१६
पितुं नु स्तोषं महो धर्माणं तविषीं ।
यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥१॥
स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
अस्माकमविता भव ॥२॥
उप नः पितवा गहि शिवः शिवाभिरूतिभिः ।
मयोभूरद्विषेण्यः सखा सुशेव एधि नः ॥३॥
तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।
दिवि वाता इव श्रिताः ॥४॥
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।
प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥५॥
त्वे पितो महानां देवानां मनो हितं ।
अकारि चारु केतुना तवाहिमवसावधीत् ॥६॥
यदद: पितो अजगन्विवस्व पर्वतानां ।
अत्रा चिन्नो मधो पितो ऽरं भक्षाय गम्या: ॥७॥
यत्ते सोम गवाशिरो यवाशिरो भजामहे ।
वातापे पीव इद्भव ॥८॥
यदपामोषधीनां परिंशमारिशामहे ।
वातापे पीव इद्भव ॥९॥
करम्भ ओषधे भव पीवो वृक्क उदारथि: ।
वातापे पीव इद्भव ॥१०॥
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम !
अस्मभ्यं त्वा सधमादं देवेभ्यस्त्वा सधमादं ॥११॥

१७
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
मरुद्धिरग्न आ गहि ॥१॥
नहि देवो न मर्त्यो महस्तव क्रतुं परः ।
मरुद्भिरग्न आ गहि ॥२॥
ये महो रजसो विदुर्विश्वे देवासो अदुहः ।
मरुद्भिरग्न आ गहि ॥३॥
ये शुभ्रा घोरवर्पस: सुक्षत्रासो रिशादस: ।
मरुद्भिरग्न आ गहि ॥४॥
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ।
मरुद्भिरग्न आ गहि ॥५॥
ये नाकस्याधि रोचने दिवि देवास आसते ।
मरुद्भिरग्न आ गहि ॥६॥
य ईङ्खयन्ति पर्वतान्तिर: समुद्रमोजसा ।
मरुद्भिरग्न आ गहि ॥७॥
आ ये तन्वन्ति रश्मिभिस्तिर: समुद्रमर्णवं ।
मरुद्भिरग्न आ गहि ॥८॥
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु।
मरुद्भिरग्न आ गहि ॥२॥
आ यन्तु मरुतो गणै स्तुता दधतु नो रयिं ।
मरुद्भिरग्न आ गहि ॥१०॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
मरुद्भिरग्न आ गहि ॥११॥
(इति नवर्चनाम षष्ठकाण्डे तृतीयो ऽनुवाकः)

१८
सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः ।
सं मायमग्नि: सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥१॥
सं मा सिञ्चन्त्वादित्या: सं मा सिञ्चन्त्वग्नयः ।
इन्द्र: समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥२॥
सं मा सिञ्चन्त्वरुषा: समर्का ऋषयश्च ये ।
पूषा समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥३॥
सं मा सिञ्चन्तु गन्धर्वाप्सरसः सं मा सिञ्चन्तु देवता: ।
भगः समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥४॥
सं मा सिञ्जन्तु पृथिवीः सं मा सिञ्चन्तु या दिवः ।
अन्तरिक्षं समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥५॥
सं मा सिञ्चन्तु प्रदिशः सं मा सिञ्चन्तु या दिशः ।
आशा समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥६॥
सं मा सिञ्चन्तु नद्य: सं मा सिञ्चन्तु सिन्धवः ।
समुद्रः समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥७॥
सं मा सिञ्चन्तु कृषयः सं मा सिञ्चन्त्वोषधीः ।
सोमः समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥८॥
सं मा सिञ्चन्तु या आपः सं मा सिञ्चन्तु बृष्टयः ।
सरस्वती समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥९॥

१९
सं भगो वर्चसा माग्ने सं विष्णुः पुष्ट्या सिञ्चत्॥
क्षत्रं समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥१॥
सं विराड्वर्चसा माग्ने सं देष्ट्री पुष्ट्या सिचत् ।
इडा समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥२॥
सं धाता वर्चसा माग्ने सं सिक्तिः पुष्ट्या सिचत् ।
सं देवो अस्मानर्यमा प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥३॥
समंशो वर्चसा माग्ने सं वायुः पुष्ट्या सिचत् ।
वात: समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥४॥
सं सभा वर्चसा माग्ने सं सुरा पुष्ट्या सिचत् ।
सूर्या समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥५॥
सं सविता वर्चसा माग्ने सं सूर्यः पुष्ट्या सिचत् ।
चन्द्रः समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥६॥
सं पशवो वर्चसा माग्ने सं यज्ञः पुष्ट्या सिचत् ।
दक्षिणा समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥७॥
सं मा सिञ्चतु द्रविणं सं मा सिञ्चत्विन्द्रियम् ।
तेजः समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥८॥
सं मा सिञ्चन्तु वर्चांसि सं मा सिञ्चन्तु भूतय: ।
सत्यं समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ॥९॥

२०
आा रात्रि पार्थिवं रजः पितुरप्रायि धामभिः।
दिव सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥
वृहती न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।
अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥
ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।
अशीति: सन्त्यष्टा उतो ते सप्त सप्तति: ॥३॥
षष्टिश्च षट् च रेवति पञ्चाशत्पञ्च सुम्नयि ।
चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥
द्वा च विंशतिश्च ते रात्र्येकादशावमाः ।
तेभिर्नो ऽद्य पायुभिर्नि पाहि दुहितर्दिव: ॥५॥
रक्षा माकिर्ण्णो अघशंस ईशत मा नो दु:शंस ईशत ॥६॥
मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ।
माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ॥७॥
परमेभिः पथिभि स्तेनो धावतु तस्करः ।
परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥८॥
अन्धं रात्रि तिष्ठधूममशीर्षाणामहिं कृणु ।
हनू वृकस्य जम्भया स्तेनं दुपदे जहि ॥९॥बृक
त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।
गोभ्यो नः शर्म यच्छाश्वेभ्यः पुरुषेभ्य: ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP