२६
गृहानैमि मनसा मोदमान ऊर्जं बिभ्रद् वसुमनिः सुमेधाः । तु. शौ.सं. ६०
अघोरेण चक्षुषा मित्रियेण गृहाणां पश्यन् पय उत्तरामि ॥१॥
इमे गृहा मयोभुव ऊर्जस्वन्त: पयस्वन्त: ।
पूर्णा वामस्य तिष्ठन्तस्ते नो जानन्तु जानत: ॥२॥
सूनुतावन्त: सुभगा इरावन्तो हसामुदाः ।
अक्षुध्या अतृष्यासो गृहा मास्मद् बिभीतन ॥३॥
येषामध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहानुपं ह्वयामहे ते नो जानन्त्वायत: ॥४॥
उपहूता इह गाव उपहूता अजावय: ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु नः ॥५॥
उपहूता भूरिधनाः सखायः स्वादुसंमुद: ।
अरिष्टा: सर्वपूरुषा गृहा न: सन्तु सर्वदा ॥६॥

२७
हन्तायमस्त्वप्रतिघात्य: सासह्वां इन्द्र: पृतना अभिष्टि: ।
प्रजापतिरदधादोजो अस्मै बृहद्धविर्हविषा वर्धनेन ॥१॥
प्रजापते हविषा वर्धनेन हन्तारमिन्द्रमकृणोरघात्यम् ।
तस्मै विशो देवकृता नमन्त स हि हन्ता स हि हव्यो बभूव ॥२॥
प्रजापते अभि नो नेष वस्य ऊर्वीं गव्यूतिमभिमातिषाह:।
वर्धयन्निन्द्रं बृहते रणाय देवं देवेन हविषा वर्धनेन ॥३॥
यथा विश्वा: पृतनाः संजयासि यथा शत्रून् सहमानः सहासै ।
यथास: सम्राट् सुसम्राडेवा त्वेन्द्रो ऽप्रतिवधं कृणोतु ॥४॥
अयं वीरो ऽप्रति हन्तु शत्रून् विश्ले देवा अप सदस्कराथ ।
मास्य प्रजां रीरिषन् मोत वीरानिममिन्द्रोऽप्रतिवधं कृणोतु ॥५॥
जहि शत्रून् प्रति रन्धयस्वाग्निष्टे गोपा अधिपा वसिष्ठः॥
शर्म ते राजा वरुणो नियच्छादेवा त्वेन्द्रोऽप्रतिवधं कृणोतु ॥६॥

२८
सं स्पृशेथां तनूभ्यां सं मुखाभ्यां समात्मना ।
सं वां ब्रह्मणस्पतिः सोमः सं स्पर्शयाति वाम् ॥१॥
अभ्यस्य नाम वाचा दधामि नाह मोक्ष्यते ।
ममेदहैनं कामे लभै कृष्णमिवाखरे ॥२॥
यः प्रेमा प्रेण्यामासीद् दत्त: सोमेन बभ्रुणा ।
तस्मादधि श्रुतं मम मय्यस्य मन आहितम् ।
यं पुमांसं कामयसे यस्मिन् वा भगमिच्छसे ॥३॥
हृच्छोकमस्मिन्ना दध्मो यथा शुष्याति त्वामनु ।
यथास्य हृदयं शुष्यादपिच्छिन्नेव शंगुणी ॥४॥
चक्षुराकास्यं भीमं मांपश्यमभिरोरुदम् ।
प्रियंकरणमुत्तमं मधुघेन तदाभृतम् ॥५॥
त्वं हासि वर्चस्यो ऽथो हासि सुमङ्गलः ।
अथो सर्वासां वीरुधां प्रियंकरणमुच्यसे ॥६॥

२९
प्रतीची सोममस्योषधे प्रतीच्युत सूर्यम् ।
प्रतीची विश्वान् देवांस्तथा त्वाच्छावदामसि ॥१॥
इमां खनाम्योषधिं नितत्नीमनुतन्तमाम् ।
आयतः प्रतिनन्दनीं परायतो निवर्तनीम् ॥२॥
अमुष्याहं परायत आयतो मनो अग्रभम् ।
अग्रभं हस्त्यं मनो ऽथो हृदय्यं मन: ॥३॥
मयि ते मन आहितं मयि चित्तं मयि व्रतम् ।
ममेदपि क्रतावसो मम चित्ते सचावहै ॥४॥
अहं वदानि मा त्वं सभायां घ त्वं वद ।
ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥५॥
यदि वासि तिरोजनं यदि वा नद्यास्तिर: ।
इयं त्वा मह्ममोषधिर्बद्ध्वेव न्यानयात् ॥६॥

३०
यथा कलां यथा शफं यथर्णं संनयन्ति ।
एवाह दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥
सं राजानो ऽगुः समृणान्यगुः सं कुष्ठा अगुः सं कला अगुः ।
समस्मासु सुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवामः ॥२॥
देवानां पत्नीनां गर्भ यमस्य करण: ।
यो भद्र: स्वप्नः स मम य: पापस्तं द्विषते प्र हिण्मः ॥३॥
तृष्णामा नामासि कृष्णशकुनेर्मुखं निर्ऋतेर्मुखम् ।
तं त्वा स्वप्न तथा विद्म ॥४॥
स त्वं स्वप्नाश्व इवाकायमश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप्सः ॥५॥
यदस्मासु दुष्वप्न्यं यद् गोषु यच्च नो गृहे ।
अनास्माकस्तद् देवपीयुः पीयारुं निष्कमिव प्रति मुञ्चताम् ॥६॥
नवारत्नीनवमायास्माकं तन्वस्परि ।
दुष्वप्न्यं सर्वं दुर्भूतं द्विषते निर्दिशामसि ॥७॥
(इति षडृचोनामतृतीयकाण्डे षष्ठो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP