भगस्य राज्ञ: सुमतिं गमेम यं हवन्ते बहुधा मानुषास: ।
कर्म कृण्वानो भगमा वृणीते स नो जनेषु सुभगां कृणोतु ॥१॥
भगं पुरस्तात् प्रतिबुध्यमानाः पश्येम देवीमुषसं विभातीम् ।
प्रतीची शुभ्रा द्रविणेन साकं भगं वहन्त्यदितिर्न ऐतु ॥२॥
भगो नो अद्य स्विते दधातु देवानां पन्थामभि नो नयेह ।
अर्वाची भद्रा सुमतिर्न ऐत्वधा भगेन समिधो नो अस्तु ॥३॥
भगेन वाचमिषितां वदानि सरस्वतीं मधुमतिं सुवर्चा: ।
भगेन दत्तमुप मेदमागन् यथा वर्चस्वान् समितिमावदानि ॥४॥
भगो मा गोष्ववतु भगो मावतु धान्ये ।
अक्षेषु स्त्रीषु मा भगो भगो मावतु वर्चषा ॥५॥
भगो मा सायमवतु भगो मावतु रात्र्या ।
भगो निपद्यमानेषु प्रातर्मा भग आ गमत् ॥६॥
भगो मा प्रातरवतु भगो माध्यन्दिनं परि ।
अपराह्णे वयं भगं वास इव परि दध्महे ॥७॥
भगं देवेभ्यस्परि भगं मनुषेभ्यः ।
दिवस्पृथिव्या अहमन्तरिक्षाद् भगं वृणे ।
सो अग्ने रमता मयि स मा प्रावतु वर्चसा ॥८॥
भगं वृणाना वध्वं वहन्ति वनिं प्रयन्तो भगमिद्धवन्ते ।
भगेन दत्तमुप मेदमागन् विश्व सुभूतं द्रविणानि भद्रा ॥९॥
भगेन देवाः समगन्महि य इमा विश्वा भुवनाभिवस्ते ।
प्रयच्छन्नेति बहुधा वसूनि स नो दधातु यतमद्वसिष्ठम् ॥१०॥
वातो भगो वरुणो वायुरग्निः क्षेत्रस्य पत्नी सुहवा नो अस्तु ।
हिरण्याक्षो अतिपश्यो नृचक्षाः सर्वैः साकं सचमानो न एहि ॥११॥
उदेहि देव सूर्य सह सौभाग्येन । सौभाम्येन
सहर्षभस्य वाजेन सहावतंकरणेन ॥१२॥
हिरणययेन चक्रेण भगस्यापिहितो गृहः ।
तं व्युब्जामि ब्रह्मणा तस्य मे दत्तमश्विना दत्तं मे पुष्करस्रजा ॥१३॥


गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।
वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियै: ॥१॥
सोमस्त्वा पात्वौषधीभिर्नक्षत्रैः पातु सूर्यः ।
माद्भिष्ट्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥
तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।
त्रिवृतं स्तोमं त्रिवृत अपि आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भि: ॥३॥
त्रीन्नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।
त्रीन्मातरिश्वनस्त्रीन् सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥
घृतेन त्वा समुक्षाम्यग्न आज्येन वर्धयन् ।
अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥
मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।
भ्राजन्तो विश्ववेदसो देवा दैव्येन मावत ॥६॥
प्राणेनाग्निं सं दधति वातः प्राणेन संहितः ।
प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥ सुर्यं
आयुषायुष्कृतां जीवायुष्मां जीव मा मृथाः ।
प्रणेनात्मन्वतां जीव मा मृत्योरुप गा वशम् ॥८॥
देवानां निहितं निधिं यमिन्द्रान्वविन्दन् पथिभिर्देवयानैः।
आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥
त्रयस्त्रिंशद् देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः।
अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद् वीर्याणि ॥१०॥


ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१॥
तु. शौ.सं. १२११
ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥२॥
ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥३॥
असपत्नं पुरस्तात् पश्चान्नोऽभयं कृतम् ।
सविता मा दक्षिणत उत्तरान्मा शचीपति: ॥४॥
दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।
तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥५॥


येऽप्स्वन्तरग्नय: प्रविष्टा म्रोको मनोहा खनो निर्दाह
आत्मदूषिस्तनदूषिः।
इदं तानतिसृजामि निरेनो निरनृतं सृजामि ॥१॥
अभूत्यासत्वाय निर्दुःषप्न्यं सृजामि ।
वसिष्ठारुन्धती मा पातां प्रजापतेः प्रस्तरो बृहस्पतेः केशाः ॥२॥
अदब्धं चक्षुः सुश्रुतौ कर्णावक्षितौ मे प्राणापानौ ।
हृदया जरसं मा मा हासीर्मध्य मा रिषम् ॥३॥
आपो मा शुन्धन्तु दुष्कृतात् दुरिता यानि चकृम ।
अयाम शुद्धा उदितस्तनूभिः ॥४॥
वैश्वानरो रश्मिभिर्न: पुनातु वातः प्राणेनेषिरो नमोभि: ।
द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये मा पुनीताम् ॥५॥
पुनन्तु माग्नयो गार्हपत्या: पुनन्तु मा धृष्णिया देवहूताः ।
पुनन्तु मा शक्वरीः सोमपृष्ठा: पवमानासो अज्रिणः ॥६॥
यः पोता स पुनातु मा बृहद्भिर्देव सवितः ।
वर्षिष्ठैर्द्यामिवोपरि ॥७॥
ब्रह्मसवैः पुनातु मा राजसवैः पुनातु मा ।
शतं पवित्रा वितता तिरश्चा तेभिर्मा देवः सविता पुनातु ॥८॥
शतं च मा पवितारः पुनन्तु सहस्रं च प्रस्रवणेष्वापः ।
आप इव पूतोऽस्यग्निरिव सुवर्चाः सूर्य इव सुचक्षाः ॥९॥
उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाङ् अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१०॥

१०
अगन्म देवा: स्व: स्वरगन्मागन्म ज्योतिर्ज्योतिरगन्म ।
महेन्द्रोसि परमेष्ठी सुमित्र विश्वतोमुख मा ते युयोम संदृश: ॥१॥
उद्यन्नद्य चित्रमहः सपत्नान् मेव जहि ।
दिवैनान् रश्मिभिर्जहि रात्र्यैनांस्तमसा वधीस्ते यन्त्वधमं तमः ॥२॥
सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।
अग्नेस्तेजसा तेजस्वी भूयासमिन्द्रस्येन्द्रियेणेन्द्रियावान् भूयासम् ॥३॥
इदमहमग्नेस्तेजसेन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेज इन्द्रियं प्राणमायुर्नि वेष्टयामि ॥४॥
इदमहमग्नेस्तेजसेन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेज इन्द्रियं प्राणमायुर्नि यच्छेत् ॥५॥
इदमहमग्नेस्तेजसेन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेज इन्द्रियं प्राणमायुरादाय ॥६॥
अभूत्या एनं पाशे सित्वा दु:ष्वप्न्येन संसृज्य मृत्योर्व्यात्त आसन्नपि दधामि ॥७॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP