११
यत् कीनाशं सीरपतिर्दण्डेन हन्ति मन्युतः ।
यत् किंच खल्यं सादान्ववमिन्द्रराशौ तदाहितम् ॥१॥
उलूखलमुसलं तानि चोदय सूर्यं नार्यपविचे कृणुष्व।
वाहाय पुत्राय गोतम इन्द्रराशिं मधुमन्तं कृणोतु ॥२॥
एतत् सूर्यं जरितराहरोलूखलमुसलं कुम्भ्या गहि ।
पुत्रा नो अद्य सुदिनत्वे अह्नि पित्तमश्नन्त मधुमन्तमंशुम् ॥३॥
अग्निर्नो दूतः प्रहितो ऽयमागन् स नः सर्वमन्नमविषं कृणोतु ।
निराविद्धमकृतं ब्रह्मणेतो ऽदोमधं पित्तमत्त प्रसूताः ॥४॥
स्वादो पितो मधो पितो उप नः पितवा गहि ।
शिवः शिवाभिरूतिभि:॥५॥
सिंहो भूत्वा गामृणात्यग्निर्भूत्वा धान्यम् ।
इन्द्रराशिरनिर्मितो मयारं चाव गच्छति ॥६॥

१२
शतकाण्डो द्युश्चवन: सहस्रपर्ण उत्तिरः ।
दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥
नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।
यस्मा अच्छिन्नपर्णेन दर्भण शर्म यच्छति ॥२॥
दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।
त्वया सहस्रकाण्डेनायुष्प्र वर्धयामहे ॥३॥
तिस्रो दिवो अत्यतृणस्तिस्र इमाः पृथिवीरुत ।
तयाहं सर्वान् दुर्हार्दो जिह्वां नि तृणद्मि वचांसि च ॥४॥
त्वमसि सहमानो अहमस्मि सहस्वान् ।
उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
सहस्व नो अभिमातिं सहस्व पृतनायतः ।
सहस्व सर्वां दुर्हार्दो सुहार्दो मे बहून कृधि ॥६॥
दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित् ।
तेनाहं सस्वतो जनाङ असनं सनवानि च ॥७॥
प्रियं मा दर्भं कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।
यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
यो जायमानः पृथिवीमदृंहद् यो अस्तभ्नादन्तरिक्षं दिवं च ।
यं बिभ्रतं ननु पाप्मा विवेद स नो ऽयं दर्भो धरुणो दिवा कः ॥९॥
सपत्नहा शतकाण्ड: सहस्वानोषधीनां प्रथम: सं बभूव ।
वभू स नो ऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥

१३
सहस्रार्घ: शतकाण्डः पयस्वानपामग्निर्वीरुधां राजसूयम् ।
स नो ऽयं दर्भः परि पातु विश्वतो दैवो मणिरायुषा सं सृजाति न: ॥१॥
घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहो अच्युतश्च्यावयिष्णुः ।
नुदन् सपत्नानधरांश्च कृण्वन् दर्भारोह महतामहेन्द्रियेण ॥२॥
त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।
त्वां पवित्रमृषयो ऽभरन्त त्वं पुनीहि दुरितान्यस्मत् ॥३॥
तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणि: ।
ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥
दर्भेण त्वं कृणु वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।
अतिष्ठायो वर्चसैध्वन्यान् सूर्येवाभाहि प्रदिशश्चतस्रः ॥५॥

१४
उदीरतां पृथिवी जीरदानुः शीत एनामन्तर्वाननु वातु वातः ।
ऋत्वियावती पृथिवी प्रति गृह्णातु बीजं सहस्रवल्लिशं सुरुहा रोहयन्ती ॥१॥
इन्द्र एनां हर्यश्वो अग्निर्वा रोहिताश्वः ।
अश्विना रासभाश्वा कृषिं देवीमप्यूयुजन् ॥२॥
शुनं वरत्रामा यच्छ शुनमष्ट्रामुदिङ्गय ।
शुनं तोतप्यतां फालः शुनं वहतु लाङ्गलम् ॥३॥
युनक्त वाहान् वि युगा तनोत कृते क्षेत्रे वपतेह बीजम् ।
वीजम् तथा धाता तथा भगस्तथा कृष्णुतामश्विना
तथा देवी सरस्वती ॥४॥
सुपिप्पला ओषधयो नाहीना अपक्षत ।
तदिन्द्रो वरुणो वायुरश्विनेदं मे प्र तिरता वचः ॥५॥
धाता पूषा बृहस्पतिर्भूत्याः समजीगमन्॥
कृषिं देवा: स्वर्विद: ॥६॥
कल्याणी सुभगेव या संस्थायां वपुषेण्या ।
सा नस्तिराति मधुमन्तमंशुम् ॥७॥
अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् |
तीव्रा वर्षन्तु वृष्टयो भूतये महसे वृधे ॥८॥
पिन्वान: पर्यन्यस्तिष्ठतु सह पृष्ठयोदेति सूर्यः ।
आनन्दं जनयन् यवः सर्वा अरातीरपबाधमानः ॥९॥
वि जिहीष्व पृथिवीमह्युर्विपक्षमृद्वी भव ।
भद्रं रोहतु धान्यम् ॥१०॥

१५
उत्सेध सेध गा अजन् विन्देहेरां महस्कृधि ।
मा वो रिषात् कूटग्राहो मा व आ शारि लाङ्गलम् ॥१॥
मोऽस्माकमुग्रा: संरब्धास्तन्वः किं चनाममत्॥
रायस्पोषं शुनासीरा अथो सीताभगश्च यः ॥२॥
देष्ट्री समुद्रः सिनीवाली कृषिं नो अभि हिन्वत ।
इमा याः पञ्च प्रदिशोस्ता वातो अभि हिन्वत ।
वलीके सत्वतामिव तीव्रा वर्षन्तु वृष्टयः ॥३॥
शुनं कीनाशो अन्वेतु वाहाञ्छुनं फालो विनुदन्नेतु भूमिम् ।
शुनासीरा हविषा वावृधाना शुनं धान्यानि कृणुतं युवं नः ॥४॥
या न: पीपरदश्विना ज्योतिष्मती तमस्तिर: ।
तामस्मे रासेतामिषम् ॥५॥

१६
ऊर्ध्वश्रितो वै नामैता अपो यदोषधयश्च वनस्पतयश्च
तासामग्निरधिपतिः ।
यो वा एता ऊर्ध्वश्चित आपो वेदाग्निमधीपतिम्।
यथैतमेता ऊर्ध्वा उपतिष्ठन्त्ये वैनमूर्ध्वा उपतिष्ठन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥१॥
प्रस्कद्वरीर्वै नामैता आपो यत्पृष्वास्तासामादित्योऽधिपतिः।
यो वा एताः प्रस्कद्वरीरापो वेदादित्यमधिपतिम् ।
यथैता एतस्मिन्नुद्यति प्रस्कन्दन्त्येवास्मिन्नायति प्रस्कन्दन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥२॥
तक्वरीर्वै नामैता आपो याः सूदय तासां पृथिव्यधिपत्नी ।
यो वा एतास्तक्वरीरापो वेद पृथिवीमधिपत्नीम् ।
यथैता एतस्यां प्रणुतास्तकन्तीर्यन्त्येवैनेन द्विषन्तः प्रणुता यन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥३॥
वशिनीर्वै नामैता आपो या: स्यन्दन्ते तासां वरुणो ऽधिपति:।
यो वा एता वशिनीरापो वेद वरुणमधिपतिम् ।
यथैतमेतासां स्यन्दमानानां वशमादत्त एवा द्विषतां वशमादत्ते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥४॥
ऊर्जो वै नामैता आपो यद्गावस्तासां त्वष्टाधिपति: ।
यो वा एता ऊर्ज आपो वेद त्वष्टारमधिपतिम् ।
ऊर्जस्वी तेजस्वी भवति प्र साहस्रान् पशूनाप्नोत्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥५॥
वर्चा वै नामैता आपो यद् घृतं
तासां पूषा अधिपतिः ।
यो वा एता वर्च आपो वेद पूषणमधिपतिम् ।
वर्चस्वी तेजस्वी भवत्युतास्यानभ्यक्तस्य मुखं रोचते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥६॥
ओजो वै नामैता आपो यन्मधु तासामिन्द्रो ऽधिपतिः ।
यो वा एता ओज आपो वेदेन्द्रमधिपतिम् ।
ओजस्वी वीर्यावानिन्द्रियावी भवति प्र राजसभायां मधुपर्कमाप्नोत्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥७॥
उग्रा वै नामैता आपो यद्ध्रादुनयस्तासां मरुतो ऽधिपतय:।
यो वा एता उग्रा आपो वेद मरुतो ऽधिपतीन् ।
उग्रो बलवान् भवति मारुतं शर्ध इत्येनमाहुरधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥८॥
महो वै नामैता आपो यद्वर्षं तासां पर्यन्यो ऽधिपति:।
यो वा एता मह आपो वेद पर्यन्यमधिपतिम् ।
महस्वी मित्रवाहो भवत्युतैनेन स्वा नन्दत्यस्माकमयमिति तस्मात् सर्वो वृष्टे महीयते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥९॥
अतिमन्या वै नामैता आपो यत् सुरा तासामश्विनाधिपती ।
यो वा एता अतिमन्या आपो वेदाश्विनाधिपती ।
अतिमन्यते भ्रातृव्यान्नैनं भ्रातृव्या अतिमन्यन्ते तस्मान्मत्तो मत्तमतिमन्यते ऽधिपतिः भवति स्वानां चान्येषां च य एवं वेद ॥१०॥
परिचितो वै नामैता आपो या: कर्ष्वाँ तासां यमो ऽधिपति:।
यो वा एताः परिचित आपो वेद यममधिपतिम् ।
पर्येनं स्वाश्च विश्याश्चावश्यन्त्यधिपति: भवति स्वानां चान्येषां च य एवं वेद ॥११॥
रन्तयो वै नामैता आपो यत स्त्रियस्तासां कामो ऽधिपतिः।
यो वा एता रन्तीरापो वेद काममधिपतिम् ।
रमन्ते अस्मिन् रमणीयो भवति काम इव स्त्रीणामधिपतिः भवति स्वानां चान्येषां च य एवं वेद ॥१२॥
विश्वभृतो वै नामैता आपो यत्पुरुषस्तासां मृत्युरधिपतिः ।
यो वा एता विश्वभृत आपो वेद मृत्युमधिपतिम् ।
विश्वस्य भर्ता भवति विश्वमेनं बिभर्त्यास्य त्रयो ऽग्नयो गृहे धीयन्ते दक्षिणाग्निर्गार्हपत्य आहवनीयः ।
ऐनं चत्वारि वामानि गच्छन्ति निष्कः कंसो ऽश्वतरो हस्त्यधिपतिः भवति स्वानां चान्येषां च य एवं वेद ॥१३॥
तासां वा एतासामपां हिमवानूधः सोमो वत्सः परमेष्ठ्यधिपतिः।
यो वा एतासामपां हिमवन्तमूध: सोमं वत्सं परमेष्ठिनमधिपतिं वेद ।
परमेष्ठी भवति गच्छति परमेष्ठितामधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥१४॥
इत्यथर्ववेद पैप्पलाद संहितायां चतुर्दशर्चोनाम एकादशकाण्डः समाप्तः


N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP