संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्रयोदशर्चोनाम दशमकाण्ड:| ११ ते १६ त्रयोदशर्चोनाम दशमकाण्ड: १ ते ५ ६ ते १० ११ ते १६ दशमकाण्ड: - ११ ते १६ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १६ Translation - भाषांतर ११यो न: स्वो यो अरणी भ्रातृव्यश्च जिघांसति ।इन्द्रश्च तस्याग्निश्च मर्म स्कन्धेषु विन्दताम् ॥१॥यो मा शयानं जाग्रतं यश्च सुप्तं जिघांसति ।इन्द्रश्च तस्याग्निश्च बाहू मर्मणि वृश्चताम् ॥२॥यो मा चरन्तं तिष्ठन्तमासीनं च जिघांसति ।इन्द्रश्च तस्मिन्नग्निश्च दुरितं प्रति मुञ्चताम् ॥३॥यो मा चक्षुषा मनसा यश्च वाचा जिघांसति ।इन्द्रश्च तस्मा अग्निश्चैनांसि वहतामितः ॥४॥यः पिशाचो यातुधानः क्रव्याद् यो मा जिघांसति ।इन्द्रश्च तस्याग्निश्च मूर्धानं प्रति विध्यताम् ॥५॥यो मा ब्रह्मणा तपसा यश्च यजैर्जिघांसति ।इन्द्रश्च तस्याग्निश्च हृदये ऽधि नि विध्यताम् ॥६॥यो मे ब्रह्म यो मे तपो बलं श्रेष्ठं जिघांसति ।इन्द्रश्च तस्मा अग्निश्च क्रुद्धौ दिग्धाभिरस्यताम् ॥७॥यो मे अन्नं यो मे रसं वाचं श्रेष्ठां जिघांसति ।इन्द्रश्च तस्मा अग्निश्चाच्छम्बट्कारमस्यताम् ॥८॥(पाठभेदः)यो मे तन्तुं यो मे प्रजां चक्षुः श्रोत्रं जिघांसति ।इन्द्रश्च तस्मा अग्निश्च हेतिं देवेषु विन्दताम् ॥९॥यो मे गोभ्य इरस्यत्यश्वेभ्यः पुरुषेभ्यः ।इन्द्रश्च तस्मा अग्निश्च ज्यानिं देवेषु विन्दताम् ॥१०॥१२यो मे भूतिमनामयद्वित्तमायुर्जिघाँसति ।इन्द्रश्च तस्मा अग्निश्च दिवो अश्मानमस्यताम् ॥१॥यो मे वेश्म यो मे सभां श्रियं श्रेष्ठां जिघांसति ।इन्द्रश्च तस्याग्निश्च कृत्यां वि तनुतां गृहे ॥२॥यो मे मृत्युमसमृद्धिमह्ना रात्र्या चेच्छति ।इन्द्रश्च तस्याग्निश्चार्चिषा दहतां स्वम् ॥३॥यो मे प्राणं यो मे ऽपानं व्यानं श्रेष्ठ जिघांसति ।इन्द्रश्च तस्याग्निश्च प्राणं प्राणहनौ हताम् ॥४॥यो मा देवजनैः सपैर्विद्युता ब्रह्मणाभ्यमात् ।अगस्त्येन मेदिनेन्द्रश्चाग्निश्च तं हताम् ॥५॥तं सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।यो मा दुरस्यन्नीक्षातै यश्च दिप्सति विद्वलः ॥६॥यो मा दिप्साददिप्सन्तं यश्च दिप्सति दिप्स तम ।वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥७॥अभि तं द्यावापृथिवी सं तपतां तप्ते घर्मे न्युच्यताम् । धर्मेनिर्ऋत्या वध्यतां पाशे यो नः पापं चिकित्सति ॥८॥प्रत्यग्वधेन प्रच्युतान् भ्रातृव्यान् घोरचक्षसः ।इन्द्राग्नी एनान् वृश्चतां मैषामुच्छेषि कश्चन ॥९॥प्रत्यग्वध प्रत्यग् जहि भ्रातृव्यान् द्विषतो मम ।अपानान् प्राणां संछिद्य द्विषतस्पातयाधरान् ॥१०॥अग्ने ये मा जिघांसन्त्यग्ने ये च द्विषन्ति मा ।अग्ने ये मपतप्यन्ते तेषां प्रियतमं जहि ॥११॥एतं द्विषन्तमवधिषमन्धेन तमसावृतम् ।एतं मृत्यो ऽभि पद्यस्व मा ते मोचि महोदरः ॥१२॥१३द्यावापृथिवी सं नह्येथां मम राष्ट्राय जयन्ती अमित्रेभ्यो हेतिमस्यन्ती ॥१॥वातापवमानौ सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ ॥२॥इन्द्राग्नी सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ ॥३॥मित्रावरुणा सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ ॥४॥भवाशर्वौ सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ ॥५॥अश्विना सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ ॥६॥मरुत: सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ॥७॥पितरः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्त: ॥८॥सूर्याचन्द्रमसौ सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ ॥९॥अहोरात्रे सं नह्येथां मम राष्ट्राय जयन्ती अमित्रेभ्यो हेतिमस्यन्ती ॥१०॥१४गन्धर्वाप्सरसः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ॥१॥सर्पपुण्यजनाः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ॥२॥वनस्पतयः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ॥३॥वानस्पत्याः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ॥४॥ओषधय: सं नह्यध्वं मम राष्ट्राय जयन्त्यो ऽमित्रेभ्यो हेतिमस्यन्तः ॥५॥वीरुधः सं नह्यध्वं मम राष्ट्राय जयन्त्यो ऽमित्रेभ्यो हेतिमस्यन्त्यः ॥६॥बृहस्पते सं नह्यस्व मम राष्ट्राय जयन्नमित्रेभ्यो हेतिमस्यन् ॥७॥प्रजापते सं नह्यस्व मम राष्ट्राय जयन्नमित्रेभ्यो हेतिमस्यन् ॥८॥परमेष्ठिन् सं नह्यस्व मम राष्ट्राय जयन्नमित्रेभ्यो हेतिमस्यन् ॥९॥उदारा उदीर्ध्वं विश्वानि भूतानि सं नह्यध्वं मम राष्ट्राय जयन्त्यमित्रेभ्यो हेतिमस्यन्ति ॥१०॥१५अग्नी रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥१॥इन्द्रो रक्षिता स इमां सेनां रक्षतु॥अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥२॥सोमो रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥३॥वरुणो रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥४॥वायू रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥५॥त्वष्टा रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥६॥धाता रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥७॥सविता रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥८॥सूर्यो रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥९॥चन्द्रमा रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥१०॥१६अहा रक्षितृ तदिमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥१॥रात्री रक्षित्री सेमां सेनां रक्षतु ।अनुष्ठात्र्यनु तिष्ठ सर्वे वीरा भवन्तु मे ॥२॥इन्द्राणी रक्षित्री सेमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥३॥वरुणानी रक्षित्री सेमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥४॥सिनीवाली रक्षित्री सेमां सेनां रक्षतु ।अनुष्ठात्र्यनु तिष्ठ सर्वे वीरा भवन्तु मे ॥५॥समुद्र रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥६॥पर्यन्यो रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥७॥बृहस्पती रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥८॥प्रजापती रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥९॥परमेष्ठी रक्षिता स इमां सेनां रक्षतु ।अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ॥१०॥विश्वे देवा रक्षितारस्त इमां सेनां रक्षन्तु।अनुष्ठातारो अनु तिष्ठत सर्वे वीरा भवन्तु मे ॥११॥(इति त्रयोदशर्चोनामदशमकाण्डे तृतीयो ऽनुवाकः)इत्यथर्ववेद पैप्पलाद संहितायां त्रयोदशर्चोनाम दशमकाण्डः समाप्त: N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP