संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|चतुर्दशर्चोनाम एकादशकाण्ड:| ६ ते १० चतुर्दशर्चोनाम एकादशकाण्ड: १ ते ५ ६ ते १० ११ ते १६ एकादशकाण्ड: - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।मन्ये नु बभ्रूणामहं शतं धामानि सप्त च ॥१॥शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।अधा शतकृत्वो यूयमिमं मे अगदं कृत ॥२॥पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।अश्वा इव स्थ जित्वरीर्वीरुधः पारयिष्णवः ॥३॥ओषधीरिति मातरो यद्वो देवीरपब्रुवे ।रपांसि विघ्नतीरित रक्षश्चातयमानाः ॥४॥निष्कृतिर्नाम वो माता निष्कृतिर्नाम वः पिता ।सरा: पतत्रिणी स्थ यदामयति निष्कृतः ॥५॥अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।गोभाज इत् किलासथं यत्सनवथ पूरुषम् ॥६॥यदहं वाजयन्निमा ओषधीर्हस्त आदधे ।आत्मा यक्ष्मस्य नश्यतु पुरा जीवगृभो यथा ॥७॥उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।धनं सनिष्यन्तीनामात्मानं तव पूरुषः ॥८॥यदोषधय: समग्वत राजान: समिताविव ।विप्र स: उच्यते भिषग् रक्षोहामीवचातनः ॥९॥अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।आवित्सि सर्वा ओषधीरितो मा पारयानिति ॥१०॥७अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमीत् ।ओषधयः प्राचुच्यवुर्यत् किं च तन्वो रपः ॥१॥यस्यौषधयः प्रसर्पथाङ्गमङ्ग परुष्परुः ॥परष्परुःतस्माद्यक्ष्मं वि बाधध्वमुग्रो मध्यमशीरिव ॥२॥अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।ओषधय: संविदाना इदं मे प्रावता वच: ॥३॥बचःअवपतन्तीरपदं दिव ओषधयस्परि ।यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥४॥या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥५॥याः फलिनीर्या अफला अकोशा याश्च केशिनीः।बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥६॥जीवलां नघारिषामा ते बध्नाम्योषधिम्।या त आयुरुपाहरादप रक्षांसि चातयात् ॥७॥८कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेता: ।तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥सप्त चक्रान्वहति कालो एष सप्तास्य नाभीरमृतं न्वक्षः ।स इमा विश्वा भुवनान्यञ्जन् कालः स ईयते प्रथमो नु देवः ॥२॥पूर्णः कुम्भो अधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।स इमा विश्वा भुवनानि प्रत्यङ् कालं तमाहुः परमे व्योमन् ॥३॥स एव सन्भुवनान्याभरत् स एव सन् भुवनानि पर्यैत् ।पिता सन्नभवत् पुत्र एषां तस्माद्वै नान्यत् परमस्ति तेजः ॥४॥कालो ऽमूं दिवमजनयत् काल इमां पृथिवीमुत ।कालेन भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥कालो भूतिमसृजत् काले तपति सूर्यः ।कालो ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥काले मनः काले प्राणः काले नाम समाहितम्।कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥काले तप: काले ज्येष्ठं काले ब्रह्म समाहितम्।कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः ॥८॥तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥काल: प्रजामसृजत कालो अग्रे प्रजापतिम् ।स्वयम्भूः कश्यपः कालात्तपः कालादजायत ॥१०॥९कालादापः समभवन् कालाद् ब्रह्म तपो दिशः ।कालेनोदेति सूर्य: काले नि विशते पुन: ॥१॥कालेन वात: पवते कालेन पृथिवी महीद्यौर्मही काल आहिता ।कालो ह भूतं भव्यं च पुत्रो अजनयत् पुरः ॥२॥कालादृचः समभवन् यजुष्कालादजायत ।कालो यज्ञं समैरयद् देवेभ्यो भागमक्षितम् ॥३॥काले गन्धर्वाप्सरस: काले लोकाः समाहिता: ।काले ऽयमङ्गिरा देवो अथर्वा चाधि तिष्ठतः ॥४॥इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्या: ।सर्वाल्लोकानभिजित्य ब्रह्मणा काल: स ईयते परमो नु देवः ॥५॥१०सप्तैतं सप्तऋषयः शल्यकर्ता द्वादश ।आविद्धं शल्यं चाक्रतुरिन्द्रराशिं महोदरम् ॥१॥इन्द्रराशिं मित्रावरुणावाविद्धं निरकृन्ततम् ।प्रसूतमिन्द्रेणोग्रेणो ब्राह्मणानामसत् पितुः ॥२॥नैनमश्नीयादब्राह्मणो न गृहान् प्र हरेत् स्वान् ।तृष्टं विषमिव तैमातमिन्द्रराशिः खले शये ॥३॥अयं शये तन्वं रक्षमाणे यो अश्नात्यविचक्षाण एतम् ।मध्ये खलस्य निर्मित इन्द्रराशिर्महोदरः ॥४॥उतैष यक्ष्मं भवतीन्द्रराशिर्महोदर: ।भीमो अन्नस्य संकाशे अश्व इवात्ति सिनी नडम् ॥५॥य इन्द्रराशिं निर्वपाद्वर्धयात् खलमान्याः ।स्फातिं च खल्यां गृह्णातु गवां च बहु पुष्यतु ॥६॥यमुवाह शुनःशेपो यमिन्द्रो ब्रह्मणस्पतिः ।तं चक्रुः शिवमस्मभ्यमृषयो जीवनाय कम् ॥७॥तृढ़ं शाकं तमशयद् दत्तमासीच्छ्वापदम्॥पन्द्रा स्म रुप्यन्तः शेरे य आदन्वहुतं हविः ॥८॥अनडुहां पृश्निशफानां वहतां वहरापिणाम् ।कीनाशस्य श्रमात् स्वेदादिन्द्रशिरजायत ॥९॥यत् कीनाशस्य स्वेद एति संतप्तस्तन्वस्परि ।अपां गाव इव तृष्यन्तीरिन्द्रराशिं सो अश्नुते ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP