशा अन्तर्हिता उसषि तारका मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥२॥अन्तर्हिता अग्नयो धिष्ण्या मे ऽन्तर्हिता ऋतव आर्तवा मे ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥अन्तर्हिता मे प्रदिशश्चतस्रो ऽन्तर्भूतमुत भव्यं दधेऽहम् ।मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥हन्मि तेऽहं कृतं हविर्यो मे घोरमचीक्लृपः ।अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ॥५॥अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविर्यो मे घोरमचीक्लृपः ॥६॥३उदितः शतयोजनमिन्द्रो वर्तयते रथम् ।सायकं क्षुरवर्तमानमहेर्जातानि जम्भयन् ॥१॥दृढास आसन्नहयो हता उदरसर्पिणः ।पुच्छमिद्वेष्यायन्त श्वापिण्डमदन्निव ॥२॥पापक पापरूपक किं मे सखायमातुद: ।न मामपश्य आगतं सतीनं विषदूषणम् ॥३॥अहिजम्भाश्चरामसि मुष्कावरुहो गवामिव ।पीलू उप स्वज हन्म उपस्तम्भे पृदाक्वम् ॥४॥ये के चेदमुपासौषुर्वातस्येव पृथग्यत: ।अङ्गो नु सर्वे ब्रूताहेयमरसं विषम् ॥५॥त्रिन्धिसि त निषदनं त्रिपुषि पाप ते गृह: ।अच्छन्नं त्वा वातो हन्त्यच्छन्नमभि वर्षति ॥६॥नाकुलेन भेषजेन तेनाहीन् जम्भयामसि ।मश्चतुर्नाम वृक्षक: स एनान् अरसान् अकः ॥७॥असिताहेरहं विषमुभयोः शितस्य च ।अभिक्रन्दस्य या रोपीस्ता इतोऽप नयामसि ॥८॥इदं पैद्वो अजायतेदमस्य पिपर्तनम् ।इदं कनिक्रदो मृगो विषमेति पराभवन् ॥९॥विषूचीना वाता वान्तु विष्वग्वर्षन्तु वृष्टयः ।विष्वग्विष प्र मेह त्वं शतधार इवावट: ॥१०॥४निरितो हरितस्रजमिन्द्रो वर्तयते रथम् ।तेनापिलिह्र इयते निपिसंनहिनामन: ॥१॥येनेन्द्र दस्यूनमृणोर्येन वृत्रं पराभिनः ।तेना शतक्रतो त्वमहेर्जातानि जम्भय ॥२॥प्रत्यमोदत पृथिवी प्रति द्यौः प्रति सूर्यः ।पैद्वो यदश्वमाता क्रन्देनाहीनपावपत् ॥३॥यदा पैद्वोऽश्माता क्रन्देनाहीनपावपत् ।रज्जू ष्म दत्वती शेरे पूयन्तीं पृथिवीमनु ॥४॥नापो जीर्यन्ति नामृतं नेन्द्राणी अविधवाभवत् ।न त्वामास्तेभिषद्विषमश्मानमिव सायकम् ॥५॥इन्द्राग्नी मित्रावरुणा त्वष्टारमदितिं भगम् ।हुवे ऽहमर्वन्तं पैद्वं म्यामेयं पुरुषो रिषत् ॥६॥सद्यो जातोऽकनिष्क्रदत् सोल्वो व्यधूनुत ।क्रन्देनाश्वस्य वाजिनोऽहन्यन्ताहयः पृथक् ॥७॥(इति षोडशर्चोनाम त्रयोदश्याकाण्डे प्रथमो ऽनुवाकः)५इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।भद्रा हि न: प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१॥यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥२॥भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ॥३॥शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।त्वमादित्याङ आा वह तान्ह्यूष्मस्यग्ने सख्ये मा रिषामा वयं तव ॥४॥त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।विश्वा विद्वाङ आर्त्विज्या धिर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥५॥दिशां गोपा अस्य चरन्ति जन्तवो द्विपाच्च यदुत चतुष्पदक्तुभिः ।चित्र: प्रकेत उषसो महाङ अस्यग्ने सख्ये मा रिषामा वयं तव ॥६॥यो विश्वत: सुप्रतीक: सदृडङ्सि दूरे चित् सन् तड़िदिवाति रोचसे !रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥७॥पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥८॥वधैर्दुःशंसाङ् अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिण: ।अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥९॥यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP