संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|दशर्चो नाम सप्तमकाण्डः| १६ ते २० दशर्चो नाम सप्तमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० सप्तमकाण्डः - १६ ते २० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १६ ते २० Translation - भाषांतर १६पैद्वोसि पृतनायुः स्वाहा ॥१॥सोममहिंसी: सोमहिंसितोसि स्वाहा ॥२॥ब्राह्मणमहिंसीर्ब्रह्महिंसितोसि स्वाहा ॥३॥नाभूदहिर्भ्रूणमारदहिरद्रिमरसावधीत् ।विषस्य ब्रह्मणामासीत् ततो जीवन्न मोक्षसे ॥४॥उष्टोहि: समुष्टो हि निर्धीतो अरस: कृत: ।विषस्य ब्रह्मणामासीत् ततो जीवन्न मोक्षसे ॥५॥पुनर्ददामि ते विषं पूर्वपद्यमिदारिथ।मां ददश्वान् मन्यसे मया दष्टो न मोक्षसे ॥६॥१७एकशतं भेषजानि तेषां मातास्योषथे । समुद्रमव गच्छसि पृथिव्यामधि निष्ठिता ॥१॥तस्यां वेदाधि भेषजं दशशीर्षो दशजिह्वः ।यस्ते प्रथम आददे शं श्वावन्त ओषधे यमदाद्वीरयुग् भिषक् ॥२॥पुनश्चक्षुः पुनः प्राणं पुनरायुर्न आगमत् ।निष्ट्वाकरं निष्कृत्या निष्ट्वा निष्कृत्याकरम् ॥३॥मुञ्चामि त्वा शपथ्यादथो वरुण्यादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद् देवकिल्बिषात् ॥४॥सं ते शीर्ष्णः कपालानि हृदयस्य च यो विदुः ।उद्यन् सूर्य अदित्यो अङ्गद्योतमनीनशत् ॥५॥हिमवतः प्र स्रवथ सिन्धौ समह सङ्गमः ।ता आपः सर्वाः सङ्गत्य चक्षुः प्राणञ्च धत्त नः ॥६॥१८हस्तिवर्चसं प्रथतां बृहत् यशो अदित्या यत्तन्वः संबभूव । तत् सर्वे सवितुर्मह्यमेतद् विश्वे देवासो अदितिः सजोषाः ॥१॥मित्रश्च वरुणश्चेन्द्रो रुद्रश्च वेधतु ।देवासो विश्वधायसस्तेन माञ्जन्तु वर्चसा ॥२॥यत् ते वर्चो जातवेदो बृहद्भवत्याहुते ।तेन मामद्य वर्चसा अग्ने वर्चस्विनं कृधि ॥३॥येन हस्ती वर्चसा संबभूव येन राजा मनुष्येष्वन्त: ।येन देवा ज्योतिषा द्यामुदायन्तेन माग्ने वर्चसा सं सृजेह ॥४॥यावद् वर्चः सूर्यस्यासुरस्य च हस्तिनः ।तावन् मे अश्विना वर्चः कृणुतं पुष्करस्रजा ॥५॥यावच्चतस्रः प्रदिशश्चक्षुर्यावत् समश्नुते ।तावत् समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥६॥१९संशितं म इदं ब्रह्म संशितं वीर्य मम । संशितं क्षत्रं मे जिष्णु येषामस्मि पुरोहित: ॥१॥समहमेषां राष्ट्रं श्यामि समोजो वीर्यं बलम् ।वृश्चामि शत्रूणां बाहू सं श्यामि स्वानहन् ॥२॥तेक्षणीयांस: पर्शोरग्नेतस्तीक्ष्णतरा उत ।इन्द्रस्य वज्रात् तेक्ष्णीयांसो येषामस्मि पुरोहितः ॥३॥अधस्पद्यन्तामधरे भवन्तु ये न इन्द्रं मघवानं पृतन्यान् ।क्षणामि ब्रह्मणामित्रानुन्नयामि स्वानहम् ॥४॥एषामहमायुधा सं श्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।एषां क्षत्रमजरमस्तु जिष्णूग्रमेषां चित्तं विश्वेवन्तु देवाः ॥५॥अभि प्रेत जयत प्रसूता: सं व श्यामि नर आयुधानि ।तीक्ष्णेषवोबलधन्वनो हतोग्रायुधा अबलानुग्रबाहव: ॥६॥२०इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा । तां त्वा शाले सर्ववीरा: सुवीरा अरिष्टवीरा अभि सञ्चरेम ॥१॥इहैव ध्रुवा प्रति तिष्ठ शाले अश्वावती गोमती सूनृतावती।ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥धरुण्यसि शाले बृहच्छन्दा: पूतिधान्या ।आ त्वा वत्सो मीमयदा कुमार आ धेनवः सायमा स्यन्दमानाः ॥३॥इमां शालां सविता वायुरग्निस्त्वष्टा होता नि मिनोतु प्रजानन्।उक्षन्तूध्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥मानस्य पत्नी शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।तृणं वसाना सुमना असस्त्वं रयिं नो धेहि सुभगे सुवीरम् ॥५॥आ त्वा कुमारस्तरुण आ वत्सो जगता सह ।आा त्वा परिश्रुतः कुम्भ आा दध्न: कलश्ययत् ॥६॥(इति षडृचोनामतृतीयकाण्डे चतुर्थो ऽनुवाकः) N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP